संस्कृत सूची|संस्कृत स्तोत्र साहित्य|व्याकरणः|व्याकरणमहाभाष्य|अध्याय १|पाद ४| खण्ड २० पाद ४ खण्ड १८ खण्ड १९ खण्ड २० खण्ड २१ पाद ४ - खण्ड २० व्याकरणमहाभाष्य म्हणजे पाणिनि लिखीत अष्टाध्यायीतील काही निवडक सूत्रांवर पतञ्जलिने केलेले भाष्य. या ग्रंथाची रचना ई.पू २०० ते ई.पू १४० मध्ये केली गेली, असे मत व्याकरण पंडितांचे आहे. Tags : grammerpaninivyakaranamahabhashyaपाणिनिव्याकरणव्याकरणमहाभाष्य खण्ड २० Translation - भाषांतर २ - ५७ - ग्रामात् आगच्छति शकटेन ।३ - ५७ - न एतत् अस्ति ।४ - ५७ - करणसञ्ज्ञा अत्र बाधिका भविष्यति ।५ - ५७ - इदम् तर्हि ग्रामात् आगच्छन् कंसपात्र्याम् पाणिना ओदनम् भुङ्क्ते इति ।६ - ५७ - अत्र अपि अधिकरणसञ्ज्ञा बाधिका भविष्यति ।७ - ५७ - इदम् तर्हि वृक्षस्य पर्णम् पतति ।८ - ५७ - कुड्यस्य पिण्डः पतिति इति ।९ - ५७ - जुगुप्साविरामप्रमादार्थानाम् उपसम्ख्यानम् । जुगुप्साविरामप्रमादार्थानाम् उपसम्ख्यानम् कर्तव्यम् ।१० - ५७ - जुगुप्सा ।११ - ५७ - अधर्मात् जुगुप्सते. अधर्मात् बीभत्सते ।१२ - ५७ - विराम । धर्मात् विरमति. धर्मात् निवर्तते ।१३ - ५७ - प्रमाद ।१४ - ५७ - धर्मात् प्रमाद्यति ।१५ - ५७ - धर्मात् मुह्यति ।१६ - ५७ - इह च उपसम्ख्यानम् कर्तव्यम् ।१७ - ५७ - साम्काश्यकेभ्यः पाटलिपुत्रकाः अभिरूपतराः इति ।१८ - ५७ - तत् तर्हि इदम् वक्तव्यम् ।१९ - ५७ - न वक्तव्यम् ।२० - ५७ - इह तावत् अधर्मात् जुगुप्सते अधर्मात् बीभत्सते इति ।२१ - ५७ - यः एषः मनुष्यः प्रेक्षापूर्वकारी भवति सः पश्यति दुःखः अधर्मः न अनेन कृत्यम् अस्ति इति ।२२ - ५७ - सः बुद्ध्या सम्प्राप्य निवर्तते ।२३ - ५७ - तत्र ध्रुवमपाये अपादानम् इति एव सिद्धम् ।२४ - ५७ - इह च धर्मात् विरमति धर्मात् निवर्तते इति धर्मात् प्रमाद्यति धर्मात् मुह्यति इति ।२५ - ५७ - यः एषः मनुष्यः सम्भिन्नबुद्धिः भवति सः पश्यति न इदम् किम् चित् धर्मः नाम न एनम् करिष्यामि इति ।२६ - ५७ - सः बुद्ध्या सम्प्राप्य निवर्तते ।२७ - ५७ - तत्र ध्रुवमपाये अपादानम् इति एव सिद्धम् ।२८ - ५७ - इह च साम्काश्यकेभ्यः पाटलिपुत्रकाः अभिरूपतराः इति ।२९ - ५७ - यः तैः साम्यम् गतवान् भवति सः एतत्प्रयुङ्क्ते ।३० - ५७ - गतियुक्तेषु अपादानसञ्ज्ञा न पपद्यते अध्रुवत्वात् । गतियुक्तेषु अपादानसञ्ज्ञा न उपपद्यते ।३१ - ५७ - अश्वात् त्रस्तात् पतितः ।३२ - ५७ - रथात् प्रवीतात् पतितः ।३३ - ५७ - सार्थात् गच्छतः हीनः इति ।३४ - ५७ - किम् कारणम् ।३५ - ५७ - अध्रुवत्वात् ।३६ - ५७ - न वा अध्रौव्यस्य अविविक्षितत्वात् ।३७ - ५७ - न वा एषः दोषः ।३८ - ५७ - किम् कारणम् ।३९ - ५७ - अध्रौव्यस्य अविवक्षितत्वात् ।४० - ५७ - न अत्र अध्रौव्यम् विवक्षितम् ।४१ - ५७ - किम् तर्हि ।४२ - ५७ - ध्रौव्यम् ।४३ - ५७ - इह तावत् अश्वात् त्रस्तात् पतितः इति ।४४ - ५७ - यत् तदश्वे अश्वत्वम् आशुगामित्वम् तत् ध्रुवम् तत् च विवक्षितम् ।४५ - ५७ - रथात् प्रवीतात् पतितः इति यत् तत् रथे रथत्वम् रमन्ते अस्मिन् रथः इति तत् ध्रुवम् तत् च विवक्षितम् ।४६ - ५७ - सार्थात् गच्छतः हीनः इति यत् तत्सार्थे सार्थत्वम् सहार्थीभावः तत् ध्रुवम् तत् च विवक्षिक्तम् ।४७ - ५७ - यदि अपि तावत् अत्र एतत् शक्यते वक्तुम् ये तु एते अत्यन्तगतियुक्ताः तत्र कथम् ।४८ - ५७ - धावतः पतितः ।४९ - ५७ - त्वरमाणात् पतितः इति ।५० - ५७ - अत्र अपि न वा अध्रौव्यस्य अविवक्षितत्वात् इति एव सिद्धम् ।५१ - ५७ - कथम् पुनः सतः नाम अविवक्षा स्यात् ।५२ - ५७ - सतः अपि अविवक्षा भवति ।५३ - ५७ - तत् यथा अलोमिका एडका ।५४ - ५७ - अनुदरा कन्य इति ।५५ - ५७ - असतः च विवक्षा भवति ।५६ - ५७ - समुद्रः कुण्डिका ।५७ - ५७ - विन्ध्यः वर्धितकम् इति१ - १० - अयम् योगः शक्यः अवक्तुम् ।२ - १० - कथम् वृकेभ्यः बिभेति दस्युभ्यः बिभेति चौरेभ्यः त्रायते दस्युभ्यः त्रायते इति ।३ - १० - इह तावत् वृकेभ्यः बिभेति दस्युभ्यः बिभेति इति ।४ - १० - यः एषः मनुष्यः प्रेक्षापूर्वकारी भवति सः पश्यति यदि माम् वृकाः पश्यन्ति ध्रुवः मे मृत्युः इति ।५ - १० - सः बुद्ध्या सम्प्राप्य निवर्तते ।६ - १० - तत्र ध्रुवम् अपाये अपादानम् इति एव सिद्धम् ।७ - १० - इह चौरेभ्यः त्रायते दस्युभ्यः त्रायते इति ।८ - १० - यः एषः मनुष्यः प्रेक्षापूर्वकारी भवति सः पश्यति यदि इमम् पश्यन्ति ध्रुवम् अस्य वधबन्धपरिक्लेशाः इति ।९ - १० - सः बुद्ध्या सम्प्राप्य निवर्तते ।१० - १० - तत्र ध्रुवम् अपाये अपादानम् इति एव सिद्धम् ।१ - ५ - अयम् अपि योगः शक्यः अवक्तुम् ।२ - ५ - कथम् अध्ययनात् पराजयते इति ।३ - ५ - यः एषः मनुष्यः प्रेक्षापूर्वकारी भवति सः पश्यति दुःखम् अध्ययनम् दुर्धरम् च गुरवः च दुरुपचाराः इति ।४ - ५ - सः बुद्ध्या सम्प्राप्य निवर्तते ।५ - ५ - तत्र ध्रुवम् अपाये अपादानम् इति एव सिद्धम् ।१ - २७ - किम् उदाहरणम् ।