पाद २ - खण्ड २६
व्याकरणमहाभाष्य म्हणजे पाणिनि लिखीत अष्टाध्यायीतील काही निवडक सूत्रांवर पतञ्जलिने केलेले भाष्य. या ग्रंथाची रचना ई.पू २०० ते ई.पू १४० मध्ये केली गेली, असे मत व्याकरण पंडितांचे आहे.
१ - ६५ - द्वित्राः त्रिचतुराः इति कः अयम् समासः ।
२ - ६५ - बहुव्रीहिः इति आह ।
३ - ६५ - कः अस्य विग्रहः ।
४ - ६५ - द्वौ वा त्रयः वा इति ।
५ - ६५ - भवेत् यदा बहूनाम् आनयनम् तदा बहुवचनम् उपपन्नम् यदा तु खलु द्वौ आनीयेते तदा न सिध्यति ।
६ - ६५ - तदा अपि सिध्यति ।
७ - ६५ - कथम् ।
८ - ६५ - के चित् तावत् आहुः ॒ अनिर्ज्ञाते अर्थे बहुवचनम् प्रयोक्तव्यम् इति ।
९ - ६५ - तत् यथा ॒ कति भवतः पुत्राः ।
१० - ६५ - कति भवतः भार्याः इति ।
११ - ६५ - अपरः आह ॒ द्वौ वा इति उक्ते त्रयः वा इति गम्यते ।
१२ - ६५ - त्रयः वा इति उक्ते द्वौ वा इति गम्यते ।
१३ - ६५ - सा एषा पञ्चाधिष्ठाना वाक् ।
१४ - ६५ - अत्र युक्तम् बहुवचनम् ।
१५ - ६५ - अथ द्विदशाः त्रिदशाः इति कः अयम् समासः ।
१६ - ६५ - बहुव्रीहिः इति आह ।
१७ - ६५ - कः अस्य विग्रहः ।
१८ - ६५ - द्विः दश द्विशशाः इति ।
१९ - ६५ - सङ्ख्यासमासे सुजन्तत्वात् सङ्ख्याप्रसिद्धिः ।
२० - ६५ - सङ्ख्यासमासे सुजन्तत्वात् सङ्ख्या इति अप्रसिद्धिः ।
२१ - ६५ - न हि सुजन्ता सङ्ख्या अस्ति ।
२२ - ६५ - एवम् तर्हि एवम् विग्रहः करिष्यते ।
२३ - ६५ - द्वौ दशतौ द्विदशाः इति ।
२४ - ६५ - एवम् अपि अत्कारान्तत्वात् सङ्ख्या इति अप्रसिद्धिः ।
२५ - ६५ - न हि अत्कारान्ता सङ्ख्या अस्ति ।
२६ - ६५ - अस्तु तर्हि अयम् एव विग्रहः द्विः दश द्विशशाः इति ।
२७ - ६५ - ननु च उक्तम् सङ्ख्यासमासे सुजन्तत्वात् सङ्ख्या इति अप्रसिद्धिः इति ।
२८ - ६५ - न वा असुजन्तत्वात् ।
२९ - ६५ - न वा एषः दोषः ।
३० - ६५ - किम् कारणम् ।
३१ - ६५ - असुजन्तत्वात् ।
३२ - ६५ - सुजन्ता इति उच्यते ।
३३ - ६५ - न च अत्र सुजन्तम् पश्यामः ।
३४ - ६५ - किम् पुनः कारणम् वाक्ये सुच् दृश्यते समासे तु न दृश्यते ।
३५ - ६५ - सुजभावः अहिहितार्थत्वात् समासे ।
३६ - ६५ - समासे सुचः अभावः ।
३७ - ६५ - किम् कारणम् ।
३८ - ६५ - अहिहितार्थत्वात् ।
३९ - ६५ - अभिहितः सुजर्थः समासेन इति कृत्वा समासे सुच् न भविष्यति ।किम् च भोः सुजर्थे इति समासः उच्यते ।
४० - ६५ - न खलु सुजर्थे इति उच्यते गम्यते तु सुजर्थः ।
४१ - ६५ - कथम् ।
४२ - ६५ - यावता सङ्ख्येयः यः सङ्ख्यया सङ्ख्यायते सः च क्रियाभ्यावृत्त्यर्थः ।
४३ - ६५ - सः च उक्तः समासेन इति कृत्वा समासे सुच् न भविष्यति ।
४४ - ६५ - अशिष्यः सङ्ख्योत्तरपदः सङ्ख्येयवाभिध्यायित्वात् ।
४५ - ६५ - अशिष्यः सङ्ख्योत्तरपदः बहुव्रीहिः ।
४६ - ६५ - किम् कारणम् ।
४७ - ६५ - सङ्ख्येयवाभिध्यायित्वात् ।
४८ - ६५ - सङ्ख्येयम् वार्थः च अभिदीयते ।
४९ - ६५ - तत्र अन्यपदार्थे इति एव सिद्धम् ।
५० - ६५ - भवेत् सिद्धम् अधिकविंशाः अधिकत्रिंशाः इति यत्र एतत् विचार्यते ।
५१ - ६५ - विशत्यादयः दशदर्थे वा स्युः परिमाणिनि वा इति ।
५२ - ६५ - इदम् तु न सिध्यति अधिकदशाः इति यत्र नियोगतः सङ्ख्येये एव वर्तते ।
५३ - ६५ - अथ उपदशाः इति कः अयम् समासः ।
५४ - ६५ - बहुव्रीहिः इति आह ।
५५ - ६५ - कः अस्य विग्रहः ।
५६ - ६५ - दशानाम् समीपे उपदशाः इति ।
५७ - ६५ - कस्य पुनः सामीप्यम् अर्थः ।
५८ - ६५ - उपस्य ।
५९ - ६५ - यदि एवम् न अन्यपदार्थः भवति ।
६० - ६५ - तत्र प्रथानिर्दिष्टम् सङ्ख्याग्रहणम् शक्यम् अकर्तुम् ।
६१ - ६५ - मत्वर्थे वा पूर्वस्य विधानात् ।
६२ - ६५ - अथ वा मत्वर्थे पूर्वः योगः ।
६३ - ६५ - अमत्वर्थः अयम् आरम्भः ।
६४ - ६५ - कबभावार्थम् वा ।
६५ - ६५ - अथ व कप् मा भूत् इति ।
१ - ३३ - दिक्समाससहयोगयोः च अन्तरालप्रधानाभिधानात् ।
२ - ३३ - दिक्समाससहयोगयोः च अशिष्यः बहुव्रीहिः ।
३ - ३३ - किम् कारणम् ।
४ - ३३ - अन्तरालप्रधानाभिधानात् ।
५ - ३३ - दिक्समासे सहयोगे च अन्तरालम् प्रधानम् च अभिधीयते ।
६ - ३३ - तत्र अन्यपदार्थे इति एव सिद्धम् ।
७ - ३३ - यदि एवम् दक्षिणपूर्वा दिक् समानाधिकरणलक्षणः पुंवद्भावः न प्राप्नोति ।
८ - ३३ - अद्य पुनः इयम् सा एव दक्षिणा सा एव पूर्वा इति कृत्वा समानाधिकरणलक्षणः पुंवद्भावः सिद्धः भवति ।
९ - ३३ - न सिध्यति ।
१० - ३३ - भाषितपुंस्कस्य पुंवद्भावः ।
११ - ३३ - न च एतौ भाषितपुंस्कौ ।
१२ - ३३ - ननु च भोः दक्षिणशब्दः पूर्वशब्दः च पुंसि भाष्येते ।
१३ - ३३ - समानायाम् आकृतौ यत् भाषितपुंस्कम् ।
१४ - ३३ - आकृत्यन्तरे च एतौ भाषितपुंस्कौ ।
१५ - ३३ - दक्षिणा पूर्वा इति दिक्शब्दौ ।
१६ - ३३ - दक्षिणः पूर्वः इति व्यवस्थाशब्दौ ।
१७ - ३३ - यदि पुनः दिक्शब्दाः अपि व्यवस्थाशब्दाः स्युः ।
१८ - ३३ - कथम् यानि दिगपदिष्टानि कार्याणि ।
१९ - ३३ - यदा दिशः व्यवस्थाम् वक्ष्यन्ति ।
२० - ३३ - यदि तरि यः यः दिशि वर्तते सः सः दिक्शब्दः रमणीयादिषु अतिप्रसङ्गः भवति ।
२१ - ३३ - रमणीया दिक् शोभना दिक् इति ।
२२ - ३३ - अथ मतम् एतत् दिशि दृष्टः दिग्दृष्टः दिग्दिष्टः शब्दः दिक्शब्दः दिशम् यः न व्यभिचरति इति रमणीयादिषु अतिप्रसङ्गः न भवति ।
२३ - ३३ - पुंवद्भावः तु प्राप्नोति ।
२४ - ३३ - एवम् तर्हि सर्वनाम्नः वृत्तिमात्रे पुंवद्भावः वक्तव्यः दक्षिणोत्तरपूर्वाणाम् इति एवमर्थम् ।
२५ - ३३ - एवम् च कृत्वा दिक् दिक्समाससहयोगयोः च अन्तरालप्रधानाभिधानात् इति एव ।
२६ - ३३ - ननु च उक्तम् दक्षिणपूर्वा दिक् समानाधिकरणलक्षणः पुंवद्भावः न प्राप्नोति इति ।
२७ - ३३ - न एषः दोषः ।
२८ - ३३ - सर्वनाम्नः वृत्तिमात्रे पुंवद्भावेन परिहृतम् ।
२९ - ३३ - मत्वर्थे वा पूर्वस्य विधानात् ।
३० - ३३ - अथ वा मत्वर्थे पूर्वः योगः ।
३१ - ३३ - अमत्वर्थः अयम् आरम्भः ।
३२ - ३३ - कबभावार्थम् वा ।
३३ - ३३ - अथ व कप् मा भूत् इति ।
१ - २० - तृतीयासप्तम्यन्तेषु च क्रियाभिधानात् ।
२ - २० - तृतीयासप्तम्यन्तेषु च क्रियाभिधानात् अशिष्यः बहुव्रीहिः ।
३ - २० - किम् कारणम् ।
४ - २० - क्रियाभिधानात् ।
५ - २० - क्रिया अभिधीयते ।
६ - २० - तत्र अन्यपदार्थे इति एव सिद्धम् ।
७ - २० - न वा एकशेषप्रतिषेधार्थम् ।
८ - २० - न वा अशिष्यः ।
९ - २० - किम् कारणम् ।
१० - २० - एकशेषप्रतिषेधार्थम् इदम् वक्तव्यम् ।
११ - २० - पूर्वदीर्घार्थम् च ।
१२ - २० - पूर्वदीर्घार्थम् च इदम् वक्तव्यम् ।
१३ - २० - केशाकेशि ।
१४ - २० - स्यात् एतत् प्रयोजनम् यदि नियोगतः अस्य अनेन एव दीर्घत्वम् स्यात् ।
१५ - २० - अथ इदानीम् अन्येषाम् अपि दृश्यते इति दीर्घत्वम् न प्रयोजनम् भवति ।
१६ - २० - मत्वर्थे वा पूर्वस्य विधानात् ।
१७ - २० - अथ व मत्वर्थे पूर्वः योगः ।
१८ - २० - अमत्वर्थः अयम् आरम्भः ।
१९ - २० - कबभावार्थम् वा ।
२० - २० - अथ व कप् मा भूत् इति ।
१ - २८ - चार्थे इति उच्यते चः च अव्ययम् ।
२ - २८ - तेन समासस्य अव्ययसञ्ज्ञा प्राप्नोति ।
३ - २८ - न एषः दोषः ।
४ - २८ - पाठेन अव्ययसञ्ज्ञा क्रियते ।
५ - २८ - न च समासः तत्र पठ्यते ।
६ - २८ - पाठेन अपि अव्ययसञ्ज्ञायाम् सत्याम् अभिदेहेयवत् लिङ्गवचनानि भवन्ति ।
७ - २८ - यः च इह अर्थः अभिधीयते न तस्य लिङ्गसङ्ख्याभ्याम् योगः अस्ति ।
८ - २८ - न इदम् वाचनिकम् अलिङ्गता असङ्ख्यता व ।
९ - २८ - किम् तर्हि ।
१० - २८ - स्वाभाविकम् एतत् ।
११ - २८ - तत् यथा ॒ समानम् ईहमानानाम् अधीयानानाम् च के चित् अर्थैः युज्यन्ते अपरे न ।
१२ - २८ - न च इदानीम् कः चित् अर्थवान् इति कृत्वा सर्वैः अर्थवद्भिः शक्यम् भवितुम् कः चित् अनर्थकः इति कृत्वा सर्वैः अनर्थकैः ।
१३ - २८ - तत्र किम् अस्माभिः शक्यम् कर्तुम् ।
१४ - २८ - यत् प्राक् समासात् चार्थस्य लिङ्गसङ्ख्याभ्याम् योगः न अस्ति समासे च भवति स्वाभाविकम् एतत् ।
१५ - २८ - अथ वा आश्रयतः लिङ्गवचनानि भविष्यन्ति ।
१६ - २८ - गुणवचनानाम् हि शब्दानाम् आश्रयतः लिङ्गवचनानि भवन्ति ।
१७ - २८ - तत् यथा शुक्लम् वस्त्रम् , शुक्ला शाटी शुक्लः कम्बलः , शुक्लौ कम्बलौ शुक्लाः कम्बलाः इति ।
१८ - २८ - यत् असौ द्रव्यम् श्रितः भवति गुणः तस्य यत् लिङ्गम् वचनम् च तत् गुणस्य अपि भवति ।
१९ - २८ - एवम् इह अपि यत् असौ द्रव्यम् श्रितः भवति समासः तस्य यत् लिङ्गम् वचनम् च तत् समासस्य अपि भविष्यति ।
२० - २८ - अथ इह कस्मात् न भवति ।
२१ - २८ - याज्ञिकः च अयम् वैयाकरणः च ।
२२ - २८ - कठः च अयम् बह्वृचः च ।
२३ - २८ - औक्थिकः च अयम् मीमांसकः च इति ।
२४ - २८ - शेषः इति वर्तते ।
२५ - २८ - अशेषत्वात् न भविष्यति ।
२६ - २८ - यदि शेषः इति वर्तते उपास्नातम् स्थूलसिक्तम् तूष्णीङ्गङ्गम् महाह्रदम् द्रोणम् चेत् अशकः गन्तुम् मा त्वा ताप्ताम् कृताकृते इति एतत् न सिध्यति ।
२७ - २८ - न एषः दोषः ।
२८ - २८ - अन्यत् हि कृतम् अन्यत् अकृतम् ।
१ - १३४ - चार्थे द्वन्द्ववचने असमासे अपि चार्थसम्प्रत्ययात् अनिष्टप्रसङ्गः ।
२ - १३४ - चार्थे द्वन्द्ववचने असमासे अपि चार्थसम्प्रत्ययात् अनिष्टम् प्राप्नोति ।
३ - १३४ - अहः अहः नयमानः गाम् अश्वम् पुरुषम् पशुम् वैवस्वतः न तृप्यति सुरायाः इव दुर्मदी इन्द्रः त्वष्टा वरुणः वायुः आदित्यः इति ।
४ - १३४ - सिद्धम् तु युगपदधिकरणवचने द्वन्द्ववचनात् ।
५ - १३४ - सिद्धम् एतत् ।
६ - १३४ - कथम् ।
७ - १३४ - युगपदधिकरणवचने द्वन्द्वः भवति इति वक्तव्यम् ।
८ - १३४ - तत्र पुंवद्भावप्रतिषेधः ।
९ - १३४ - तत्र एतस्मिन् लक्षणे पुंवद्भावस्य प्रतिषेधः वक्तव्यः ।
१० - १३४ - पट्वीमृद्व्यौ ।
११ - १३४ - समानाधिकरणलक्षणः पुंवद्भावः प्राप्नोति ।
१२ - १३४ - विप्रतिषिद्धेषु च अनुपपत्तिः ।
१३ - १३४ - विप्रतिषिद्धेषु युगपदधिकरणवचतायाः अनुपपत्तिः ।
१४ - १३४ - शीतोष्णे सुखदुःखे जननमरणे ।
१५ - १३४ - किम् कारणम् ।
१६ - १३४ - सुखप्रतिघातेन हि दुःखम् दुःकप्रतिघातेन च सुखम् ।
१७ - १३४ - यत् तावत् उच्यते तत्र पुंवद्भावप्रतिषेधः इति ।
१८ - १३४ - इदम् तावत् अयम् प्रष्टव्यः ॒ अथ इह कस्मात् न भवति ।
१९ - १३४ - दर्शनीयायाः माता दर्शनीयामाता इति ।
२० - १३४ - अथ मतम् एतत् प्राक् समासात् यत्र सामानाधिकरण्यम् तत्र पुंवद्भावः भवति इति इह अपि न दोषः भवति ।
२१ - १३४ - यद् अपि उच्यते विप्रतिषिद्धेषु च अनुपपत्तिः इति ।
२२ - १३४ - सर्वे एव हि शब्दाः विप्रतिषिद्धाः ।
२३ - १३४ - इह अपि प्लक्षन्यग्रोधौ इति प्लक्षशब्दः प्रयुज्यमानः प्लक्षार्थम् सम्प्रत्याययति न्यग्रोधार्थम् निवर्तयति ।
२४ - १३४ - न्यग्रोधशब्दः प्रयुज्यमानः न्यग्रोधार्थम् सम्प्रत्याययति प्लक्षार्थम् निवर्तयति ।
२५ - १३४ - अत्र चेत् युक्ता युगपत् अधिकरण्वचनता दृश्यते इह अपि युक्ता दृश्यताम् ।
२६ - १३४ - एवम् अपि शब्दपौर्वापर्यप्रयोगात् अर्थपौर्वापर्याभिधानम् ।
२७ - १३४ - शब्दपौर्वापर्यप्रयोगात् अर्थपौर्वापर्याभिधानम् प्राप्नोति ।
२८ - १३४ - अतः किम् ।
२९ - १३४ - युगपतधिकरणवचनतायाः अनुपपत्तिः ।
३० - १३४ - प्लक्षन्यग्रोधौ प्लक्षन्यग्रोधाः इति ।
३१ - १३४ - यथ एव हि शब्दानाम् पौर्वापर्यम् तद्वत् अर्थानाम् अपि भवितव्यम् ।
३२ - १३४ - शब्दपौर्वापर्यप्रयोगात् अर्थपौर्वापर्याभिधानम् इति चेत् द्विवचनबहुवचनानुपपत्तिः ।
३३ - १३४ - शब्दपौर्वापर्यप्रयोगात् अर्थपौर्वापर्याभिधानम् इति चेत् द्विवचनबहुवचनानुपपत्तिः ॒ प्लक्षन्यग्रोधौ प्लक्षन्यग्रोधाः इति ।
३४ - १३४ - प्लक्षशब्दः सार्थकः निवृत्तः न्यग्रोधशब्दः उपस्थितः एकार्थः तस्य एकार्थत्वात् एकवचनम् एव प्राप्नोति ।
३५ - १३४ - विग्रहे तु युगपद्वचनम् ज्ञापकम् युगपद्वचनस्य ।
३६ - १३४ - विग्रहे खलु अपि युगपद्वचनता दृश्यते ॒ द्यवा ह क्षमा ।
३७ - १३४ - द्यवा चित् अस्मै पृथिवी नमेते इति ।
३८ - १३४ - किम् एतत् ।
३९ - १३४ - युगपदधिकरणवचनतायाः उपोद्बलकम् ।
४० - १३४ - विग्रहे किल नाम युगपदधिकरणवचनता स्यात् किम् पुनः समासे ।
४१ - १३४ - समुदायात् सिद्धम् ।
४२ - १३४ - समुदायात् सिद्धम् एतत् ।
४३ - १३४ - किम् एतत् समुदायात् सिद्धम् इति ।
४४ - १३४ - द्विवचनबहुवचनप्रसिद्धिः इति चोदितम् ।
४५ - १३४ - तस्य अयम् परिहारः ।
४६ - १३४ - समुदायात् सिद्धम् इति चेत् न एकार्थत्वात् समुदायस्य ।
४७ - १३४ - समुदायात् सिद्धम् इति चेत् तत् न ।
४८ - १३४ - किम् कारणम् ।
४९ - १३४ - एकार्थत्वात् समुदायस्य ।
५० - १३४ - एकार्थाः हि समुदायाः भवन्ति ।
५१ - १३४ - तत् यथा शतम् यूथम् वनम् इति ।
५२ - १३४ - न ऐकार्थ्यम् ।
५३ - १३४ - न अयम् एकार्थः ।
५४ - १३४ - किम् तर्हि ।
५५ - १३४ - द्व्यर्थः बह्वर्थः च ।
५६ - १३४ - प्लक्षः अपि द्व्यर्थः न्यग्रोधः अपि द्व्यर्थः ।
५७ - १३४ - यदि तर्हि प्लक्षः अपि द्व्यर्थः न्यग्रोधः अपि द्व्यर्थः तयोः अनेकार्थत्वात् बहुवचनप्रसङ्गः ।
५८ - १३४ - तयोः अनेकार्थत्वात् बहुषु बहुवचनम् इति बहुवचनम् प्राप्नोति ।
५९ - १३४ - तयोः अनेकार्थत्वात् बहुवचनप्रसङ्गः इति चेत् न बहुत्वाभावात् ।
६० - १३४ - तयोः अनेकार्थत्वात् बहुवचनप्रसङ्गः इति चेत् तत् न ।
६१ - १३४ - किम् कारणम् ।
६२ - १३४ - बहुत्वाभावात् ।
६३ - १३४ - न अत्र बहुत्वम् अस्ति ।
६४ - १३४ - किम् उच्यते बहुत्वाभावात् इति यावता इदानीम् एव उक्तम् प्लक्षः अपि द्व्यर्थः न्यग्रोधः अपि द्व्यर्थः इति ।
६५ - १३४ - याभ्याम् एव अत्र एकः द्व्यर्थः ताभ्याम् एव अपरः अपि ।
६६ - १३४ - यदि एवम् अन्यवाचकेन अन्यस्य वचनानुपपत्तिः ।
६७ - १३४ - अन्यवाचकेन शब्देन अन्यस्य वचनम् न उपपद्यते ।
६८ - १३४ - अन्यवाचकेन अन्यस्य वचनानुपपत्तिः इति चेत् प्लक्षस्य न्यग्रोधत्वात् न्यग्रोधस्य प्लक्षत्वात् स्वशब्देन अभिधानम् ।
६९ - १३४ - अन्यवाचकेन अन्यस्य वचनानुपपत्तिः इति चेत् उच्यते तत् न ।
७० - १३४ - किम् कारणम् ।
७१ - १३४ - प्लक्षस्य न्यग्रोधत्वात् न्यग्रोधस्य प्लक्षत्वात् स्वशब्देन अभिधानम् ।
७२ - १३४ - प्लक्षः अपि न्यग्रोधः न्यग्रोधः अपि प्लक्षः ।
७३ - १३४ - कथम् पुनः प्लक्षः अपि न्यग्रोधः न्यग्रोधः अपि प्लक्षः स्यात् यावता कारणात् द्रव्ये शब्दनिवेशः ।
७४ - १३४ - कारणात् द्रव्ये शब्दनिवेशः इति चेत् तुल्यकारणत्वात् सिद्धम् ।
७५ - १३४ - कारणात् द्रव्ये शब्दनिवेशः इति चेत् एवम् उच्यते ॒ तत् न तुल्यकारणत्वात् सिद्धम् ।
७६ - १३४ - तुल्यम् हि कारणम् ।
७७ - १३४ - यदि तावत् प्रक्षरति इति प्लक्षः स्यान् न्यग्रोधे अपि एतत् भवति ।
७८ - १३४ - तथा यदि न्यक् रोहति इति न्यग्रोधः प्लक्षे अपि एतत् भवति ।
७९ - १३४ - दर्शनम् वै हेतुः न च न्यग्रोधे प्लक्षशब्दः दृश्यते ।
८० - १३४ - दर्शनम् हेतुः इति चेत् तुल्यम् ।
८१ - १३४ - दर्शनम् हेतुः इति चेत् तुल्यम् एतत् भवति ।
८२ - १३४ - प्लक्षे अपि न्यग्रोधशब्दः दृश्यताम् ।
८३ - १३४ - तुल्यम् हि कारणम् ।
८४ - १३४ - न वै लोके एषः सम्प्रत्ययः भवति ।
८५ - १३४ - न हि प्लक्षः आनीयताम् इति उक्ते न्य्रग्रोधः आनीयते ।
८६ - १३४ - तद्विषयम् च ।
८७ - १३४ - तद्विषयम् च एतत् द्रष्टव्यम् प्लक्षस्य न्यग्रोधत्वम् ।
८८ - १३४ - किंविषयम् ।
८९ - १३४ - द्वन्द्वविषयम् ।
९० - १३४ - युक्तम् पुनः यत् नियतविषयाः नाम शब्दाः स्युः ।
९१ - १३४ - बाढम् युक्तम् ।
९२ - १३४ - अन्यत्र अपि तद्विषयदर्शनात् ।
९३ - १३४ - अन्यत्र अपि हि नियतविषयाः शब्दाः दृश्यन्ते ।
९४ - १३४ - तत् यथा ॒ समाने रक्ते वर्णे गौः लोहितः इति भवति आस्वः शोणः इति ।
९५ - १३४ - समाने च काले वर्णे गौः कृष्णः इति भवति अश्वः हेमः इति ।
९६ - १३४ - समाने च शुक्ले वर्णे गौः श्वेतः इति भवति अश्वः कर्कः इति ।
९७ - १३४ - यदि तर्हि प्लक्षः अपि न्यग्रओधः न्यग्रोधः अपि प्लक्षः एकेन उक्तत्वात् अपरस्य प्रयोगः अनुपपन्नः ।
९८ - १३४ - एकेन उक्तत्वात् तस्य अर्थस्य अपरस्य प्रयोगः न उपपद्यते ।
९९ - १३४ - प्लक्षेण न्यग्रोधस्य न्यग्रोधप्रयोगः ।
१०० - १३४ - एकेन उक्तत्वात् अपरस्य प्रयोगः अनुपपन्नः इति चेत् अनुक्तत्वात् प्लक्षेण न्यग्रोधस्य न्यग्रोधप्रयोगः । एकेन उक्तत्वात् अपरस्य प्रयोगः अनुपपन्नः इति चेत् तत् न ।
१०१ - १३४ - किम् कारणम् ।
१०२ - १३४ - अनुक्तत्वात् प्लक्षेण न्यग्रोधस्य न्यग्रोधप्रयोगः ।
१०३ - १३४ - अनुक्तः प्लक्षेण न्यग्रोधार्थः इति कृत्वा न्यग्रोधशब्दः प्रयुज्यते ।
१०४ - १३४ - कथम् अनुक्तः यावता इदानीम् एव उक्तम् प्लक्षः अपि न्यग्रोधः न्यग्रोधः अपि प्लक्षः इति ।
१०५ - १३४ - सहभूतौ एतौ अन्योन्यस्य अर्थम् आहतुः न पृथग्भूतौ ।
१०६ - १३४ - किम् पुनः कारणम् सहभूतौ एतौ अन्योन्यस्य अर्थम् आहतुः न पृथग्भूतौ ।
१०७ - १३४ - अभिधानम् पुनः स्वाभाविकम् ।
१०८ - १३४ - स्वाभाविकम् अभिधानम् ।
१०९ - १३४ - अथ वा इह कौ चित् प्राथमकल्पिकौ प्लक्षन्यग्रोधौ कौ चित् क्रियया वा गुणेन व प्लक्षः इव अयम् प्लक्षः , न्यग्रोधः इव अयम् न्यग्रोधः इति ।
११० - १३४ - तत्र प्लक्षौ इति उक्ते सन्देहः स्यात् ॒ किम् इमौ प्लक्षौ आहोस्वित् प्लक्षन्यग्रोधौ इति ।
१११ - १३४ - तत्र असन्देहार्थम् न्यग्रोधशब्दः प्रयुज्यते ।
११२ - १३४ - इयम् युगपदधिकरणवचनत नाम दुःखा च दुरुपपादा च ।
११३ - १३४ - यत् च अपि अस्या निबन्धनम् उक्तम् द्यावा ह क्षामा इति तत् अपि छान्दसम् ।
११४ - १३४ - तत्र सुपाम् सुपः भवन्ति इति एव सिद्धम् ।
११५ - १३४ - सूत्रम् च भिद्यते ।
११६ - १३४ - यथान्यासम् एव अस्तु ।
११७ - १३४ - ननु च उक्तम् चार्थे द्वन्द्ववचने असमासे अपि चार्थसम्प्रत्ययात् अनिष्टप्रसङ्गः इति ।
११८ - १३४ - न एषः दोषः ।
११९ - १३४ - इह चे द्वन्द्वे इति इयता सिद्धम् ।
१२० - १३४ - कथम् पुनः चे नाम वृत्तिः स्यात् ।
१२१ - १३४ - शब्दः हि एषः ।
१२२ - १३४ - शब्दे असम्भवात् अर्थे कार्यम् विज्ञास्यते ।
१२३ - १३४ - सः अयम् एवम् सिद्धे सति यत् अर्थग्रहणम् करोति तस्य एतत् प्रयोजनम् एवम् यथा विज्ञायेत चेन कृतः अर्तः चार्थः इति ।
१२४ - १३४ - कः पुनः चेन कृतः अर्थः ।
१२५ - १३४ - समुच्चयः अन्वाचयः इतरेतरयोगः समाहारः इति ।
१२६ - १३४ - समुच्चयः ।
१२७ - १३४ - प्लक्षः च इति उक्ते गम्यते एतत् न्यग्रोधः च इति ।
१२८ - १३४ - अन्वाचयः ।
१२९ - १३४ - प्लक्षः च इति उक्ते गम्यते एतत् सापएक्षः अयम् प्रयुज्यते इति ।
१३० - १३४ - इतरेतरयोगः ।
१३१ - १३४ - प्लक्षः च न्यग्रोधः च इति उक्ते गम्यते एतत् प्लक्षः अपि न्यग्रोधसहायः न्यग्रोधः अपि प्लक्षसहायः इति ।
१३२ - १३४ - समाहारे अपि क्रियते प्लक्षन्यग्रोधम् इति ।
१३३ - १३४ - तत्र अयम् अपि अर्थः द्वन्द्वैकवद्भावः न पठितव्यः भवति ।
१३४ - १३४ - समाहारस्य एकत्वात् एव सिद्धम् ।
१ - १९ - एकादश द्वादश इति कः अयम् समासः ।
२ - १९ - एकादीनाम् दशादिभिः द्वन्द्वः ।
३ - १९ - एकादीनाम् दशादिभिः द्वन्द्वः समासः ।
४ - १९ - एकादीनाम् दशादिभिः द्वन्द्वः इति चेत् विंशत्यादिषु वचनप्रसङ्गः ।
५ - १९ - एकादीनाम् दशादिभिः द्वन्द्वः इति चेत् विंशत्यादिषु वचनम् प्राप्नोति ।
६ - १९ - एकविंशतिः द्वाविंशतिः ।
७ - १९ - सिद्धम् तु अधिकान्ता सङ्ख्य सङ्ख्यया समानाधिकरणाधिकारे अधिकलोपः च । सिद्धम् एतत् ।
८ - १९ - कथम् ।
९ - १९ - समानाधिकरणाधिकारे वक्तव्यम् अधिकान्ता सङ्ख्य सङ्ख्यया सह समस्यते अधिकशब्दस्य च लोपः भवति इति ।
१० - १९ - एकाधिका विंशतिः एकविंशतिः द्व्यधिका विंशतिः द्वाविंशतिः ।
११ - १९ - यदि समानाधिकरणः स्वरः न सिध्यति ।
१२ - १९ - यत् हि तत् सङ्ख्या पूर्वपदम् प्रकृतिस्वरम् भवति इति द्वन्द्वे इति तत् ।
१३ - १९ - किम् पुनः कारणम् द्वन्द्वे इति एवम् तत् ।
१४ - १९ - इह मा भूत् शतसहस्रम् इति ।
१५ - १९ - अस्तु तर्हि द्वन्द्वः ।
१६ - १९ - ननु च उक्तम् एकादीनाम् दशादिभिः द्वन्द्वः इति चेत् विंशत्यादिषु वचनप्रसङ्गः इति. न एषः दोषः ।
१७ - १९ - सर्वः द्वन्द्वः विभाषा एकवत् भवति ।
१८ - १९ - यदा तर्हि एकवचनम् तदा नपुंसकलिङ्गम् प्राप्नोति ।
१९ - १९ - लिङ्गम् अशिष्यम् लोकाश्रयत्वात् लिङ्गस्य ।
१ - १५ - किमर्थम् इदम् उच्यते ।
२ - १५ - उपसर्जनस्य पूर्ववचनम् परप्रयोगनिवृत्त्यर्थम् ।
३ - १५ - उपसर्जनस्य पूर्ववचनम् क्रियते परप्रयोगः मा भूत् इति ।
४ - १५ - न वा अनिष्टदर्शनात् ।
५ - १५ - न वा एतत् प्रयोजनम् अस्ति ।
६ - १५ - किम् कारणम् ।
७ - १५ - अनिष्टदर्शनात् ।
८ - १५ - न हि किम् चित् अनिष्टम् दृश्यते ।
९ - १५ - न हि कः चित् राजपुरुषः इति प्रयोक्तव्ये पुरुषराजः इति प्रयुङ्क्ते ।
१० - १५ - यदि च अनिष्टम् द्र्श्येते ततः यत्नार्थम् स्यात् ।
११ - १५ - अथ यत्र द्वे षष्ठ्यन्ते भवतः कस्मात् तत्र प्रधानस्य पूर्वनिपातः न भवति ।
१२ - १५ - राज्ञः पुरुषस्य राजपुरुषस्य इति ।
१३ - १५ - षष्ठ्यन्तयोः समासे अर्थाभेदात् प्रधानस्य अपूर्वनिपातः ।
१४ - १५ - षष्ठ्यन्तयोः समासे अर्थाभेदात् प्रधानस्य पूर्वनिपातः न भविष्यति ।
१५ - १५ - एवम् न च इदम् अकृतम् भवति उपसर्जनम् पूर्वम् इति अर्थः च अभिन्नः इति कृत्वा प्रधानस्य पूर्वनिपातः न भविष्यति ।
१ - २५ - किम् अयम् तन्त्रम् तरनिर्देशः आहोस्वित् अतन्त्रम् ।
२ - २५ - किम् च अतः ।
३ - २५ - यदि तन्त्रम् द्वयोः नियमः बहुषु अनियमः ।
४ - २५ - तत्र कः दोषः ।
५ - २५ - शङ्खदुन्दुभिवीङानाम् इति न सिध्यति ।
६ - २५ - दुन्दुभिशब्दस्य अपि पूर्व्निपातः प्राप्नोति ।
७ - २५ - अथ अतन्त्रम् मृदङ्गशङ्खतूणवाः पृथक् नदन्ति संसदि. प्रासादे धनपतिरामकेशवानाम् इति एतत् न सिध्यति ।
८ - २५ - यथा इच्छसि तथा अस्तु ।
९ - २५ - अस्तु तावत् तन्त्रम् ।
१० - २५ - ननु च उक्तम् द्वयोः नियमः बहुषु अनियमः इति ।
११ - २५ - तत्र शङ्खदुन्दुभिवीङानाम् इति न सिध्यति ।
१२ - २५ - दुन्दुभिशब्दस्य अपि पूर्व्निपातः प्राप्नोति इति ।
१३ - २५ - न एषः दोषः ।
१४ - २५ - यत् एतत् अल्पाच्तरम् इति तत् अल्पाच् इति वक्ष्यामि ।
१५ - २५ - अथ वा पुनः अस्तु अतन्त्रम् ।
१६ - २५ - ननु च उक्तम् मृदङ्गशङ्खतूणवाः पृथक् नदन्ति संसदि. प्रासादे धनपतिरामकेशवानाम् इति एतत् न सिध्यति इति ।
१७ - २५ - अतन्त्रे तरनिर्देशे शङ्खतूणवयोः मृदङ्गेन समासः ।
१८ - २५ - अतन्त्रे तरनिर्देशे शङ्खतूणवयोः मृदङ्गेन समासः करिष्यते ।
१९ - २५ - शङ्खः च तूणवः च शण्खतूणवौ ।
२० - २५ - मृदङ्गः च शण्खतूणवौ च मृदङ्गशङ्खतूणवाः ।
२१ - २५ - रामः च केशवः च रामकेशवौ धनपतिः च रामकेशवौ च धनपतिरामकेशवाः तेषाम् धनपतिरामकेशवानाम् इति ।
२२ - २५ - अथ यत्र बहूनाम् पूर्वनिपातप्रसङ्गः किम् तत्र एकस्य नियमः भवति अहोस्वित् अविशेषेण ।
२३ - २५ - अनेकप्राप्तौ एकस्य नियमः अनियमः शेषेषु ।
२४ - २५ - अनेकप्राप्तौ एकस्य नियमः अनियमः शेषेषु ।
२५ - २५ - पटुमृदुशुक्लाः पटुशुक्लमृदवः इति ।
१ - २४ - ऋतुनक्षत्राणाम् आनुपूर्व्येण समानाक्षराणाम् ।
२ - २४ - ऋतुनक्षत्राणाम् आनुपूर्व्येण समानाक्षराणाम् पूर्वनिपातः वक्तव्यः ।
३ - २४ - शिशिरवसन्तौ उदगयनस्थौ कृत्तिकारोहिण्यः ।
४ - २४ - अभ्यर्हितम् ।
५ - २४ - अभ्यर्हितम् पूर्वम् निपतति इति वक्तव्यम् ।
६ - २४ - मातापितरौ श्रद्धामेधे ।
७ - २४ - लघ्वक्षरम् ।
८ - २४ - लघ्वक्षरम् पूर्वम् निपतति इति वक्तव्यम् ।
९ - २४ - कुशकाशम् शरशीर्यम् ।
१० - २४ - अपरः आह ॒ सर्वत्र एव अभ्यर्हितम् पूर्वम् निपतति इति वक्तव्यम् ।
११ - २४ - लघ्वक्षरात् अपि इति ।
१२ - २४ - श्रद्धातपसी दीक्षातपसी ।
१३ - २४ - वर्णानाम् आनुपूर्व्येण ।
१४ - २४ - वर्णानाम् आनुपूर्व्येण पूर्वनिपातः भवति इति वक्तव्यम् ।
१५ - २४ - ब्राह्मणक्षत्रियविट्शूद्राः ।
१६ - २४ - भ्रातुः च ज्यायसः ।
१७ - २४ - भ्रातुः च ज्यायसः पूर्वनिपातः भवति इति वक्तव्यम् ।
१८ - २४ - युधिष्ठिरार्जुनौ ।
१९ - २४ - सङ्ख्यायाः अल्पीयसः ।
२० - २४ - सङ्ख्यायाः अल्पीयसः पूर्वनिपातः वक्तव्यः ।
२१ - २४ - एकादश द्वादश ।
२२ - २४ - धर्मादिषु उभयम् ।
२३ - २४ - धर्मादिषु उभयम् पूर्वम् निपतति इति वक्तव्यम् ।
२४ - २४ - धर्मार्थौ अर्थधर्मौ कामार्थौ अर्थकामौ गुणवृद्धी वृद्धिगुणौ आद्यन्तौ अन्तादी
१ - १० - बहुव्रीहौ सर्वनामसङ्ख्ययोः उपसङ्ख्यानम् ।
२ - १० - बहुव्रीहौ सर्वनामसङ्ख्ययोः उपसङ्ख्यानम् कर्तव्यम् ।
३ - १० - विश्वदेवः विश्वयसाः द्विपुत्रः द्विभार्यः ।
४ - १० - अथ यत्र सङ्ख्यासर्वनाम्नोः एव बहुर्वीहिः कस्य तत्र पूर्वनिपातेन भवितव्यम् ।
५ - १० - परत्वात् सङ्ख्यायाः ॒ द्व्यन्याय त्र्यन्याय ।
६ - १० - वा प्रियस्य ।
७ - १० - वा प्रियस्य पूर्वनिपातः वक्तव्यः ।
८ - १० - प्रियगुडः गुडप्रियः ।
९ - १० - सप्तम्याः पूर्वनिपाते गड्वादिभ्यः परवचनम् । सप्तम्याः पूर्वनिपाते गड्वादिभ्यः परा सप्तमीभवति इति वक्तव्यम् ।
१० - १० - गडुकण्ठः गडुशिराः ।
१ - ३३ - निष्ठायाः पूर्वनिपाते जातिकालसुखादिभ्यः परवचनम् ।
२ - ३३ - निष्ठायाः पूर्वनिपाते जातिकालसुखादिभ्यः परा निष्ठा भवति इति वक्तव्यम् ।
३ - ३३ - शार्ङ्गजग्धी पलाण्डुभक्षिती मासजाता संवत्सरजाता सुखजाता दुःखजाता ।
४ - ३३ - न वा उत्तरपदस्य अन्तोदात्तवचनम् ज्ञापकम् परभावस्य ।
५ - ३३ - न वा वक्तव्यम् ।
६ - ३३ - किम् कारणम् ।
७ - ३३ - उत्तरपदस्य अन्तोदात्तवचनम् ज्ञापकम् परभावस्य ।
८ - ३३ - यत् अयम् जातिकालसुखादिभ्यः परस्याः निष्ठायाः उत्तरपदस्य अन्तोदात्तत्वम् शास्ति तत् ज्ञापयति आचार्यः परा अत्र निष्ठा भवति इति ।
९ - ३३ - प्रतिषेधे तु पूर्वनिपातप्रसङ्गः तस्मात् राजदन्तादिषु पाठः ।
१० - ३३ - प्रतिषेधे तु पूर्वनिपातः प्राप्नोति ।
११ - ३३ - अकृतमितप्रतिपन्नाः इति ।
१२ - ३३ - तस्मात् राजदन्तादिषु पाठः कर्तव्यः ।
१३ - ३३ - न कर्तव्यः ।
१४ - ३३ - अत्र अपि प्रतिषेधवचनम् ज्ञापकम् परा निष्ठा भवति इति ।
१५ - ३३ - प्रहरणार्थेभ्यः च ।
१६ - ३३ - प्रहरणार्थेभ्यः च परे निष्ठासप्तम्यौ भवतः इति वक्तव्यम् ।
१७ - ३३ - अस्युद्यतः मुसलोद्यतः असिपाणिः दण्डपाणिः ।
१८ - ३३ - द्वन्द्वे घि अजाद्यन्तम् विप्रतिषेधेन ।
१९ - ३३ - द्वन्द्वे घि इति अस्मात् अजाद्यन्तम् इति एतत् भवति विप्रतिषेधेन ।
२० - ३३ - द्वन्द्वे घि इति अस्य अवकाशः पटुगुप्तौ ।
२१ - ३३ - अजाद्यदन्तम् इति अस्य अवकाशः उष्ट्रखरौ ।
२२ - ३३ - इह उभयम् प्राप्नोति इन्द्राग्नी ।
२३ - ३३ - अजाद्यदन्तम् इति एतत् भवति विप्रतिषेधेन ।
२४ - ३३ - उभाभ्याम् अल्पाच्तरम् ।
२५ - ३३ - उभाभ्याम् अल्पाच्तरम् इति एतत् भवति ।
२६ - ३३ - द्वन्द्वे घि इति अस्य अवकाशः पटुगुप्तौ ।
२७ - ३३ - अल्पाच्तरम् इति अस्य अवकाशः वाग्दृषदौ ।
२८ - ३३ - इह उभयम् प्राप्नोति वागग्नी ।
२९ - ३३ - अल्पाच्तरम् इति एतत् भवति विप्रतिषेधेन ।
३० - ३३ - अजाद्यदन्तम् इति अस्य अवकाशः उष्ट्रखरौ ।
३१ - ३३ - अल्पाच्तरम् इति अस्य अवकाशः सः एव ।
३२ - ३३ - इह उभयम् प्राप्नोति वागिन्द्रौ ।
३३ - ३३ - अल्पाच्तरम् इति एतत् भवति विप्रतिषेधेन ।
१ - ५ - कडारादयः इति वक्तव्यम् इह अपि यथा स्यात् ।
२ - ५ - गडुलशाण्डिल्यः शाण्डिल्यगडुलः खण्डवात्स्यः वत्स्यकण्डः ।
३ - ५ - तत् तर्हि वक्तव्यम् ।
४ - ५ - न वक्तव्यम् ।
५ - ५ - बहुवचननिर्देशात् कडारादयः इति विज्ञास्यते ।
N/A
References : N/A
Last Updated : January 17, 2018
TOP