संस्कृत सूची|संस्कृत स्तोत्र साहित्य|व्याकरणः|व्याकरणमहाभाष्य|अध्याय २|पाद २| खण्ड २६ पाद २ खण्ड २५ खण्ड २६ पाद २ - खण्ड २६ व्याकरणमहाभाष्य म्हणजे पाणिनि लिखीत अष्टाध्यायीतील काही निवडक सूत्रांवर पतञ्जलिने केलेले भाष्य. या ग्रंथाची रचना ई.पू २०० ते ई.पू १४० मध्ये केली गेली, असे मत व्याकरण पंडितांचे आहे. Tags : grammerpaninivyakaranamahabhashyaपाणिनिव्याकरणव्याकरणमहाभाष्य खण्ड २६ Translation - भाषांतर १ - ६५ - द्वित्राः त्रिचतुराः इति कः अयम् समासः ।२ - ६५ - बहुव्रीहिः इति आह ।३ - ६५ - कः अस्य विग्रहः ।४ - ६५ - द्वौ वा त्रयः वा इति ।५ - ६५ - भवेत् यदा बहूनाम् आनयनम् तदा बहुवचनम् उपपन्नम् यदा तु खलु द्वौ आनीयेते तदा न सिध्यति ।६ - ६५ - तदा अपि सिध्यति ।७ - ६५ - कथम् ।८ - ६५ - के चित् तावत् आहुः ॒ अनिर्ज्ञाते अर्थे बहुवचनम् प्रयोक्तव्यम् इति ।९ - ६५ - तत् यथा ॒ कति भवतः पुत्राः ।१० - ६५ - कति भवतः भार्याः इति ।११ - ६५ - अपरः आह ॒ द्वौ वा इति उक्ते त्रयः वा इति गम्यते ।१२ - ६५ - त्रयः वा इति उक्ते द्वौ वा इति गम्यते ।१३ - ६५ - सा एषा पञ्चाधिष्ठाना वाक् ।१४ - ६५ - अत्र युक्तम् बहुवचनम् ।१५ - ६५ - अथ द्विदशाः त्रिदशाः इति कः अयम् समासः ।१६ - ६५ - बहुव्रीहिः इति आह ।१७ - ६५ - कः अस्य विग्रहः ।१८ - ६५ - द्विः दश द्विशशाः इति ।१९ - ६५ - सङ्ख्यासमासे सुजन्तत्वात् सङ्ख्याप्रसिद्धिः ।२० - ६५ - सङ्ख्यासमासे सुजन्तत्वात् सङ्ख्या इति अप्रसिद्धिः ।२१ - ६५ - न हि सुजन्ता सङ्ख्या अस्ति ।२२ - ६५ - एवम् तर्हि एवम् विग्रहः करिष्यते ।२३ - ६५ - द्वौ दशतौ द्विदशाः इति ।२४ - ६५ - एवम् अपि अत्कारान्तत्वात् सङ्ख्या इति अप्रसिद्धिः ।२५ - ६५ - न हि अत्कारान्ता सङ्ख्या अस्ति ।२६ - ६५ - अस्तु तर्हि अयम् एव विग्रहः द्विः दश द्विशशाः इति ।२७ - ६५ - ननु च उक्तम् सङ्ख्यासमासे सुजन्तत्वात् सङ्ख्या इति अप्रसिद्धिः इति ।२८ - ६५ - न वा असुजन्तत्वात् ।२९ - ६५ - न वा एषः दोषः ।३० - ६५ - किम् कारणम् ।३१ - ६५ - असुजन्तत्वात् ।३२ - ६५ - सुजन्ता इति उच्यते ।३३ - ६५ - न च अत्र सुजन्तम् पश्यामः ।३४ - ६५ - किम् पुनः कारणम् वाक्ये सुच् दृश्यते समासे तु न दृश्यते ।३५ - ६५ - सुजभावः अहिहितार्थत्वात् समासे ।३६ - ६५ - समासे सुचः अभावः ।३७ - ६५ - किम् कारणम् ।३८ - ६५ - अहिहितार्थत्वात् ।३९ - ६५ - अभिहितः सुजर्थः समासेन इति कृत्वा समासे सुच् न भविष्यति ।किम् च भोः सुजर्थे इति समासः उच्यते ।४० - ६५ - न खलु सुजर्थे इति उच्यते गम्यते तु सुजर्थः ।४१ - ६५ - कथम् ।४२ - ६५ - यावता सङ्ख्येयः यः सङ्ख्यया सङ्ख्यायते सः च क्रियाभ्यावृत्त्यर्थः ।४३ - ६५ - सः च उक्तः समासेन इति कृत्वा समासे सुच् न भविष्यति ।४४ - ६५ - अशिष्यः सङ्ख्योत्तरपदः सङ्ख्येयवाभिध्यायित्वात् ।४५ - ६५ - अशिष्यः सङ्ख्योत्तरपदः बहुव्रीहिः ।४६ - ६५ - किम् कारणम् ।४७ - ६५ - सङ्ख्येयवाभिध्यायित्वात् ।४८ - ६५ - सङ्ख्येयम् वार्थः च अभिदीयते ।४९ - ६५ - तत्र अन्यपदार्थे इति एव सिद्धम् ।५० - ६५ - भवेत् सिद्धम् अधिकविंशाः अधिकत्रिंशाः इति यत्र एतत् विचार्यते ।५१ - ६५ - विशत्यादयः दशदर्थे वा स्युः परिमाणिनि वा इति ।५२ - ६५ - इदम् तु न सिध्यति अधिकदशाः इति यत्र नियोगतः सङ्ख्येये एव वर्तते ।५३ - ६५ - अथ उपदशाः इति कः अयम् समासः ।५४ - ६५ - बहुव्रीहिः इति आह ।५५ - ६५ - कः अस्य विग्रहः ।५६ - ६५ - दशानाम् समीपे उपदशाः इति ।५७ - ६५ - कस्य पुनः सामीप्यम् अर्थः ।५८ - ६५ - उपस्य ।५९ - ६५ - यदि एवम् न अन्यपदार्थः भवति ।६० - ६५ - तत्र प्रथानिर्दिष्टम् सङ्ख्याग्रहणम् शक्यम् अकर्तुम् ।६१ - ६५ - मत्वर्थे वा पूर्वस्य विधानात् ।६२ - ६५ - अथ वा मत्वर्थे पूर्वः योगः ।६३ - ६५ - अमत्वर्थः अयम् आरम्भः ।६४ - ६५ - कबभावार्थम् वा ।६५ - ६५ - अथ व कप् मा भूत् इति ।१ - ३३ - दिक्समाससहयोगयोः च अन्तरालप्रधानाभिधानात् ।२ - ३३ - दिक्समाससहयोगयोः च अशिष्यः बहुव्रीहिः ।३ - ३३ - किम् कारणम् ।४ - ३३ - अन्तरालप्रधानाभिधानात् ।५ - ३३ - दिक्समासे सहयोगे च अन्तरालम् प्रधानम् च अभिधीयते ।६ - ३३ - तत्र अन्यपदार्थे इति एव सिद्धम् ।७ - ३३ - यदि एवम् दक्षिणपूर्वा दिक् समानाधिकरणलक्षणः पुंवद्भावः न प्राप्नोति ।८ - ३३ - अद्य पुनः इयम् सा एव दक्षिणा सा एव पूर्वा इति कृत्वा समानाधिकरणलक्षणः पुंवद्भावः सिद्धः भवति ।९ - ३३ - न सिध्यति ।१० - ३३ - भाषितपुंस्कस्य पुंवद्भावः ।११ - ३३ - न च एतौ भाषितपुंस्कौ ।१२ - ३३ - ननु च भोः दक्षिणशब्दः पूर्वशब्दः च पुंसि भाष्येते ।१३ - ३३ - समानायाम् आकृतौ यत् भाषितपुंस्कम् ।१४ - ३३ - आकृत्यन्तरे च एतौ भाषितपुंस्कौ ।१५ - ३३ - दक्षिणा पूर्वा इति दिक्शब्दौ ।१६ - ३३ - दक्षिणः पूर्वः इति व्यवस्थाशब्दौ ।१७ - ३३ - यदि पुनः दिक्शब्दाः अपि व्यवस्थाशब्दाः स्युः ।१८ - ३३ - कथम् यानि दिगपदिष्टानि कार्याणि ।१९ - ३३ - यदा दिशः व्यवस्थाम् वक्ष्यन्ति ।२० - ३३ - यदि तरि यः यः दिशि वर्तते सः सः दिक्शब्दः रमणीयादिषु अतिप्रसङ्गः भवति ।२१ - ३३ - रमणीया दिक् शोभना दिक् इति ।२२ - ३३ - अथ मतम् एतत् दिशि दृष्टः दिग्दृष्टः दिग्दिष्टः शब्दः दिक्शब्दः दिशम् यः न व्यभिचरति इति रमणीयादिषु अतिप्रसङ्गः न भवति ।२३ - ३३ - पुंवद्भावः तु प्राप्नोति ।२४ - ३३ - एवम् तर्हि सर्वनाम्नः वृत्तिमात्रे पुंवद्भावः वक्तव्यः दक्षिणोत्तरपूर्वाणाम् इति एवमर्थम् ।२५ - ३३ - एवम् च कृत्वा दिक् दिक्समाससहयोगयोः च अन्तरालप्रधानाभिधानात् इति एव ।२६ - ३३ - ननु च उक्तम् दक्षिणपूर्वा दिक् समानाधिकरणलक्षणः पुंवद्भावः न प्राप्नोति इति ।२७ - ३३ - न एषः दोषः ।२८ - ३३ - सर्वनाम्नः वृत्तिमात्रे पुंवद्भावेन परिहृतम् ।२९ - ३३ - मत्वर्थे वा पूर्वस्य विधानात् ।३० - ३३ - अथ वा मत्वर्थे पूर्वः योगः ।३१ - ३३ - अमत्वर्थः अयम् आरम्भः ।३२ - ३३ - कबभावार्थम् वा ।३३ - ३३ - अथ व कप् मा भूत् इति ।१ - २० - तृतीयासप्तम्यन्तेषु च क्रियाभिधानात् ।२ - २० - तृतीयासप्तम्यन्तेषु च क्रियाभिधानात् अशिष्यः बहुव्रीहिः ।३ - २० - किम् कारणम् ।४ - २० - क्रियाभिधानात् ।५ - २० - क्रिया अभिधीयते ।६ - २० - तत्र अन्यपदार्थे इति एव सिद्धम् ।७ - २० - न वा एकशेषप्रतिषेधार्थम् ।८ - २० - न वा अशिष्यः ।९ - २० - किम् कारणम् ।१० - २० - एकशेषप्रतिषेधार्थम् इदम् वक्तव्यम् ।११ - २० - पूर्वदीर्घार्थम् च ।१२ - २० - पूर्वदीर्घार्थम् च इदम् वक्तव्यम् ।१३ - २० - केशाकेशि ।१४ - २० - स्यात् एतत् प्रयोजनम् यदि नियोगतः अस्य अनेन एव दीर्घत्वम् स्यात् ।१५ - २० - अथ इदानीम् अन्येषाम् अपि दृश्यते इति दीर्घत्वम् न प्रयोजनम् भवति ।१६ - २० - मत्वर्थे वा पूर्वस्य विधानात् ।१७ - २० - अथ व मत्वर्थे पूर्वः योगः ।१८ - २० - अमत्वर्थः अयम् आरम्भः ।१९ - २० - कबभावार्थम् वा ।२० - २० - अथ व कप् मा भूत् इति ।१ - २८ - चार्थे इति उच्यते चः च अव्ययम् ।२ - २८ - तेन समासस्य अव्ययसञ्ज्ञा प्राप्नोति ।३ - २८ - न एषः दोषः ।४ - २८ - पाठेन अव्ययसञ्ज्ञा क्रियते ।५ - २८ - न च समासः तत्र पठ्यते ।६ - २८ - पाठेन अपि अव्ययसञ्ज्ञायाम् सत्याम् अभिदेहेयवत् लिङ्गवचनानि भवन्ति ।७ - २८ - यः च इह अर्थः अभिधीयते न तस्य लिङ्गसङ्ख्याभ्याम् योगः अस्ति ।८ - २८ - न इदम् वाचनिकम् अलिङ्गता असङ्ख्यता व ।९ - २८ - किम् तर्हि ।१० - २८ - स्वाभाविकम् एतत् ।११ - २८ - तत् यथा ॒ समानम् ईहमानानाम् अधीयानानाम् च के चित् अर्थैः युज्यन्ते अपरे न ।१२ - २८ - न च इदानीम् कः चित् अर्थवान् इति कृत्वा सर्वैः अर्थवद्भिः शक्यम् भवितुम् कः चित् अनर्थकः इति कृत्वा सर्वैः अनर्थकैः ।१३ - २८ - तत्र किम् अस्माभिः शक्यम् कर्तुम् ।१४ - २८ - यत् प्राक् समासात् चार्थस्य लिङ्गसङ्ख्याभ्याम् योगः न अस्ति समासे च भवति स्वाभाविकम् एतत् ।१५ - २८ - अथ वा आश्रयतः लिङ्गवचनानि भविष्यन्ति ।१६ - २८ - गुणवचनानाम् हि शब्दानाम् आश्रयतः लिङ्गवचनानि भवन्ति ।१७ - २८ - तत् यथा शुक्लम् वस्त्रम् , शुक्ला शाटी शुक्लः कम्बलः , शुक्लौ कम्बलौ शुक्लाः कम्बलाः इति ।१८ - २८ - यत् असौ द्रव्यम् श्रितः भवति गुणः तस्य यत् लिङ्गम् वचनम् च तत् गुणस्य अपि भवति ।१९ - २८ - एवम् इह अपि यत् असौ द्रव्यम् श्रितः भवति समासः तस्य यत् लिङ्गम् वचनम् च तत् समासस्य अपि भविष्यति ।२० - २८ - अथ इह कस्मात् न भवति ।२१ - २८ - याज्ञिकः च अयम् वैयाकरणः च ।२२ - २८ - कठः च अयम् बह्वृचः च ।२३ - २८ - औक्थिकः च अयम् मीमांसकः च इति ।२४ - २८ - शेषः इति वर्तते ।२५ - २८ - अशेषत्वात् न भविष्यति ।२६ - २८ - यदि शेषः इति वर्तते उपास्नातम् स्थूलसिक्तम् तूष्णीङ्गङ्गम् महाह्रदम् द्रोणम् चेत् अशकः गन्तुम् मा त्वा ताप्ताम् कृताकृते इति एतत् न सिध्यति ।२७ - २८ - न एषः दोषः ।२८ - २८ - अन्यत् हि कृतम् अन्यत् अकृतम् ।१ - १३४ - चार्थे द्वन्द्ववचने असमासे अपि चार्थसम्प्रत्ययात् अनिष्टप्रसङ्गः ।२ - १३४ - चार्थे द्वन्द्ववचने असमासे अपि चार्थसम्प्रत्ययात् अनिष्टम् प्राप्नोति ।३ - १३४ - अहः अहः नयमानः गाम् अश्वम् पुरुषम् पशुम् वैवस्वतः न तृप्यति सुरायाः इव दुर्मदी इन्द्रः त्वष्टा वरुणः वायुः आदित्यः इति ।४ - १३४ - सिद्धम् तु युगपदधिकरणवचने द्वन्द्ववचनात् ।५ - १३४ - सिद्धम् एतत् ।६ - १३४ - कथम् ।७ - १३४ - युगपदधिकरणवचने द्वन्द्वः भवति इति वक्तव्यम् ।८ - १३४ - तत्र पुंवद्भावप्रतिषेधः ।९ - १३४ - तत्र एतस्मिन् लक्षणे पुंवद्भावस्य प्रतिषेधः वक्तव्यः ।१० - १३४ - पट्वीमृद्व्यौ ।११ - १३४ - समानाधिकरणलक्षणः पुंवद्भावः प्राप्नोति ।१२ - १३४ - विप्रतिषिद्धेषु च अनुपपत्तिः ।१३ - १३४ - विप्रतिषिद्धेषु युगपदधिकरणवचतायाः अनुपपत्तिः ।१४ - १३४ - शीतोष्णे सुखदुःखे जननमरणे ।१५ - १३४ - किम् कारणम् ।१६ - १३४ - सुखप्रतिघातेन हि दुःखम् दुःकप्रतिघातेन च सुखम् ।१७ - १३४ - यत् तावत् उच्यते तत्र पुंवद्भावप्रतिषेधः इति ।१८ - १३४ - इदम् तावत् अयम् प्रष्टव्यः ॒ अथ इह कस्मात् न भवति ।१९ - १३४ - दर्शनीयायाः माता दर्शनीयामाता इति ।२० - १३४ - अथ मतम् एतत् प्राक् समासात् यत्र सामानाधिकरण्यम् तत्र पुंवद्भावः भवति इति इह अपि न दोषः भवति ।२१ - १३४ - यद् अपि उच्यते विप्रतिषिद्धेषु च अनुपपत्तिः इति ।२२ - १३४ - सर्वे एव हि शब्दाः विप्रतिषिद्धाः ।२३ - १३४ - इह अपि प्लक्षन्यग्रोधौ इति प्लक्षशब्दः प्रयुज्यमानः प्लक्षार्थम् सम्प्रत्याययति न्यग्रोधार्थम् निवर्तयति ।२४ - १३४ - न्यग्रोधशब्दः प्रयुज्यमानः न्यग्रोधार्थम् सम्प्रत्याययति प्लक्षार्थम् निवर्तयति ।२५ - १३४ - अत्र चेत् युक्ता युगपत् अधिकरण्वचनता दृश्यते इह अपि युक्ता दृश्यताम् ।२६ - १३४ - एवम् अपि शब्दपौर्वापर्यप्रयोगात् अर्थपौर्वापर्याभिधानम् ।२७ - १३४ - शब्दपौर्वापर्यप्रयोगात् अर्थपौर्वापर्याभिधानम् प्राप्नोति ।२८ - १३४ - अतः किम् ।२९ - १३४ - युगपतधिकरणवचनतायाः अनुपपत्तिः ।३० - १३४ - प्लक्षन्यग्रोधौ प्लक्षन्यग्रोधाः इति ।३१ - १३४ - यथ एव हि शब्दानाम् पौर्वापर्यम् तद्वत् अर्थानाम् अपि भवितव्यम् ।३२ - १३४ - शब्दपौर्वापर्यप्रयोगात् अर्थपौर्वापर्याभिधानम् इति चेत् द्विवचनबहुवचनानुपपत्तिः ।३३ - १३४ - शब्दपौर्वापर्यप्रयोगात् अर्थपौर्वापर्याभिधानम् इति चेत् द्विवचनबहुवचनानुपपत्तिः ॒ प्लक्षन्यग्रोधौ प्लक्षन्यग्रोधाः इति ।३४ - १३४ - प्लक्षशब्दः सार्थकः निवृत्तः न्यग्रोधशब्दः उपस्थितः एकार्थः तस्य एकार्थत्वात् एकवचनम् एव प्राप्नोति ।३५ - १३४ - विग्रहे तु युगपद्वचनम् ज्ञापकम् युगपद्वचनस्य ।३६ - १३४ - विग्रहे खलु अपि युगपद्वचनता दृश्यते ॒ द्यवा ह क्षमा ।३७ - १३४ - द्यवा चित् अस्मै पृथिवी नमेते इति ।३८ - १३४ - किम् एतत् ।३९ - १३४ - युगपदधिकरणवचनतायाः उपोद्बलकम् ।४० - १३४ - विग्रहे किल नाम युगपदधिकरणवचनता स्यात् किम् पुनः समासे ।४१ - १३४ - समुदायात् सिद्धम् ।४२ - १३४ - समुदायात् सिद्धम् एतत् ।४३ - १३४ - किम् एतत् समुदायात् सिद्धम् इति ।४४ - १३४ - द्विवचनबहुवचनप्रसिद्धिः इति चोदितम् ।४५ - १३४ - तस्य अयम् परिहारः ।४६ - १३४ - समुदायात् सिद्धम् इति चेत् न एकार्थत्वात् समुदायस्य ।४७ - १३४ - समुदायात् सिद्धम् इति चेत् तत् न ।४८ - १३४ - किम् कारणम् ।४९ - १३४ - एकार्थत्वात् समुदायस्य ।५० - १३४ - एकार्थाः हि समुदायाः भवन्ति ।५१ - १३४ - तत् यथा शतम् यूथम् वनम् इति ।५२ - १३४ - न ऐकार्थ्यम् ।५३ - १३४ - न अयम् एकार्थः ।५४ - १३४ - किम् तर्हि ।५५ - १३४ - द्व्यर्थः बह्वर्थः च ।५६ - १३४ - प्लक्षः अपि द्व्यर्थः न्यग्रोधः अपि द्व्यर्थः ।५७ - १३४ - यदि तर्हि प्लक्षः अपि द्व्यर्थः न्यग्रोधः अपि द्व्यर्थः तयोः अनेकार्थत्वात् बहुवचनप्रसङ्गः ।५८ - १३४ - तयोः अनेकार्थत्वात् बहुषु बहुवचनम् इति बहुवचनम् प्राप्नोति ।५९ - १३४ - तयोः अनेकार्थत्वात् बहुवचनप्रसङ्गः इति चेत् न बहुत्वाभावात् ।६० - १३४ - तयोः अनेकार्थत्वात् बहुवचनप्रसङ्गः इति चेत् तत् न ।६१ - १३४ - किम् कारणम् ।६२ - १३४ - बहुत्वाभावात् ।६३ - १३४ - न अत्र बहुत्वम् अस्ति ।६४ - १३४ - किम् उच्यते बहुत्वाभावात् इति यावता इदानीम् एव उक्तम् प्लक्षः अपि द्व्यर्थः न्यग्रोधः अपि द्व्यर्थः इति ।६५ - १३४ - याभ्याम् एव अत्र एकः द्व्यर्थः ताभ्याम् एव अपरः अपि ।६६ - १३४ - यदि एवम् अन्यवाचकेन अन्यस्य वचनानुपपत्तिः ।६७ - १३४ - अन्यवाचकेन शब्देन अन्यस्य वचनम् न उपपद्यते ।६८ - १३४ - अन्यवाचकेन अन्यस्य वचनानुपपत्तिः इति चेत् प्लक्षस्य न्यग्रोधत्वात् न्यग्रोधस्य प्लक्षत्वात् स्वशब्देन अभिधानम् ।६९ - १३४ - अन्यवाचकेन अन्यस्य वचनानुपपत्तिः इति चेत् उच्यते तत् न ।७० - १३४ - किम् कारणम् ।७१ - १३४ - प्लक्षस्य न्यग्रोधत्वात् न्यग्रोधस्य प्लक्षत्वात् स्वशब्देन अभिधानम् ।७२ - १३४ - प्लक्षः अपि न्यग्रोधः न्यग्रोधः अपि प्लक्षः ।७३ - १३४ - कथम् पुनः प्लक्षः अपि न्यग्रोधः न्यग्रोधः अपि प्लक्षः स्यात् यावता कारणात् द्रव्ये शब्दनिवेशः ।७४ - १३४ - कारणात् द्रव्ये शब्दनिवेशः इति चेत् तुल्यकारणत्वात् सिद्धम् ।७५ - १३४ - कारणात् द्रव्ये शब्दनिवेशः इति चेत् एवम् उच्यते ॒ तत् न तुल्यकारणत्वात् सिद्धम् ।७६ - १३४ - तुल्यम् हि कारणम् ।७७ - १३४ - यदि तावत् प्रक्षरति इति प्लक्षः स्यान् न्यग्रोधे अपि एतत् भवति ।७८ - १३४ - तथा यदि न्यक् रोहति इति न्यग्रोधः प्लक्षे अपि एतत् भवति ।७९ - १३४ - दर्शनम् वै हेतुः न च न्यग्रोधे प्लक्षशब्दः दृश्यते ।८० - १३४ - दर्शनम् हेतुः इति चेत् तुल्यम् ।८१ - १३४ - दर्शनम् हेतुः इति चेत् तुल्यम् एतत् भवति ।८२ - १३४ - प्लक्षे अपि न्यग्रोधशब्दः दृश्यताम् ।८३ - १३४ - तुल्यम् हि कारणम् ।८४ - १३४ - न वै लोके एषः सम्प्रत्ययः भवति ।८५ - १३४ - न हि प्लक्षः आनीयताम् इति उक्ते न्य्रग्रोधः आनीयते ।८६ - १३४ - तद्विषयम् च ।८७ - १३४ - तद्विषयम् च एतत् द्रष्टव्यम् प्लक्षस्य न्यग्रोधत्वम् ।८८ - १३४ - किंविषयम् ।८९ - १३४ - द्वन्द्वविषयम् ।९० - १३४ - युक्तम् पुनः यत् नियतविषयाः नाम शब्दाः स्युः ।९१ - १३४ - बाढम् युक्तम् ।९२ - १३४ - अन्यत्र अपि तद्विषयदर्शनात् ।९३ - १३४ - अन्यत्र अपि हि नियतविषयाः शब्दाः दृश्यन्ते ।९४ - १३४ - तत् यथा ॒ समाने रक्ते वर्णे गौः लोहितः इति भवति आस्वः शोणः इति ।९५ - १३४ - समाने च काले वर्णे गौः कृष्णः इति भवति अश्वः हेमः इति ।९६ - १३४ - समाने च शुक्ले वर्णे गौः श्वेतः इति भवति अश्वः कर्कः इति ।९७ - १३४ - यदि तर्हि प्लक्षः अपि न्यग्रओधः न्यग्रोधः अपि प्लक्षः एकेन उक्तत्वात् अपरस्य प्रयोगः अनुपपन्नः ।९८ - १३४ - एकेन उक्तत्वात् तस्य अर्थस्य अपरस्य प्रयोगः न उपपद्यते ।९९ - १३४ - प्लक्षेण न्यग्रोधस्य न्यग्रोधप्रयोगः ।१०० - १३४ - एकेन उक्तत्वात् अपरस्य प्रयोगः अनुपपन्नः इति चेत् अनुक्तत्वात् प्लक्षेण न्यग्रोधस्य न्यग्रोधप्रयोगः । एकेन उक्तत्वात् अपरस्य प्रयोगः अनुपपन्नः इति चेत् तत् न ।१०१ - १३४ - किम् कारणम् ।१०२ - १३४ - अनुक्तत्वात् प्लक्षेण न्यग्रोधस्य न्यग्रोधप्रयोगः ।१०३ - १३४ - अनुक्तः प्लक्षेण न्यग्रोधार्थः इति कृत्वा न्यग्रोधशब्दः प्रयुज्यते ।१०४ - १३४ - कथम् अनुक्तः यावता इदानीम् एव उक्तम् प्लक्षः अपि न्यग्रोधः न्यग्रोधः अपि प्लक्षः इति ।१०५ - १३४ - सहभूतौ एतौ अन्योन्यस्य अर्थम् आहतुः न पृथग्भूतौ ।१०६ - १३४ - किम् पुनः कारणम् सहभूतौ एतौ अन्योन्यस्य अर्थम् आहतुः न पृथग्भूतौ ।१०७ - १३४ - अभिधानम् पुनः स्वाभाविकम् ।१०८ - १३४ - स्वाभाविकम् अभिधानम् ।१०९ - १३४ - अथ वा इह कौ चित् प्राथमकल्पिकौ प्लक्षन्यग्रोधौ कौ चित् क्रियया वा गुणेन व प्लक्षः इव अयम् प्लक्षः , न्यग्रोधः इव अयम् न्यग्रोधः इति ।११० - १३४ - तत्र प्लक्षौ इति उक्ते सन्देहः स्यात् ॒ किम् इमौ प्लक्षौ आहोस्वित् प्लक्षन्यग्रोधौ इति ।१११ - १३४ - तत्र असन्देहार्थम् न्यग्रोधशब्दः प्रयुज्यते ।११२ - १३४ - इयम् युगपदधिकरणवचनत नाम दुःखा च दुरुपपादा च ।११३ - १३४ - यत् च अपि अस्या निबन्धनम् उक्तम् द्यावा ह क्षामा इति तत् अपि छान्दसम् ।११४ - १३४ - तत्र सुपाम् सुपः भवन्ति इति एव सिद्धम् ।११५ - १३४ - सूत्रम् च भिद्यते ।११६ - १३४ - यथान्यासम् एव अस्तु ।११७ - १३४ - ननु च उक्तम् चार्थे द्वन्द्ववचने असमासे अपि चार्थसम्प्रत्ययात् अनिष्टप्रसङ्गः इति ।११८ - १३४ - न एषः दोषः ।११९ - १३४ - इह चे द्वन्द्वे इति इयता सिद्धम् ।१२० - १३४ - कथम् पुनः चे नाम वृत्तिः स्यात् ।१२१ - १३४ - शब्दः हि एषः ।१२२ - १३४ - शब्दे असम्भवात् अर्थे कार्यम् विज्ञास्यते ।१२३ - १३४ - सः अयम् एवम् सिद्धे सति यत् अर्थग्रहणम् करोति तस्य एतत् प्रयोजनम् एवम् यथा विज्ञायेत चेन कृतः अर्तः चार्थः इति ।१२४ - १३४ - कः पुनः चेन कृतः अर्थः ।१२५ - १३४ - समुच्चयः अन्वाचयः इतरेतरयोगः समाहारः इति ।१२६ - १३४ - समुच्चयः ।१२७ - १३४ - प्लक्षः च इति उक्ते गम्यते एतत् न्यग्रोधः च इति ।१२८ - १३४ - अन्वाचयः ।१२९ - १३४ - प्लक्षः च इति उक्ते गम्यते एतत् सापएक्षः अयम् प्रयुज्यते इति ।१३० - १३४ - इतरेतरयोगः ।१३१ - १३४ - प्लक्षः च न्यग्रोधः च इति उक्ते गम्यते एतत् प्लक्षः अपि न्यग्रोधसहायः न्यग्रोधः अपि प्लक्षसहायः इति ।१३२ - १३४ - समाहारे अपि क्रियते प्लक्षन्यग्रोधम् इति ।१३३ - १३४ - तत्र अयम् अपि अर्थः द्वन्द्वैकवद्भावः न पठितव्यः भवति ।१३४ - १३४ - समाहारस्य एकत्वात् एव सिद्धम् ।१ - १९ - एकादश द्वादश इति कः अयम् समासः ।२ - १९ - एकादीनाम् दशादिभिः द्वन्द्वः ।३ - १९ - एकादीनाम् दशादिभिः द्वन्द्वः समासः ।४ - १९ - एकादीनाम् दशादिभिः द्वन्द्वः इति चेत् विंशत्यादिषु वचनप्रसङ्गः ।५ - १९ - एकादीनाम् दशादिभिः द्वन्द्वः इति चेत् विंशत्यादिषु वचनम् प्राप्नोति ।६ - १९ - एकविंशतिः द्वाविंशतिः ।७ - १९ - सिद्धम् तु अधिकान्ता सङ्ख्य सङ्ख्यया समानाधिकरणाधिकारे अधिकलोपः च । सिद्धम् एतत् ।८ - १९ - कथम् ।९ - १९ - समानाधिकरणाधिकारे वक्तव्यम् अधिकान्ता सङ्ख्य सङ्ख्यया सह समस्यते अधिकशब्दस्य च लोपः भवति इति ।१० - १९ - एकाधिका विंशतिः एकविंशतिः द्व्यधिका विंशतिः द्वाविंशतिः ।११ - १९ - यदि समानाधिकरणः स्वरः न सिध्यति ।१२ - १९ - यत् हि तत् सङ्ख्या पूर्वपदम् प्रकृतिस्वरम् भवति इति द्वन्द्वे इति तत् ।१३ - १९ - किम् पुनः कारणम् द्वन्द्वे इति एवम् तत् ।१४ - १९ - इह मा भूत् शतसहस्रम् इति ।१५ - १९ - अस्तु तर्हि द्वन्द्वः ।१६ - १९ - ननु च उक्तम् एकादीनाम् दशादिभिः द्वन्द्वः इति चेत् विंशत्यादिषु वचनप्रसङ्गः इति. न एषः दोषः ।१७ - १९ - सर्वः द्वन्द्वः विभाषा एकवत् भवति ।१८ - १९ - यदा तर्हि एकवचनम् तदा नपुंसकलिङ्गम् प्राप्नोति ।१९ - १९ - लिङ्गम् अशिष्यम् लोकाश्रयत्वात् लिङ्गस्य ।१ - १५ - किमर्थम् इदम् उच्यते ।२ - १५ - उपसर्जनस्य पूर्ववचनम् परप्रयोगनिवृत्त्यर्थम् ।३ - १५ - उपसर्जनस्य पूर्ववचनम् क्रियते परप्रयोगः मा भूत् इति ।४ - १५ - न वा अनिष्टदर्शनात् ।५ - १५ - न वा एतत् प्रयोजनम् अस्ति ।६ - १५ - किम् कारणम् ।७ - १५ - अनिष्टदर्शनात् ।८ - १५ - न हि किम् चित् अनिष्टम् दृश्यते ।९ - १५ - न हि कः चित् राजपुरुषः इति प्रयोक्तव्ये पुरुषराजः इति प्रयुङ्क्ते ।१० - १५ - यदि च अनिष्टम् द्र्श्येते ततः यत्नार्थम् स्यात् ।११ - १५ - अथ यत्र द्वे षष्ठ्यन्ते भवतः कस्मात् तत्र प्रधानस्य पूर्वनिपातः न भवति ।१२ - १५ - राज्ञः पुरुषस्य राजपुरुषस्य इति ।१३ - १५ - षष्ठ्यन्तयोः समासे अर्थाभेदात् प्रधानस्य अपूर्वनिपातः ।१४ - १५ - षष्ठ्यन्तयोः समासे अर्थाभेदात् प्रधानस्य पूर्वनिपातः न भविष्यति ।१५ - १५ - एवम् न च इदम् अकृतम् भवति उपसर्जनम् पूर्वम् इति अर्थः च अभिन्नः इति कृत्वा प्रधानस्य पूर्वनिपातः न भविष्यति ।१ - २५ - किम् अयम् तन्त्रम् तरनिर्देशः आहोस्वित् अतन्त्रम् ।२ - २५ - किम् च अतः ।३ - २५ - यदि तन्त्रम् द्वयोः नियमः बहुषु अनियमः ।४ - २५ - तत्र कः दोषः ।५ - २५ - शङ्खदुन्दुभिवीङानाम् इति न सिध्यति ।६ - २५ - दुन्दुभिशब्दस्य अपि पूर्व्निपातः प्राप्नोति ।७ - २५ - अथ अतन्त्रम् मृदङ्गशङ्खतूणवाः पृथक् नदन्ति संसदि. प्रासादे धनपतिरामकेशवानाम् इति एतत् न सिध्यति ।८ - २५ - यथा इच्छसि तथा अस्तु ।९ - २५ - अस्तु तावत् तन्त्रम् ।१० - २५ - ननु च उक्तम् द्वयोः नियमः बहुषु अनियमः इति ।११ - २५ - तत्र शङ्खदुन्दुभिवीङानाम् इति न सिध्यति ।१२ - २५ - दुन्दुभिशब्दस्य अपि पूर्व्निपातः प्राप्नोति इति ।१३ - २५ - न एषः दोषः ।१४ - २५ - यत् एतत् अल्पाच्तरम् इति तत् अल्पाच् इति वक्ष्यामि ।१५ - २५ - अथ वा पुनः अस्तु अतन्त्रम् ।१६ - २५ - ननु च उक्तम् मृदङ्गशङ्खतूणवाः पृथक् नदन्ति संसदि. प्रासादे धनपतिरामकेशवानाम् इति एतत् न सिध्यति इति ।१७ - २५ - अतन्त्रे तरनिर्देशे शङ्खतूणवयोः मृदङ्गेन समासः ।१८ - २५ - अतन्त्रे तरनिर्देशे शङ्खतूणवयोः मृदङ्गेन समासः करिष्यते ।१९ - २५ - शङ्खः च तूणवः च शण्खतूणवौ ।२० - २५ - मृदङ्गः च शण्खतूणवौ च मृदङ्गशङ्खतूणवाः ।२१ - २५ - रामः च केशवः च रामकेशवौ धनपतिः च रामकेशवौ च धनपतिरामकेशवाः तेषाम् धनपतिरामकेशवानाम् इति ।२२ - २५ - अथ यत्र बहूनाम् पूर्वनिपातप्रसङ्गः किम् तत्र एकस्य नियमः भवति अहोस्वित् अविशेषेण ।२३ - २५ - अनेकप्राप्तौ एकस्य नियमः अनियमः शेषेषु ।२४ - २५ - अनेकप्राप्तौ एकस्य नियमः अनियमः शेषेषु ।२५ - २५ - पटुमृदुशुक्लाः पटुशुक्लमृदवः इति ।१ - २४ - ऋतुनक्षत्राणाम् आनुपूर्व्येण समानाक्षराणाम् ।२ - २४ - ऋतुनक्षत्राणाम् आनुपूर्व्येण समानाक्षराणाम् पूर्वनिपातः वक्तव्यः ।३ - २४ - शिशिरवसन्तौ उदगयनस्थौ कृत्तिकारोहिण्यः ।४ - २४ - अभ्यर्हितम् ।५ - २४ - अभ्यर्हितम् पूर्वम् निपतति इति वक्तव्यम् ।६ - २४ - मातापितरौ श्रद्धामेधे ।७ - २४ - लघ्वक्षरम् ।८ - २४ - लघ्वक्षरम् पूर्वम् निपतति इति वक्तव्यम् ।९ - २४ - कुशकाशम् शरशीर्यम् ।१० - २४ - अपरः आह ॒ सर्वत्र एव अभ्यर्हितम् पूर्वम् निपतति इति वक्तव्यम् ।११ - २४ - लघ्वक्षरात् अपि इति ।१२ - २४ - श्रद्धातपसी दीक्षातपसी ।१३ - २४ - वर्णानाम् आनुपूर्व्येण ।१४ - २४ - वर्णानाम् आनुपूर्व्येण पूर्वनिपातः भवति इति वक्तव्यम् ।१५ - २४ - ब्राह्मणक्षत्रियविट्शूद्राः ।१६ - २४ - भ्रातुः च ज्यायसः ।१७ - २४ - भ्रातुः च ज्यायसः पूर्वनिपातः भवति इति वक्तव्यम् ।१८ - २४ - युधिष्ठिरार्जुनौ ।१९ - २४ - सङ्ख्यायाः अल्पीयसः ।२० - २४ - सङ्ख्यायाः अल्पीयसः पूर्वनिपातः वक्तव्यः ।२१ - २४ - एकादश द्वादश ।