२ - २७ - माषेभ्यः गाः वारयति ।३ - २७ - भवेद् यस्य माषाः न गावः तस्य माषाः ईप्सिताः स्युः ।४ - २७ - यस्य तु खलु गावः न माषाः कथम् तस्य माषाः ईप्सिताः स्युः ।५ - २७ - तस्य अपि माषाः एव ईप्सिताः ।६ - २७ - आतः च ईप्सिताः यवेभ्य्ः गाः वारयति ।७ - २७ - इह कूपात् अन्धम् वारयति इति कूपे अपादानसञ्ज्ञा न प्राप्नोति ।८ - २७ - न हि तस्य कूपः ईप्सितः ।९ - २७ - कः तर्हि ।१० - २७ - अन्धः ।११ - २७ - तस्य अपि कूपः एव ईप्सितः ।१२ - २७ - पश्यति अयम् अन्धः कूपम् मा प्रापत् इति ।१३ - २७ - अथ वा यथा एव अस्य अन्यत्र अपश्यतः ईप्सा एवम् कूपे अपि ।१४ - २७ - इह अग्नेः माणवकम् वारयति इति माणवके अपादानसञ्ज्ञा प्राप्नोति ।१५ - २७ - कर्मसञ्ज्ञात्र बाधिका भविष्यति ।१६ - २७ - अग्नौ अपि तर्हि बाधिका स्यात् ।१७ - २७ - तस्मात् वक्तव्यम् कर्मणः यत् ईप्सितम् इति ईप्सितेप्सितम् इति वा ।१८ - २७ - वारणर्थेषु कर्मग्रहणानर्थक्यम् कर्तुः ईप्सिततमम् कर्म इति वचनात् ।१९ - २७ - वारणार्थेषु कर्मग्रहणम् अनर्थकम् ।२० - २७ - किम् कारणम् ।२१ - २७ - कर्तुः ईप्सिततमम् कर्म इति वचनात् ।२२ - २७ - कर्तुः ईप्सिततमम् कर्म इति एव सिद्धम् ।२३ - २७ - अयम् अपि योगः शक्यः अवक्तुम् ।२४ - २७ - कथम् माषेभ्यः गाः वारयति इति ।२५ - २७ - पश्यति अयम् यदि इमाः गावः तत्र गच्छन्ति ध्रुवम् सस्यविनाशः सस्यविनाशे अधर्मः च एव राजभयम् च ।२६ - २७ - सः बुद्ध्या सम्प्राप्य निवर्तते ।२७ - २७ - तत्र ध्रुवम् अपाये अपादानम् इति एव सिद्धम् ।१ - ५ - अयम् अपि योगः शक्यः अवक्तुम् ।२ - ५ - कथम् उपाध्यायात् अन्तर्धत्ते इति ।३ - ५ - पश्यति अयम् यदि माम् उपाध्यायः पश्यति ध्रुवम् प्रेषणम् उपालम्भः वा इति ।४ - ५ - सः बुद्ध्या सम्प्राप्य निवर्तते ।५ - ५ - तत्र ध्रुवम् अपाये अपादानम् इति एव सिद्धम् ।१ - ३० - उपयोगे इति किमर्थम् ।२ - ३० - नटस्य शृणोति ।३ - ३० - ग्रन्थिकस्य शृणोति ।४ - ३० - उपयोगे इति उच्यमाने अपि अत्र प्राप्नोति ।५ - ३० - एषः अपि हि उपयोगः ।६ - ३० - आतः च उपयोगः यत् आरम्भकाः रङ्गम् गच्छन्ति नटस्य श्रोष्यामः , ग्रन्थिकस्य श्रोष्यामः इति ।७ - ३० - एवम् तर्हि उपयोगे इति उच्यते सर्वः च उपयोगः ।८ - ३० - तत्र प्रकर्षगतिः विज्ञास्यते ॒ साधीयः यः उपयोगः इति ।९ - ३० - कः च साधीयः ।१० - ३० - यः ग्रन्थार्थयोः ।११ - ३० - अथ वा उपयोगः कः भवितुम् अर्हति ।१२ - ३० - यः नियमपूर्वकः ।१३ - ३० - तत् यथा उपयुक्ताः माणवकाः इति उच्यन्ते ये एते नियमपूर्वकम् अधीतवन्तः भवन्ति ।१४ - ३० - किम् पुनः आख्याता अनुपयोगे कारकम् आहोस्वित् अकारकम् ।१५ - ३० - कः च अत्र विशेषः ।१६ - ३० - आख्याता अनुपयोगे कारकम् इति चेत् अकथित्वात् कर्मसञ्ज्ञाप्रसङ्गः । आख्याता अनुपयोगे कारकम् इति चेत् अकथित्वात् कर्मसञ्ज्ञा प्राप्नोति ।१७ - ३० - अस्तु तर्हि अकारकम् ।१८ - ३० - अकारकम् इति चेत् उपयोगवचनानर्थक्यम् ।१९ - ३० - यदि अकारकम् उपयोगवचनम् अनर्थकम् ।२० - ३० - अस्तु तर्हि कारकम् ।२१ - ३० - ननु च उक्तम् आख्याता अनुपयोगे कारकम् इति चेत् अकथितत्वात् कर्मसञ्ज्ञाप्रसङ्गः इति ।२२ - ३० - न एषः दोषः ।२३ - ३० - परिगणनम् तत्र क्रियते ।२४ - ३० - दुहियाचिरुधिप्रच्छिभिक्षिचिञाम् इति ।२५ - ३० - अयम् अपि योगः शक्यः अवक्तुम् ।२६ - ३० - कथम् उपाध्यायात् अधीते इति ।२७ - ३० - अपक्रामति तस्मात् तदध्ययनम् ।२८ - ३० - यदि अपक्रामति किम् न अत्यन्ताय अपक्रामति ।२९ - ३० - सत्ततत्वात् ।३० - ३० - अथ वा ज्योतिर्वत् ज्ञानानि भवन्ति ।१ - ७ - अयम् अपि योगः शक्यः अवक्तुम् ।२ - ७ - कथम् गोमयात् वृश्चिकः जायते ।३ - ७ - गोलोमाविलोमभ्यः दुर्वाः जायन्ते इति ।४ - ७ - अपक्रामन्ति ताः तेभ्यः ।५ - ७ - यदि अपक्रामति किम् न अत्यन्ताय अपक्रामति ।६ - ७ - सन्ततत्वात् ।७ - ७ - अथ वा अन्याः चन्याः च प्रादुर्भवन्ति ।१ - ६ - अयम् अपि योगः शक्यः अवक्तुम् ।२ - ६ - कथम् हिमवतः गङ्गा प्रभवति इति ।३ - ६ - अपक्रामन्ति ताः तस्मात् आपः ।४ - ६ - यदि अपक्रामति किम् न अत्यन्ताय अपक्रामति ।५ - ६ - सन्ततत्वात् ।६ - ६ - अथ वा अन्याः चन्याः च प्रादुर्भवन्ति ।१ - १७ - कर्मग्रहणम् किमर्थम् ।२ - १७ - यम् अभिप्रैति सः सम्प्रदानम् इति इयति उच्यमाने कर्मणः एव सम्प्रदानसञ्ज्ञा प्रसज्येत ।३ - १७ - कर्मग्रहणे पुनः क्रियमाणे न दोषः भवति ।४ - १७ - कर्म निमित्तत्वेन आश्रीयते ।५ - १७ - अथ यम्सग्रहणम् किमर्थम् ।६ - १७ - कर्मणा अभिप्रैति सम्प्रदानम् इति इयति उच्यमाने अभिप्रयतः एव सम्प्रदानसञ्ज्ञा प्रसज्येत ।७ - १७ - यम्सग्रहणे पुनः क्रियमाणे न दोषः भवति ।८ - १७ - यम्सग्रहणात् अभिप्रयतः सम्प्रदानसञ्ज्ञा निर्भज्यते ।९ - १७ - अथ अभिप्रग्रहणम् किमर्थम् ।१० - १७ - कर्मणा यम् एति स सम्प्रदानम् इति इयति उच्यमाने यम् एव सम्प्रत्येति तत्र एव स्यात् ।११ - १७ - उपाध्यायाय गाम् ददाति इति ।१२ - १७ - इह न स्यात् ।१३ - १७ - उपाध्यायाय गाम् अदात् ।१४ - १७ - उपाध्यायाय गाम् दास्यति इति ।१५ - १७ - अभिप्रग्रहणे पुनः क्रियमाणे न दोषः भवति ।१६ - १७ - अभिः आभिमुख्ये वर्तते प्रशब्दः आदिकर्मणि ।१७ - १७ - तेन यम् च अभिप्रैति यम् च अभिप्रैष्यति यम् च अभिप्रागाद् आभिमुख्यमात्रे सर्वत्र सिद्धम् भवति ।१ - २५ - क्रियाग्रहणम् अपि कर्तव्यम् ।२ - २५ - इह अपि यथा स्यात् ।३ - २५ - श्राद्धाय निगर्हते ।४ - २५ - युद्धाय सन्नह्यते ।५ - २५ - पत्ये शेते इति ।६ - २५ - तत् तर्हि वक्तव्यम् ।७ - २५ - न वक्तव्यम् ।८ - २५ - कथम् ।९ - २५ - क्रियाम् हि लोके कर्म इति उपचरन्ति ।१० - २५ - काम् क्रियाम् करिष्यसि ।११ - २५ - किम् कर्म करिष्यसि इति ।१२ - २५ - एवम् अपि कर्तव्यम् ।१३ - २५ - कृत्रिमाकृत्रिमयोः कृत्रिमे सम्प्रत्ययः भवति ।१४ - २५ - क्रिया अपि कृत्रिमम् कर्म ।१५ - २५ - न सिध्यति ।१६ - २५ - कर्तुः ईप्सिततमम् कर्म इति उच्यते कथम् च नाम क्रियया क्रिया ईप्सिततमा स्यात् ।१७ - २५ - क्रिया अपि क्रियया ईप्सिततमा भवति ।१८ - २५ - कया क्रियया ।१९ - २५ - सन्दर्शनक्रियया वा प्रार्थयतिक्रियया वा अध्यवस्यतिक्रियया वा ।२० - २५ - इह यः एषः मनुष्यः प्रेक्षापूर्वकारी भवति सः बुद्ध्या तावत् कम्चिदर्थम् सम्पश्यति सन्दृष्टे प्रार्थना प्रार्थनायाम् अधवसायः अध्यवसाये आरम्भः आरम्भे निर्वृत्तिः निर्वृत्तौ फलावाप्तिः ।२१ - २५ - एवम् क्रिया अपि कृत्रिमम् कर्म ।२२ - २५ - एवम् अपि कर्मणः करणसञ्ज्ञा वक्तव्या सम्प्रदानस्य च कर्मसञ्ज्ञा ।२३ - २५ - पशुना रुद्रम् यजते ।२४ - २५ - पशुम् रुद्राय ददाति इति अर्थः ।२५ - २५ - अग्नौ किल पशुः प्रक्षिप्यते तत् रुद्राय पह्रियते इति ।१ - ६ - किमेते एकार्थाः आहोस्वित् नानार्थाः ।२ - ६ - किम् च अतः ।३ - ६ - यदि एकार्थाः किमर्थम् पृथक् निर्दिश्यन्ते ।४ - ६ - अथ नानार्थाः कथम् कुपिना शक्यन्ते विशेषयितुम् ।५ - ६ - एवम् तर्हि नानार्थाः कुपौ तु एषाम् सामान्यम् अस्ति ।६ - ६ - न हि अकुपितः क्रुध्यते न वा अकुपितः द्रुह्यति न वा अकुपितः ईर्ष्यति न वा अकुपितः असूयति ।१ - २५ - तमग्रहणम् किमर्थम् न साधकम् करणम् इति एव उच्येत षाधकम् करणम् इति इयति उच्यमाने सर्वेषाम् कारकाणाम् करणसञ्ज्ञा प्रसज्येत ।२ - २५ - सर्वाणि हि कारकाणि साधकानि ।३ - २५ - तमग्रहणे पुनः क्रियमाणे न दोषः भवति ।४ - २५ - न एतत् अस्ति प्रयोजनम् ।५ - २५ - पूर्वाः तावत् सञ्ज्ञाः अपवादत्वात् बाधिकाः भविष्यन्ति पराः परत्वात् च अनवकाशत्वात् च ।६ - २५ - इह तर्हि धनुषा विध्यति अपाययुक्तत्वात् च अपादानसञ्ज्ञा साधकत्वात् च करणसञ्ज्ञा प्राप्नोति ।७ - २५ - तमग्रहणे पुनः क्रियमाणे न दोषः भवति ।८ - २५ - एवम् तर्हि लोकतः एतत् सिद्धम् ।९ - २५ - तत् यथा ।१० - २५ - लोके अभिरूपाय उदकमानेयम् अभिरूपाय कन्या देया इति न च अनभिरूपे प्रवृत्तिः अस्ति ।११ - २५ - तत्र अभिरूपतमाय इति गम्यते ।१२ - २५ - एवम् इह अपि साधकम् करणम् इति उच्यते सर्वाणि च कारकाणि साधकानि न च असाधके प्रवृत्तिः अस्ति ।१३ - २५ - तत्र साधकतमम् इति विज्ञास्यते ।१४ - २५ - एवम् तर्हि सिद्धे सति यत् तमग्रहणम् करोति तत् ज्ञापयति आचार्यः कारकसञ्ज्ञायाम् तरतमयोगः न भवति इति ।१५ - २५ - किम् एतस्य ज्ञापने प्रयोजनम् ।१६ - २५ - अपादानम् आचार्यः किम् न्याय्यम् मन्यते ।१७ - २५ - यत्र सम्प्राप्य निवृत्तिः ।१८ - २५ - तेन इह एव स्यात् ग्रामात् आगच्छति नगरात् आगच्छति इति ।१९ - २५ - साङ्काश्यकेभ्यः पाटलिपुत्रकाः अभिरूपतराः इति अत्र न स्यात् ।२० - २५ - कारकसञ्ज्ञायाम् तरतमयोगः न भवति इति अत्र अपि सिद्धम् भवति ।२१ - २५ - तथा आधारम् आचार्यः किम् न्याय्यम् मन्यते ।२२ - २५ - यत्र कृत्स्नः आधारात्मा व्याप्तः भवति ।२३ - २५ - तेन इह एव स्यात् तिलेषु तैलम् दध्नि सर्पिः इति ।२४ - २५ - गङ्गायाम् गावः कूपे गर्गर्कुलम् इति अत्र न स्यात् ।२५ - २५ - कारकसञ्ज्ञायाम् तरतमयोगः न भवति इति अत्र अपि सिद्धम् भवति ।१ - ८ - वसेः अश्यर्थस्य प्रतिषेधः । वसेः अश्यर्थस्य प्रतिषेधः वक्तव्यः ।२ - ८ - ग्राम उपवसति इति ।३ - ८ - सः तर्हि वक्तव्यः ।४ - ८ - न वक्तव्यः ।५ - ८ - न अत्र उपपूर्वस्य वसेः ग्रामः अधिकरणम् ।६ - ८ - कस्य तर्हि ।७ - ८ - अनुपसर्गस्य ।८ - ८ - ग्रामे असौ वसन् त्रिरात्रम् उपवसति इति ।१ - ६ - तमग्रहणम् किमर्थम् ।२ - ६ - कर्तुः ईप्सितम् कर्म इति इयति उच्यमाने इह॒ अग्नेः माणवकम् वारयति इति माणवके अपादानसञ्ज्ञा प्रसज्येत ।३ - ६ - न एषः दोषः ।४ - ६ - कर्मसञ्ज्ञा तत्र बाधिका भविष्यति ।५ - ६ - अग्नौ अपि तर्हि बाधिका स्यात् ।६ - ६ - इह पुनः तमग्रहणे क्रियमाणे तत् उपपन्नम् भवति यत् उक्तम् वारणार्थेषु कर्मग्रहणानर्थक्यम् कर्तुः ईप्सिततमम् कर्म इति वचनात् इति ।१ - २० - इह उच्यते ओदनम् पचति इति ।२ - २० - यदि ओदनः पच्येत द्रव्यान्तरम भिनिर्वर्तेत ।३ - २० - न एषः दोषः ।४ - २० - तादर्थ्यात् ताच्छब्द्यम् भविष्यति ।५ - २० - ओदनार्थाः तण्डुलाः ओदनः इति ।६ - २० - अथ इह कथम् भवितव्यम् तण्डुलान् ओदनम् पचति इति आहोस्वित् तण्डुलानाम् ओदनम् पचति इति ।७ - २० - उभ्यथा अपि भवितव्यम् ।८ - २० - कथम् ।९ - २० - इह हि तण्डुलान् ओदनम् पचति इति द्व्यर्थः पचिः ।१० - २० - तण्डुलान् पचन् ओदनम् निर्वर्तयति इति ।११ - २० - इह इदनीम् तण्डुलानाम् ओदनम् पचति इति द्व्यर्थः च एव पचिः विकारयोगे च षष्ठी ।१२ - २० - तण्डुलविकारम् ओदनम् निर्वर्तयति इति ।१३ - २० - इह कः चित् कम् चिदामन्त्रयते सिद्धम् भुज्यताम् इति ।१४ - २० - सः आमन्त्रयमाणः आह प्रभूतम् भुक्तम् अस्माभिः इति ।१५ - २० - आमन्त्रयमाणः आह दधि खलु भविष्यति पयः खलु भविष्यति ।१६ - २० - आमन्त्र्यमाणः आह दध्ना खलु भुञ्जीय पयसा खलु भुञ्जीय इति ।१७ - २० - अत्र कर्मसञ्ज्ञा प्राप्नोति ।१८ - २० - तत् हि तस्य ईप्सिततमम् भवति ।१९ - २० - तस्य अपि ओदनः एव एव ईप्सिततमः न तु गुणेषु अस्य अनुरोधः ।२० - २० - तत् यथा भुञ्जीय अहम् ओदनम् यदि मृदुविशदः स्यात् इति एवम् इह अपि दधिगुणम् ओदनम् भुञ्जीय पयोगुणमोदनम् भुञ्जीय इति ।१ - १६ - ईप्सितस्य कर्मसञ्ज्ञायाम् निर्वृत्तस्य कारकत्वे कर्मसञ्ज्ञाप्रसङ्गः क्रियेप्सितत्वात् ।२ - १६ - ईप्सितस्य कर्मसञ्ज्ञायाम् निर्वृत्तस्य कारकत्वे कर्मसञ्ज्ञा न प्राप्नोति ।३ - १६ - गुडम् भक्षयति इति ।४ - १६ - किम् कारणम् ।५ - १६ - क्रियेप्सितत्वात् ।६ - १६ - क्रिया तस्य ईप्सिता ।७ - १६ - न वा उभयेप्सितत्वात् ।८ - १६ - न वा एषः दोषः ।९ - १६ - किम् कारणम् ।१० - १६ - उभयेप्सितत्वात् ।११ - १६ - उभयम् तस्य ईप्सितम् ।१२ - १६ - आतः च उभयम् यस्य हि गुडभक्षणे बुद्धिः प्रसक्ता भवति न असौ लोष्टम् भक्षयित्वा कृती भवति ।१३ - १६ - यदि अपि तावत् अत्र एतत् शक्यते वक्तुम् ये तु एते राजकर्मिणः मनुष्याः तेषाम् कः चित् कम् चित् आह कटम् कुरु इति ।१४ - १६ - स आह न अहम् कटम् करिष्यामि घटः मया आहृतः इति ।१५ - १६ - तस्य क्रियामात्रम् ईप्सितम् ।१६ - १६ - यदि अपि तस्य क्रियामात्रम् ईप्सितम् यः तु असौ प्रेषयति तस्य उभयम् ईप्सितम् इति ।१ - २२ - किम् उदाहरणम् ।२ - २२ - विषम् भक्षयति इति ।३ - २२ - न एतत् अस्ति ।४ - २२ - पूर्वेण अपि एतत् सिध्यति ।५ - २२ - न सिध्यति ।६ - २२ - कर्तुः ईप्सिततमम् कर्म इति उच्यते कस्य च नाम विषभक्षणम् ईप्सितम् स्यात् ।७ - २२ - विषभक्षणम् अपि कस्य चित् ईप्सितम् भवति ।८ - २२ - कथम् ।९ - २२ - इह यः एषः मनुष्यः दुःखार्तः भवति सः अन्यानि दुःखानि अनुनिशम्य विषभक्षणम् एव ज्यायः मन्यते ।१० - २२ - आतः च ईप्सितम् यत् तत् भक्षयति ।११ - २२ - यत् तर्थि अन्यत् करिष्यामि इति अन्यत् करोति तत् उदाहरणम् ।१२ - २२ - किम् पुनः तत् ।१३ - २२ - ग्रामान्तरम् अयम् गच्छन् चौरान् पश्यति अहिम् लङ्घयति कण्टकान् मृद्नाति ।१४ - २२ - इह ईप्सितस्य अपि कर्मसञ्ज्ञा आरभ्यते अनीप्सितस्य अपि ।१५ - २२ - यत् इदानीम् न एव ईप्सितमम् न अपि अनीप्सितम् तत्र कथम् भवितव्यम् ।१६ - २२ - ग्रामान्तरम् अयम् गच्छन् वृक्षमूलानि उपसर्पति कुड्यमूलानि उपसर्पति इति ।१७ - २२ - अत्र अपि सिद्धम् ।१८ - २२ - कथम् ।१९ - २२ - अनीप्सितम् इति न अयम् प्रसज्यप्रतिषेधः ईप्सितम् न इति ।२० - २२ - किम् तर्हि ।२१ - २२ - पर्युदासः अयम् यत् अन्यत् ईप्सितात् तत् अनीप्सितम् इति ।२२ - २२ - अन्यत् च एतत् ईप्सितात् यत् न एव ईप्सितम् न अपि अनीप्सितम् इति ।१ - ४३ - केन अकथितम् ।२ - ४३ - अपादानादिभिः विशेषकथाभिः ।३ - ४३ - किम् उदाहरणम् ।४ - ४३ - दुहियाचिरुधिप्रछिभिक्षिचिञाम् उपयोगनिमित्तम् अपूर्वविधौ ब्रुविशासिगुणेन च यत्सचते तत् अकीर्तितम् आचरितम् कविना ।५ - ४३ - दुहि ॒ गाम् दोग्धि पयः ।६ - ४३ - न एतत् अस्ति ।७ - ४३ - कथिता अत्र पूर्वा अपादन्सञ्ज्ञा ।८ - ४३ - दुहि ।९ - ४३ - याचि ॒ इदम् तर्हि पौरवम् गाम् याचते इति ।१० - ४३ - न एतत् अस्ति ।११ - ४३ - कथिता अत्र पूर्वा अपादन्सञ्ज्ञा ।१२ - ४३ - न याचनात् एव अपायः भवति ।१३ - ४३ - याचितः असौ यदि ददाति ततः अपायेन युज्यते ।१४ - ४३ - याचि ।१५ - ४३ - रुधि ॒ अन्ववरुणद्धि गाम् व्रजम् ।१६ - ४३ - न एतत् अस्ति ।१७ - ४३ - कथिता अत्र पूर्वा अधिकरणसञ्ज्ञा ।१८ - ४३ - रुधि ।१९ - ४३ - प्रच्छि ॒ माणवकम् पन्थानम् पृच्छति ।२० - ४३ - न एतत् अस्ति ।२१ - ४३ - कथिता अत्र पूर्वा अपादानसञ्ज्ञा ।२२ - ४३ - न प्रश्नात् एव अपायः भवति ।२३ - ४३ - पृष्तः असौ यदि आचाष्टे ततः अपायेन युज्यते ।२४ - ४३ - प्रच्छि. भिक्षि ॒ पौरवम् गाम् भिक्षते ।२५ - ४३ - न एतत् अस्ति ।२६ - ४३ - कथिता अत्र पूर्वा अपादानसञ्ज्ञा ।२७ - ४३ - न भिक्षणात् एव अपायः भवति ।२८ - ४३ - भिक्षितः असौ यदि ददाति ततः अपायेन युज्यते ।२९ - ४३ - भिक्षि ।३० - ४३ - चिञ् ॒ वृक्षम् अवचिनोति फलानि ।३१ - ४३ - न एतत् अस्ति ।३२ - ४३ - कथिता अत्र पूर्वा अपादानसञ्ज्ञा ।३३ - ४३ - ब्रुविशासिगुणेन च यत् सचते तत् अकीर्तितम् आचरितम् कविना ।३४ - ४३ - ब्रुविशासिगुणेन च यत् सचते सम्बध्यते तत् च दाहरणम् ।३५ - ४३ - किम् पुनः तत् ।३६ - ४३ - पुत्रम् ब्रूते धर्मम् ।३७ - ४३ - पुत्रम् अनुशास्ति धर्मम् इति ।३८ - ४३ - न एतत् अस्ति ।३९ - ४३ - कथिता अत्र पूर्वा सम्प्रदानसञ्ज्ञा ।४० - ४३ - तस्मात् त्रीणि एव उदाहरणानि ।४१ - ४३ - पौरवम् गाम् याचते ।४२ - ४३ - माणवकम् पन्थानम् पृच्छति ।४३ - ४३ - पौरवम् गाम् भिक्षते इति ।१ - ५७ - अथ ये धातूनाम् द्विकर्मकाः तेषाम् किम् कथिते लादयः भवन्ति आहोस्वित् अकथिते ।२ - ५७ - कथिते लादयः ।३ - ५७ - कथिते लादिभिः अभिहिते गुणम्कर्मणि का कर्तव्या । कथिते लादयः चेत् स्युः षष्ट्ःीम् कुर्यात् तदा गुणे ।४ - ५७ - कथिते लादयः चेत् स्युः षष्ठी गुणकर्मणि तदा कर्तव्या ।५ - ५७ - दुह्यते गोः पयः ।६ - ५७ - याच्यते पौरवस्य कम्बलः इति ।७ - ५७ - कथम् ।८ - ५७ - अकारकम् ह्यकथितत्वात् ।९ - ५७ - अकारकम् हि एतत् भवति ।१० - ५७ - किम् कारणम् ।११ - ५७ - अकथितत्वात् ।१२ - ५७ - कारकम् चेत् तु न अकथा ।१३ - ५७ - अथ कारकम् न अकथितम् ।१४ - ५७ - अथ कारके सति का कर्तव्या ।१५ - ५७ - कारकम् चेत् विजानीयात् याम् याम् मन्येत सा भवेत् ।१६ - ५७ - कारकम् चेत् विजानातीयात् या या प्राप्नोति सा कर्तव्या ।१७ - ५७ - दुह्यते गोः पयः ।१८ - ५७ - याच्यते पौरवात् कम्बलः इति ।१९ - ५७ - कथिते अभिहिते त्वविधिः त्वमतिः गुणकर्मणि लादिविधिः सपरे ।२० - ५७ - कथिते लादिभिः अभिहिते त्वविधिः एषः भवति ।२१ - ५७ - किम् इदम् त्वविधिः इति ।२२ - ५७ - तव विधिः त्वविधिः ।२३ - ५७ - त्वमतिः ।२४ - ५७ - किमिदम् त्वमतिः इति ।२५ - ५७ - तव मतिः त्वमतिः ।२६ - ५७ - न एवम् अन्ये मन्यन्ते ।२७ - ५७ - कथम् तर्हि अन्ये मन्यन्ते ।२८ - ५७ - गुणकर्मणि लादिविधिः सपरे ।२९ - ५७ - गुणकर्मणि लादिविधियः भवन्ति सह परेण योगेन ।३० - ५७ - गतिबुद्धिप्रत्यवसानार्थशब्दकर्माकर्मकाणाम् अणिकर्ता सः णौ इति ।३१ - ५७ - ध्रुवचेष्टितयुक्तिषु च अपि अगुणे तत् अनल्पमतेः वचनम् स्मरत । ध्रुवयुक्तिषु चेष्टितयुक्तिषु च अपि अगुणे कर्मणि लादयः भवन्ति ।३२ - ५७ - तत् अनल्प्मतेः आचार्यस्य वचनम् स्मर्यताम् ।३३ - ५७ - अपरः आह ॒ प्रधानकर्मणि आख्येये लादीन् आहुः द्विकर्मणाम् । प्रधानकर्मणि अभिधेये द्विकर्मणाम् धातूनाम् कर्मणि लादयः भवन्ति इति वक्तव्यम् ।३४ - ५७ - अजाम् नयति ग्रामम् ।३५ - ५७ - अजा नीयते ग्रामम् ।३६ - ५७ - अजा नीता ग्रामम् इति ।३७ - ५७ - अप्रधाने दुहादीनाम् । अप्रधाने दुहादीनाम् कर्मणि लादयः भवन्ति इति वक्तव्यम् ।३८ - ५७ - दुह्यते गौः पयः ।३९ - ५७ - ण्यन्ते कर्तुः च कर्मणः । लादयः भवन्ति इति वक्तव्यम् ।४० - ५७ - गम्यते देवदत्तः ग्रामम् यज्ञदत्तेन ।४१ - ५७ - के पुनः धातूनाम् द्विकर्मकाः ।४२ - ५७ - नीवह्योः हरतेः च अपि गत्यर्थानाम् तथा एव च द्विकर्मकेषु ग्रहणम् द्रष्टव्यम् इति निश्चयः ।४३ - ५७ - अजाम् नयति ग्रामम् ।४४ - ५७ - भारम् वहति ग्रामम् ।४५ - ५७ - भारम् हरति ग्रामम् ।४६ - ५७ - गत्यर्थानाम् ।४७ - ५७ - गमयति देवदत्तम् ग्रामम् ।४८ - ५७ - यापयति देवदत्तम् ग्रामम् ।४९ - ५७ - सिद्धम् वा अपो अन्यकर्मणः ।५० - ५७ - सिद्धम् वा पुनः एतत् भवति ।५१ - ५७ - कुतः ।५२ - ५७ - अन्यकर्मणः ।५३ - ५७ - अन्यस्य अत्र अजा कर्म अन्यस्य ग्रामः ।५४ - ५७ - अजाम् असौ गृहीत्वा ग्रामम् नयति ।५५ - ५७ - अन्यकर्म इति चेत् ब्रूयात् लादीनाम् अविधिः भवेत् । अन्यकर्म इति चेत् ब्रूयात् लादीनाम् अविधिः अयम् भवेत् ।५६ - ५७ - अजा नीयते ग्रामम् इति ।५७ - ५७ - परसाधने उत्पद्यमानेन लेन अजायाः अभिधानम् न प्राप्नोति ।१ - २७ - कालभावाध्वगन्तव्याः कर्मसञ्ज्ञा हि अर्कर्मणाम् ।२ - २७ - कालभावाध्वगन्तव्याः अकर्मकाणाम् धातूनाम् कर्मसञ्ज्ञाः भवन्ति इति वक्तव्यम् ।३ - २७ - काल ।४ - २७ - मासम् आस्ते ।५ - २७ - मासम् स्वपिति ।६ - २७ - भाव ।७ - २७ - गोदोहम् आस्ते ।८ - २७ - गोदोहम् स्वपिति ।९ - २७ - अध्वगन्तव्य ।१० - २७ - क्रोशम् आस्ते ।११ - २७ - क्रोशम् स्वपिति ।१२ - २७ - देशः च अकर्मणाम् कर्मसञ्ज्ञः भवति इति वक्तव्यम् ।१३ - २७ - कुरून् स्वपिति ।१४ - २७ - पञ्चालान् स्वपिति ।१५ - २७ - विपरीतम् तु यत् कर्म तत् कल्म कवयः विदुः । किमिदम् कल्म इति ।१६ - २७ - अपरिसमाप्तम् कर्म कल्म ।१७ - २७ - न वा अस्मिन् सर्वाणि कर्मकार्याणि क्रियन्ते ।१८ - २७ - किम् तर्हि ।१९ - २७ - द्वितीया एव ।२० - २७ - यस्मिन् तु कर्मणि उपजायते अन्यत् धात्वर्थयोगा अपि च यत्र षष्ठी तत् कर्म कल्म इति च कल्म न उक्तम् धातोः हि वृत्तिः न रलत्वतः अस्ति ।२१ - २७ - एतेन कर्मसञ्ज्ञा सर्वा सिद्धा भवति कथितेन ।२२ - २७ - तत्र ईप्सितस्य किम् स्यात् प्रयोजनम् कर्मसञ्ज्ञायाः ।२३ - २७ - यत् तु कथितम् पुरस्तात् ईप्सिततयुक्तम् च तस्य सिद्ध्यर्थम् ।२४ - २७ - ईप्सितम् एव तु यत् स्यात् तस्य भविष्यति कथितेन ।२५ - २७ - अथ इह कथम् भवितव्यम् ।२६ - २७ - नेता अश्वस्य स्रुघ्नम् इति आहोस्वित् नेता अश्वस्य स्रुघ्नस्य इति ।२७ - २७ - उभयथा गोणिकापुत्रः ।१ - ३७ - शब्दकर्म इति कथम् इदम् विज्ञायते ।२ - ३७ - शब्दः येषाम् क्रिया इति आहोस्वित् शब्दः येषाम् कर्म इति ।३ - ३७ - कः च अत्र विशेषः ।४ - ३७ - शब्दकर्मनिर्देशे शब्दक्रियाणाम् इति चेत् ह्वयत्यादीनाम् प्रतिषेधः । शब्दकर्मनिर्देशे शब्दक्रियाणामिति चेद् ह्वयदादीनाम् प्रतिषेधः वक्तव्यः ।५ - ३७ - के पुनः ह्वयतादयः ।६ - ३७ - ह्वयति क्रन्दति शब्दायते ।७ - ३७ - ह्वयति देवदत्तः ।८ - ३७ - ह्वाययति देवदत्तेन ।९ - ३७ - क्रन्दति देवदत्तः ।१० - ३७ - क्रन्दयति देवदत्तेन ।११ - ३७ - शब्दायते देवदत्तः ।१२ - ३७ - शब्दाययति देवदत्तेन इति ।१३ - ३७ - शृणोत्यादीन् आम् च उपसम्ख्यानम् अशब्दक्रियत्वात् ।१४ - ३७ - शृणोत्यादीनाम् च उपसम्ख्यानम् कर्तव्यम् ।१५ - ३७ - के पुनः शृणोत्यादयः ।१६ - ३७ - शृणोति विजानाति उपलभते ।१७ - ३७ - शृणोति देवदत्तः ।१८ - ३७ - श्रावयति देवदत्तम् ।१९ - ३७ - विजानाति देवदत्तः ।२० - ३७ - विज्ञापयति देवदत्तम् ।२१ - ३७ - उपलभते देवदत्तः ।२२ - ३७ - उपलम्भयति देवदत्तम् ।२३ - ३७ - किम् पुनः कारणम् न सिध्यति ।२४ - ३७ - अशब्दक्रियत्वाद् ।२५ - ३७ - अस्तु तर्हि शब्दः येषाम् कर्म इति ।२६ - ३७ - शब्दकर्मणः इति चेत् जल्पतिप्रभृतीनाम् उपसम्ख्यानम् । शब्दकर्मण इति चेत् जल्पतिप्रभृतीनामुपसङ्ख्यानम् कर्तव्यम् ।२७ - ३७ - के पुनः जल्पतिप्रभृअतयः ।२८ - ३७ - जल्पति विलपति आभाषते ।२९ - ३७ - जल्पति देवदत्तः ।३० - ३७ - जल्पयति देवदत्तम् ।३१ - ३७ - विलपति देवदत्तः ।३२ - ३७ - विलापयति देवदत्तम् ।३३ - ३७ - आभाषते देवदत्तः ।आभाषयति देवदत्तम् ।३४ - ३७ - दृशेः सर्वत्र ।३५ - ३७ - दृशेः सर्वत्र उपसङ्ख्यानम् कर्तव्यम् ।३६ - ३७ - पश्यति रूपतर्कः कार्षापणम् ।३७ - ३७ - दर्शयति रूपतर्कम् कार्षापणम् ।१ - २६ - अदिखादिनीवहीनाम् प्रतिषेधः ।२ - २६ - अदिखादिनीवहीनाम् प्रतिषेधः वक्तव्यः ।३ - २६ - अत्ति देवदत्तः ।४ - २६ - आदयते देवदत्तेन ।५ - २६ - अपरः आह ॒ सर्वम् एव प्रत्यवसानकार्यम् अदेः न भवति इति वक्तव्यम् , परस्मैपदम् अपि ।६ - २६ - इदम् एकम् इष्यते ॒ क्तः अधिकरणे च द्रौव्यगतिप्रत्यवसानार्थेभ्यः ॒ इदम् एषाम् जग्धम् ।७ - २६ - खादि ।८ - २६ - खादति देवदत्तः ।९ - २६ - खादयति देवदत्तेन ।१० - २६ - नी ।११ - २६ - नयति देवदत्तः ।१२ - २६ - नाययति देवदत्तेन ।१३ - २६ - वहेरनियन्तृकर्तृकस्य ।१४ - २६ - वहेः अनियन्तृकर्तृकस्य इति वक्तव्यम् ।१५ - २६ - वहति भारम् देवदत्तः ।१६ - २६ - वाहयति भारम् देवदत्तेन ।१७ - २६ - अनियन्तृकर्तृकस्य इति किमर्थम् ।१८ - २६ - वहन्ति यवान् बलीवर्दाः ।१९ - २६ - वाहयन्ति बलीवर्दान् यवान् ।२० - २६ - भक्षेः अहिंसार्थस्य ।२१ - २६ - भक्षेः अहिम्सार्थस्य इति वक्तव्यम् ।२२ - २६ - भक्षयति पिण्डीम् देवदत्तः ।२३ - २६ - भक्षयति पिण्डीम् देवदत्तेन ।२४ - २६ - अहिम्सार्थस्य इति किमर्थम् ।२५ - २६ - भक्षयन्ति यवान् बलीवर्दाः ।२६ - २६ - भक्षयन्ति बलीवर्दान् यवान् ।१ - १९ - अकर्मकग्रहणे कालकर्मकाणाम् उपसङ्ख्यानम् ।२ - १९ - अकर्मकग्रहणे कालकर्मकाणाम् उपसङ्ख्यानम् कर्तव्यम् ।३ - १९ - मासम् आस्ते देवदत्तः ।४ - १९ - मासम् आसयति देवदत्तम् ।५ - १९ - मासम् शेते देवदत्तः ।६ - १९ - मासम् शाययति देवदत्तम् ।७ - १९ - सिद्धम् तु कालकर्मकाणाम् अकर्मकवद्वचनात् ।८ - १९ - सिद्धम् एतत् ।९ - १९ - कथम् ।१० - १९ - कालकर्मकाः अकर्मकवत् भवन्ति इति वक्तव्यम् ।११ - १९ - तत् तर्हि वक्तव्यम् ।१२ - १९ - न वक्तव्यम् ।१३ - १९ - अकर्मकाणाम् इति उच्यते न च के चित् कदा चित् कालभावाध्वभिः अकर्मकाः ।१४ - १९ - ते एवम् विज्ञास्यामः ।१५ - १९ - क्व चित् ये अकर्मकाः इति ।१६ - १९ - अथ वा येन कर्मणा सकर्म्काः च अकर्मकाः च भवन्ति तेन अकर्मकाणाम् ।१७ - १९ - न च एतेन कर्मणा कः चित् अपि अकर्मकः ।१८ - १९ - अथ वा यत् कर्म भवति न च भवति तेन कर्मकाणाम् । - १९ - न च एतत् कर्म क्व चित् अपि न भवति ।१ - १० - हृक्रोः वावचने अभिवादिदृश्योः आत्मनेपदे उपसङ्ख्यानम् ।२ - १० - हृक्रोर्वावचने अभिवादिदृशोः आत्मनेपदे उपसङ्ख्यानम् कर्तव्यम् ।३ - १० - अभिवदति गुरुम् देवदत्तः ।४ - १० - अभिवादयते गुरुम् देवदत्तम् ।५ - १० - अभिवादयते गुरुम् देवदत्तेन ।६ - १० - पश्यन्ति भृत्याः राजानम् ।७ - १० - दर्शयते भृत्यान् राजा ।८ - १० - दर्शयते भृत्यैः राजा ।९ - १० - कथम् च अत्र आत्मनेपदम् ।१० - १० - एकस्य णेः अणौ इ ति अपरस्य णिचः च इति ।१ - १२ - किम् यस्य स्वम् तन्त्रम् सः स्वतन्त्रः ।२ - १२ - किम् च अतः ।३ - १२ - तन्तुवाये प्राप्नोति ।४ - १२ - न एषः दोषः ।५ - १२ - अयम् तन्त्रशब्दः अस्ति एव विताने वर्तते ।६ - १२ - तत् यथा ॒ आस्तीर्णम् तन्त्रम् ।७ - १२ - प्रेतम् तन्त्रम् ।८ - १२ - वितानः इति गम्यते ।९ - १२ - अस्ति प्राधान्ये वर्तते ।१० - १२ - तत् यथा स्वतन्त्रः असौ ब्राह्मणः इति उच्यते ।११ - १२ - स्वप्रधानः इति गम्यते ।१२ - १२ - तत् यः प्राधान्ये वर्तते तन्त्रशब्दः तस्य इदम् ग्रहणम् ।१ - १८ - स्वतन्त्रस्य कर्तृसञ्ज्ञायाम् हेतुमति उपसङ्ख्यानम् अस्वत्रन्त्वात् ।२ - १८ - स्वतन्त्रस्य कर्तृसञ्ज्ञायाम् हेतुमति उपसङ्ख्यानम् कर्तव्यम् ।३ - १८ - पाचयति ओदनम् देवदत्तः यज्ञदत्तेन इति ।४ - १८ - किम् पुनः कारणम् न सिध्यति ।५ - १८ - अस्वतन्त्रत्वात् ।६ - १८ - न वा स्वात्रन्त्र्यात् इतरथा हि अकुर्वति अपि कारयति इति स्यात् ।७ - १८ - न वा कर्तव्यम् ।८ - १८ - किम् कारणम् ।९ - १८ - स्वातन्त्र्यात् ।१० - १८ - स्वतन्त्रः असौ भवति ।११ - १८ - इतरथा हि अकुर्वति अपि कारयति इति स्यात् ।१२ - १८ - यः हि मन्यते न असौ स्वतन्त्रः अकुर्वति अपि तस्य कारयति इति एतत् स्यात् ।१३ - १८ - न अकुर्वत् इ इति चेत् स्वतन्त्रः ।१४ - १८ - न चेत् अकुर्वति तस्मिन् कारयति इति एतत् भवति स्वतन्त्रः असौ भवति ।१५ - १८ - शक्यम् तावत् अनेन उपसम्ख्यानम् कुर्वता वक्तुम् कुर्वन् स्वतन्त्रः अकुर्वन् न इति ।१६ - १८ - साधीयः ज्ञापकम् भवति ।१७ - १८ - प्रेषिते च किल अयम् क्रियाम् च अक्रियाम् च दृष्ट्वा अध्यवस्यति कुर्वन् स्वतन्त्रः अकुर्वन् न इति ।१८ - १८ - यदि च प्रेषितः असौ न करोति स्वतन्त्रः असौ भवति इति ।१ - १६ - प्रैषे अस्वतन्त्रप्रयोजकत्वात् हेतुसञ्ज्ञाप्रसिद्धिः ।२ - १६ - प्रैषे अस्वतन्त्रप्रयोजकत्वात् हेतुसञ्ज्ञायाः अप्रसिद्धिः ।३ - १६ - स्वतन्त्रप्रयोजकः हेतुसञ्ज्ञः भवति इति उच्यते ।४ - १६ - न च असौ स्वतन्त्रम् प्रयोजयति ।५ - १६ - स्वतन्त्रत्वात् सिद्धम् ।६ - १६ - सिद्धम् एतत् ।७ - १६ - कथम् ।८ - १६ - स्वतन्त्रत्वात् ।९ - १६ - स्वतन्त्रम् असौ प्रयोजयति ।१० - १६ - स्वतन्त्रत्वात् सिद्धम् इति चेत् स्वतन्त्रपरतन्त्रत्वम् विप्रतिषिद्दम् ।११ - १६ - यदि स्वतन्त्रः न प्रयोज्यः अथ प्रयोज्यः न स्वतन्त्रः प्रयोज्यः स्वतन्त्रः च इति विप्रतिषिद्धम् ।१२ - १६ - उक्तम् वा ।१३ - १६ - किम् उक्तम् ।१४ - १६ - एकम् तावत् उक्तम् न वा स्वात्रन्त्र्यात् इतरथा हि अकुर्वति अपि कारयति इति स्यात् इति ।१५ - १६ - अपरम् उक्तम् ।१६ - १६ - न वा सामान्यकृतत्वात् हेतुतः हि अविशिष्टम् स्वतन्त्रप्रयोजकत्वात् अप्रयोजकः इति चेत् मुक्तमसम्शयेन तुल्यम् इति ।१ - २६ - किमर्थम् रेफाधिकः ईश्वरशब्दः गृह्यते ।२ - २६ - रीश्वरात् वीश्वरात् मा भूत् ।३ - २६ - रीश्वरात् इति उच्यते वीश्वरात् मा भूत् ।४ - २६ - शकि णमुल्कमुलौ ईश्वरे तोसुन्कसुनौ इति ।५ - २६ - न एतत् अस्ति प्रयोजनम् ।६ - २६ - आचार्यप्रवृत्तिः ज्ञापयति अनन्तरः यः ईश्वरशब्दः तस्य ग्रहणम् इति यत् अयम् कृत् मेजन्तः इति कृतः मान्तस्य एजन्तस्य च अव्ययसञ्ज्ञाम् शास्ति ।७ - २६ - कृत् मेजन्तः परः अपि सः ।८ - २६ - परः अपि एतस्मात् कृत् मान्तः एजन्तः च अस्ति ।९ - २६ - तदर्थम् एतत् स्यात् ।१० - २६ - यत् तर्हि अव्ययीभावस्य अव्ययसञ्ज्ञाम् शास्ति तत् ज्ञापयति आचार्यः नन्तरः यः ईश्वरशब्दः तस्य ग्रहणम् इति ।११ - २६ - समासेषु अव्ययीभावः ।१२ - २६ - समासस्य एतत् ज्ञापकम् स्यात् ।१३ - २६ - अव्ययीभावः एव समासः अव्ययसञ्ज्ञः भवति न अन्यः इति ।१४ - २६ - एवम् तर्हि लोकतः एतत् सिद्धम् ।१५ - २६ - तत् यथा लोके आ वनान्तात् आ उदकान्तात् प्रियम् पान्थमन् उव्रजेत् इति यः एव प्रथमः वनान्तः उदकान्तः च ततः नुव्रजति ।१६ - २६ - लौकिकम् च अतिवर्तते ।१७ - २६ - द्वितीयम् च तृतीयम् च वनान्तम् उदकान्तम् वा अनुव्रजति ।१८ - २६ - तस्मात् रेफादिकः ईश्वरशब्दः ग्रहीतव्यः ।१९ - २६ - अथ प्राग्वचनम् किमर्थम् ।२० - २६ - प्राग्वचनम् सञ्ज्ञानिवृत्त्यर्थम् ।२१ - २६ - प्राग्वचनम् क्रियते निपातसञ्ज्ञायाः अनिवृत्तिः यथा स्यात् ।२२ - २६ - अक्रियमाणे हि प्राग्वचने अनवकाशाः गत्युपसर्गकर्मप्रवचनीयसञ्ज्ञाः निपातसञ्ज्ञाम् बाधेरन् ।२३ - २६ - ताः मा बाधिषत इति प्राग्वचनम् क्रियते ।२४ - २६ - अथ क्रियमाणे अपि प्राग्वचने यावता अनवकाशाः एताः सञ्ज्ञाः कस्मात् एव न बाधन्ते ।२५ - २६ - क्रियमाणे हि प्राग्वचने सत्याम् निपातसञ्ज्ञायाम् एताः अवयवसञ्ज्ञाः आरभ्यन्ते ।२६ - २६ - तत्र वचनात् समावेशः भवति ।१ - १८ - अयम् सत्त्वशब्दः अस्ति एव द्रव्यपदार्थकः ।२ - १८ - तत् यथा सत्त्वम् अयम् ब्राह्मणः सत्त्वमियम् ब्राह्मणी इति ।३ - १८ - अस्ति क्रियापदार्थकः ।४ - १८ - सद्भावः सत्त्वम् इति ।५ - १८ - कस्य इदम् ग्रहणम् ।६ - १८ - द्रव्यपदार्थकस्य ।७ - १८ - कुतः एतत् ।८ - १८ - एवम् हि कृत्वा विधिः च सिद्धः भवति प्रतिषेधः च ।९ - १८ - किम् पुनः अयम् पर्युदासः ।१० - १८ - यत् अन्यत् सत्त्ववचनात् इति ।११ - १८ - आहोस्वित् प्रसज्य अयम् प्रतिषेधः ।१२ - १८ - सत्त्ववचने न इति ।१३ - १८ - किम् च अतः ।१४ - १८ - यदि पर्युदासः विप्रः इति अत्र अपि प्राप्नोति ।१५ - १८ - क्रियाद्रव्यवचनः अयम् सम्घातो द्रव्यात् अन्यश्च विधिना आश्रीयते ।१६ - १८ - अस्ति च प्रादिभिः सामान्यम् इति कृत्वा तदन्तविधिना निपातसञ्ज्ञा प्राप्नोति ।१७ - १८ - अथ प्रसज्यप्रतिषेधः न दोषः भवति ।१८ - १८ - यथा न दोषः तथा अस्तु ।१ - ९ - प्रादयः इति योगविभागः ।२ - ९ - प्रादयः इति योगविभागः कर्तव्यः ।३ - ९ - प्रादयः सत्त्ववचनाः निपातसञ्ज्ञाः भवन्ति ।४ - ९ - ततः उपसर्गाः क्रियायोगे इति ।५ - ९ - किमर्थः योगविभागः ।६ - ९ - निपातसञ्ज्ञार्थः ।७ - ९ - निपातसञ्ज्ञा यथा स्यात् ।८ - ९ - एकयोगे हि निपातसञ्ज्ञाभावः । एकयोगे हि सति निपातसञ्ज्ञाया अभावः स्यात् ।९ - ९ - यस्मिन् एव विशेषे गत्युपसर्गकर्मप्रवचनीयसञ्ज्ञाः तस्मिन् एव विशेषे निपातसञ्ज्ञा स्यात् ।१ - ७ - मरुच्छब्दस्य उप्सङ्ख्यानम् ।२ - ७ - मरुच्छब्दस्य उप्सङ्ख्यानम् कर्तव्यम् ।३ - ७ - मरुद्दत्तो मरुत्यः ।४ - ७ - अच उपसर्गात् इति तत्त्वम् यथा स्यात् ।५ - ७ - श्रच्छब्दस्य उपसम्ख्यानम् ।६ - ७ - श्रच्छब्दस्य उपसम्ख्यानम् कर्तव्यम् ।७ - ७ - श्रद्धा ।१ - ८ - कारिकाशब्दस्य ।२ - ८ - कारिकाशब्दस्य उपसङ्ख्यानम् कर्तव्यम् ।३ - ८ - कारिकाकृत्य ।४ - ८ - पुनश्चनसौ छन्दसि ।५ - ८ - पुनश्चनसौ छन्दसि गतिसञ्ज्ञौ भवतः इति वक्तव्यम् ।६ - ८ - पुनरुत्स्यूतम् वासः देयम् ।७ - ८ - पुनर्निष्कृतः रथः ।८ - ८ - उशिक् दूतः चनोहितः ।१ - ५५ - गत्युपसर्गसञ्ज्ञाः क्रियायोगे यत्क्रियायुक्ताः तम् प्रति इति वचनम् ।२ - ५५ - गत्युपसर्गसञ्ज्ञाः क्रियायोगे यत्क्रियायुक्ताः तम् प्रति गत्युपसर्गसञ्ज्ञाः भवन्ति इति वक्तव्यम् ।३ - ५५ - किम् प्रयोजनम् ।४ - ५५ - प्रयोजनम् घञ् षट्वणत्वे ।५ - ५५ - घञ् ।६ - ५५ - प्रवृद्धः भावः प्रभावः ।७ - ५५ - अनुपसर्गे इति प्रतिषेधः मा भूत् ।८ - ५५ - षत्वम् ।९ - ५५ - विगताः सेचकाः अस्मात् ग्रामात् विसेचकः ग्रामः ।१० - ५५ - उपसर्गात् इति षत्वम् मा भूत् ।११ - ५५ - णत्वम् ।१२ - ५५ - प्रगताः नायकाः अस्मात् ग्रामात् प्रनायकः ग्रामः ।१३ - ५५ - उपसर्गादिति णत्वम् मा भूत् ।१४ - ५५ - वृद्धिविधौ च धातुग्रहणानर्थक्यम् । वृद्धिविधौ च धातुग्रहणम् अनर्थकम् ।१५ - ५५ - उपसर्गात् ऋति धातौ इति ।१६ - ५५ - तत्र धातुग्रहणस्य एतत् प्रयोजनम् इह मा भूत् प्रर्षभम् वनम् इति ।१७ - ५५ - क्रियमाणे च अपि धातुग्रहणे प्रर्च्छक इति अत्र प्राप्नोति ।१८ - ५५ - यत्क्रियायुक्ताः तम् प्रति इति वचनात् न भवति ।१९ - ५५ - वद्विध्नभावाबीत्त्वस्वाङ्गादिस्वरणत्वेषु दोषः भवति ।२० - ५५ - वद्विधि. यत् उद्वतः निवतः यासि बप्सत् ।२१ - ५५ - वद्विधि ।२२ - ५५ - नस्भाव ।२३ - ५५ - प्रणसम् मुखम् उन्नसम् मुखम् ।२४ - ५५ - नस्भाव ।२५ - ५५ - अबीत्त्व ।प्रेपम् परेपम् ।२६ - ५५ - अबित्त्व ।२७ - ५५ - स्वाङ्गादिस्वर ।२८ - ५५ - प्रस्फिक् प्रोदरः ।२९ - ५५ - स्वाङ्गादिस्वर ।३० - ५५ - णत्व ।३१ - ५५ - प्र णः शूद्रः प्र णः आचार्यः प्र णः राजा प्र णः वृत्रहा ।३२ - ५५ - उपसर्गात् इति एते विधयः न प्राप्नुवन्ति ।३३ - ५५ - वद्विधिनस्भावबीत्त्वस्वाङ्गदिस्वरणत्वेषु वचनप्रामाण्यात् सिद्धम् ।३४ - ५५ - अनवकाशाः एते विधयः ।३५ - ५५ - ते वचनप्रामाण्यात् भविष्यन्ति ।३६ - ५५ - सुदुरोः प्रतिषेधः नुम्विधितत्वषत्वणत्वेषु ।३७ - ५५ - सुदुरोः प्रतिषेधः नुम्विधितत्वषत्वणत्वेषु वक्तव्यः ।३८ - ५५ - नुम्विधि ॒ सुलभम् दुर्लभम् ।३९ - ५५ - उपसर्गात् इति नुम् मा भूत् इति ।४० - ५५ - न सुदुर्भ्याम् केवलाभ्याम् ।४१ - ५५ - इति एतत् न वक्तव्यम् भवति ।४२ - ५५ - न एतत् अस्ति प्रयोजनम् ।४३ - ५५ - क्रियते एतत् न्यासे एव ।४४ - ५५ - तत्वम् ।४५ - ५५ - सुदत्तम् ।४६ - ५५ - अचः उपसर्गात् तः इति तत्वम् मा भूत् इति ।४७ - ५५ - षत्वम् ।४८ - ५५ - सुसिक्तम् घटशतेन सुस्तुतम् श्लोकशतेन ।४९ - ५५ - उपसर्गात् इति षत्वम् मा भूतिति ।५० - ५५ - सुः पूजायाम् इति एतत् न वक्तव्यम् भवति ।५१ - ५५ - न एतत् अस्ति प्रयोजनम् ।५२ - ५५ - क्रियत एतत् न्यासे एव ।५३ - ५५ - णत्वम् ।५४ - ५५ - दुर्नयम् दुर्नीतमिति ।५५ - ५५ - उपसर्गात् इति णत्वम् मा भूत् इति । N/A References : N/A Last Updated : January 17, 2018 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP