संस्कृत सूची|संस्कृत साहित्य|व्याकरणः|व्याकरणमहाभाष्य|अध्याय २|पाद २| खण्ड २५ पाद २ खण्ड २५ खण्ड २६ पाद २ - खण्ड २५ व्याकरणमहाभाष्य म्हणजे पाणिनि लिखीत अष्टाध्यायीतील काही निवडक सूत्रांवर पतञ्जलिने केलेले भाष्य. या ग्रंथाची रचना ई.पू २०० ते ई.पू १४० मध्ये केली गेली, असे मत व्याकरण पंडितांचे आहे. Tags : grammerpaninivyakaranamahabhashyaपाणिनिव्याकरणव्याकरणमहाभाष्य खण्ड २५ Translation - भाषांतर १ - १३ - इह कस्मात् न भवति ॒ ग्रामार्धः , नगरार्धः इति ।२ - १३ - अर्धशब्दस्य नपुंसकलिङ्गस्य इदम् ग्रहणम् पुंलिङ्गः च अयम् अर्धशब्दः ।३ - १३ - क्व पुनः अयम् नपुंसकलिङ्गः क्व पुंलिङ्गः ।४ - १३ - समप्रविभागे नपुंसकलिङ्गः , अवयववाची पुंलिङ्गः ।५ - १३ - इह कस्मात् न भवति ॒ अर्धम् पिप्पलीनाम् इति ।६ - १३ - न वा भवति अर्धपिप्पल्यः इति ।७ - १३ - भवति यदा खण्डसमुच्चयः ॒ अर्धपिप्पली च अर्धपिप्पली च अर्धपिप्पली च अर्धपिप्पल्यः इति ।८ - १३ - यद तु एतत् वाक्यम् भवति अर्धम् पिप्पलीनाम् इति तदा न भवितव्यम् ।९ - १३ - तदा कस्मात् न भवति ।१० - १३ - एकाद्खिकरणे इति वर्तते ।११ - १३ - न तर्हि इदानीम् इदम् भवति ॒ अर्धराशिः इति ।१२ - १३ - भवति ।१३ - १३ - एकम् एतत् अधिकरणम् यः असौ राशिः नाम ।१ - ६४ - अन्यतरस्याङ्ग्रहणम् किमर्थम् ।२ - ६४ - अन्यतरस्याम् समासः यथा स्यात् ।३ - ६४ - समासेन मुक्ते वाक्यम् अपि यथा स्यात् ।४ - ६४ - द्वितीयम् भिक्षायाः इति ।५ - ६४ - न एतत् अस्ति प्रयोजनम् ।६ - ६४ - प्रकृता महाविभाषा ।७ - ६४ - तया वाक्यम् अपि भविष्यति ।८ - ६४ - इदम् तर्हि प्रयोजनम् ।९ - ६४ - एकदेशिसमासेन मुक्ते षष्ठीसमासः अपि यथा स्यात् ।१० - ६४ - भिक्षाद्वितीयम् इति ।११ - ६४ - एतत् अपि न अस्ति प्रयोजनम् ।१२ - ६४ - अयम् अपि विभाषा षष्ठीसमासः अपि ।१३ - ६४ - तौ उभौ वचनात् भविष्यतः ।१४ - ६४ - अतः उत्तरम् पठति ।१५ - ६४ - द्वितीयादीनाम् विभाषाप्रकरणे विभाषावचनम् ज्ञापकम् अवयवविधाने सामान्यविधानाभावस्य ।१६ - ६४ - द्वितीयादीनाम् विभाषाप्रकरणे विभाषावचनम् क्रियते ज्ञापार्थम् ।१७ - ६४ - किम् ज्ञाप्यते ।१८ - ६४ - एतत् ज्ञापयति आचार्यः ।१९ - ६४ - अवयवविधौ सामान्यविधिः न भवति इति ।२० - ६४ - किम् एतस्य ज्ञापने प्रयोजनम् ।२१ - ६४ - भिनत्ति छिनत्ति ।२२ - ६४ - श्नमि कृते शप् न भवति ।२३ - ६४ - न एतत् अस्ति प्रयोजनम् ।२४ - ६४ - शबादेशाः श्यनादयः करिष्यन्ते ।२५ - ६४ - तत् तर्हि शपः ग्रहणम् कर्तव्यम् ।२६ - ६४ - न कर्तव्यम् ।प्रकृतम् अनुवर्तते ।२७ - ६४ - क्व प्रकृतम् ।२८ - ६४ - कर्तरि शप् इति ।२९ - ६४ - तत् वै प्रथमानिर्दिष्टम् षष्ठीनिर्दिष्टेन च इह अर्थः ।३० - ६४ - रुधादिभ्यः इति एषा पञ्चमी शप् इति प्रथमायाः षष्थीम् प्रकल्पयिष्यति तस्मात् इति उत्तरस्य इति ।३१ - ६४ - प्रत्ययविधिः अयम् न च प्रत्ययविधौ पञ्चम्यः प्रकल्पिकाः भवन्ति ।३२ - ६४ - न अयम् प्रत्ययविधिः ।३३ - ६४ - विहितः प्रत्ययः प्रकृतः च अनुवर्तते ।३४ - ६४ - एवम् तर्हि ज्ञापयति आचार्यः यत्र उत्सर्गापवादम् विभाषा तत्र अपवादेन मुक्ते उत्सर्गः न भवति इति ।३५ - ६४ - किम् एतस्य ज्ञापने प्रयोजनम् ।३६ - ६४ - दिक्पूर्वपदात् ङीप् ।३७ - ६४ - प्राङ्मुखी प्राङ्मुखा प्रत्यङ्मुखी प्रत्यङ्मुखा ।३८ - ६४ - ङीप मुक्ते ङीष् न भवति ।३९ - ६४ - न एतत् अस्ति प्रयोजनम् ।४० - ६४ - वक्ष्यति एतत् ।४१ - ६४ - दिक्पूर्वपदात् ङीषः अनुदात्तत्वम् ङीब्विधाने हि अन्यत्र अपि ङीष्विषयात् ङीप्प्रसङ्गः इति ।४२ - ६४ - इदम् तर्हि प्रयोजनम् ।४३ - ६४ - अर्धपिप्पली अर्धकोशातकी ।४४ - ६४ - एकदेशिसमासेन मुक्ते षष्ठीसमासः न भवति ।४५ - ६४ - उन्मत्तगङ्गम् लोहितगङ्गम् ।४६ - ६४ - अव्ययीभावेन मुक्ते बहुव्रीहिः न भवति ।४७ - ६४ - दाक्षिः प्लाक्षिः ।४८ - ६४ - इञा मुक्ते अण् न भवति ।४९ - ६४ - यदि एतत् ज्ञाप्यते उपगोः अपत्यम् औपगवः ।५० - ६४ - तद्धितेन मुक्ते उपग्वपत्यम् इति न सिध्यति ।५१ - ६४ - अस्ति अत्र विशेषः ।५२ - ६४ - द्वे हि अत्र विभाषा ।५३ - ६४ - दैवयज्ञिशौचिवृक्षिसात्यमुग्रिकाण्ठेविद्धिभ्यः अन्यतरस्याम् इति समर्थानाम् प्रथमात् वा इति च ।५४ - ६४ - तत्र एकय वृत्तिः भविष्यति अपरय वृत्तिविषये विभाषपवादः ।५५ - ६४ - क्रियमाणे अपि वै अन्यतरस्याङ्ग्रहणे षष्ठीसमासः न प्राप्नोति ।५६ - ६४ - किम् कारणम् ।५७ - ६४ - पूरणेन इति प्रतिषेधात् ।५८ - ६४ - न एतत् पूरणान्तम् ।५९ - ६४ - अना एतत् पर्यवपन्नम् ।६० - ६४ - एतत् अपि पूरणान्तम् एव ।६१ - ६४ - कथ. पूरणम् नाम अर्थः तम् आह तीयशब्दः ।६२ - ६४ - अतः पूरणम् ।६३ - ६४ - यः असौ पूरणान्तात् स्वार्थे भागे अन् सः अपि पूरणम् एव ।६४ - ६४ - एवम् तर्हि अन्यतरस्याङ्ग्रहणसामर्थ्यात् षष्ठीसमासः अपि भविष्यति ।१ - २० - किमर्थः चकारः ।२ - २० - अनुकरषणार्थः ।३ - २० - अन्यतरस्याम् इति एतत् अनुकृष्यते ।४ - २० - किम् प्रयोजनम् ।५ - २० - अन्यतरस्याम् समासः यथा स्यात् ।६ - २० - समासेन मुक्ते वाक्यम् अपि यथ स्यात् ।७ - २० - जीविकाम् प्राप्तः इति ।८ - २० - न एतत् अस्ति प्रयोजनम् ।९ - २० - प्रकृता महाविभाषा ।१० - २० - तया वाक्यम् भविष्यति ।११ - २० - इदम् तर्हि प्रयोजनम् ।१२ - २० - द्वितीयासमासः अपि यथ स्यात् ।१३ - २० - जीविकाप्राप्तः इति ।१४ - २० - एतत् अपि न अस्ति प्रयोजनम्. अयम् अपि उच्यते द्वितीयासमासः अपि ।१५ - २० - तत् उभयम् वचनात् भविष्यति ।१६ - २० - एवम् तर्हि न अयम् अनुकर्षणार्थः चकारः ।१७ - २० - किम् तर्हि ।१८ - २० - अत्वम् अनेन विधीयते ।१९ - २० - प्राप्तापन्ने द्वितीयान्तेन सह समस्येते अत्वम् च भवति प्राप्तपन्नयोः इति ।२० - २० - प्राप्ता जीविकाम् प्राप्तजीविका आपन्ना जीविकाम् आपन्नजिविका ।१ - १२ - किम्प्रधानः अयम् समासः ।२ - १२ - उत्तरपदार्थप्रधानः ।३ - १२ - यदि उत्तरपदार्थप्रधानः सधर्मणा अनेन अन्यैः उत्तरपदार्थप्रधानैः भवितव्यम् ।४ - १२ - अन्येषु च उत्तरपदार्थप्रधानेषु या एव असौ अन्तर्वर्तिनी विभक्तिः तस्याः समासे अपि श्रवणम् भवति ॒ राज्ञः पुरुषः राजपुरुषः इति ।५ - १२ - इह पुनः वाक्ये षष्ठी समासे प्रथमा ।६ - १२ - केन एतत् एवम् भवति ।७ - १२ - यः असौ मासजातयोः अभिसम्बन्धः सः समासे निवर्तते ।८ - १२ - अभिहितः सः अर्थः अन्तर्भूतः प्रातिपदिकार्थः सम्पन्नः ।९ - १२ - तत्र प्रातिपदिकार्थे प्रथमा इति प्रथमा भवति ।१० - १२ - न तर्हि इदानीम् इदम् भवति ॒ मासजातस्य इति ।११ - १२ - भवति ।१२ - १२ - बाह्यम् अर्थम् अपेक्ष्य षष्ठी ।१ - ३६ - कालस्य येन समासः तस्य अपरिमाणित्वात् अनिर्देशः ।२ - ३६ - कालस्य येन समासः सः अपरिमाणी ।३ - ३६ - तस्य अपरिमाणित्वात् अनिर्देशः ।४ - ३६ - अगमकः निर्देशः अनिर्देशः ।५ - ३६ - न हि जातस्य मासः परिमाणम् ।६ - ३६ - कस्य तर्हि ।७ - ३६ - त्रिंशद्रात्रस्य ।८ - ३६ - तत् यथा ।९ - ३६ - द्रोणः बदराणाम् देवदत्तस्य इति ।१० - ३६ - न देवदत्तस्य द्रोणः परिमाणम् ।११ - ३६ - कस्य तर्हि ।१२ - ३६ - बदराणाम् ।१३ - ३६ - सिद्धम् तु कालपरिमाणम् यस्य स कालः तेन ।१४ - ३६ - सिद्धम् एतत् ।१५ - ३६ - कथम् ।१६ - ३६ - कालपरिमाणम् यस्य स कालः तेन समस्यते इति वक्तव्यम् ।१७ - ३६ - सिध्यति ।१८ - ३६ - सूत्रम् तर्हि भिद्यते ।१९ - ३६ - यथान्यासम् एव अस्तु ।२० - ३६ - ननु च उक्तम् कालस्य येन समासः तस्य अपरिमाणित्वात् अनिर्देशः इति ।२१ - ३६ - कम् पुनः कालम् मत्वा भवान् आह कालस्य येन समासः तस्य अपरिमाणित्वात् अनिर्देशः इति ।२२ - ३६ - येन मूर्तीनाम् उपचयाः च अपचयाः च लक्ष्यन्ते तम् कालम् आहुः ।२३ - ३६ - तस्य एव कया चित् क्रियया युक्तस्य अहः इति च भवति रात्रिः इति च ।२४ - ३६ - कया क्रियया ।२५ - ३६ - आदित्यगत्या ।२६ - ३६ - तया एव असकृत् आवृत्तया मासः इति भवति संवत्सरः इति च ।२७ - ३६ - यदि एवम् जातस्य मासः परिमाणम् ।२८ - ३६ - एकवचनद्विगोः च उपसङ्ख्यानम् । एकवचनान्तानाम् इति वक्तव्यम् ।२९ - ३६ - इह मा भूत् ।३० - ३६ - मासौ जातस्य मासाः जातस्य इति ।३१ - ३६ - द्विगोः च इति वक्तव्यम् इह अपि यथा स्यात् ॒ द्विमासजातः , त्रिमासजातः ।३२ - ३६ - उक्तम् वा ।३३ - ३६ - किम् उक्तम् ।३४ - ३६ - एकवचने तावत् उक्तम् अनभिधानात् इति ।३५ - ३६ - द्विगोः किम् उक्तम् ।३६ - ३६ - उत्तरपदेन परिमाणिन द्विगोः समासवचनम् इति ।१ - ९३ - किम्प्रधानः अयम् समासः ।२ - ९३ - उत्तरपदार्थप्रधानः ।३ - ९३ - यदि उत्तरपदार्थप्रधानः अब्राह्मणम् आनय इति उक्ते ब्राह्मणमात्रस्य आनयनम् प्राप्नोति ।४ - ९३ - अन्यपदार्थप्रधानः तर्हि भविष्यति ।५ - ९३ - यदि अन्यपदार्थप्रधानः , अवर्षा हेमन्तः इति हेमन्तस्य यत् लिङ्गम् वचनम् च तत् समासस्य अपि प्राप्नोति ।६ - ९३ - पूर्वपदार्थप्रधानः तर्हि भविष्यति ।७ - ९३ - यदि पूर्वपदार्थप्रधानः अव्ययसञ्ज्ञा प्राप्नोति ॒ अव्ययम् हि अस्य पूर्वपदम् इति ।८ - ९३ - न एषः दोषः ।९ - ९३ - पाठेन अव्ययसञ्ज्ञा क्रियते ।१० - ९३ - न च नञ्समासः तत्र पठ्यते ।११ - ९३ - यदि अपि नञ्समासः न पठ्यते नञ् तु पठ्यते ।१२ - ९३ - पाठेन अपि अव्ययसञ्ज्ञायाम् सत्याम् अभिदेहेयवत् लिङ्गवचनानि भवन्ति ।१३ - ९३ - यः च इह अर्थः अभिधीयते न तस्य लिङ्गसङ्ख्याभ्याम् योगः अस्ति ।१४ - ९३ - न इदम् वाचनिकम् अलिङ्गता असङ्ख्यता व ।१५ - ९३ - किम् तर्हि ।१६ - ९३ - स्वाभाविकम् एतत् ।१७ - ९३ - तत् यथा॒ समानम् ईहमानानाम् अधीयानानाम् च के चित् अर्थैः युज्यन्ते अपरे न ।१८ - ९३ - न च इदानीम् कः चित् अर्थवान् इति कृत्वा सर्वैः अर्थवद्भिः शक्यम् भवितुम् कः चित् अनर्थकः इति कृत्वा सर्वैः अनर्थकैः ।१९ - ९३ - तत्र किम् अस्माभिः शक्यम् कर्तुम् ।२० - ९३ - यत् नञः प्राक् समासात् लिङ्गसङ्ख्याभ्याम् योगः न अस्ति समासे च भवति स्वाभाविकम् एतत् ।२१ - ९३ - अथ वा आश्रयतः लिङ्गवचनानि भविष्यन्ति ।२२ - ९३ - गुङवचनानाम् हि शब्दानाम् आश्रयतः लिङ्गवचनानि भवन्ति ।२३ - ९३ - तत् यथा ॒ शुक्लम् वस्त्रम् , शुक्ला शाटी शुक्लः कम्बलः , शुक्लौ कम्बलौ शुक्लाः कम्बलाः इति ।२४ - ९३ - यत् असौ द्रव्यम् श्रितः भवति गुणः तस्य यत् लिङ्गम् वचनम् च तत् गुणस्य अपि भवति ।२५ - ९३ - एवम् इह अपि यत् असौ द्रव्यम् श्रितः भवति समासः तस्य यत् लिङ्गम् वचनम् च तत् समासस्य अपि भविष्यति ।२६ - ९३ - अथ वा पुनः अस्तु उत्तरपदार्थप्रधानः ।२७ - ९३ - ननु च उक्तम् अब्राह्मणम् आनय इति उक्ते ब्राह्मणमात्रस्य आनयनम् प्राप्नोति इति ।२८ - ९३ - न एषः दोषः ।२९ - ९३ - इदम् तावत् अयम् प्रष्टव्यः ॒ अथ इह राजपुरुषम् आनय इति उक्ते पुरुषमात्रस्य आनयनम् कस्मात् न भवति ।३० - ९३ - अस्ति अत्र विशेषः ।३१ - ९३ - राजा विशेषकः प्रयुज्यते ।३२ - ९३ - तेन विशिष्टस्य आनयनम् भवति ।३३ - ९३ - इह अपि तर्हि नञ् विशेषकः प्रयुज्यते ।३४ - ९३ - तेन नञ्विशिष्टस्य आनयनम् भविष्यति ।३५ - ९३ - कः पुनः असौ ।३६ - ९३ - निवृत्तपदार्थकः ।३७ - ९३ - यदा पुनः अस्य पदार्थः निवर्तते किम् स्वाभाविकी निवृत्तिः आहोस्वित् वाचनिकी ।३८ - ९३ - किम् च अतः ।३९ - ९३ - यदि स्वाभाविकी किम् नञ् प्रयुज्यमानः करोति ।४० - ९३ - अथ वाचनिकी तत् वक्तव्यम् ॒ नञ् प्रयुज्यमानः पदार्थम् निवर्तयति इति ।४१ - ९३ - एवम् तर्हि स्वाभाविकी निवृत्तिः ।४२ - ९३ - ननु च उक्तम् किम् नञ् प्रयुज्यमानः करोति इति ।४३ - ९३ - नञ् प्रयुज्यमानः पदार्थम् निवर्तयति कथम् ।४४ - ९३ - कीलप्रतिकीलवत् ।४५ - ९३ - तत् यथा कीलः आहन्यमानः प्रतिकीलम् निर्हन्ति ।४६ - ९३ - यदि एतत् नञः माहात्म्यम् स्यात् न जातु चित् राजानः हस्त्यश्वम् बिभृयुः ।४७ - ९३ - न इति एव राजानः ब्रूयुः ।४८ - ९३ - एवम् तर्हि स्वाभाविकी निवृत्तिः ।४९ - ९३ - ननु च उक्तम् किम् नञ् प्रयुज्यमानः करोति इति ।५० - ९३ - नञ्निमित्ता तु उपलब्धिः ।५१ - ९३ - तत् यथा समन्धकारे द्रव्याणाम् समवस्थितानाम् प्रदीप्निमित्तम् दर्शनम् न च तेषाम् प्रदीपः निर्वर्तकः भवति ।५२ - ९३ - यदि पुनः अयम् निवृत्तपदार्थकः किमर्थम् ब्राह्मणशब्दः प्रयुज्यते ।५३ - ९३ - एवम् यथा विज्ञयेत अस्य पदार्थः निवर्तते इति ।५४ - ९३ - न इति हि उक्ते सन्देहः स्यात् कस्य पदार्थः निवर्तते इति ।५५ - ९३ - तत्र असन्देहार्थम् ब्राह्मणशब्दः प्रयुज्यते ।५६ - ९३ - एवम् वा एतत् ।५७ - ९३ - अथ वा सर्वे एते शब्दाः गुणसमुदायेषु वर्तन्ते ब्राह्मणः क्षत्रियः वैश्यः शूद्रः इति । तपः श्रुतम् च योनिः च इति एतद् ब्राह्मणकारकम् ।५८ - ९३ - तपःश्त्रुताभ्याम् यः हीनः जातिब्राह्मणः एव सः । तथा गौरः शुच्याचारः पिङ्गलः कपिलकेशः इति एतान् अपि अभ्यन्तरान् ब्राह्मण्ये गुणान् कुर्वन्ति ।५९ - ९३ - समुदायेषु च वृत्ताः शब्दाः अवयवेषु अपि वर्तन्ते. तद् यथा ।६० - ९३ - पूर्वे पञ्चालाः उत्तरे पञ्चालाः तैलम् भुक्तम् घृतं भुक्तम् शुक्लः नीलः कपिलः कृष्णः इति ।६१ - ९३ - एवम् अयम् समुदाये ब्राह्मणशब्दः प्रवृत्तः अवयवेषु अपि वर्तते जातिहीने गुणहीने च ।६२ - ९३ - गुणहीने तावत्. अब्राह्मणः अयम् यः तिष्ठन् मूत्रयति ।६३ - ९३ - अब्राह्मणः अयं यः गच्छन् भक्षयति ।६४ - ९३ - जातिहीने सन्देहात् दुरुपदेशात् च ब्राह्मणशब्दः वर्तते ।६५ - ९३ - सन्देहात् तावत् ॒ गौरम् शुच्याचारं पिङ्गलम् कपिलकेशम् दृष्ट्वा अध्यवस्यति ब्राह्मणः अयम् इति ।६६ - ९३ - ततः पश्चात् उपलभते न अयं ब्राह्मणः अब्राह्मणः अयम् इति ।६७ - ९३ - तत्र सन्देहात् च ब्राह्मणशब्दः वर्तते जातिकृता च अर्थस्य निवृत्तिः ।६८ - ९३ - दुरुपदेशात् ॒ दुरुपदिष्टम् अस्य भवति अमुष्मिन् अवकाशे ब्राह्मणः तम् आनय इति ।६९ - ९३ - स तत्र गत्वा यम् पश्यति तम् अध्यवस्यति ब्राह्मणः अयम् इति ।७० - ९३ - ततः पश्चात् उपलभते न अयं ब्राह्मणः अब्राह्मणः अयम् इति ।७१ - ९३ - तत्र दुरुपदेशात् च ब्राह्मणशब्दः वर्तते जातिकृता च अर्थस्य निवृत्तिः ।७२ - ९३ - आतः च सन्देहात् दुरुपदेशात् वा ।७३ - ९३ - न हि अयम् कालम् माषराशिवर्णम् आपणे आसीनम् दृष्ट्वा अध्यवस्यति ब्राह्मणः अयम् इति ।७४ - ९३ - निर्ज्ञातम् तस्य भवति ।७५ - ९३ - इदम् खलु अपि भूयः उत्तरपदार्थप्राधान्ये सति सङ्गृहीतम् भवति ।७६ - ९३ - किम् ।७७ - ९३ - अनेकम् इति ।७८ - ९३ - किम् अत्र सङ्गृहीतम् ।७९ - ९३ - एकवचनम् ।८० - ९३ - कथम् पुनः एकस्य प्रतिषेधेन अनेकस्य सम्प्रत्ययः स्यात् ।८१ - ९३ - प्रसज्य अयम् क्रियागुणौ ततः पश्चात् निवृत्तिम् करोति ।८२ - ९३ - तत् यथा ॒ आसय शायय भोजय अनेकम् इति ।८३ - ९३ - यदि अपि तावत् अत्र एतत् शक्यते वक्तुम् यत्र क्रियागुणौ प्रसज्येते यत्र खलु न प्रसज्येते तत्र कथम् ॒ अनेकः तिष्ठति इति ।८४ - ९३ - भवति च एवञ्जातीयकानाम् अपि एकस्य प्रतिषेधेन बहूनाम् सम्प्रत्ययः ।८५ - ९३ - तत् यथा न नः एकम् प्रियम् न नः एकम् सुखम् इति ।८६ - ९३ - इह अब्राह्मणत्वम् अब्राह्मणता परत्वात् त्वतलौ प्राप्नुतः ।८७ - ९३ - तत्र कः दोषः ।८८ - ९३ - स्वरे हि दोषः स्यात् ।८९ - ९३ - अब्राह्मणत्वम् इति एवम् स्वरः प्रसज्येत ।९० - ९३ - अब्राह्मणत्वम् इति च इष्यते ।९१ - ९३ - नञ्समासे भाववचने उक्तम् ।९२ - ९३ - किम् उक्तम् ।९३ - ९३ - त्वतल्भ्याम् नञ्समासः पूर्वप्रतिषिद्धम् स्वर्सिद्ध्यर्थम् इति ।१ - ५ - ईषत् गुणवचनेन ।ईषत् गुणवचनेन इति वक्तव्यम् ।२ - ५ - अकृता इति उच्यमाने इह च प्रसज्येत ।३ - ५ - ईषत् गार्ग्यः इति ।४ - ५ - इह च न स्यात् ।५ - ५ - ईषत्कडारः ।१ - ३१ - कृद्योगा च ।२ - ३१ - कृद्योगा च षष्ठी समस्यते इति वक्तव्यम् ।३ - ३१ - इध्मप्रव्रश्चनः पलाशशातनः ।४ - ३१ - किमर्थम् इदम् उच्यते ।५ - ३१ - प्रतिपदविधाना च षष्ठी न समस्यते इति वक्ष्यति ।६ - ३१ - तस्य अयम् पुरस्तात् अपकर्षः ।७ - ३१ - का पुनः षष्ठीप्रतिपदविधाना का कृद्योगा ।८ - ३१ - सर्वा षष्ठी प्रतिपदविधाना शेषलक्षणाम् वर्जयित्वा ।९ - ३१ - कर्तृकर्मणोः कृति इति या षष्ठी सा कृद्योगा ।१० - ३१ - तत्स्थैः च गुणैः ।११ - ३१ - तत्स्थैः च गुणैः षष्थीगुणैः षष्ठी समस्यते इति वक्तव्यम् ।१२ - ३१ - ब्राह्मणवर्णः चन्दनगन्धः पटहशब्दः नधीघोषः ।१३ - ३१ - न तु तद्विशेषणैः ।१४ - ३१ - न तु तद्विशेषणैः इति वक्तव्यम् ।१५ - ३१ - इह मा भूत् ।१६ - ३१ - घृतस्य तीव्रः चन्दनस्य मृदुः इति ।१७ - ३१ - किमर्थम् इदम् उच्यते ।१८ - ३१ - गुणेन इति प्रतिषेधम् वक्ष्यति ।१९ - ३१ - तस्य अयम् पुरस्तात् अपकर्षः ।२० - ३१ - किम् कारणम् गुणेन न इति उच्यते न पुनः गुणवचनेन इति उच्यते ।२१ - ३१ - न एवम् शक्यम् ।२२ - ३१ - इह हि न स्यात् ।२३ - ३१ - काकस्य कार्ष्ण्यम् कण्टकस्य तैक्ष्ण्यम् बलाकायाः शौक्ल्यम् इति ।२४ - ३१ - एतत् एव तस्मिन् योगे उदाहरणम् ।२५ - ३१ - यत् वै ब्राह्मणस्य शुक्लाः वृषलस्य कृष्णाः इति असामर्थ्यात् अत्र न भविष्यति ।२६ - ३१ - कथम् असामर्थ्यम् ।२७ - ३१ - सापेक्षम् असमर्थम् भवति इति ।२८ - ३१ - द्रव्यम् अत्र अपेक्ष्यते दन्ताः ।२९ - ३१ - तस्मात् गुणेन न इति वक्तव्यम् ।३० - ३१ - गुणेन न इति उच्यमाने तत्स्थैः च गुणैः इति वक्तव्यम् ।३१ - ३१ - तत्स्थैः च गुणैः इति उच्यमाने न तु तद्विशेषणैः इति वक्तव्यम् ।१ - ४ - प्रतिपदविधाना च ।२ - ४ - प्रतिपदविधाना च षष्ठी न समस्यते इति वक्तव्यम् ।३ - ४ - इह मा भूत् ।४ - ४ - सर्पिषः ज्ञानम् मधुनः ज्ञानम् इति ।१ - ६१ - गुणे किम् उदाहरणम् ।२ - ६१ - ब्राह्मणस्य शुक्लाः वृषलस्य कृष्णाः इति ।३ - ६१ - न एतत् अस्ति प्रयोजनम् ।४ - ६१ - असामर्थ्यात् अत्र न भविष्यति ।५ - ६१ - कथम् असामर्थ्यम् ।६ - ६१ - सापेक्षम् असमर्थम् भवति इति ।७ - ६१ - द्रव्यम् अत्र अपेक्ष्यते दन्ताः ।८ - ६१ - इदम् तर्हि काकस्य कार्ष्ण्यम् कण्टकस्य तैक्ष्ण्यम् बलाकायाः शौक्ल्यम् इति ।९ - ६१ - इदम् अपि उदाहरणम् ब्राह्मणस्य शुक्लाः वृषलस्य कृष्णाः इति ।१० - ६१ - ननु च उक्तम् ।११ - ६१ - असामर्थ्यात् अत्र न भविष्यति ।१२ - ६१ - कथम् असामर्थ्यम् ।१३ - ६१ - सापेक्षम् असमर्थम् भवति इति ।१४ - ६१ - द्रव्यम् अत्र अपेक्ष्यते दन्ताः इति ।१५ - ६१ - न एषः दोषः ।१६ - ६१ - भवति वै कस्य चित् अर्थात् प्रकरणात् वा अपेक्ष्यम् निर्ज्ञातम् तदा वृत्तिः प्राप्नोति ।१७ - ६१ - सति किम् उदाहरणम् ।१८ - ६१ - ब्रह्मणस्य पक्ष्यन् ब्राह्मणस्य पक्ष्यमाणः ।१९ - ६१ - न एतत् अस्ति ।२० - ६१ - प्रतिषिध्यते अत्र षष्ठी लप्रयोगे न इति ।२१ - ६१ - या च श्रूयते एषा बाह्यम् अर्थम् अपेक्ष्य भवति ।२२ - ६१ - तत्र अस्मार्थ्यात् न भविष्यति ।२३ - ६१ - कथम् असामर्थ्यम् ।२४ - ६१ - सापेक्षम् असमर्थम् भवति इति ।२५ - ६१ - द्रव्यम् अत्र अपेक्ष्यते ओदनः ।२६ - ६१ - इदम् तर्हि चौरस्य द्विषन् वृषलस्य द्विषन् ।२७ - ६१ - ननु च अत्र अपि प्रतिषिध्यते ।२८ - ६१ - वक्ष्यति एतत् द्विषः शतुः वावचनम् इति ।२९ - ६१ - अव्यये किम् उदाहरणम् ।३० - ६१ - ब्राह्मणस्य उच्चैः वृषलस्य नीचैः इति ।३१ - ६१ - न एतत् अस्ति ।३२ - ६१ - असामर्थ्यात् अत्र न भविष्यति ।३३ - ६१ - कथम् असामर्थ्यम् ।३४ - ६१ - सापेक्षम् असमर्थम् भवति इति ।३५ - ६१ - द्रव्यम् अत्र अपेक्ष्यते आसनम् ।३६ - ६१ - इदन् तर्हि ब्राह्मणस्य कृट्वा वृषलस्य कृत्वा इति ।३७ - ६१ - एतत् अपि न अस्ति ।३८ - ६१ - प्रतिषिध्यते तत्र षष्ठी अव्ययप्रयोगे न इति ।३९ - ६१ - या च श्रूयते एषा बाह्यम् अर्थम् अपेक्ष्य भवति ।४० - ६१ - तत्र अस्मार्थ्यात् न भविष्यति ।४१ - ६१ - कथम् असामर्थ्यम् ।४२ - ६१ - सापेक्षम् असमर्थम् भवति इति ।४३ - ६१ - द्रव्यम् अत्र अपेक्ष्यते कटः ।४४ - ६१ - इदम् तर्हि ।४५ - ६१ - पुरा सूर्यस्य उदेतोः आधेयः ।४६ - ६१ - पुरा वत्सानाम् अपाकर्तोः ।४७ - ६१ - ननु च अत्र अपि प्रतिषिध्यते अव्ययम् इति कृत्वा ।४८ - ६१ - वक्ष्यति एतत् ।४९ - ६१ - अव्ययप्रतिषेधे तोसुन्कसुनोः अप्रतिषेधः इति ।५० - ६१ - समानाधिकरणे किम् उदाहरणम् ।५१ - ६१ - राज्ञः पाटलिपुत्रकस्य शुकस्य माराविदस्य पाणिनेः सूत्रकारस्य ।५२ - ६१ - न एतत् अस्ति ।५३ - ६१ - असामर्थ्यात् अत्र न भविष्यति ।५४ - ६१ - कथम् असामर्थ्यम् ।५५ - ६१ - समानाधिकरणम् असमर्थवत् भवति इति ।५६ - ६१ - इदम् तर्हि ।५७ - ६१ - सर्पिषः पीयमानः यजुषः क्रियमाणस्य इति ।५८ - ६१ - ननु च अत्र अपि असामर्थ्यात् एव न भविष्यति ।५९ - ६१ - कथम् असामर्थ्यम् ।६० - ६१ - समानाधिकरणम् असमर्थवत् भवति इति ।६१ - ६१ - अधात्वभिहितम् इति एवम् तत् ।१ - ३५ - कथम् इदम् विज्ञायते कर्मणि या षष्ठी सा न समस्यते इति आहोस्वित् कर्मणि यः क्तः इति ।२ - ३५ - कुतः सन्देहः ।३ - ३५ - उभयम् प्रकृतम् ।४ - ३५ - तत्र अन्यतरत् शक्यम् विशेषयितुम् ।५ - ३५ - कः च अत्र विशेषः ।६ - ३५ - कर्मणि इति षष्ठीनिर्देशः चेत् अकर्तरि कृता समासवचनम् ।७ - ३५ - कर्मणि इति षष्ठीनिर्देशः चेत् अकर्तरि कृता समासः वक्तव्यः ।८ - ३५ - इध्मप्रव्रश्चनः पलाशशातनः ।९ - ३५ - तृककाभ्यम् च अनर्थकः प्रतिषेधः ।१० - ३५ - तृककाभ्यम् च अनर्थकः प्रतिषेधः ।११ - ३५ - अपाम् स्रष्टा ।१२ - ३५ - कर्मणि इति एव सिद्धम् ।१३ - ३५ - अस्तु तर्हि कर्मणि यः क्तः इति ।१४ - ३५ - किम् उदाहरणम् ।१५ - ३५ - ब्राह्मणस्य भुक्तम् वृषलस्य पीतम् इति ।१६ - ३५ - क्तनिर्देशे असमर्थत्वात् अप्रतिषेधः ।१७ - ३५ - क्तनिर्देशे असमर्थत्वात् अप्रतिषेधः ।१८ - ३५ - अनर्थकः प्रतिषेधः अप्रतिषेधः ।१९ - ३५ - समासः कस्मात् न भवति ।२० - ३५ - असामर्थ्यात् ।२१ - ३५ - कथम् असामर्थ्यम् ।२२ - ३५ - सापेक्षम् असमर्थम् भवति इति ।२३ - ३५ - द्रव्यम् अत्र अपेक्ष्यते ओदनः ।२४ - ३५ - प्रतिषेध्यम् इति चेत् कर्तरि अपि प्रतिषेधः ।अथ एवम् सति प्रतिषेधः कर्तव्यः इति दृश्यते कर्तरि अपि प्रतिषेधः वक्तव्यः स्यात् ।२५ - ३५ - ब्राह्मणस्य गतः ब्राह्मणस्य यातः इति ।२६ - ३५ - पूजायाम् च प्रतिषेधानर्थक्यम् ।२७ - ३५ - पूजायाम् च प्रतिषेधः अनर्थः ।२८ - ३५ - राज्ञाम् पूजितः ।२९ - ३५ - कर्मणि इति एव सिद्धम् ।३० - ३५ - तस्मात् उभयप्राप्तौ कर्मणि षष्ठ्याः प्रतिषेधः ।३१ - ३५ - तस्मात् उभयप्राप्तौ कर्मणि इति एवम् या षष्ठी तस्याः प्रतिषेधः वक्तव्यः ।३२ - ३५ - सः तर्हि वक्तव्यः ।३३ - ३५ - न वक्तव्यः इत्यर्थे अयम् चः पठितः ।३४ - ३५ - कमणि च ।३५ - ३५ - कर्मणि इति एवम् या षष्ठी इति ।१ - ४ - किम् इह नित्यग्रहणेन अभिसम्बध्यते विधिः आहोस्वित् प्रतिषेधः ।२ - ४ - विधिः इति आह ।३ - ४ - कुतः एतत् ।४ - ४ - विधिः हि विभाषा नित्यः प्रतिषेधः ।१ - ६० - प्रादिप्रसङ्गे कर्मप्रवचनीयप्रतिषेधः । प्रादिप्रसङ्गे कर्मप्रवचनीयानाम् प्रतिषेधः वक्तव्यः ।२ - ६० - वृक्षम् प्रति विद्योतते विद्युत् ।३ - ६० - साधुः देवदत्तः मातरम् प्रति ।४ - ६० - व्यवेतप्रतिषेधः च ।५ - ६० - व्यवेतानाम् च प्रतिषेधः वक्तव्यः ।६ - ६० - अ मन्द्रैः इन्द्र हरिभिः यहि मयुररोमभिः ।७ - ६० - सिद्धम् तु क्वाङ्स्वतिदुर्गतिवचनात् ।८ - ६० - सिद्धम् एतत् ।९ - ६० - कथम् ।१० - ६० - क्वाङ्स्वतिदुर्गतयः समस्यन्ते इति वक्तव्यम् ।११ - ६० - कु ।१२ - ६० - कुब्राह्मणः कुवृषलः ।१३ - ६० - आङ् ।१४ - ६० - आकडारः आपिङ्गलः ।१५ - ६० - सु ।१६ - ६० - सुब्राह्मणः सुवृषलः ।१७ - ६० - अत् ।१८ - ६० - अतिब्राह्मणः अतिवृषलः ।१९ - ६० - दुर् ।२० - ६० - दुर्ब्राह्मणः ।२१ - ६० - गति ।२२ - ६० - प्रकारकः प्रणायकः प्रसेचकः ऊरीकृत्य ऊरीकृतम् ।२३ - ६० - प्रादयः क्तार्थे ।२४ - ६० - प्रादयः क्तार्थे समस्यन्ते इति वक्तव्यम् ।२५ - ६० - प्रगतः आचार्यः प्राचार्यः प्रान्तेवासी प्रपितामहः ।२६ - ६० - एतत् एव च सौनागैः विस्तरतरकेण पठितम् ।२७ - ६० - स्वती पूजायाम् ।२८ - ६० - स्वतीपूजायाम् इति वक्तव्यम् ।२९ - ६० - सुराजा अतिराजा ।३० - ६० - दुः निन्दायाम् ।३१ - ६० - दुः निन्दायाम् इति वक्तव्यम् ।३२ - ६० - दुष्कुलम् दुर्गवः ।३३ - ६० - आङ् ईषदर्थे ।३४ - ६० - आङ् ईषदर्थे इति वक्तव्यम् ।३५ - ६० - आकडारः आपिङ्गलः ।३६ - ६० - कुः पापार्थे ।३७ - ६० - कुः पापार्थेइति वक्तव्यम् ।३८ - ६० - कुब्राह्मणः कुवृषलः ।३९ - ६० - प्रादयः गताद्यर्थे प्रथमया ।४० - ६० - प्रादयः गताद्यर्थे प्रथमया समस्यन्ते इति वक्तव्यम् ।४१ - ६० - प्रगतः आचार्यः प्राचार्यः प्रान्तेवासी प्रपितामहः ।४२ - ६० - अत्यादयः क्रान्ताद्यर्थे द्वितीयया ।४३ - ६० - अत्यादयः क्रान्ताद्यर्थे द्वितीयया समस्यन्ते इति वक्तव्यम् ।४४ - ६० - अतिक्रान्तः खट्वाम् अतिखट्वः अतिमालः ।४५ - ६० - अवादयः क्रुष्टाद्यर्थे तृतीयया ।४६ - ६० - अवादयः क्रुष्टाद्यर्थे तृतीयया समस्यन्ते इति वक्तव्यम् ।४७ - ६० - अवक्रुष्टः कोकिलया अवकोकिलः वसन्तः ।४८ - ६० - पर्यादयः ग्लानाद्यर्थे चतुर्थ्या ।४९ - ६० - पर्यादयः ग्लानाद्यर्थे चतुर्थ्या समस्यन्ते इति वक्तव्यम् ।५० - ६० - परिग्लानः अध्ययनाय पर्यधयनः ।५१ - ६० - निरादयः क्रान्ताद्यर्थे पञ्चम्या ।५२ - ६० - निरादयः क्रान्ताद्यर्थे पञ्चम्या समस्यन्ते इति वक्तव्यम् ।५३ - ६० - निष्क्रान्तः कौशाम्ब्याः निष्कौशाम्बिः निर्वाराणसिः ।५४ - ६० - अव्ययम् प्रवृद्धादिभिः ।५५ - ६० - अव्ययम् प्रवृद्धादिभिः समस्यते इति वक्तव्यम् ।५६ - ६० - पुनःप्र्ववृद्धम् बर्हिः भवति पुनर्णवम् पुनःसुखम् ।५७ - ६० - इवेन विभक्त्यन्तलोपः पूर्व्पदप्रकृतिस्वरत्वम् च ।५८ - ६० - वाससीइव कन्येइव ।५९ - ६० - उदात्तवता तिङा गतिमता च अव्ययम् समस्यते इति वक्तव्यम् ।६० - ६० - अनुव्यचलत् अनुप्राविशत् यत् परियन्ति ।१ - ६२ - अतिङ् इति किमर्थम् ।२ - ६२ - कारकः व्रजति ।३ - ६२ - हारकः व्रजति ।४ - ६२ - अतिङ् इति शक्यम् अकर्तुम् ।५ - ६२ - कस्मात् न भवति ।६ - ६२ - कारकः व्रजति ।७ - ६२ - हारकः व्रजति इति ।८ - ६२ - सुप् सुपा इति वर्तते ।९ - ६२ - अतः उत्तरम् पठति ।१० - ६२ - उपपदम् अतिङ् इति तदर्थप्रतिषेधः ।११ - ६२ - उपपदम् अतिङ् इति तदर्थस्य अयम् प्रतिषेधः वक्तव्यः ।१२ - ६२ - कस्य ।१३ - ६२ - तिङर्थस्य ।१४ - ६२ - कः पुनः तिङर्थः ।१५ - ६२ - क्रिया ।१६ - ६२ - क्रियाप्रतिषेधः वा ।१७ - ६२ - अथ वा व्यक्तम् एव इदम् पठितव्यम् उपपदम् अक्रियया इति ।१८ - ६२ - अथ अक्रियया इति किम् प्रत्युदाह्रियते ।१९ - ६२ - कारकः गतः हारकः गतः ।२० - ६२ - न एतत् क्रियावाचि ।२१ - ६२ - किम् तर्हि. द्रव्यवाचि ।२२ - ६२ - इदम् तर्हि कारकस्य गतिः कारकस्य व्रज्या ।२३ - ६२ - एतत् अपि द्रव्य्वाचि ।२४ - ६२ - कथम् ।२५ - ६२ - कृदभिहितः भावः द्रव्यवत् भवति इति ।२६ - ६२ - एवम् तर्हि सिद्धे सति यत् अतिङ् इति प्रतिषेधम् शास्ति तत् ज्ञापयति आचार्यः अनयोः योगयोः निवृत्तम् सुप् सुपा इति ।२७ - ६२ - किम् एतस्य ज्ञापने प्रयोजनम् ।२८ - ६२ - गतिकारकोपपदानाम् कृद्भिः समासः भवति इति एषा परिभाषा न कर्तव्या भवति ।२९ - ६२ - यदि एतत् ज्ञाप्यते केन इदानीम् समासः भविष्यति ।३० - ६२ - समर्थेन ।३१ - ६२ - यदि एवम् धातूपसर्गयोः अपि समासः प्राप्नोति ।३२ - ६२ - पूर्वम् धातुः उपसर्गेण युज्यते पश्चात् साधनेन इति ।३३ - ६२ - न एतत् अस्ति ।३४ - ६२ - पूर्वम् धातुः साधनेन युज्यते पश्चात् उपसर्गेण ।३५ - ६२ - साधनम् हि क्रियाम् निर्वर्तयति ।३६ - ६२ - ताम् उपसर्गः विशिनष्टि ।३७ - ६२ - अभिनिर्वृत्तस्य च अर्थस्य उपसर्गेण विशेषः शक्यः वक्तुम् ।३८ - ६२ - षष्ठीसमासात् उपसर्गसमासः विप्रतिषेधेन ।३९ - ६२ - षष्ठीसमासात् उपसर्गसमासः विप्रतिषेधेन ।४० - ६२ - षष्ठीसमासस्य अवकाशः राज्ञः पुरुषः राजपुरुषः ।४१ - ६२ - उपपदसमासस्य अवकाशः स्तम्बेरमः कर्णेजपः ।४२ - ६२ - इह उभयम् प्राप्नोति ।४३ - ६२ - कुम्भकारः नगरकारः ।४४ - ६२ - उपपदसमासः भवति विप्रतिषेधेन ।४५ - ६२ - न वा षष्ठीसमासाभावाद् उपपदसमासः । न वा अर्थः विप्रतिषेधेन ।४६ - ६२ - किम् कारणम् ।४७ - ६२ - न वा षष्ठीसमासाभावाद् उपपदसमासः भविष्यति ।४८ - ६२ - कथम् ।४९ - ६२ - गतिकारकोपदानाम् कृद्भिः सह समासवनचम् प्राक् सुबुत्पत्तेः इति वचनात् ।५० - ६२ - अथ वा विभाषा षष्ठीसमासः ।५१ - ६२ - यदा न षष्ठीसमासः तदा उपपदसमासः भविष्यति ।५२ - ६२ - अनेन एव यथा स्यात् तेन मा भूत् इति ।५३ - ६२ - कः च अत्र विशेषः तेन वा स्यात् अनेन वा ।५४ - ६२ - उपपदसमासः नित्यसमासः षष्ठीसमासः पुनः विभाषा ।५५ - ६२ - ननु च नित्यम् यः समासः सः नित्यसमासः ।५६ - ६२ - यस्य विग्रहः न अस्ति ।५७ - ६२ - न इति आह ।५८ - ६२ - नित्याधिकारे यः समासः सः नित्यसमासः ।५९ - ६२ - न एवम् शक्यम् ।६० - ६२ - अव्ययीभावस्य हि अनित्यसमासता प्रसज्येत ।६१ - ६२ - तस्मात् नित्यः समासः नित्यसमासः ।६२ - ६२ - यस्य विग्रहः न अस्ति ।१ - १८ - एवकारः किमर्थः ।२ - १८ - नियमार्थः ।३ - १८ - न एतत् अस्ति प्रयोजनम् ।४ - १८ - सिद्धे विधिः आरभ्यमाणः अन्तरेण अपि एवकारम् नियमार्थः भविष्यति ।५ - १८ - इष्टतः अवधारणार्थः तर्हि भविष्यति ।६ - १८ - यथा एवम् विज्ञायेत ॒ अमा एव अव्ययेन इति ।७ - १८ - मा एवम् विज्ञायि ॒ अमा अव्ययेन एव इति ।८ - १८ - अस्ति च इदानीम् अनव्ययम् अम्शब्दः यदर्थः विधिः स्यात् ।९ - १८ - अस्ति इति आह ।१० - १८ - खशयम् ब्राह्मणकुलम् इति ।११ - १८ - न एतत् अस्ति प्रयोजनम् ।१२ - १८ - अन्तरङ्गत्वात् अत्र समासः भविष्यति ।१३ - १८ - इदम् तर्हि प्रयोजनम् ।१४ - १८ - अमा एव यत् तुल्यविधानम् उपपदम् तत्र एव यथा स्यात् ।१५ - १८ - अमा च अन्येन च यत् तुल्यविधानम् उपपदम् तत्र मा भूत् इति ।१६ - १८ - अग्रे भोजम् अग्रे भुक्त्वा ।१७ - १८ - अग्रादिषु अप्राप्तविधेः समासप्रतिषेधम् चोदयिष्यति ।१८ - १८ - सः न वक्तव्यः भवति ।१ - १८ - शेषः इति उच्यते ।२ - १८ - कः शेषः नाम ।३ - १८ - येषाम् पदानाम् अनुक्तः समासः सः शेषः ।४ - १८ - शेषवचनम् पदतः चेत् न अभावात् ।५ - १८ - शेषवचनम् पदतः चेत् तत् न ।६ - १८ - किम् कारणम् ।७ - १८ - अभावात् ।८ - १८ - न हि सन्ति तानि पदानि येषाम् पदानाम् अनुक्तः समासः ।९ - १८ - अर्थतः तर्हि शेषग्रहणम् ।१० - १८ - येषु अर्थेषु अनुक्तः समासः सः शेषः ।११ - १८ - अर्थतः चेत् अविशिष्टम् । अर्थतः चेत् अविशिष्टम् एतत् भवति ।१२ - १८ - कुतः ।१३ - १८ - पदतः ।१४ - १८ - न हि सन्ति ते अर्थाः येषु अनुक्तः समासः ।१५ - १८ - त्रिकतः तर्हि शेषग्रहणम् ।१६ - १८ - यस्य त्रिकस्य अनुक्तः समासः सः शेषः ।१७ - १८ - कस्य च अनुक्तः ।१८ - १८ - प्रथमायाः ।१ - ७२ - पदग्रहणम् किमर्थम्. अनेकम् अन्यार्थे इति इयति उच्यमाने वक्यार्थे अपि बहुव्रीहिः स्यात् ।२ - ७२ - यथा मे माता तथा मे पिता सुस्नातम् भोः इति ।३ - ७२ - पदग्रहणे पुनः क्रियमाणे न दोषः भवति ।४ - ७२ - अथ अन्यग्रहणम् किमर्थम् ।५ - ७२ - अनेकम् पदार्थे इति इयति उच्यमाने स्वपदार्थे अपि बहुर्वीहिः स्यात् ।६ - ७२ - राजपुरुषः तक्षपुरुषः इति ।७ - ७२ - न एतत् अस्ति प्रयोजनम् ।८ - ७२ - तत्पुरुषः स्वपदार्थे बाधकः भविष्यति ।९ - ७२ - भवेत् एकसञ्ज्ञाधिकारे सिद्धम् ।१० - ७२ - परङ्कार्यत्वे तु न सिध्यति ।११ - ७२ - आरम्भसामर्थ्यात् च तत्पुरुषः परङ्कार्यत्वात् च बहुव्रीहिः प्राप्नोति ।१२ - ७२ - परङ्कार्यत्वे च न दोषः ।१३ - ७२ - शेषः इति वर्तते ।१४ - ७२ - शेषत्वात् न भविष्यति ।१५ - ७२ - शेषवचने उक्तम् ।१६ - ७२ - किम् उक्तम् ।१७ - ७२ - तत्र शेषवचनात् दोषः सङ्ख्यासमानाधिकरणनञ्समासेषु बहुव्रीहिप्रतिषेधः इति ।१८ - ७२ - अथ एकसङ्ज्ञाधिकारे न अर्थः अन्यग्रहणेन ।१९ - ७२ - एकसङ्ज्ञाधिकारे च कर्तव्यम् ।२० - ७२ - अक्रियमाणे हि अन्यग्रहणे यथा एव तत्पुरुषः स्वपदार्थे बहुव्रीहिम् बाधते एवम् अन्यपदार्थे अपि बाधेत ।२१ - ७२ - अथ अनेकग्रहणम् किमर्थम्. अन्यपदार्थे इति इयति उच्यमाने एकस्य अपि पदस्य बहुव्रीहिः स्यात् ।२२ - ७२ - सर्पिषः अपि स्यात् ।२३ - ७२ - मधुनः अपि स्यात् ।२४ - ७२ - गोमूत्रस्य अपि स्यात् ।२५ - ७२ - न एतत् अस्ति प्रयोजनम् ।२६ - ७२ - सुप् सुपा इति वर्तते ।२७ - ७२ - इदम् तर्हि प्रयोजनम् ।२८ - ७२ - बहूनाम् अपि समासः यथा स्यात् ।२९ - ७२ - सुसूक्ष्मजटकेशेन सुनताजिनवाससा ।३० - ७२ - उत्तरार्थम् च अनेकग्रहणम् कर्तव्यम् चार्थे द्वन्द्वः अनेकम् इति ।३१ - ७२ - इह अपि यथा स्यात् ।३२ - ७२ - प्लक्षन्यग्रोधखदिरपलाशाः इति ।३३ - ७२ - एतत् अपि न अस्ति प्रयोजनम् ।३४ - ७२ - आचार्यप्रवृत्तिः ज्ञापयति बहूनाम् अपि समासः भवति इति यत् अयम् उत्तरपदे द्विगुम् शास्ति ।३५ - ७२ - तत्पुरुषः अपि तर्हि बहूनाम् प्राप्नोति ।३६ - ७२ - ग्रहणेन तत्पुरुषः उच्यते ।३७ - ७२ - तेन बहूनाम् न भविष्यति ।३८ - ७२ - अतः उत्तरम् पठति ।३९ - ७२ - अनेकवचनम् उपसर्जनार्थम् ।४० - ७२ - अनेकग्रहणम् क्रियते उपसर्जनार्थम् ।४१ - ७२ - प्रथमानिर्दिष्टम् समासे उपसर्जनम् इति अनेकस्य सुपः उपसर्जनसञ्ज्ञा यथा स्यात् ।४२ - ७२ - चित्रगुः शबलगुः इति ।४३ - ७२ - न वा एकविभक्तित्वात् ।४४ - ७२ - न वा एतत् अपि प्रयोजनम् अस्ति ।४५ - ७२ - किम् कारणम् ।४६ - ७२ - एकविभक्तित्वात् ।४७ - ७२ - एकविभक्ति च अपूर्व्निपाते इति उपसर्जनसञ्ज्ञा भविष्यति ।४८ - ७२ - चित्रगुः शबलगुः इति ।४९ - ७२ - चित्राः यस्य गावः चित्रगुः तिष्ठति ।५० - ७२ - चित्राः यस्य गावः चित्रगुम् पश्य ।५१ - ७२ - चित्राः यस्य गावः चित्रगुणा कृतम् ।५२ - ७२ - चित्राः यस्य गावः चित्रगवे देहि ।५३ - ७२ - चित्राः यस्य गावः चित्रगोः आनय ।५४ - ७२ - चित्राः यस्य गावः चित्रगोः स्वम् ।५५ - ७२ - चित्राः यस्य गावः चित्रगौ निधेहि ।५६ - ७२ - चित्राः यस्य गावः हे चित्रगो इति ।५७ - ७२ - यदि तर्हि यतः कुतः चित् एव किम् चित् पदम् अध्याहृत्य एकविभक्त्या योगः क्रियते एतत् अपि एकविभक्तियुक्तम् भवति इह अपि प्राप्नोति ।५८ - ७२ - राजकुमारी तक्षकुमारी ।५९ - ७२ - राज्ञः या कुमारी राजकुमारी तिष्ठति ।६० - ७२ - राज्ञः या कुमारी राजकुमारीम् पश्य ।६१ - ७२ - राज्ञः या कुमारी राजकुमार्या कृतम् ।६२ - ७२ - राज्ञः या कुमारी राजकुमार्यै देहि ।६३ - ७२ - राज्ञः या कुमारी राजकुमार्याः आनय ।६४ - ७२ - राज्ञः या कुमारी राजकुमार्याः स्वम् ।६५ - ७२ - राज्ञः या कुमारी राजकुमार्याम् निधेहि ।६६ - ७२ - राज्ञः या कुमारी हे राजकुमारि इति ।६७ - ७२ - किम् वक्तव्यम् एतत् ।६८ - ७२ - न हि ।६९ - ७२ - कथम् अनुच्यमानम् गंस्यते ।७० - ७२ - एकग्रहणसामर्थ्यात् ।७१ - ७२ - यदि हि यत् एकविभक्तियुक्तम् च अनेकविभक्तियुक्तम् च तत्र स्यात् एकग्रहणम् अनर्थकम् स्यात् ।७२ - ७२ - विभक्तियुक्तम् च अपूर्वनिपाते इति एव ब्रूयात् ।१ - ९० - पदार्थाभिधाने अनुप्रयोगानुपपत्तिः अभिहितत्वात् ।२ - ९० - पदार्थस्य अभिधाने अनुप्रयोगस्य अनुपपत्तिः ।३ - ९० - चित्रगुः देवदत्तः इति ।४ - ९० - किम् कारणम् ।५ - ९० - अभिहितत्वात् ।६ - ९० - चित्रगुशब्देन अभिहितः सः अर्थः इति कृत्वा अनुप्रयोगः न प्राप्नोति ।७ - ९० - न वा अनभिहितत्वात् ।८ - ९० - न वा एषः दोषः ।९ - ९० - किम् कारणम् ।१० - ९० - अनभिहितत्वात् ।११ - ९० - चित्रगुशब्देन अनभिहितः सः अर्थः इति कृत्वा अनुप्रयोगः भविष्यति ।१२ - ९० - कथम् अनभिहितः यावता इदानीम् एव उक्तम् पदार्थाभिधाने अनुप्रयोगानुपपत्तिः अभिहितत्वात् इति ।१३ - ९० - सामान्याभिधाने हि विशेषानभिधानम् ।१४ - ९० - सामान्ये हि अभिधीयमाने विशेषः अनभ्हितः भवति ।१५ - ९० - तत्र अवश्यम् विशेषार्थिना विशेषः अनुप्रयोक्तव्यः ।१६ - ९० - चित्रगुः ।१७ - ९० - कः ।१८ - ९० - देवदत्तः इति. भवेत् सिद्धम् यदा सामान्ये वृत्तिः ।१९ - ९० - यदा तु खलु विशेषे वृत्तिः तदा न सिध्यति ।२० - ९० - चित्रा गावः देवदत्तस्य चित्रगुः देवदत्तः इति ।२१ - ९० - तत् अपि सिद्धम् ।२२ - ९० - कथम् ।२३ - ९० - न इदम् उभयम् युगपत् भवति वाक्यम् च समासः च ।२४ - ९० - यदा वाक्यम् तदा न समासः ।२५ - ९० - यदा समासः तदा न वक्यम् ।२६ - ९० - यदा समासः तदा सामान्ये वृत्तिः ।२७ - ९० - तत्र अवश्यम् विशेषार्थिना विशेषः अनुप्रयोक्तव्यः ।२८ - ९० - चित्रगुः ।२९ - ९० - कः ।३० - ९० - देवदत्तः इति. सामान्यस्य एव तर्हि अनुप्रयोगः न प्राप्नोति ।३१ - ९० - चित्रगु तत् ।३२ - ९० - चित्रगु किम् चित् ।३३ - ९० - चित्रगु सर्वम् इति ।३४ - ९० - सामान्यम् अपि यथा विशेषः तद्वत् ।३५ - ९० - चित्रगु इति उक्ते सन्देहः स्यात् ।३६ - ९० - सर्वम् वा विश्वम् वा इति ।३७ - ९० - तत्र अवश्यम् सन्देहनिवृत्त्यर्थम् विशेषार्थिना विशेषः अनुप्रयोक्तव्यः ।३८ - ९० - अथ वा विभक्त्यर्थः अभिदीयते ।३९ - ९० - एतत् च अत्र युक्तम् यत् विभक्त्यर्थः अभिधीयते ।४० - ९० - तत्र हि सर्वपश्चात् पदम् वर्तते अस्य इति ।४१ - ९० - विभक्त्यर्थाभिधाने अद्रव्यस्य लिङ्गसङ्ख्योपचारानुपपत्तिः ।४२ - ९० - विभक्त्यर्थाभिधाने अद्रव्यस्य लिङ्गसङ्ख्याभ्याम् उपचारः अनुपपन्नः ।४३ - ९० - बहुयवम् बहुयवा बहुयवः बहुयवौ बहुहवाः इति ।४४ - ९० - अपरः आह ॒ विभक्त्यर्थाभिधाने अद्रव्यस्य लिङ्गसङ्ख्योपचारानुपपत्तिः विभक्त्यर्थाभिधाने द्रव्यस्य ये लिङ्गसङ्ख्ये ताभ्याम् विभक्त्यर्थस्य उपचारः अनुपपन्नः ।४५ - ९० - बहुयवम् बहुयवाः बहुयवः बहुयवौ बहुहवाः इति ।४६ - ९० - कथम् हि अन्यस्य लिङ्गसङ्ख्याभ्याम् अन्यस्य उपचारः स्यात् ।४७ - ९० - सिद्धम् तु यथा गुणवचनेषु ।४८ - ९० - सिद्धम् एतत्. कथम् ।४९ - ९० - यथा गुणवचनेषु ।५० - ९० - गुणवचनेषु उक्तम् ॒ गुणवचनानाम् शब्दानाम् आश्रयतः लिङ्गवचनानि भवन्ति इति ।५१ - ९० - तत् यथा शुक्लम् वस्त्रम् शुक्ला शाटी शुक्लः कम्बलः शुक्लौ कम्बलौ शुक्लाः कम्बलाः इति ।५२ - ९० - यत् असौ द्रव्यम् श्रितः भवति गुणः तस्य यत् लिङ्गम् वचनम् च तत् गुणस्य अपि भवति ।५३ - ९० - एवम् इह अपि यत् असौ द्रव्यम् श्रितः विभक्त्यर्थः तस्य यत् लिङ्गम् वचनम् च तत् समासस्य अपि भविष्यति ।५४ - ९० - यदि तर्हि विभक्त्यर्थः अभिधीयते कृत्स्नः पदार्थः कथम् अभिहितः भवति सद्रव्यः सलिङ्गः ससङ्ख्यः च ।५५ - ९० - अर्थग्रहणसामर्थ्यात् ।५६ - ९० - इह अनेकम् अन्यपदे इति इयता सिद्धम् ।५७ - ९० - कथम् पुनः पदे नाम वृत्तिः स्यात् ।५८ - ९० - शब्दः हि एषः ।५९ - ९० - शब्दे असम्भवात् अर्थे कार्यम् विज्ञास्यते ।६० - ९० - सः अयम् एवम् सिद्धे सति यत् अर्थग्रहणम् करोति तस्य एतत् प्रयोजनम् कृत्स्नः पदार्थः यथा अभिधीयेत सद्रव्यः सलिङ्गः ससङ्ख्यः च इति ।६१ - ९० - यदि तर्हि कृत्स्नः पदार्थः अभिधीयते लैङ्गाः साङ्ख्याः च विधयः न सिध्यन्ति ।६२ - ९० - उक्तम् वा ।६३ - ९० - किम् उक्तम् ।६४ - ९० - लिङ्गेषु तावत् ।६५ - ९० - सिद्धम् तु स्त्रियाः प्रातिपदिकविशेषणत्वात् स्वार्थे टाबादयः इति ।६६ - ९० - साङ्ख्येषु अपि उक्तम् कर्मादीनाम् अनुक्ताः एकत्वादयः इति कृत्वा साङ्ख्याः भविष्यन्ति ।६७ - ९० - प्रथमा तर्हि न प्राप्नोति ।६८ - ९० - समयात् भविष्यति ।६९ - ९० - यदि सामयिकी न नियोगतः अन्याः कस्मात् न भवन्ति ।७० - ९० - कर्मादीनाम् अभावात् ।७१ - ९० - षष्ठी तर्हि प्राप्नोति ।७२ - ९० - शेषलक्षणा षष्ठी ।७३ - ९० - अशेषत्वात् न भविष्यति ।७४ - ९० - एवम् अपि व्यतिकरः ।७५ - ९० - एकस्मिन् अपि द्विवचनबहुवचने प्राप्नुतः द्वयोः अपि एकवचनबहुवचने बहुषु अपि एकवचनद्विवचने ।७६ - ९० - अर्थतः व्यवस्था भविष्यति ।७७ - ९० - अथ वा सङ्ख्या नाम इयम् परप्रधाना ।७८ - ९० - सङ्ख्येअम् अन्या विशेष्यम् ।७९ - ९० - यदि च अत्र प्रथमा न स्यात् सङ्ख्येयम् अविशेषितम् स्यात् ।८० - ९० - अथ वा वक्ष्यति एतत् ।८१ - ९० - तत्र वचनग्रहणस्य प्रयोजनम् उक्तेषु अपि एकत्वादिषु प्रथमा यथा स्यात् इति ।८२ - ९० - एवम् अपि षष्ठी प्राप्नोति ।८३ - ९० - किम् कारणम् ।८४ - ९० - व्यभिचरति एव हि अयम् समासः लिङ्गसङ्ख्ये ।८५ - ९० - षष्थ्यर्थम् पुनः न व्यभिचरति ।८६ - ९० - अभिहितः सः अर्थः अन्तर्भूतः प्रातिपदिकार्थः सम्पन्नः ।८७ - ९० - तत्र प्रातिपदिकार्थे प्रथमा इति प्रथमा भविष्यति ।८८ - ९० - न तर्हि इदानीम् इदम् भवति ॒ चित्रगोः देवदत्तस्य ।८९ - ९० - भवति ।९० - ९० - बाह्यम् अर्थम् अपेक्ष्य षष्ठी ।१ - ६५ - परिगणनम् कर्तव्यम् ।२ - ६५ - बहुव्रीहिः समानाधिकरणानाम् ।३ - ६५ - समानाधिकरणानाम् बहुव्रीहिः वक्तव्यः ।४ - ६५ - किम् प्रयोजनम् ।५ - ६५ - व्यधिकरणानाम् मा भूत् इति ।६ - ६५ - पञ्चभिः भुक्तम् अस्य इति ।७ - ६५ - अव्ययानाम् च ।८ - ६५ - अव्ययानाम् बहुव्रीहिः वक्तव्यः ।९ - ६५ - उच्चैर्मुखः नीचैर्मुखः ।१० - ६५ - सप्तम्युपमानपूर्वपदस्य उत्तरपदलोपः च ।११ - ६५ - सप्तमीपूर्वस्य उपमानपूर्वस्य च बहुव्रीहिः वक्तव्यः उत्तरपदस्य च लोपः वक्तव्यः ।१२ - ६५ - कण्ठेस्थः कालः अस्य कण्ठेकालः उष्ट्रमुखम् इव मुखम् अस्य उष्ट्रमुखः खरमुखः ।१३ - ६५ - समुदायविकारषष्ठ्याः च ।१४ - ६५ - समुदायषष्ठ्याः विकारषष्ठ्याः च बहुव्रीहिः वक्तव्यः उत्तरपदस्य च लोपः वक्तव्यः ।१५ - ६५ - केशानाम् समाहारः चूडा अस्य केशचूडः सुवर्णस्य विकारः अलङ्कारः अस्य सुवर्णालङ्कारः ।१६ - ६५ - प्रादिभ्यः धातुजस्य वा ।१७ - ६५ - प्रादिभ्यः धातुजस्य बहुव्रीहिः वक्तव्यः उत्तरपदस्य च वा लोपः वक्तव्यः ।१८ - ६५ - प्रपतितपर्णः प्रपर्णः प्रपतितपलाशः प्रपलाशः ।१९ - ६५ - नञः अस्त्यर्थानाम् ।२० - ६५ - नञः अस्त्यर्थानाम् बहुव्रीहिः वक्तव्यः उत्तरपदस्य च वा लोपः वक्तव्यः ।२१ - ६५ - अविद्यमानपुत्रः अपुत्रः अविद्यमानभार्यः अभार्यः ।२२ - ६५ - तत् तर्हि बहु वक्तव्यम् ।२३ - ६५ - न वा अनभिधानात् असमानाधिकरणे सञ्ज्ञाभावः ।२४ - ६५ - न वा वक्तव्यम् ।२५ - ६५ - असमानाधिकरणानाम् बहुव्रीहिः कस्मात् न भवति ॒ पञ्चभिः भुक्तम् अस्य इति ।२६ - ६५ - अनभिधानात् ।२७ - ६५ - तत् च अवश्यम् अनभिधानम् आश्रयितव्यम् ।२८ - ६५ - क्रियमाणे अपि वै परिगणने यत्र अभिधानम् न अस्ति न भवति तत्र बहुव्रीहिः ।२९ - ६५ - तत् यथा पञ्च भुक्तवन्तः अस्य इति ।३० - ६५ - अथ एतस्मिन् सति अनभिधाने यदि वृत्तिपरिगणनम् क्रियते वर्तिपरिगणनम् अपि कर्तव्यम् ।३१ - ६५ - तत् कथम् कर्तव्यम् ।३२ - ६५ - अर्थनियमे मत्वर्थग्रहणम् ।३३ - ६५ - अर्थनियमे मत्वर्थग्रहणम् कर्तव्यम् ।३४ - ६५ - मत्वर्थे यः सः बहुव्रीहिः इति वक्तव्यम् ।३५ - ६५ - इह मा भूत् ॒ कष्टम् श्रितम् अनेन इति ।३६ - ६५ - तथा च उत्तरस्य वचनार्थः ।३७ - ६५ - एवम् च कृत्वा उत्तरस्य योगस्य वचनार्थः उपपन्नः भवति ।३८ - ६५ - के चित् तावत् आहुः ॒ यत् वृत्तिसूत्रे इति ।३९ - ६५ - सङ्ख्याव्ययासन्नादूराधिकसङ्ख्याः सङ्ख्येये इति ।४० - ६५ - अपरः आह ॒ यत् वार्त्तिके इति ।४१ - ६५ - कर्मवचनेन अप्रथ्मायाः ।४२ - ६५ - कर्मवचनेन अप्रथ्मायाः बहुव्रीहिः वक्तव्यः ।४३ - ६५ - ऊढः रथः अनेन ऊढरथः अनड्वान् उपहृतः पशुः रुद्राय उपहृतपशुः रुद्रः उद्धृतः ओदनः स्थाल्याः उद्धृतौदना स्थाली ।४४ - ६५ - यदि कर्मवचनेन इति उच्यते कर्तृवचनेन कथम् ।४५ - ६५ - प्राप्तम् उदकम् ग्रामम् प्राप्तोदकः ग्रामः आगताः अतिथयः ग्रामम् आगतातिथिः ग्रामः ।४६ - ६५ - कर्तृवचनेन अपि ।४७ - ६५ - कर्तृवचनेन अपि इति वक्तव्यम् ।४८ - ६५ - अप्रथमायाः इति किमर्थम् ।४९ - ६५ - वृष्टे देवे गतः ।५० - ६५ - अप्रथमायाः इति उच्यमाने इह कस्मात् न भवति ।५१ - ६५ - वृष्टे देवे गतम् पश्य इति ।५२ - ६५ - बहिरङ्गा अत्र अप्रथमा ।५३ - ६५ - सुबधिकारे अस्तिक्षीरादिवचनम् ।५४ - ६५ - सुबधिकारे अस्तिक्षीरादीनाम् उपसङ्ख्यानम् कर्तव्यम् ।५५ - ६५ - अस्तिक्षीरा ब्राह्मणी ।५६ - ६५ - तत् तर्हि वक्तव्यम् ।५७ - ६५ - न वा अव्ययत्वात् ।५८ - ६५ - न वा वक्तव्यम् ।५९ - ६५ - किम् कारणम् ।६० - ६५ - अव्ययत्वात् ।६१ - ६५ - अव्ययः अयम् अस्तिशब्दः ।६२ - ६५ - न एषः अस्तेः लट् ।६३ - ६५ - कथम् अव्ययत्वम् ।६४ - ६५ - उपसर्गविभक्तिस्वरप्रतिरूपकाः च निपातसञ्ज्ञाः भवन्ति इति निपातस्ञ्ज्ञा ।६५ - ६५ - निपातः अव्ययम् इति अव्ययसञ्ज्ञा ।१ - १०१ - अथ किंसब्रह्मचारी इति कः अयम् समासः ।२ - १०१ - बहुव्रीहिः इति अह ।३ - १०१ - कः अस्य विग्रहः ।४ - १०१ - के सब्रह्मचारिणः अस्य इति ।५ - १०१ - यदि एवम् कठः इति प्रतिवचनम् न उपपद्यते ।६ - १०१ - न हि अन्यत् पृष्टेन अन्यत् आख्यायते ।७ - १०१ - एवम् तर्हि एवम् विग्रहः करिष्यते ॒ केषाम् सब्रह्मचारी किंस्ब्रह्मचारी इति ।८ - १०१ - प्रतिवचनम् च एव न उपपद्यते स्वरे च दोषः भवति ।९ - १०१ - किंसब्रह्मचारी इति एवम् स्वरः प्रसज्येत ।१० - १०१ - किंसब्रह्मचारी इति च इष्यते ।११ - १०१ - एवम् तर्हि एवम् विग्रहः करिष्यते ।१२ - १०१ - कः सब्रह्मचारी किंसब्रह्मचारी इति ।१३ - १०१ - भवेत् प्रतिवचनम् उपपन्नम् स्वरे तु दोषः भवति ।१४ - १०१ - एवम् तर्हि एवम् विग्रहः करिष्यते ।१५ - १०१ - कः सब्रह्मचारी तव किंसब्रह्मचारी त्वम् इति ।१६ - १०१ - अथ वा पुनः अस्तु एवम् विग्रहः ॒ के सब्रह्मचारिणः अस्य इति ।१७ - १०१ - ननु च उक्तम् कठः इति प्रतिवचनम् न उपपद्यते ।१८ - १०१ - न एषः दोषः ।१९ - १०१ - अग्नौकरवाणिन्यायेन भविष्यति ।२० - १०१ - तत् यथा ।२१ - १०१ - कः चित् कम् चित् आह ।२२ - १०१ - अग्नौ करवाणि इति ।२३ - १०१ - कुरु इति कर्तरि अनुज्ञाते कर्म अपि अनुज्ञातम् भवति ।२४ - १०१ - अपरः आह ॒ अग्नौ करिष्यते इति ।२५ - १०१ - क्रियताम् इति कर्मणि अनुज्ञाते कर्ता अपि अनुज्ञातः भवति ।२६ - १०१ - यथा एव खलु अपि के सब्रह्मचारिणः अस्य इति कठाः इति उक्ते सम्बन्धात् एतत् गम्यते ।२७ - १०१ - नूनम् सः अपि कठ इति ।२८ - १०१ - एवम् कठः इति उक्ते सम्बन्धात् एतत् गन्तव्यम् स्यात् ।२९ - १०१ - नूनम् ते अपि कठाः इति ।३० - १०१ - न खलु अपि ते शक्याः समासेन प्रतिनिर्देष्टुम् ।३१ - १०१ - उपसर्जनम् हे ते भवन्ति ।३२ - १०१ - अथ अर्थतृतीयाः इति कः अयम् समासः ।३३ - १०१ - बहुव्रीहिः इति आह ।३४ - १०१ - कः अस्य विग्रहः ।३५ - १०१ - अर्धम् तृतीयम् एषाम् इति ।३६ - १०१ - कः समासार्थः ।३७ - १०१ - समासार्थः न उपपद्यते ।३८ - १०१ - अन्यपदार्थः हि नाम सः भवति ।३९ - १०१ - येषाम् पदानाम् समासः ततः अन्यस्य पदस्य अर्थः अन्यपदार्थः ।४० - १०१ - एवम् तर्हि एवम् विग्रहः करिष्यते ।४१ - १०१ - अर्धम् तृतीयम् अनयोः इति ।४२ - १०१ - एवम् अपि कः षष्ठ्यर्थः ।४३ - १०१ - षष्ठ्यर्थः न उपपद्यते ।४४ - १०१ - किम् हि तयोः अर्धम् भवति ।४५ - १०१ - अस्तु तरि एवम् विग्रहः अर्धम् तृतीयम् एषाम् इति ।४६ - १०१ - ननु च उक्तम् समासार्थः न उपपद्यते इति ।४७ - १०१ - न एषः दोषः ।४८ - १०१ - अवयवेन विग्रहः समुदायः समासार्थः ।४९ - १०१ - यदि अवयवेन विग्रहः समुदायः समासार्थः असिद्वितीयः अनुससार पाण्डवम् ।५० - १०१ - सङ्कर्षणद्वितीयस्य बलम् कृष्णस्य वर्धताम् इति. द्वयोः द्विवचनम् प्राप्नोति ।५१ - १०१ - अस्तु तर्हि अयम् एव विग्रहः अर्धम् तृतीयम् अनयोः ।५२ - १०१ - ननु च उक्तम् ।५३ - १०१ - षष्ठ्यर्थः न उपपद्यते इति ।५४ - १०१ - न एषः दोषः ।५५ - १०१ - इदम् तावत् अयम् प्रष्टव्यः ।५६ - १०१ - अथ इह देवदत्तस्य भ्राता इति कः षष्ठ्यर्थः ।५७ - १०१ - तत्र एतत् स्यात् ।५८ - १०१ - एकस्मात् प्रादुर्भावः इति ।५९ - १०१ - एतत् च वार्तम् ।६० - १०१ - तत् यथा ।६१ - १०१ - सार्थिकनम् एकप्रतिश्रये उषितानाम् प्रातः उत्थाय प्रतिष्ठमानानाम् न कः चित् परस्परम् सम्बन्धः भवति ।६२ - १०१ - एवञ्जातीयकम् भ्रातृत्वम् नाम ।६३ - १०१ - अत्र चेत् युक्तः षष्ठ्यर्थः दृश्यते इह अपि युक्तः दृश्यताम् ।६४ - १०१ - इह तर्हि अर्धतृतीयाः आनीयन्ताम् इति उक्ते अर्धस्य आनयनम् न प्राप्नोति ।६५ - १०१ - अस्तु तर्हि अयम् एव विग्रहः अर्धम् तृतीयम् एषाम् इति ।६६ - १०१ - ननु च उक्तम् अनुससार पाण्डवम् ।६७ - १०१ - सङ्कर्षणद्वितीयस्य बलम् कृष्णस्य वर्धताम् इति. द्वयोः द्विवचनम् प्राप्नोति इति ।६८ - १०१ - न एषः दोषः ।६९ - १०१ - अयम् तीयन्तः शब्दः अस्ति एव पूरणम् ।७० - १०१ - अस्ति सहायवाची ।७१ - १०१ - तत् यः सहायवाची तस्य इदम् ग्रहणम् ।७२ - १०१ - असिद्वितीयः असिसहायः इति गम्यते ।७३ - १०१ - एवम् अपि अर्धतृतीयाः इति एकस्मिन् एकवचनम् इति एकवचनम् प्राप्नोति ।७४ - १०१ - एकार्थाः हि समुदायाः भवन्ति ।७५ - १०१ - तत् यथा शतम् यूथम् वनम् इति ।७६ - १०१ - अस्तु तर्हि अयम् एव विग्रहः अर्धम् तृतीयम् अनयोः इति ।७७ - १०१ - ननु च उक्तम् अर्धतृतीयाः आनीयन्ताम् इति उक्ते अर्धस्य आनयनम् न प्राप्नोति इति ।७८ - १०१ - न एषः दोषः ।७९ - १०१ - भवति बहुव्रीहौ तद्गुणसंविज्ञानम् अपि ।८० - १०१ - तत् यथा ।८१ - १०१ - शुक्लवाससम् आनय ।८२ - १०१ - लोहितोष्णीषाः ऋत्विजः प्रचरन्ति इति ।८३ - १०१ - तद्गुणः आनीयते तद्गुणाः च प्रचरन्ति ।८४ - १०१ - अथ वा पुनः अस्तु अयम् एव विग्रहः अर्धम् तृतीयम् एषाम् इति ।८५ - १०१ - ननु च उक्तम् एकवचनम् प्राप्नोति इति ।८६ - १०१ - न एषः दोषः ।८७ - १०१ - सङ्ख्या नाम इयम् परप्रधाना ।८८ - १०१ - सङ्ख्येयम् अनया विशेष्यम् ।८९ - १०१ - यदि च अत्र एकवचनम् स्यात् सङ्ख्येयम् अविशेषितम् स्यात्९० - १०१ - इह तर्हि अर्धतृतीयाः द्रोणाः इति अयम् द्रोणशब्दः समुदाये प्रवृत्तः अवयवे न उपपद्यते ।९१ - १०१ - न एषः दोषः ।९२ - १०१ - समुदायेषु अपि शब्दाः प्रवृत्ताः अवयवेषु अपि वर्तन्ते. तद् यथा ।९३ - १०१ - पूर्वे पञ्चालाः उत्तरे पञ्चालाः तैलम् भुक्तम् घृतं भुक्तम् शुक्लः नीलः कपिलः कृष्णः इति ।९४ - १०१ - एवम् अयम् समुदाये द्रोणशब्दः प्रवृत्तः अवयवेषु अपि वर्तति ।९५ - १०१ - कामम् तर्हि अनेन एव हेतुना यदा द्वौ द्रोणौ अर्धार्ढकम् च कर्तव्यम् अर्धतृतीयाः द्रोणाः इति ।९६ - १०१ - न कर्तव्यम् ।९७ - १०१ - समुदायेषु अपि हि शब्दाः प्रवृत्ताः अवयवेषु अपि वर्तन्ते. केषु अवयवेषु ।९८ - १०१ - यः अवयवः तम् समुदायम् न व्यभिचरति ।९९ - १०१ - कम् च समुदायम् न व्यभिचरति ।१०० - १०१ - अर्ध्द्रोणः द्रोणम् ।१०१ - १०१ - अर्धाढकम् पुनः व्यभिचरति । N/A References : N/A Last Updated : January 17, 2018 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP