पाद २ - खण्ड ३७
व्याकरणमहाभाष्य म्हणजे पाणिनि लिखीत अष्टाध्यायीतील काही निवडक सूत्रांवर पतञ्जलिने केलेले भाष्य. या ग्रंथाची रचना ई.पू २०० ते ई.पू १४० मध्ये केली गेली, असे मत व्याकरण पंडितांचे आहे.
१ - २५ - कर्मणि निर्वर्त्यमाणविक्रियमाणे इति वक्तत्व्यम् ।
२ - २५ - इह मा भूत् ।
३ - २५ - आदित्यम् पश्यति ।
४ - २५ - हिववन्तम् श्र्णोति ।
५ - २५ - ग्रामम् गच्छति इति ।
६ - २५ - कर्मणि निर्वर्त्यमाणविक्रियमाणे चेत् वेदाध्यायादीनाम् उपसङ्ख्यानम् ।
७ - २५ - कर्मणि निर्वर्त्यमाणविक्रियमाणे चेत् वेदाध्यायादीनाम् उपसङ्ख्यानम् कर्तव्यम् ।
८ - २५ - वेदाध्यायः चर्चापारः शमनीपारः ।
९ - २५ - यत्र च नियुक्तः । यत्र च नियुक्तः तत्र उपसङ्ख्यानम् कर्तत्व्यम् ।
१० - २५ - छत्रधारः द्वारपालः ।
११ - २५ - हृग्रहिनीवहिभ्यः च ।
१२ - २५ - हृग्रहिनीवहिभ्यः च इति वक्तव्यम् ।
१३ - २५ - हृ ।
१४ - २५ - भारहारः ।
१५ - २५ - ग्रहि ।
१६ - २५ - कमण्डलुग्राहः ।
१७ - २५ - नी. उष्ट्रप्रणायः ।
१८ - २५ - वहि ।
१९ - २५ - भारवाहः ।
२० - २५ - अपरिगणनम् वा ।
२१ - २५ - न वा अर्थः परिगणनेन ।
२२ - २५ - कस्मात् न भवति आदित्यम् पश्यति , हिमवन्तम् श्र्णोति ।
२३ - २५ - ग्रामम् गच्छति इति ।
२४ - २५ - अनभिधानात् ।
२५ - २५ - अनभिधानात् एव न भविष्यति ।
१ - ५१ - अकारात् अनुपपदात् कर्मोपपदः विप्रतिषेधेन ।
२ - ५१ - अकारात् अनुपपदात् कर्मोपपदः भवति विप्रतिषेधेन ।
३ - ५१ - अनुपपदस्य अवकाशः पचति इति पचः ।
४ - ५१ - कर्मोपपदस्य अवकाशः कुम्भकारः नगरकारः ।
५ - ५१ - ओदनपाचे उभयम् प्राप्नोति ।
६ - ५१ - कर्मोपदः भवति विप्रतिषेधेन ।
७ - ५१ - अनुपपदस्य अवकाशः विक्षिपः विलिखः ।
८ - ५१ - कर्मोपपदस्य सः एव ।
९ - ५१ - काष्ठभेदे उभयम् प्राप्नोति ।
१० - ५१ - कर्मोपदः भवति विप्रतिषेधेन ।
११ - ५१ - अनुपपदस्य अवकाशः जानाति इति ज्ञः ।
१२ - ५१ - कर्मोपपदस्य सः एव ।
१३ - ५१ - अर्थज्ञे उभयम् प्राप्नोति ।
१४ - ५१ - कर्मोपदः भवति विप्रतिषेधेन ।
१५ - ५१ - न एषः युक्तः विप्रतिषेधः ।
१६ - ५१ - अनुपपदः तृतीयः ।
१७ - ५१ - ण्वुल्तृजचः ।
१८ - ५१ - तेषाम् णः ।
१९ - ५१ - णस्य कः ।
२० - ५१ - सः यथा एव कः णम् बाधते एवम् कर्मोपपदम् अपि बाधेत ।
२१ - ५१ - कर्मोपपदः अपि तृतीयः ।
२२ - ५१ - ण्वुल्तृजचः ।
२३ - ५१ - तेषाम् अण् ।
२४ - ५१ - अणः कः ।
२५ - ५१ - उभयोः तृतीययोः युक्तः विप्रतिषेधः ।
२६ - ५१ - अनुपपदस्य अवकाशः लिम्पति इति लिम्पः ।
२७ - ५१ - कर्मोपपदस्य सः एव ।
२८ - ५१ - कुड्यलेपे उभयम् प्राप्नोति ।
२९ - ५१ - कर्मोपदः भवति विप्रतिषेधेन ।
३० - ५१ - न एषः युक्तः विप्रतिषेधः ।
३१ - ५१ - अनुपपदः तृतीयः ।
३२ - ५१ - ण्वुल्तृजचः ।
३३ - ५१ - तेषाम् कः ।
३४ - ५१ - कस्य कः ।
३५ - ५१ - सः यथा एव शः कम् बाधते एवम् कर्मोपपदम् अपि बाधेत ।
३६ - ५१ - का तर्हि गतिः ।
३७ - ५१ - मध्ये अपवादाः पूर्वान् विधीन् बाधन्ते इति एवम् शः कम् बाधिष्यते ।
३८ - ५१ - कर्मोपपदम् न बाधिष्यते ।
३९ - ५१ - अनुपपदस्य अवकाशः सुग्लः सुम्लः ।
४० - ५१ - कर्मोपपदस्य सः एव ।
४१ - ५१ - वडवासन्दाये उभयम् प्राप्नोति ।
४२ - ५१ - कर्मोपदः भवति विप्रतिषेधेन ।
४३ - ५१ - न एषः युक्तः विप्रतिषेधः ।
४४ - ५१ - अनुपपदः तृतीयः ।
४५ - ५१ - ण्वुल्तृजचः ।
४६ - ५१ - तेषाम् णः ।
४७ - ५१ - णस्य कः ।
४८ - ५१ - सः यथा एव कः णम् बाधते एवम् कर्मोपपदम् अपि बाधेत ।
४९ - ५१ - का तर्हि गतिः ।
५० - ५१ - पुरस्ताद् अपवादाः अनन्तराञ्विधीन् बाधन्ते इति एवम् अयम् कः णम् बाधिष्यते ।
५१ - ५१ - कर्मोपपदम् न बाधिष्यते ।
१ - ३६ - शीलिकामिभक्ष्याचरिभ्यः णः पूर्वपदप्रकृतिस्वरत्वम् च ।
२ - ३६ - शीलिकामिभक्ष्याचरिभ्यः णः वक्तव्यः पूर्वपदप्रकृतिस्वरत्वम् च वक्तव्यम् ।
३ - ३६ - शीलि ।
४ - ३६ - मांसशीलः मांसशीला ।
५ - ३६ - शीलि ।
६ - ३६ - कामि ।
७ - ३६ - मांसकामः मांसकामा ।
८ - ३६ - कामि ।
९ - ३६ - भक्षि ।
१० - ३६ - मांसभक्षः मांसभक्षा ।
११ - ३६ - भक्षि आचरि ।
१२ - ३६ - कल्याणाचारः कल्याणाचारा ।
१३ - ३६ - ईक्षिक्षमिभ्याम् च । ईक्षिक्षमिभ्याम् च इति वक्तव्यम् ।
१४ - ३६ - सुखप्रतीक्षः सुखप्रतीक्षा ।
१५ - ३६ - कल्याणक्षमः कल्याणक्षमा ।
१६ - ३६ - किमर्थम् इदम् उच्यते ।
१७ - ३६ - पूर्वपदप्रकृत्स्वरत्वम् च वक्ष्यामि ईकारः च मा भूत् इति ।
१८ - ३६ - न एतत् अस्ति प्रयोजनम् ।
१९ - ३६ - इह यः मांसम् भक्षयति मांसम् तस्य भक्षः भवति ।
२० - ३६ - यः असौ भक्षयतेः अच् तदन्तेन बहुव्रीहिः ।
२१ - ३६ - एवम् तर्हि सिद्धे सति यत् कर्मोपपदम् णम् शास्ति तत् ज्ञापयति आचार्यः समाने अर्थे केवलम् विग्रहभेदात् यत्र कर्मोपपदः च प्राप्नोति बहुव्रीहिः च कर्मोपपदः तत्र भवति इति ।
२२ - ३६ - किम् एतस्य ज्ञापने प्रयोजनम् ।
२३ - ३६ - काण्डलावः ।
२४ - ३६ - काण्डानि लावः अस्य इति बहुव्रीहिः न भवति ।
२५ - ३६ - भवति तु बहुर्वीहिः अपि ।
२६ - ३६ - मांसे कामः अस्य मांसकामः मांसकामकः इति वा ।
२७ - ३६ - न तु अम्भोभिगमा ।
२८ - ३६ - न तु इदम् भवति अम्भः अभिगमः अस्याः इति ।
२९ - ३६ - किम् तर्हि ।
३० - ३६ - अम्भोभिगामी इति एव भवति ।
३१ - ३६ - काण्डलावे अपि च विग्रहाभावात् न ज्ञापकस्य प्रयोजनम् भवति इति ।
३२ - ३६ - न एषः अस्ति विग्रहः काण्डानि लावः अस्य इति ।
३३ - ३६ - आन्नादाय इति च कृताम् व्यत्ययः छन्दसि ।
३४ - ३६ - आन्नादाय इति च कृताम् व्यत्ययः छन्दसि द्रष्टव्यः ।
३५ - ३६ - अन्नादाय अन्नपतये ।
३६ - ३६ - ये आहुतिम् अन्नादीम् कृत्वा ।
१ - ९१ - कविधौ सर्वत्र प्रसारणिभ्यः डः ।
२ - ९१ - कविधौ सर्वत्र प्रसारणिभ्यः डः वक्तव्यः ।
३ - ९१ - ब्रह्मज्यः ।
४ - ९१ - किम् उच्यते सर्वत्र इति ।
५ - ९१ - अन्यत्र अपि न अवश्यम् इह एव ।
६ - ९१ - ह्व अन्यत्र ।
७ - ९१ - आह्वः प्रह्वः इति ।
८ - ९१ - के हि सम्प्रसारणप्रसङ्गः ।
९ - ९१ - के हि सति सम्प्रसारणम् प्रसज्येत ।
१० - ९१ - सम्प्रसारणे कृते सम्प्रसारणपूर्वत्वे च उवङादेशे आहुवः इति एतत् रूपम् स्यात् ।
११ - ९१ - सः तर्हि वक्तव्यः ।
१२ - ९१ - न वक्तव्यः ।
१३ - ९१ - अस्तु अत्र सम्प्रसारणम् ।
१४ - ९१ - सम्प्रसारणे कृते आकारलोपः ।
१५ - ९१ - तस्य स्थानिवद्भावात् उवङादेशः न भविष्यति ।
१६ - ९१ - पूर्वत्वे कृते प्राप्नोति ।
१७ - ९१ - एवम् तर्हि इदम् इह सम्प्रधार्यम् ।
१८ - ९१ - आकारलोपः क्रियताम् पूर्वत्वम् इति ।
१९ - ९१ - किम् अत्र कर्तव्यम् ।
२० - ९१ - परत्वात् आकारलोपः ।
२१ - ९१ - न सिध्यति ।
२२ - ९१ - अन्तरङ्गत्वात् पूर्वत्वम् प्राप्नोति ।
२३ - ९१ - एवम् तर्हि वार्णात् आङ्गम् बलीयः भवति इति आकारलोपः भविष्यति ।
२४ - ९१ - एवम् तर्हि इदम् इह सम्प्रधार्यम् ।
२५ - ९१ - आकारलोपः क्रियताम् सम्प्रसारणम् इति ।
२६ - ९१ - किम् अत्र कर्तव्यम् ।
२७ - ९१ - परत्वात् आकारलोपः ।
२८ - ९१ - नित्यम् सम्प्रसारणम् ।
२९ - ९१ - कृते अपि आकारलोपे प्राप्नोति अकृते अपि प्राप्नोति ।
३० - ९१ - आकारलोपः अपि नित्यः ।
३१ - ९१ - कृते अपि सम्प्रसारणे प्राप्नोति अकृते अपि प्राप्नोति ।
३२ - ९१ - अनित्यः आकारलोपः ।
३३ - ९१ - न हि कृते सम्प्रसारणे प्राप्नोति ।
३४ - ९१ - अन्तरङ्गम् हि पूर्वत्वम् भाधते ।
३५ - ९१ - यस्य लक्षणान्तरेण निमित्तम् विहन्यते न तत् अनित्यम् ।
३६ - ९१ - न च सम्प्रसारणम् एव आकारलोपस्य निमित्तम् हन्ति ।
३७ - ९१ - अवश्यम् लक्षणान्तरम् पूर्वत्वम् प्रतीक्ष्यम् ।
३८ - ९१ - उभयोः नित्ययोः परत्वात् आकारलोपः ।
३९ - ९१ - आकारलोपे कृते सम्प्रसारणम् ।
४० - ९१ - सम्प्रसारणे कृते यणादेशे सिद्धम् रूपम् आह्वः प्रह्वः इति ।
४१ - ९१ - एवम् अपि न सिध्यति ।
४२ - ९१ - यः अनादिष्टाद् अचः पूर्वः तस्य विधिम् प्रति स्थानिवद्भावः ।
४३ - ९१ - आदिष्टात् च एषः अचः पूर्वः भवति ।
४४ - ९१ - एवम् तर्हि आकारलोपस्य असिद्धत्वात् उवङादेशः न भविष्यति ।
४५ - ९१ - इह अपि तर्हि आकारलोपस्य असिद्धत्वात् उवङादेशः न स्यात् ।
४६ - ९१ - जुहुवतुः झुहुवुः इति ।
४७ - ९१ - अस्ति अत्र विशेषः ।
४८ - ९१ - अकृते अत्र आत्त्वे पूर्वत्वम् भवति ।
४९ - ९१ - इदम् इह सम्प्रधार्यम् आत्त्वम् क्रियताम् पूर्वत्वम् इति ।
५० - ९१ - किम् अत्र कर्तव्यम् ।
५१ - ९१ - परत्वात् पूर्वत्वम् ।
५२ - ९१ - न सिध्यति ।
५३ - ९१ - अन्तरङ्गत्वात् आत्त्वम् प्राप्नोति ।
५४ - ९१ - एवम् तर्हि इदम् इह सम्प्रधार्यम् ।
५५ - ९१ - आत्त्वम् क्रियताम् सम्प्रसारणम् इति ।
५६ - ९१ - किम् अत्र कर्तव्यम् ।
५७ - ९१ - परत्वात् आत्त्वम् ।
५८ - ९१ - नित्यम् सम्प्रसारणम् ।
५९ - ९१ - कृते अपि आत्त्वे प्राप्नोति अकृते अपि ।
६० - ९१ - आत्त्वम् अपि नित्यम् ।
६१ - ९१ - कृते अपि सम्प्रसारणे प्राप्नोति अकृते अपि प्राप्नोति ।
६२ - ९१ - अनित्यम् आत्त्वम् ।
६३ - ९१ - न हि सम्प्रसारणे कृते प्राप्नोति ।
६४ - ९१ - परत्वात् पूर्वत्वेन एव भवितव्यम् ।
६५ - ९१ - यस्य लक्षणान्तरेण निमित्तम् विहन्यते न तत् अनित्यम् ।
६६ - ९१ - न च सम्प्रसारणम् एव आत्त्वस्य निमित्तम् विहन्ति ।
६७ - ९१ - अवश्यम् लक्षणान्तरम् पूर्वत्वम् प्रतीक्ष्यम् ।
६८ - ९१ - उभयोः नित्ययोः परत्वात् आत्त्त्वे कृते सम्प्रसारणम् ।
६९ - ९१ - एवम् तर्हि पूर्वत्वे योगविभागः करिष्यते ।
७० - ९१ - सम्प्रसारणात् परः पूर्वः भवति ।
७१ - ९१ - तत एङः ।
७२ - ९१ - एङः च सम्प्रसारणात् पूर्वः भवति ।
७३ - ९१ - किमर्थम् इदम् ।
७४ - ९१ - अकृते आत्त्वे पूर्वत्वम् यथा स्यात् ।
७५ - ९१ - ततः पदान्तात् अति ।
७६ - ९१ - एङः इति एव ।
७७ - ९१ - इह अपि तर्हि अकृते आत्त्वे पूर्वत्वम् स्यात् ।
७८ - ९१ - आह्वः प्रह्वः इति ।
७९ - ९१ - अस्ति अत्र विशेषः ।
८० - ९१ - आकारान्तलक्षणः कविधिः ।
८१ - ९१ - तेन अनेन अवश्यम् आत्त्वम् प्रतीक्ष्यम् ।
८२ - ९१ - लिट् पुनः अविशेषेण धातुमात्रात् विधीयते ।
८३ - ९१ - नित्यम् प्रसारणम् ।
८४ - ९१ - ह्वः यण् ।
८५ - ९१ - वार्णात् आङ्गम् न पूर्वत्वम् ।
८६ - ९१ - यः अनादिष्टात् अचः पूर्वः तत्कार्ये स्थानिवत्त्वम् हि प्रोवाच भगवान् कात्यः ।
८७ - ९१ - तेन असिद्धिः यणः ते ।
८८ - ९१ - आतः कः ।
८९ - ९१ - लिट् न ।
९० - ९१ - एङः पूर्वः ।
९१ - ९१ - सिद्धः आह्वः तथा सति ।
१ - २५ - सुपि स्थः भावे च ।
२ - २५ - सुपि स्थः इति अत्र भावे च इति वक्तव्यम् ।
३ - २५ - इह अपि यथा स्यात् ।
४ - २५ - आखूत्थः वर्तते ।
५ - २५ - श्येनोत्थः शलभोत्थः ।
६ - २५ - तत् तर्हि वक्तव्यम् ।
७ - २५ - न वक्तव्यम् ।
८ - २५ - योगविभागात् सिद्धम् ।
९ - २५ - योगविभागः करिष्यते ।
१० - २५ - आतः अनुपसर्गे कः भवति ।
११ - २५ - ततः सुपि ।
१२ - २५ - सुपि च अतः कः भवति ।
१३ - २५ - कच्छेन पिबति कच्छपः ।
१४ - २५ - कटाहेन पिबति कटाहः ।
१५ - २५ - द्वाभ्याम् पिबति द्विपः ।
१६ - २५ - ततः स्थः ।
१७ - २५ - स्थः च कः भवति सुपि इति ।
१८ - २५ - किमर्थम् इदम् ।
१९ - २५ - भावे यथा स्यात् ।
२० - २५ - कुतः नु खल्वु एतत् भावे भविष्यति न पुनः कर्मादिषु कारकेषु इति ।
२१ - २५ - योगविभागात् अयम् कर्तुः अपकृष्यते ।
२२ - २५ - न च अन्यस्मिन् अर्थे आदिश्यते ।
२३ - २५ - अनिर्दिष्टार्थाः प्रत्ययाः स्वार्थे भवन्ति इति स्वार्थे भविष्यन्ति ।
२४ - २५ - तत् यथा गुप्तिज्किद्भ्यः सन् यावादिभ्यः कन् ।
२५ - २५ - सः असौ स्वार्थे भवन् भावे भविष्यति ।
१ - १२ - तुन्दशोकयोः परिमृजापनुदोः आलस्यसुखाहरणयोः ।
२ - १२ - तुन्दशोकयोः परिमृजापनुदोः इति अत्र आलस्यसुखाहरणयोः इति वक्तव्यम् ।
३ - १२ - तुन्दपरिमृजः अलसः ।
४ - १२ - शोकापनुदः पुत्रः जातः ।
५ - १२ - यः हि तुन्दम् परिमार्ष्टि तुन्दपरिमार्जः सः भवति ।
६ - १२ - यः च शोकम् अपनुदति शोकापनोदः सः भवति ।
७ - १२ - कप्रकरणे मूलिअविभुजादिभ्यः उपसङ्ख्यानम् ।
८ - १२ - कप्रकरणे मूलिअविभुजादिभ्यः उपसङ्ख्यानम् कर्तव्यम् ।
९ - १२ - मूलविभुजः रथः ।
१० - १२ - नखमुचानि धनूंषि ।
११ - १२ - काकगुहाः तिलाः ।
१२ - १२ - सरसीरुहम् कुमुदम् ।
१ - १२ - सुरासीध्वोः पिबतेः ।
२ - १२ - सुरासीध्वोः पिबतेः इति वक्तव्यम् ।
३ - १२ - इह मा भूत् ।
४ - १२ - क्षीरपा ब्राह्मणी इति ।
५ - १२ - पिबतेः इति किमर्थम् ।
६ - १२ - या हि सुराम् पाति सुरापा सा भवति ।
७ - १२ - बहुलम् तणि ।
८ - १२ - बहुलम् तणि इति वक्तव्यम् ।
९ - १२ - किम् इदम् तणि इति ।
१० - १२ - सञ्ज्ञाछन्दसोः ग्रहणम् ।
११ - १२ - या ब्राह्मणी सुरापी भवति न एनाम् देवाः पतिलोकम् नयन्ति ।
१२ - १२ - या ब्राह्मणी सुरापा भवति न एनाम् देवाः पतिलोकम् नयन्ति ।
१ - ३० - अच्प्रकरणे शक्तिलाङ्गलाङ्कुशयष्टितोमरघटघटीधनुःषु घ्रहेः उपसङ्ख्यानम् ।
२ - ३० - अच्प्रकरणे शक्तिलाङ्गलाङ्कुशयष्टितोमरघटघटीधनुःषु घ्रहेः उपसङ्ख्यानम् कर्तव्यम् ।
३ - ३० - शक्तिग्रहः ।
४ - ३० - शक्ति ।
५ - ३० - लाङ्गल ।
६ - ३० - लाङ्गलग्रहः ।
७ - ३० - लाङ्गल ।
८ - ३० - आङ्कुश ।
९ - ३० - आङ्कुशग्रहः ।
१० - ३० - आङ्कुश ।
११ - ३० - यष्टि ।
१२ - ३० - यष्टिग्रहः ।
१३ - ३० - यष्टि ।
१४ - ३० - तोमर ।
१५ - ३० - तोमरग्रहः ।
१६ - ३० - तोमर ।
१७ - ३० - घट ।
१८ - ३० - घटग्रहः ।
१९ - ३० - घट ।
२० - ३० - घटी ।
२१ - ३० - घटीग्रहः ।
२२ - ३० - घटी ।
२३ - ३० - धनुस् ।
२४ - ३० - धनुर्ग्रहः ।
२५ - ३० - धनुस् ।
२६ - ३० - सूत्रे च धार्यर्थे ।
२७ - ३० - सूत्रे च धार्यर्थे ग्रहेः उपसङ्ख्यानम् ।
२८ - ३० - सूत्रग्रहः ।
२९ - ३० - धार्यर्थे इति किमर्थम् ।
३० - ३० - यः हि सूत्रम् गृह्णाति सूत्रग्राहण् सः भवति ।
१ - ५ - स्तम्बकर्णयोः हस्तिसूचकयोः ।
२ - ५ - स्तम्बकर्णयोः इति अत्र हस्तिसूचकयोः इति वक्तव्यम् ।
३ - ५ - स्तम्बेरमः हस्ती ।
४ - ५ - कर्णेजपः सूचकः ।
५ - ५ - सम्बे रन्ता कर्णे जपिता इति एव अन्यत्र ।
१ - १५ - धातुग्रहणम् किमर्थम् ।
२ - १५ - शमि सञ्ज्ञयाम् धातुग्रहणम् कृञः हेत्वादिषु टप्रतिषेधार्थम् ।
३ - १५ - शमि सञ्ज्ञयाम् धातुग्रहणम् क्रियते कृञः हेत्वादिषु टः मा भूत् इति ।
४ - १५ - शमि सञ्ज्ञयाम् अच् भवति इति अस्य अवकाशः शम्वदः शम्भवः ।
५ - १५ - टस्य अवकाशः श्राद्धकरः पिण्डकरः ।
६ - १५ - शङ्करा नाम परिव्राजिका ।
७ - १५ - शङ्करा शकुनिका तच्छिला च ।
८ - १५ - तस्याम् उभयम् प्राप्नोति ।
९ - १५ - परत्वात् टः स्यात् ।
१० - १५ - धातुग्रहणसामर्थ्यात् अच् एव भवति ।
११ - १५ - कुणरवाडवः तु आह ।
१२ - १५ - न एषा शङ्करा ।
१३ - १५ - शङ्गरा एषा ।
१४ - १५ - गृणातिः शब्दकर्मा ।
१५ - १५ - तस्य एषः प्रयोगः ।
१ - १४ - अधिकरणे शेतेः पार्श्वादिषु उपसङ्ख्यानम्. अधिकरणे शेतेः पार्श्वादिषु उपसङ्ख्यानम् कर्तव्यम् ।
२ - १४ - पार्श्वशयः पृष्ठशयः उदरशयः ।
३ - १४ - दिग्धसहपूर्वात् च ।
४ - १४ - दिद्घसहपूर्वात् च इति वक्तव्यम् ।
५ - १४ - दिग्धसहशयः ।
६ - १४ - उत्तानादिषु कर्तृषु ।
७ - १४ - उत्तानादिषु कर्तृषु इति वक्तव्यम् ।
८ - १४ - उत्तानशयः अवमूर्धशयः ।
९ - १४ - गिरौ डः छन्दसि ।
१० - १४ - गिरौ उपपदे डः छन्दसि वक्तव्यः ।
११ - १४ - गिरौ शेते गिरिशः ।
१२ - १४ - तद्धितः वा ।
१३ - १४ - तद्धितः वा पुनः एषः भवति ।
१४ - १४ - गिरौ शेते गिरिशः इति ।
१ - ८ - इह कस्मात् न भवति ।
२ - ८ - कुरून् चरति ।
३ - ८ - पञ्चालान् चरति इति ।
४ - ८ - अधिकरणे इति वर्तते ।
५ - ८ - ननु च कर्मणि इति अपि वर्तते ।
६ - ८ - तत्र कुतः एतत् ।
७ - ८ - अधिकरणे भविष्यति न पुनः कर्मणि इति ।
८ - ८ - चरेः भिक्षाग्रहणम् ज्ञपकम् कर्मणि अप्रसङ्गः । यत् अयम् भिक्षासेनादायेषु च इति चरेः भिक्षाग्रहणम् करोति तत् ज्ञापयति आचार्यः न भवति कर्मणि इति ।
१ - १२ - किंयत्तद्बहुषु कृञः अज्विधानम् ।
२ - १२ - किंयत्तद्बहुषु कृञः अज्विधानम् कर्तव्यम् ।
३ - १२ - किङ्करा ।
४ - १२ - किम् ।
५ - १२ - यत् ।
६ - १२ - यत्करा ।
७ - १२ - यत् ।
८ - १२ - तत् ।
९ - १२ - तत्करा ।
१० - १२ - तत् ।
११ - १२ - बहु ।
१२ - १२ - बहुकरा ।
१ - ४ - स्तम्बशकृतोः व्रीहिवत्सयोः ।
२ - ४ - व्रीहिवत्सयोः इति वक्तव्यम् ।
३ - ४ - स्तम्बकरिः व्रीहिः ।
४ - ४ - शकृत्करिः वत्सः ।
१ - ७ - आत्मम्भरिः इति किम् निपात्यते ।
२ - ७ - आत्मनः मुम् भृञः च इन्प्रत्ययः ।
३ - ७ - अत्यल्पम् इदम् उच्यते ।
४ - ७ - भृञः कुक्ष्यात्मनोः मुम् च ।
५ - ७ - भृञः कुक्ष्यात्मनोः मुम् च इति वक्तव्यम् ।
६ - ७ - कुक्षिम्भरः ।
७ - ७ - आत्मम्भरिः चरति यूथम् असेवमानः ।
१ - ११ - खश्प्रकरणे वातसुनीतिलशर्धेषु अजधेट्तुदजहातिभ्यः । खश्प्रकरणे वातसुनीतिलशर्धेषु अजधेट्तुदजहातिभ्यः इति वक्तव्यम् ।
२ - ११ - वातमजाः मृगाः ।
३ - ११ - वात ।
४ - ११ - शुनी ।
५ - ११ - शुनीन्धयः ।
६ - ११ - शुनी ।
७ - ११ - तिल ।
८ - ११ - तिलन्द्तुदः ।
९ - ११ - तिल ।
१० - ११ - शर्ध ।
११ - ११ - शर्धञ्जहाः माषाः ।
१ - २२ - स्तने धेटः ।
२ - २२ - स्तने धेटः इति वक्तव्यम् ।
३ - २२ - स्तनन्धयः ।
४ - २२ - ततः मुष्टौ ध्मः च ।
५ - २२ - मुष्टौ ध्मः च धेटः च इति वक्तव्यम् ।
६ - २२ - मुष्टिन्धमः मुष्टिधयः ।
७ - २२ - अतयल्पम् इदम् उच्यते ।
८ - २२ - नासिकानाडीमुष्टिघटीखारीषु इति वक्तव्यम् ।
९ - २२ - नासिकन्धमः नासिकन्धयः ।
१० - २२ - नासिक ।
११ - २२ - नाडी ।
१२ - २२ - नाडिन्धमः नाडिन्धयः ।
१३ - २२ - नाडी ।
१४ - २२ - मुष्टि ।
१५ - २२ - मुष्टिन्धमः मुष्टिधयः ।
१६ - २२ - मुष्टि ।
१७ - २२ - घटी ।
१८ - २२ - घटिन्धमः घटिन्धयः ।
१९ - २२ - घटी ।
२० - २२ - खारी ।
२१ - २२ - खारिन्धमः खारिन्धयः ।
२२ - २२ - खारी ।
१ - १४ - खच्प्रकरणे गमेः सुपि उपसङ्ख्यानम् ।
२ - १४ - खच्प्रकरणे गमेः सुपि उपसङ्ख्यानम् ।
३ - १४ - मितङ्गमः ।
४ - १४ - मितङ्गमा हस्तिनी ।
५ - १४ - विहायसः विह च ।
६ - १४ - विहायसः विह इति अयम् आदेशः वक्तव्यः ।
७ - १४ - खच् च ।
८ - १४ - विहङ्गमः ।
९ - १४ - खच् च डित् वा ।
१० - १४ - खच् च डित् वा वक्तव्यः ।
११ - १४ - विहङ्गः ।
१२ - १४ - डे च ।
१३ - १४ - डे च विहायसः विह इति अयम् आदेशः वक्तव्यः ।
१४ - १४ - विहगः ।
१ - १८ - डप्रकरणे सर्वत्रपन्नयोः उपसङ्ख्यानम् ।
२ - १८ - डप्रकरणे सर्वत्रपन्नयोः उपसङ्ख्यानम् कर्तव्यम् ।
३ - १८ - सर्वत्रगः पन्नगः ।
४ - १८ - उरसः लोपः च ।
५ - १८ - उरसः लोपः च वक्तव्यः ।
६ - १८ - उरगः ।
७ - १८ - सुदुरोः अधिकरणे ।
८ - १८ - सुदुरोः अधिकरणे डः वक्तव्यः ।
९ - १८ - सुगः दुर्गः ।
१० - १८ - निसः देशे ।
११ - १८ - निसः देशे डः वक्तव्यः ।
१२ - १८ - निर्गः ।
१३ - १८ - अपर आह ।
१४ - १८ - डप्रकरणे अन्येषु अपि दृश्यते ।
१५ - १८ - डप्रकरणे अन्येषु अपि दृश्यते इति वक्तव्यम् ।
१६ - १८ - ततः स्त्र्यगारगः ।
१७ - १८ - अश्नुते यावत् अन्नाय ग्रामगः ।
१८ - १८ - ध्वंसते गुरुतल्पगः ।
१ - ९ - दारौ आहनः अण् अन्त्यस्य च टः सञ्ज्ञायाम् ।
२ - ९ - दारौ उपपदे आङ्पूर्वात् हन्तेः अण् वक्तव्यः अन्त्यस्य च टः वक्तव्यः ।
३ - ९ - दार्वाघाटः ते वनस्पतीनाम् ।
४ - ९ - चारौ वा ।
५ - ९ - चारौ उपपदे आङ्पूर्वात् हन्तेः अण् वक्तव्यः अन्त्यस्य च टः वा वक्तव्यः ।
६ - ९ - चार्वाघाटः चार्वाघातः ।
७ - ९ - कर्मणि समि च ।
८ - ९ - कर्मणि उपपदे सपूर्वात् हन्तेः अण् वक्तव्यः अन्त्यस्य च टः वा वक्तव्यः ।
९ - ९ - वर्णसङ्घाटः वर्णसङ्घातः पदसङ्घाटः पदसङ्घातः ।
१ - १६ - कथम् इदम् विज्ञायते ।
२ - १६ - लक्षणे कर्तरि इति आहोस्वित् लक्षणवति कर्तरि इति ।
३ - १६ - किम् च अतः ।
४ - १६ - यदि विज्ञायते लक्षणे कर्तरि इति सिद्धम् जायाघ्नः तिलकालकः पतिघ्नी पाणिलेखा इति ।
५ - १६ - जायाघ्नः तिलकालकः पतिघ्नी पाणिरेखा इति ।
६ - १६ - जायाघ्नः ब्राह्मणः पतिघ्नी व्र्षली इति न सिध्यति ।
७ - १६ - अथ विज्ञायते लक्षणवति कर्तरि इति सिद्धम् जायाघ्नः ब्राह्मणः पतिघ्नी व्र्षली इति ।
८ - १६ - जायाघ्नः तिलकालकः पतिघ्नी पाणिलेखा इति न सिध्यति ।
९ - १६ - अस्तु लक्षणे कर्तरि इति ।
१० - १६ - कथम् जायाघ्नः , ब्राह्मणः पतिघ्नी व्र्षली इति ।
११ - १६ - अकारः मत्वर्थीयः ।
१२ - १६ - जायाघ्नः अस्मिन् अस्ति इति सः अयम् जायाघ्नः ।
१३ - १६ - पतिघ्नीवृषली इति न सिध्यति ।
१४ - १६ - अस्तु तर्हि लक्षणवति कर्तरि इति ।
१५ - १६ - कथम् जायाघ्नः तिलकालकः पतिघ्नी पाणिलेखा इति ।
१६ - १६ - अमनुष्यकर्तृके इति एवम् भविष्यति ।
१ - ७ - अप्रणिकर्तृके इति वक्तव्यम् ।
२ - ७ - इह मा भूत् ।
३ - ७ - नगरघातः हस्ती ।
४ - ७ - यदि अप्रणिकर्तृके इति उच्यते शशघ्नी शकुनिः इति न सिध्यति ।
५ - ७ - अस्तु तर्हि अमनुष्यकर्तृके इति एव ।
६ - ७ - कथम् नगरघातः हस्ती ।
७ - ७ - कृत्यल्युटः बहुलम् इति एवम् अत्र अण् भविष्यति ।
१ - ३ - राजघे उपसङ्ख्यानम् ।
२ - ३ - राजघे उपसङ्ख्यानम् कर्तव्यम् ।
३ - ३ - राजघः ।
१ - ३८ - ख्युनि च्विप्रतिषेधानर्थक्यम् ल्युट्ख्य्नोः अविशेषात् ।
२ - ३८ - ख्युनि च्विप्रतिषेधः अनर्थकः ।
३ - ३८ - किम् कारणम् ।
४ - ३८ - ल्युट्ख्य्नोः अविशेषात् ।
५ - ३८ - ख्युना मुक्ते ल्युटा भवितव्यम् ।
६ - ३८ - न च अस्ति विशेषः च्व्यन्ते उपपदे ल्युटः ख्युनः वा ।
७ - ३८ - तत् एव रूपम् सः एव स्वरः ।
८ - ३८ - अयम् अस्ति विशेषः ।
९ - ३८ - ल्युटि सति ईकारेण भवितव्यम् ।
१० - ३८ - ख्युनि सति न भवितव्यम् ।
११ - ३८ - ख्युनि अपि सति भवतव्यम् ।
१२ - ३८ - एवम् हि सौनागाः पठन्ति ।
१३ - ३८ - नञ्स्नञीक्ख्युंस्तरुणतलुनानाम् उपसङ्ख्यानम् इति ।
१४ - ३८ - अयम् तर्हि विशेषः ।
१५ - ३८ - ख्युनि सति नित्यसमासेन भवितव्यम् ।
१६ - ३८ - उपपदसमासः हि नित्यसमासः इति ।
१७ - ३८ - ल्युटि सति न भवितव्यम् ।
१८ - ३८ - ल्युटि अपि भवितव्यम् ।
१९ - ३८ - गतिसमासः अपि हि नित्यसमासः ।
२० - ३८ - च्य्वन्तम् च गतिसञ्ज्ञम् भवति ।
२१ - ३८ - मुमर्थम् तर्हि प्रतिषेधः वक्तव्यः ।
२२ - ३८ - ख्युनि सति मुमा भवितव्यम् ।
२३ - ३८ - ल्युति सति न भवितव्यम् ।
२४ - ३८ - मुमर्थम् इति चेत् न अव्ययत्वात् ।
२५ - ३८ - मुमर्थम् इति चेत् तत् न ।
२६ - ३८ - किम् कारणम् ।
२७ - ३८ - अव्ययत्वात् ।
२८ - ३८ - अनव्ययस्य मुम् उच्यते ।
२९ - ३८ - च्व्यन्तम् च अव्ययसञ्ज्ञम् ।
३० - ३८ - उत्तरार्थम् तु ।
३१ - ३८ - उत्तरार्थम् तर्हि प्रतिषेधः वक्तव्यः ।
३२ - ३८ - कर्तरि भुवः खिष्णुच्खुकञौ अच्वौ इति एव ।
३३ - ३८ - आढ्यीभविता ।
३४ - ३८ - अथ इदानीम् अनेन मुक्ते ताच्छीलिलः इष्णुच् विधीयते ।
३५ - ३८ - सः अत्र कस्मात् न भवति ।
३६ - ३८ - रूढिशब्दप्रकाराः तच्छीलिकाः ।
३७ - ३८ - न च रूड्ःिशब्दाः गतिभिः विशेष्यन्ते ।
३८ - ३८ - न हि भवति प्रदेवदत्तः इति ।
१ - २६ - किमर्थम् खिष्णुच् इकारादिः क्रियते न क्स्नुः इति एव उच्येत ।
२ - २६ - तत्र अयम् अपि अर्थः ।
३ - २६ - स्वरार्थः चकारः न कर्तव्यः भवति ।
४ - २६ - केन इदानीम् इकारादित्वम् क्रियते ।
५ - २६ - इष्णुचः इकारादित्वम् उदात्तत्वात् कृतम् भुवः ।
६ - २६ - भवतेः उदात्तत्वात् इकारादित्वम् भविष्यति ।
७ - २६ - इदम् तर्हि प्रयोजनम् ।
८ - २६ - खित् अयम् क्रियते ।
९ - २६ - तत्र चर्त्वे कृते स्यात् ।
१० - २६ - कित् वा खित् वा इति ।
११ - २६ - सन्देहमात्रम् एतत् भवति ।
१२ - २६ - सर्वसन्देहेषु च इदम् उपतिष्ठते ।
१३ - २६ - व्याख्यानतः विशेषप्रतिपत्तिः ।
१४ - २६ - न हि सन्देहात् अलक्षणम् इति ।
१५ - २६ - खित् इति व्याख्यास्यामः ।
१६ - २६ - नञः तु स्वरसिद्ध्यर्थम् इकारादित्वम् इष्णुचः ।
१७ - २६ - इदम् तर्हि प्रयोजनम् ।
१८ - २६ - कृत्योकेष्णुच्चार्वादयः च इति एषः स्वरः यथा स्यात् ।
१९ - २६ - एतत् अपि न अस्ति प्रयोजनम् ।
२० - २६ - अयम् अपि इटि कृते षत्वे च इष्णुच् भविष्यति ।
२१ - २६ - न सिध्यति ।
२२ - २६ - लक्षणप्रतिपदोक्तयोः प्रतिपदोक्तस्य एव इति ।
२३ - २६ - अथ वा असिद्धम् खलु अपि षत्वम् ।
२४ - २६ - षत्वस्य असिद्धत्वात् इस्नुच् एव भवति ।
२५ - २६ - इष्णुचः इकारादित्वम् उदात्तत्वात् कृतम् भुवः ।
२६ - २६ - नञः तु स्वरसिद्ध्यर्थम् इकारादित्वम् इष्णुचः ।
१ - १९ - किमर्थः नकारः ।
२ - १९ - ञ्निति इति आद्युदात्तत्वम् यथा स्यात् ।
३ - १९ - न एतत् अस्ति प्रयोजनम् ।
४ - १९ - एकाचः अयम् विधीयते ।
५ - १९ - तत्र न अर्थः स्वरार्थेन नकारेण अनुबन्धेन ।
६ - १९ - धातुस्वरेण एव सिद्धम् ।
७ - १९ - यः तर्हि अनेकाच् ।
८ - १९ - दधृक् इति ।
९ - १९ - वक्ष्यति एतत् धृषेः द्विर्वचनम् अन्तोदात्तत्वम् च निपात्यते इति ।
१० - १९ - विशेषणार्थः तर्हि ।
११ - १९ - क्व विशेषनार्थेन अर्थः ।
१२ - १९ - क्विन्प्रत्ययस्य कुः इति ।
१३ - १९ - क्विप्रत्ययस्य कुः इति उच्यमाने सन्देहः स्यात् ।
१४ - १९ - क्विः वा एषः प्रत्ययः क्विप् वा इति ।
१५ - १९ - सन्देहमात्रम् एतत् भवति ।
१६ - १९ - सर्वसन्देहेषु च इदम् उपतिष्ठते ।
१७ - १९ - व्याख्यानतः विशेषप्रतिपत्तिः ।
१८ - १९ - न हि सन्देहात् अलक्षणम् इति ।
१९ - १९ - क्क्विप्रत्ययस्य इति व्याख्यास्यामः ।
१ - ३ - दधृक् इति किम् निपात्यते ।
२ - ३ - धृषेः द्विर्वचनम् अन्तोदात्तत्वम् च ।
३ - ३ - धृषेः द्विर्वचनम् अन्तोदात्तत्वम् च निपात्यते ।
१ - ९ - किमर्थः ञकारः ।
२ - ९ - स्वरार्थः ।
३ - ९ - ञ्निति इति आद्युदात्तत्वम् यथा स्यात् ।
४ - ९ - न एतत् अस्ति प्रयोजनम् ।
५ - ९ - नकारेण अपि एषः स्वरः सिद्धः ।
६ - ९ - विशेषणार्थः तर्हि भविष्यति ।
७ - ९ - क्व विशेषणार्थेन अर्थः ।
८ - ९ - कञ्क्वरप् इति ।
९ - ९ - कन्क्वरप् इति उच्यामाने याचितिका अत्र अपि प्रसज्येत ।.
१ - १८ - दृशेः समानान्ययोः च उपसङ्ख्यानम् ।
२ - १८ - दृशेः समानान्ययोः च उपसङ्ख्यानम् कर्तव्यम् ।
३ - १८ - सदृक् सदृशः अन्यादृक् अन्यादृशः ।
४ - १८ - कृदर्थानुपपत्तिः तु ।
५ - १८ - कृदर्थः तु न उपपद्यते ।
६ - १८ - दृशेः कर्तरि प्राप्नोति ।
७ - १८ - इवार्थे तु तद्धितः ।
८ - १८ - इवार्थे अयम् तद्धितः द्रष्टव्यः ।
९ - १८ - सः इव अयम् तादृक् ।
१० - १८ - अन्य इव अयम् अन्यादृक् ।
११ - १८ - अथ वा युक्तः एव अत्र कृदर्थः ।
१२ - १८ - कर्मकर्ता अयम् ।
१३ - १८ - तम् इव इमम् पश्यन्ति जनाः ।
१४ - १८ - सः अयम् सः इव दृश्यमानः तम् इव आत्मानम् पश्यति ।
१५ - १८ - तादृक् ।
१६ - १८ - अन्यम् इव इमम् पश्यन्ति जनाः ।
१७ - १८ - सः अयम् अन्यः इव दृश्यमानः अन्यम् इव आत्मानम् पश्यति ।
१८ - १८ - अन्यादृक् इति ।
१ - १४ - सदादिषु सुब्ग्रहणम् ।
२ - १४ - सदादिषु सुब्ग्रहणम् कर्तव्यम् ।
३ - १४ - होता वेदिषत् ।
४ - १४ - अतिथिः चुरोणसत् ।
५ - १४ - न तर्हि इदानीम् उपसर्गे अपि इति वक्तव्यम् ।
६ - १४ - वक्तव्यम् च ।
७ - १४ - किम् प्रयोजनम् ।
८ - १४ - ज्ञापकार्थम् ।
९ - १४ - किम् ज्ञाप्यम् ।
१० - १४ - एतत् ज्ञापयति आचार्यः ।
११ - १४ - अन्यत्र सुब्ग्रहणे उपसर्गग्रहणम् न भवति इति ।
१२ - १४ - किम् एतस्य ज्ञापने प्रयोजनम् ।
१३ - १४ - वदः सुपि अनुपसर्गग्रहणम् चोदितम् ।
१४ - १४ - तत् न वक्तव्यम् भवति ।
१ - ९ - किमर्थम् इदम् उच्यते न अदः अनन्ने इति एव सिद्धम् ।
२ - ९ - न सिध्यति ।
३ - ९ - छन्दसि इति एतत् अनुवर्तते ।
४ - ९ - भाषार्थः अयम् आरम्भः ।
५ - ९ - पूर्वस्मिन् एव योगे छन्दोग्रहणम् निवृत्तम् ।
६ - ९ - तत् च अवश्यम् निवर्त्यम् अमात् इति एवमर्थम् ।
७ - ९ - अतः उत्तरम् पठति ।
८ - ९ - अदः अनन्ने क्रव्येग्रहणम् वासरूपनिवृत्त्यर्थम् ।
९ - ९ - अदः अनन्ने क्रव्येग्रहणम् क्रियते वासरूपः मा भूत् ।
१ - २८ - श्वेतवहादीनां डस् ।
२ - २८ - श्वेतवहादीनां डस् वक्तव्यः ।
३ - २८ - श्वेतवाः इन्द्रः ।
४ - २८ - पदस्य च ।
५ - २८ - पदस्य च इति वक्तव्यम् ।
६ - २८ - इह मा भूत् ।
७ - २८ - श्वेतवाहौ श्वेतवाहः ।
८ - २८ - किम् प्रयोजनम् ।
९ - २८ - र्वर्थम् ।
१० - २८ - रुः यथा स्यात् ।
११ - २८ - क्रियते र्वर्थम् निपातनम् ।
१२ - २८ - अवयाः श्वेतवाः पुरोडाः च इति ।
१३ - २८ - आतः च र्वर्थम् ।
१४ - २८ - उक्थशस्शब्दस्य सामान्येन रुः सिद्धः ।
१५ - २८ - न तस्य निपातनम् क्रियते ।
१६ - २८ - तत् न वक्तव्यम् ।
१७ - २८ - अवश्यम् तत् वक्तव्यम् दीर्घार्थम् ।
१८ - २८ - न एतत् अस्ति प्रयोजनम् ।
१९ - २८ - सिद्धम् अत्र दीर्घत्वम् अत्वसन्तस्य च अधातोः इति ।
२० - २८ - यत्र तेन न सिध्यति तदर्थम् ।
२१ - २८ - क्व च तेन न सिध्यति ।
२२ - २८ - सम्बुद्धौ ।
२३ - २८ - हे श्वेतवाः इति ।
२४ - २८ - न तर्हि इदानीम् डस् वक्तव्यः ।
२५ - २८ - वक्तव्यः च ।
२६ - २८ - किम् प्रयोजनम् ।
२७ - २८ - उत्तराऋथम् ।
२८ - २८ - श्वेतवोभ्याम् श्वेतवोभिः ।
१ - ७ - किमर्थम् स्थः कक्विपौ उच्येते न क्विप् सिद्धः अन्येभ्यः अपि दृश्यते इति कः च आतः अनुपसर्गे कः इति ।
२ - ७ - न सिध्यति ।
३ - ७ - विशेष्विहितः कः सामान्यविहितम् क्विपम् बाधते. वासरूपेण क्विप् अपि भविष्यति ।
४ - ७ - इदम् तर्हि शंस्थः शंस्थाः ।
५ - ७ - उक्तम् एतत् ।
६ - ७ - शमि सञ्ज्ञायाम् धातुग्रहणम् कृञः हेत्वादिषु टप्रतिषेधार्थम् इति ।
७ - ७ - सः यथा एव अच् टम् बाधते एवम् कक्विपौ अपि बाधेत ।
१ - १० - सुपि इति वर्तमाने पुनः सुब्ग्रहणम् किमर्थम् ।
२ - १० - अनुपसर्गे इति एवम् तत् अभूत् ।
३ - १० - इदम् सुब्मात्रे यथा स्यात् ।
४ - १० - प्रत्यासारिण्यः उदासारिण्यः ।
५ - १० - णिन्विधौ साधुकारिणि उपसङ्ख्यानम् ।
६ - १० - णिन्विधौ साधुकारिणि उपसङ्ख्यानम् कर्तव्यम् ।
७ - १० - साधुकारी साधुदायी ।
८ - १० - ब्रह्मणि वदः ।
९ - १० - ब्रह्मणि वदः उपसङ्ख्यानम् कर्तव्यम् ।
१० - १० - ब्रह्मवादिनः वदन्ति ।
१ - १९ - किम् उदाहरणम् ।
२ - १९ - अश्राद्धभोजी ।
३ - १९ - किम् यः अश्राद्धम् भुङ्क्ते सः अश्राद्धभोजी ।
४ - १९ - किम् च अतः ।
५ - १९ - यदा असौ अश्राद्धम् न भुङ्क्ते तदा अस्य व्रतलोपः स्यात् ।
६ - १९ - तत् यथा स्थायी यदा न तिष्थति तदा अस्य व्रतलोपः भवति ।
७ - १९ - एवम् तर्हि णिन्यन्तेन समासः भविष्यति न श्राद्धभोजी अश्राद्धभोजी ।
८ - १९ - न एवम् शक्यम् ।
९ - १९ - स्वरे हि दोषः स्यात् ।
१० - १९ - अश्राद्धभोजी इति एवम् स्वरः प्रसज्येत ।
११ - १९ - अश्राद्धभोजी इति च इष्यते ।
१२ - १९ - एवम् तर्हि नञः एव अयम् भुजिप्रतिषेधवाचिनः श्राद्धशब्देन असमर्थसमासः न भोजी श्राद्धस्य इति ।
१३ - १९ - सः तर्हि असमर्थसमासः वक्तव्यः ।
१४ - १९ - यदि अपि वक्तव्यः अथ वा एतर्हि बहूनि प्रयोजनानि ।
१५ - १९ - कानि ।
१६ - १९ - असूर्यम्पश्यानि मुखानि ।
१७ - १९ - अपूर्वगेयाः श्लोकाः ।
१८ - १९ - अश्राद्धभोजी ब्राह्मणः ।
१९ - १९ - सुट् अनपुंसकस्य इति ।
१ - ३३ - आत्मग्रहणम् किमर्थम् ।
२ - ३३ - परमाने मा भूत् ।
३ - ३३ - क्रियमाणे अपि आत्मग्रहणे परमाने प्राप्नोति ।
४ - ३३ - किम् कारणम् ।
५ - ३३ - आत्मनः इति इयम् कर्तरि षष्ठी मानः इति अकारः भावे ।
६ - ३३ - सः यदि एव आत्मानम् मन्यते अथ अपि परम् आत्मनः एव असौ मानः भवति ।
७ - ३३ - न एषः दोषः ।
८ - ३३ - आत्मनः इति कर्मणि षष्ठी ।
९ - ३३ - कथम् ।
१० - ३३ - कर्तृकर्मणोः कृति इति ।
११ - ३३ - ननु च कर्तरि अपि वै एतेन एव विधीयते ।
१२ - ३३ - तत्र कुतः एतत् कर्मणि भविष्यति न पुनः कर्तरि इति ।
१३ - ३३ - एवम् तर्हि कर्मकर्तरि च ।
१४ - ३३ - कर्मकर्तरि च इति वक्तव्यम् ।
१५ - ३३ - तत् तर्हि वक्तव्यम् ।
१६ - ३३ - न वक्तव्यम् ।
१७ - ३३ - आत्मनः इति कर्मणि षष्ठी ।
१८ - ३३ - कथम् ।
१९ - ३३ - कर्तृकर्मणोः कृति इति ।
२० - ३३ - ननु च उक्तम् कर्तरि अपि वै एतेन एव विधीयते ।
२१ - ३३ - तत्र कुतः एतत् कर्मणि भविष्यति न पुनः कर्तरि इति ।
२२ - ३३ - आत्मग्रहणसामर्थ्यात् कर्मणि विज्ञास्यते ।
२३ - ३३ - एवम् अपि कर्मकर्तृग्रहणम् कर्तव्यम् कर्मापदिष्टः यक् यथा स्यात् श्यन् मा भूत् इति ।
२४ - ३३ - कः च अत्र विशेषः यकः वा श्यनः वा ।
२५ - ३३ - यकि सति अन्तोदात्तत्वेन भवितयम् श्यनि सति आद्युदात्तत्वेन ।
२६ - ३३ - श्यनि अपि सति अन्तोदात्तत्वेन एव भवितव्यम् ।
२७ - ३३ - कथम् ।
२८ - ३३ - खशः स्वरः श्यनः स्वरम् बाधिष्यते ।
२९ - ३३ - सति शिष्टत्वात् श्यनः स्वरः प्राप्नोति ।
३० - ३३ - आचार्यप्रवृत्तिः ज्ञापयति सति शिष्टः अपि विकरणस्वरः सार्वधातुकस्वरम् न बाधते इति यत् अयम् तासेः परस्य लसार्वधातुकस्य अनुदात्तत्वम् शास्ति ।
३१ - ३३ - लसार्वधातुके एतत् ज्ञापकम् स्यात् ।
३२ - ३३ - न इति आह ।
३३ - ३३ - अविशेषेण ज्ञापकम् ।
१ - ५५ - भूते इति उच्यते ।
२ - ५५ - कस्मिन् भूते ।
३ - ५५ - काले ।
४ - ५५ - न वै कालाधिकारः अस्ति ।
५ - ५५ - एवम् तर्हि धातोः इति वर्तते ।
६ - ५५ - धातौ भूते ।
७ - ५५ - धातुः वै शब्दः ।
८ - ५५ - न च शब्दस्य भूतभविष्यद्वर्तमानतायाम् सम्भवः अस्ति ।
९ - ५५ - शब्दे असम्भवात् अर्थे कार्यम् विज्ञास्यते ।
१० - ५५ - कः पुनः धात्वर्थः ।
११ - ५५ - क्रिया ।
१२ - ५५ - क्रियायाम् भूतायाम् ।
१३ - ५५ - यदि एवम् निष्ठायाम् इतरेतराश्रयत्वात् अप्रसिद्धिः ।
१४ - ५५ - निष्ठायाम् इतरेतराश्रयत्वात् अप्रसिद्धिः ।
१५ - ५५ - का इतरेतराश्रयता ।
१६ - ५५ - भूतकालेन शब्देन निर्देशः क्रियते ।
१७ - ५५ - निर्देशोत्तरकालम् च भूतकालता ।
१८ - ५५ - तत् एतत् इतरेतराश्रयम् भवति ।
१९ - ५५ - इतरेतराश्रयाणि च न प्रकल्पन्ते ।
२० - ५५ - अव्ययनिर्देशात् सिद्धम् ।
२१ - ५५ - अव्ययवता शब्देन निर्देशः करिष्यते ।
२२ - ५५ - अवर्तमाने अभविष्यति इति ।
२३ - ५५ - सः तर्हि अव्ययवता शब्देन निर्देशः कर्तव्यः ।
२४ - ५५ - न कर्तव्यः ।
२५ - ५५ - अव्ययम् एषः भूतेशब्दः न भवतेः निष्ठा ।
२६ - ५५ - कथम् अव्ययत्वम् ।
२७ - ५५ - विभक्तिस्वरप्रतिरूपकाः च निपाताः भवन्ति इति निपातसञ्ज्ञा ।
२८ - ५५ - निपातम् अव्ययम् इति अवययसञ्ज्ञा ।
२९ - ५५ - अथ अपि भवतेः निष्ठा एवम् अपि अवययम् एव ।
३० - ५५ - कथम् न व्येति इति अव्ययम् ।
३१ - ५५ - क्व पुनः न व्येति ।
३२ - ५५ - एतौ कालविशेषौ वर्तमानभविष्यन्तौ ।
३३ - ५५ - स्वभावतः भूते एव वर्तते ।
३४ - ५५ - यदि तत्रि न व्येति इति अव्ययम् ।
३५ - ५५ - न वा तद्विधानस्य अन्यत्र अभावात् ।
३६ - ५५ - न वा भूताधिकारेण अर्थः ।
३७ - ५५ - किम् कारणम् ।
३८ - ५५ - तद्विधानस्य अन्यत्र अभावात् ।
३९ - ५५ - ये अपि एते इतः उत्तरम् प्रत्ययाः शिष्यन्ते एते अपि एतौ कालविशेषौ न वियन्ति वर्तमानभविष्यन्तौ ।
४० - ५५ - स्वभावतः एव ते भूते एव वर्तन्ते ।
४१ - ५५ - अतः उत्तरम् पठति ।
४२ - ५५ - भूताधिकारस्य प्रयोजनम् कुमारघाती शीर्षघाती आखुहा बिडालः सुत्वानः सुनवन्तः सुषुपुषः अनेहाः अग्निम् आदधानस्य ।
४३ - ५५ - कुमारघाती शीर्षघाती इति भविष्यद्वर्तमानार्थः भूतनिवृत्त्यर्थः ।
४४ - ५५ - आखुहा बिडालः इति भविष्यद्वर्तमानार्थः ।
४५ - ५५ - इतरथा हि ब्रह्मादिषु नियमः त्रिषु कालेषु निवर्तकः स्यात् ।
४६ - ५५ - सुत्वानः सुन्वन्तः ।
४७ - ५५ - यज्ञसंयोगे ङ्वनिपः त्रिषु कालेषु शता अपवादः मा भूत् ।
४८ - ५५ - सुषुपुषः ।
४९ - ५५ - नजिङ् सर्वकालपवादः मा भूत् ।
५० - ५५ - अनेहाः इति वर्तमानकालः एव ।
५१ - ५५ - अन्यत्र अनाहन्ता ।
५२ - ५५ - आदधानस्य ।
५३ - ५५ - कानचः चानश् ताच्छीलादिषु सर्वकालापवादः मा भूत् ।
५४ - ५५ - अग्निम् आदधानस्य ।
५५ - ५५ - आदधानस्य इति एव अन्यत्र ।
१ - १३ - किमर्थम् ब्रह्मादिषु हन्तेः क्विप् विधीयते ।
२ - १३ - न क्विप् च अन्येभ्यः अपि दृश्यते इति एव सिद्धम् ।
३ - १३ - ब्रह्मादिषु हन्तेः क्विब्वचनम् नियमार्थम् । नियमार्थः अयम् आरम्भः ।
४ - १३ - ब्रह्मादिषु एव हन्तेः क्विप् यथा स्यात् ।
५ - १३ - किम् अविशेषेण ।
६ - १३ - न इति आह ।उपपदविशेषे एतस्मिन् च विशेषे ।
७ - १३ - अथ ब्रह्मादिषु हन्तेः णिनिना भवितव्यम् ।
८ - १३ - न भवितव्यम् ।
९ - १३ - किम् कारणम् ।
१० - १३ - उभयतः नियमात् ।
११ - १३ - उभयतः नियमः अयम् ।
१२ - १३ - ब्रह्मादिषु एव हन्तेः क्विप् भवति ।
१३ - १३ - क्विप् एव च ब्रह्मादिषु इति ।
१ - ४ - कर्मणि कुत्सिते ।
२ - ४ - कर्मणि कुत्सिते इति वक्तव्यम् ।
३ - ४ - इह मा भूत् ।
४ - ४ - धान्यविक्रायः ।
१ - २ - अन्येभ्यः अपि दृश्यते इति वक्तव्यम् , इह अपि यथा स्यात् ।
२ - २ - आखा उत्खा परिखा ।
१ - ३८ - निष्ठायाम् इतरेतराश्रयत्वात् अप्रसिद्धिः ।
२ - ३८ - निष्ठायाम् इतरेतराश्रयत्वात् अप्रसिद्धिः ।
३ - ३८ - का इतरेतराश्रयता ।
४ - ३८ - सतोः क्तक्तवत्वोः सञ्ज्ञया भवितव्यम् सञ्ज्ञया च क्तक्तवतू भाव्येते ।
५ - ३८ - तत् एतत् इतरेतराश्रयम् भवति ।
६ - ३८ - इतरेतराश्रयाणि च न प्रकल्पन्ते ।
७ - ३८ - द्विः वा क्तक्तव्तुग्रहणम् ।
८ - ३८ - द्विः वा क्तक्तव्तुग्रहणम् कर्तव्यम् ।
९ - ३८ - क्तक्तव्तू भूते ।
१० - ३८ - क्तक्तवतू निष्ठा इति ।
११ - ३८ - यदि पुनः इह एव निष्ठासञ्ज्ञा अपि उच्येत क्तक्तव्तू भूते ।
१२ - ३८ - ततः निष्ठा ।
१३ - ३८ - निष्ठासञ्ज्ञौ च क्तक्तव्तू भवतः इति ।
१४ - ३८ - किम् कृतम् भवति ।
१५ - ३८ - द्विः वा क्तक्तव्तुग्रहणम् न कर्तव्यम् भवति ।
१६ - ३८ - एवम् अपि तौ इति वक्तव्यम् स्यात् ।
१७ - ३८ - वक्ष्यति हि एतत् ।
१८ - ३८ - तौ सत् इति वचनम् असंसर्गार्थम् इति ।
१९ - ३८ - असंसक्तयोः भूतेन कालेन निष्ठासञ्ज्ञा यथा स्यात् ।
२० - ३८ - ञिमिदा मिन्नः ञिक्ष्विदा क्ष्विन्नः ।
२१ - ३८ - यदि पुनः अदृष्टश्रुतौ एव क्तक्तवतू गृहीत्वा निष्ठासञ्ज्ञा उच्येत ।
२२ - ३८ - न एवम् शक्यम् ।
२३ - ३८ - दृष्टश्रुतयोः न स्यात् ।
२४ - ३८ - ञिमिदा मिन्नः ।
२५ - ३८ - तस्मात् न एवम् शक्यम् ।
२६ - ३८ - न चेत् एवम् द्विः वा क्तक्तव्तुग्रहणम् कर्तव्यम् इतरेतराश्रयम् वा भवति ।
२७ - ३८ - न एषः दोषः ।
२८ - ३८ - इतरेतराश्रयमात्रम् एतत् भवति ।
२९ - ३८ - सर्वाणि च इतरेतराश्रयाणि एकत्वेन परिहृतानि सिद्धम् तु नित्यशब्दत्वात् इति ।
३० - ३८ - न इदम् तुल्यम् अन्यैः इतरेतराश्रयैः ।
३१ - ३८ - न हि सञ्ज्ञा नित्या ।
३२ - ३८ - एवम् तर्हि भाविनी सञ्ज्ञा विज्ञास्यते ।
३३ - ३८ - तत् यथा कः चित् कम् चित् तन्तुवायम् आह अस्य सूत्रस्य शाटकम् वय इति ।
३४ - ३८ - सः पश्यति ।
३५ - ३८ - यदि शाटकः न वातव्यः अथ वातव्यः न शाटकः ।
३६ - ३८ - शाटकः वातव्यः इति विप्रतिषिद्धम्. भाविनी खलु अस्य सञ्ज्ञा अभिप्रेता ।
३७ - ३८ - सः मन्ये वातव्यः यस्मिन् उते शाटकः इति एतत् भवति इति ।
३८ - ३८ - एवम् इह अपि तौ भूते काले भवतः ययोः अभिनिर्वृतयोः निष्ठा इति एषा सञ्ज्ञा भविष्यति ।
१ - २८ - आदिकर्मणि निष्ठा ।
२ - २८ - आदिकर्मणि निष्ठा वक्तव्या ।
३ - २८ - प्रकृतः कटम् देवदत्तः ।
४ - २८ - किम् पुनः कारणम् न सिध्यति ।
५ - २८ - यत् वा भवन्त्यर्थे ।
६ - २८ - यत् वा भवन्त्यर्थे भाष्यते ।
७ - २८ - प्रकृतः कटम् देवदत्तः ।
८ - २८ - प्रकरोति कटम् देवदत्तः इति ।
९ - २८ - न्याय्या तु आद्यपवर्गात् ।
१० - २८ - न्याय्या तु एषा भूतकालता ।
११ - २८ - कुतः ।
१२ - २८ - आद्यपवर्गात् ।
१३ - २८ - आदिः अत्र अपवृक्तः ।
१४ - २८ - एषः च नाम न्याय्यः भूतकालः यत्र किम् चित् अपवृक्तम् दृश्यते ।
१५ - २८ - वा च अद्यतन्याम् ।
१६ - २८ - वा च अद्यतन्याम् भाष्यते ।
१७ - २८ - प्रकृतः कटम् देवदत्तः ।
१८ - २८ - प्राकार्षीत् कटम् देवदत्तः इति ।
१९ - २८ - किम् शक्यन्ते एते शब्दाः प्रयोक्तुम् इति अतः न्याय्या एषा भूतकालता ।
२० - २८ - न अवश्यम् प्रयोगात् एव ।
२१ - २८ - क्रिया नाम इयम् अत्यन्तापरिदृष्टा अनुमानगम्या अशक्या पिण्डीभूता निदर्शयितुम् यथा गर्भः निर्लुठितः ।
२२ - २८ - सा असौ येन येन शब्देन अभिसम्बध्यते तावति तावति परिसम्पाप्यते ।
२३ - २८ - तत् यथा ।
२४ - २८ - कः चित् पाटलिपुत्रम् जिगमिषुः एकम् अहः गत्वा आह इदम् अद्य गतम् इति ।
२५ - २८ - न च तावता अस्य व्रजिक्रिया परिसमाप्ता भवति ।
२६ - २८ - यत् तु गतम् तत् अभिसमीक्ष्य एतत् प्रयुज्यते इदम् अद्य गतम् इति ।
२७ - २८ - एवम् इह अपि यत् कृतम् तत् अभिसमीक्ष्य एतत् प्रयुज्यते प्रकृतः कटम् देवदत्तः इति ।
२८ - २८ - यदा हि वेणिकान्तः कटः अभिसमीक्षितः भवति प्रकरोति कटम् इति एव तदा भवति ।
१ - १४ - किमर्थम् कानच्क्वसोः वावचनम् क्रियते ।
२ - १४ - कानच्क्वसोः वावचनम् छन्दसि तिङः दर्शनात् ।
३ - १४ - कानच्क्वसोः वावचनम् क्रियते छन्दसि तिङः दर्शनात् ।
४ - १४ - छन्दसि तिङ् अपि दृश्यते ।
५ - १४ - अहम् सूरम् उभयतः ददर्श ।
६ - १४ - अहम् द्यावापृथिवी आततान ।
७ - १४ - न वा अनेन विहितस्य आदेशवचनात् ।
८ - १४ - न वा एतत् प्रयोजनम् अस्ति ।
९ - १४ - किम् कारणम् ।
१० - १४ - अनेन विहितस्य आदेशवचनात् ।
११ - १४ - अस्तु अनेन विहितस्य आदेशः ।
१२ - १४ - केन इदानीम् छन्दसि विहितस्य लिटः श्रवणम् भविष्यति ।
१३ - १४ - छन्दसि लुङ्लङ्लिटः इति अनेन ।
१४ - १४ - तत् एतत् वावचनम् तिष्ठतु तावत् सान्न्यासिकम् ।
१ - १४ - अथ कित्करणम् किमर्थम् न असंयोगात् लिट् कित् इति एव सिद्धम् ।
२ - १४ - कित्कररणम् संयोगार्थम् ।
३ - १४ - कित्कररणम् क्रियते संयोगार्थम् ।
४ - १४ - संयोगान्ताः प्रयोजयन्ति ।
५ - १४ - वृत्रस्य यत् बद्बधानस्य रोदसी ।
६ - १४ - त्वम् अर्णवान् बद्बधानां अरम्णाः ।
७ - १४ - अञ्जेः आजिवान् इति ।
८ - १४ - छान्दसौ कानच्क्वसू ।
९ - १४ - लिट् च छन्दसि सार्वधातुकम् अपि भवति ।
१० - १४ - तत्र सार्वधातुकम् अपित् ङित् भवति इति ङित्त्वात् लुपधालोपः भविष्यति । ऋ̄कारान्तगुणप्रतिषेधार्थम् वा ।
११ - १४ - ऋ̄कारान्तगुणप्रतिषेधार्थम् तर्हि कित्करणम् कर्तव्यम् ।
१२ - १४ - अयम् लिटि ऋ̄कारान्तानाम् प्रतिषेधविषये गुणः आरभ्यते ।
१३ - १४ - सः यथा एव इह प्रतिषेधम् बाधित्वा गुणः भवति तेरतुः तेरुः एवम् इह अपि स्यात् तितीर्वान् तिरिराणः ।
१४ - १४ - पुनः कित्करणा प्रतिषिध्यते ।
१ - ३६ - भाषायाम् सदादिभ्यः वा लिट् ।
२ - ३६ - भाषायाम् सदादिभ्यः वा लिट् वक्तव्यः ।
३ - ३६ - किम् प्रयोजनम् ।
४ - ३६ - तद्विषये लुङः अनिवृत्त्यर्थम् ।
५ - ३६ - तस्य लिटः विषये लुङः अनिवृत्तिः यथा स्यात् ।
६ - ३६ - उपसेदिवान् कौत्सः पाणिनिम् ।
७ - ३६ - उपासदत् ।
८ - ३६ - अनद्यतनपरोक्षयोः च ।
९ - ३६ - अनद्यतनपरोक्षयोः च वा लिट् वक्तव्यः ।
१० - ३६ - उपसेदिवान् कौत्सः पाणिनिम् ।
११ - ३६ - उपासीदत् ।
१२ - ३६ - उपससाद ।
१३ - ३६ - अपवादविप्रतिषेधात् हि तयोः भावः ।
१४ - ३६ - अपवादविप्रतिषेधात् हि तौ स्याताम् ।
१५ - ३६ - कौ ।
१६ - ३६ - लङ्लिटौ ।
१७ - ३६ - तस्य क्वसुः अपरोक्षे नित्यम् ।
१८ - ३६ - तस्य लिटः भाषायाम् क्वसुः अपरोक्षे नित्यम् इति वक्तव्यम् ।
१९ - ३६ - अपरोक्षग्रहणेन न अर्थः ।
२० - ३६ - तस्य क्वसुः नित्यम् इति एव ।
२१ - ३६ - केन इदानीम् लिटः परोक्षे श्रवणम् भविष्यति ।
२२ - ३६ - परोक्षे लिट् इति अनेन ।
२३ - ३६ - तत् तर्हि वक्तव्यम् ।
२४ - ३६ - न वक्तव्यम् ।
२५ - ३६ - अनुवृत्तिः करिष्यते ।
२६ - ३६ - भाषायाम् सदादिभ्यः वा लिट् भवति लिटः च क्वसुः भवति ।
२७ - ३६ - ततः लुङ् ।
२८ - ३६ - लुङ् भवति भूते काले ।
२९ - ३६ - भाषायाम् सदादिभ्यः वा लिट् भवति लिटः च क्वसुः भवति ।
३० - ३६ - ततः अनद्यतने लङ् ।
३१ - ३६ - अनद्यतने भूते काले लङ् भवति ।
३२ - ३६ - भाषायाम् सदादिभ्यः वा लिट् भवति लिटः च क्वसुः भवति ।
३३ - ३६ - परोक्षे लिट् भवति ।
३४ - ३६ - भाषायाम् सदादिभ्यः वा लिट् भवति लिटः च क्वसुः भवति ।
३५ - ३६ - तत्र अयम् अपि अर्थः ।
३६ - ३६ - तस्य क्वसुः अपरोक्षे नित्यम् इति एतत् न वक्तव्यम् भवति ।
N/A
References : N/A
Last Updated : January 17, 2018
TOP