२२ - २४ - धर्मादिषु उभयम् ।२३ - २४ - धर्मादिषु उभयम् पूर्वम् निपतति इति वक्तव्यम् ।२४ - २४ - धर्मार्थौ अर्थधर्मौ कामार्थौ अर्थकामौ गुणवृद्धी वृद्धिगुणौ आद्यन्तौ अन्तादी१ - १० - बहुव्रीहौ सर्वनामसङ्ख्ययोः उपसङ्ख्यानम् ।२ - १० - बहुव्रीहौ सर्वनामसङ्ख्ययोः उपसङ्ख्यानम् कर्तव्यम् ।३ - १० - विश्वदेवः विश्वयसाः द्विपुत्रः द्विभार्यः ।४ - १० - अथ यत्र सङ्ख्यासर्वनाम्नोः एव बहुर्वीहिः कस्य तत्र पूर्वनिपातेन भवितव्यम् ।५ - १० - परत्वात् सङ्ख्यायाः ॒ द्व्यन्याय त्र्यन्याय ।६ - १० - वा प्रियस्य ।७ - १० - वा प्रियस्य पूर्वनिपातः वक्तव्यः ।८ - १० - प्रियगुडः गुडप्रियः ।९ - १० - सप्तम्याः पूर्वनिपाते गड्वादिभ्यः परवचनम् । सप्तम्याः पूर्वनिपाते गड्वादिभ्यः परा सप्तमीभवति इति वक्तव्यम् ।१० - १० - गडुकण्ठः गडुशिराः ।१ - ३३ - निष्ठायाः पूर्वनिपाते जातिकालसुखादिभ्यः परवचनम् ।२ - ३३ - निष्ठायाः पूर्वनिपाते जातिकालसुखादिभ्यः परा निष्ठा भवति इति वक्तव्यम् ।३ - ३३ - शार्ङ्गजग्धी पलाण्डुभक्षिती मासजाता संवत्सरजाता सुखजाता दुःखजाता ।४ - ३३ - न वा उत्तरपदस्य अन्तोदात्तवचनम् ज्ञापकम् परभावस्य ।५ - ३३ - न वा वक्तव्यम् ।६ - ३३ - किम् कारणम् ।७ - ३३ - उत्तरपदस्य अन्तोदात्तवचनम् ज्ञापकम् परभावस्य ।८ - ३३ - यत् अयम् जातिकालसुखादिभ्यः परस्याः निष्ठायाः उत्तरपदस्य अन्तोदात्तत्वम् शास्ति तत् ज्ञापयति आचार्यः परा अत्र निष्ठा भवति इति ।९ - ३३ - प्रतिषेधे तु पूर्वनिपातप्रसङ्गः तस्मात् राजदन्तादिषु पाठः ।१० - ३३ - प्रतिषेधे तु पूर्वनिपातः प्राप्नोति ।११ - ३३ - अकृतमितप्रतिपन्नाः इति ।१२ - ३३ - तस्मात् राजदन्तादिषु पाठः कर्तव्यः ।१३ - ३३ - न कर्तव्यः ।१४ - ३३ - अत्र अपि प्रतिषेधवचनम् ज्ञापकम् परा निष्ठा भवति इति ।१५ - ३३ - प्रहरणार्थेभ्यः च ।१६ - ३३ - प्रहरणार्थेभ्यः च परे निष्ठासप्तम्यौ भवतः इति वक्तव्यम् ।१७ - ३३ - अस्युद्यतः मुसलोद्यतः असिपाणिः दण्डपाणिः ।१८ - ३३ - द्वन्द्वे घि अजाद्यन्तम् विप्रतिषेधेन ।१९ - ३३ - द्वन्द्वे घि इति अस्मात् अजाद्यन्तम् इति एतत् भवति विप्रतिषेधेन ।२० - ३३ - द्वन्द्वे घि इति अस्य अवकाशः पटुगुप्तौ ।२१ - ३३ - अजाद्यदन्तम् इति अस्य अवकाशः उष्ट्रखरौ ।२२ - ३३ - इह उभयम् प्राप्नोति इन्द्राग्नी ।२३ - ३३ - अजाद्यदन्तम् इति एतत् भवति विप्रतिषेधेन ।२४ - ३३ - उभाभ्याम् अल्पाच्तरम् ।२५ - ३३ - उभाभ्याम् अल्पाच्तरम् इति एतत् भवति ।२६ - ३३ - द्वन्द्वे घि इति अस्य अवकाशः पटुगुप्तौ ।२७ - ३३ - अल्पाच्तरम् इति अस्य अवकाशः वाग्दृषदौ ।२८ - ३३ - इह उभयम् प्राप्नोति वागग्नी ।२९ - ३३ - अल्पाच्तरम् इति एतत् भवति विप्रतिषेधेन ।३० - ३३ - अजाद्यदन्तम् इति अस्य अवकाशः उष्ट्रखरौ ।३१ - ३३ - अल्पाच्तरम् इति अस्य अवकाशः सः एव ।३२ - ३३ - इह उभयम् प्राप्नोति वागिन्द्रौ ।३३ - ३३ - अल्पाच्तरम् इति एतत् भवति विप्रतिषेधेन ।१ - ५ - कडारादयः इति वक्तव्यम् इह अपि यथा स्यात् ।२ - ५ - गडुलशाण्डिल्यः शाण्डिल्यगडुलः खण्डवात्स्यः वत्स्यकण्डः ।३ - ५ - तत् तर्हि वक्तव्यम् ।४ - ५ - न वक्तव्यम् ।५ - ५ - बहुवचननिर्देशात् कडारादयः इति विज्ञास्यते । N/A References : N/A Last Updated : January 17, 2018 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP