पाद ४ - खण्ड १८
व्याकरणमहाभाष्य म्हणजे पाणिनि लिखीत अष्टाध्यायीतील काही निवडक सूत्रांवर पतञ्जलिने केलेले भाष्य. या ग्रंथाची रचना ई.पू २०० ते ई.पू १४० मध्ये केली गेली, असे मत व्याकरण पंडितांचे आहे.
२ - १७ - अन्यत्र सञ्ज्ञासमावेशान्नियमार्थम् वचनम् ।
३ - १७ - अन्यत्र सञ्ज्ञासमावेशः भवति ।
४ - १७ - क्वान्यत्र ।
५ - १७ - लोके व्याकरणे च ।
६ - १७ - लोके तावत् ।
७ - १७ - इन्द्रः शक्रः पुरुहूतः पुरन्दरः ।
८ - १७ - कन्दुः कोष्ठः कुशूलः इति ।
९ - १७ - एकस्य द्रव्यस्य बह्व्यः सञ्ज्ञाः भवन्ति ।
१० - १७ - व्याकरणे अपि कर्तव्यम् हर्तव्यम् इति अत्र प्रत्ययकृत्कृत्यसञ्ज्ञानाम् समावेशः भवति ।
११ - १७ - पाञ्चालः वैदेहः वैदर्भः इति अत्र प्रत्ययतद्धिततद्राजसञ्ज्ञानां समावेशः भवति ।
१२ - १७ - अन्यत्र सञ्ज्ञासमावेशात् एतस्मात् कारणात् आ कडारात् अपि सञ्ज्ञानाम् समावेशः प्राप्नोति ।
१३ - १७ - इष्यते च एका एव सञ्ज्ञा स्यात् इति ।
१४ - १७ - तत् च अन्तरेण यत्नम् न सिध्यति इति नियमार्थम् वचनम् ।
१५ - १७ - एवमर्थम् इदम् उच्यते ।
१६ - १७ - अस्ति प्रयोजनम् एतत् ।
१७ - १७ - किम् तर्हि इति ।
१ - १६२ - कथम् त्वेतत्सूत्रम् पठितव्यम् ।
२ - १६२ - किम् आ कडारात् एका सञ्ज्ञा इति आहोस्वित् प्राक् कडारात् परम् कार्यम् इति ।
३ - १६२ - कुतः पुनः अयम् सन्देहः ।
४ - १६२ - उभयथा हि आचार्येण शिष्याः सूत्रम् प्रतिपादिताः ॒ केचित् आ कडारात् एका सञ्ज्ञा इति , केचित् प्राक् कडारात् परम् कार्यम् इति ।
५ - १६२ - कः च अत्र विशेषः ।
६ - १६२ - तत्र एकसञ्ज्ञाधिकारे तद्वचनम् । तत्र एकसञ्ज्ञाधिकारे तत् वक्तव्यम् ।
७ - १६२ - किम् ।
८ - १६२ - एका सञ्ज्ञा भवति इति ।
९ - १६२ - ननु च यस्य अपि परङ्कार्यत्वम् तेन अपि परग्रहणम् कर्तव्यम् ।
१० - १६२ - परार्थम् मम भविष्यति ।
११ - १६२ - विप्रतिषेधे च इति ।
१२ - १६२ - मम अपि तर्हि एकग्रहणम् परार्थम् भविष्यति ।
१३ - १६२ - सरूपाणाम् एकशेषः एकविभक्तौ इति ।
१४ - १६२ - सञ्ज्ञाधिकारः च अयम् ।
१५ - १६२ - तत्र किम् अन्यत् शक्यम् विज्ञातुम् अन्यत् अतः सञ्ज्ञायाः ।
१६ - १६२ - तत्र एतावत् वाच्यम् ।
१७ - १६२ - आ कडारात् एका ।
१८ - १६२ - किम् ।
१९ - १६२ - एका सञ्ज्ञा भवति इति ।
२० - १६२ - अङ्गसञ्ज्ञया भपदसञ्ज्ञयोः असमावेशः ।
२१ - १६२ - अण्गसञ्ज्ञया भपदसञ्ज्ञयोः समावेशः न प्राप्नोति ।
२२ - १६२ - सार्पिष्कः बार्हिष्कः याजुष्कः धानुष्कः ।
२३ - १६२ - बाभ्रव्यः माण्डव्य इति ।
२४ - १६२ - अनवकाशे भपदसञ्ज्ञे अङ्गसञ्ज्ञां बाधेयाताम् ।
२५ - १६२ - परवचने हि नियमानुपपत्तेः उभयसञ्ज्ञाभावः ।
२६ - १६२ - यस्य पुनः परङ्कार्यत्वम् नियमानुपपत्तेः तस्य उभयोः सञ्ज्ञयोः भावः सिद्धः ।
२७ - १६२ - कथम् ।
२८ - १६२ - पूर्वे तस्य भपदसञ्ज्ञे परा अङ्गसञ्ज्ञा ।
२९ - १६२ - कथम् ।
३० - १६२ - एवम् स वक्ष्यति ।
३१ - १६२ - यस्मात्प्रत्ययविधिः तदादि सुप्तिङन्तं पदम् नः क्ये सिति च ।
३२ - १६२ - स्वादिषु असर्वनामस्थाने यचि भम् ।
३३ - १६२ - तस्य अन्ते प्रत्यये अङ्गमिति ।
३४ - १६२ - तत्र आरम्भसामर्थ्याच् च भपदसञ्ज्ञे परङ्कार्यत्वात् च अङ्गसञ्ज्ञा भविष्यति ।
३५ - १६२ - ननु च यस्य अपि एकसञ्ज्ञाधिकारः तस्य अपि अङ्गसञ्ज्ञापूर्विके भपदसञ्ज्ञे ।
३६ - १६२ - कथम् ।अनुवृत्तिः क्रियते ।
३७ - १६२ - पर्यायः प्रसज्येत. एका सञ्ज्ञा इति वचनात् न अस्ति यौगपद्येन संभवः ।
३८ - १६२ - कर्मधारयत्वे तत्पुरुषग्रहणम् । कर्मधारयत्वे तत्पुरुषग्रहणम् कर्तव्यम् ।
३९ - १६२ - तत्पुरुषः समानाधिकरणः कर्मधारयः इति ।
४० - १६२ - एकसञ्ज्ञाधिकारः इति चोदितम् ।
४१ - १६२ - अक्रियमाणे हि अनवकाशा कर्मधारयसञ्ज्ञा तत्पुरुषसञ्ज्ञाम् बाधेत ।
४२ - १६२ - परवचने हि नियमानुपपत्तेः उभयसञ्ज्ञाभावः ।
४३ - १६२ - यस्य पुनः परङ्कार्यत्वम् नियमानुपपत्तेः तस्य उभयोः सञ्ज्ञयोः भावः सिद्धः ।
४४ - १६२ - कथम् ।
४५ - १६२ - पूर्वा तस्य कर्मधारयसञ्ज्ञा परा तत्पुरुषसञ्ज्ञा ।
४६ - १६२ - कथम् ।
४७ - १६२ - एवम् स वक्ष्यति ।
४८ - १६२ - पूर्वकालैकसर्वजरत्पुराणनवकेवलाः समानाधिकरणेन कर्मधारयः इति ।
४९ - १६२ - एवम् सर्वम् कर्मधारयप्रकरणम् अनुक्रम्य तस्य अन्ते श्रितादिः तत्पुरुषः इति ।
५० - १६२ - तत्र आरम्भसामर्थ्यात् च कर्मधारयसञ्ज्ञा परङ्कार्यत्वात् च तत्पुरुषसञ्ज्ञा भविष्यति ।
५१ - १६२ - ननु च यस्य अपि एकसञ्ज्ञाधिकारः तस्य अपि तत्पुरुषसञ्ज्ञापूर्विका कर्मधारयसञ्ज्ञा ।
५२ - १६२ - कथम् ।
५३ - १६२ - अनुवृत्तिः क्रियते ।
५४ - १६२ - पर्यायः प्रसज्येत ।
५५ - १६२ - एका सञ्ज्ञा इति वचनात् न अस्ति यौगपद्येन सम्भवः ।
५६ - १६२ - तत्पुरुषत्वे द्विगुचग्रहणम् ।
५७ - १६२ - तत्पुरुषत्वे द्विगुचग्रहणम् कर्तव्यम् ।
५८ - १६२ - तत्पुरुषः द्विगुः च इति चकारः कर्तव्यः ।
५९ - १६२ - अक्रियमाणे हि चकारे अनवकाशा द्विगुसञ्ज्ञा तत्पुरुषसञ्ज्ञाम् बाधेत ।
६० - १६२ - परवचने हि नियमानुपपत्तेः उभयसञ्ज्ञाभावः ।
६१ - १६२ - यस्य पुनः परङ्कार्यत्वम् नियमानुपप्पतेः तस्य उभयोः सञ्ज्ञयोः भावः सिद्धः ।
६२ - १६२ - कथम् ।
६३ - १६२ - पूर्वा तस्य द्विगुसञ्ज्ञा परा तत्पुरुषसञ्ज्ञा. कथम् ।
६४ - १६२ - एवं स वक्ष्यति ।
६५ - १६२ - तद्धितार्थोत्तरपदसमाहारे च सङ्ख्यापूर्वः द्विगुः इति ।
६६ - १६२ - एवम् सर्वम् द्विगुप्रकरणम् अनुक्रम्य तस्य अन्ते श्रितादिः तत्पुरुषः इति ।
६७ - १६२ - तत्र आरम्भसामर्थ्यात् च द्विगुसञ्ज्ञा परङ्कार्यत्वात् च तत्पुरुषसञ्ज्ञा भविष्यति ।
६८ - १६२ - ननु च यस्य अपि एकसञ्ज्ञाधिकारः तस्य अपि तत्पुरुषसञ्ज्ञापूर्विका द्विगुसञ्ज्ञा ।
६९ - १६२ - कथम् ।
७० - १६२ - अनुवृत्तिः क्रियते ।
७१ - १६२ - पर्यायः प्रसज्येत ।
७२ - १६२ - एका सञ्ज्ञा इति वचनात् न अस्ति यौगपद्येन संभवः ।
७३ - १६२ - गतिदिवःकर्महेतुमत्सु चग्रहणम् ।
७४ - १६२ - गतिदिवःकर्महेतुमत्सु चग्रहणम् कर्तव्यम् ।
७५ - १६२ - उपसर्गाः क्रियायोगे गतिश्च इति चकारः कर्तव्यः ।
७६ - १६२ - अक्रियमाणे हि चकारे अनवकाशः पसर्गसञ्ज्ञा गतिसञ्ज्ञाम् बाधेत ।
७७ - १६२ - परवचने हि नियमानुपपत्तेः उभयसञ्ज्ञाभावः ।
७८ - १६२ - यस्य पुनः परङ्कार्यत्वम् नियमानुपपत्तेः तस्य उभयोः सञ्ज्ञयोः भावः सिद्धः ।
७९ - १६२ - कथम् ।
८० - १६२ - पूर्वा तस्य उपसर्गसञ्ज्ञा परा गतिसञ्ज्ञा ।
८१ - १६२ - अत्र आरम्भसामर्थ्यात् च उपसर्गसञ्ज्ञा परङ्कार्यत्वात् च गतिसञ्ज्ञा भविष्यति ।
८२ - १६२ - ननु च यस्य अपि एकसञ्ज्ञाधिकारः तस्य उपसर्गसञ्ज्ञापूर्विका गतिसञ्ज्ञा ।
८३ - १६२ - कथम् ।
८४ - १६२ - अनुवृत्तिः क्रियते ।
८५ - १६२ - पर्यायः प्रसज्येत ।
८६ - १६२ - एका सञ्ज्ञा इति वचनात् न अस्ति यौगपद्येन संभवः ।
८७ - १६२ - गतिसञ्ज्ञा अपि अनवकाशा सा वचनात् भविष्यति ।
८८ - १६२ - सावकाशा गतिसञ्ज्ञा ।
८९ - १६२ - कः अवकाशः ।
९० - १६२ - ऊर्यादीनि अवकाशः ।
९१ - १६२ - प्रादीनां या गतिसञ्ज्ञा सा अनवकाशा ।
९२ - १६२ - गति ।
९३ - १६२ - दिवः कर्म ।
९४ - १६२ - साधकतमम् करणम् दिवः कर्म च इति चकारः कर्तव्यः ।
९५ - १६२ - अक्रियमाणे हि चकारे अनवकाशा कर्मसञ्ज्ञा करणसञ्ज्ञाम् बाधेत ।
९६ - १६२ - परवचने हि नियमानुपपत्तेः उभयसञ्ज्ञाभावः ।
९७ - १६२ - यस्य पुनः परङ्कार्यत्वम् नियमानुपपत्तेः तस्य उभयोः सञ्ज्ञयोः भावः सिद्धः ।
९८ - १६२ - कथम् ।
९९ - १६२ - पूर्वा तस्य कर्मसञ्ज्ञा परा करणसञ्ज्ञा ।
१०० - १६२ - कथम् ।
१०१ - १६२ - एवम् स वक्ष्यति ।
१०२ - १६२ - दिवः साधकतमम् कर्म ।
१०३ - १६२ - ततः करणम् ।
१०४ - १६२ - करणसञ्ज्ञाम् च भवति साधकतमम् ।
१०५ - १६२ - दिव इति निवृत्तम् ।
१०६ - १६२ - तत्र आरम्भसामर्थ्यात् च कर्मसञ्ज्ञा परङ्कार्यत्वात् च करणसञ्ज्ञा भविष्यति ।
१०७ - १६२ - ननु च यस्य अपि एकसञ्ज्ञाधिकारःतस्य अपि करणसञ्ज्ञापूर्विका कर्मसञ्ज्ञा ।
१०८ - १६२ - कथम् ।
१०९ - १६२ - अनुवृत्तिः क्रियते ।
११० - १६२ - पर्यायः प्रसज्येत ।
१११ - १६२ - एका सञ्ज्ञा इति वचनात् न अस्ति यौगपद्येन संभवः ।
११२ - १६२ - दिवः कर्म ।
११३ - १६२ - हेतुमत् ।
११४ - १६२ - स्वतन्त्रः कर्ता तत्प्रयोजको हेतुः च इति चकारः कर्तव्यः ।
११५ - १६२ - अक्रियमाणे हि चकारे अनवकाशा हेतुसञ्ज्ञा कर्तृसञ्ज्ञाम् बाधेत ।
११६ - १६२ - परवचने हि नियमानुपपत्तेः उभयसञ्ज्ञाभावः ।
११७ - १६२ - यस्य पुनः परङ्कार्यत्वम् नियमानुपपत्तेः तस्य उभयोः सञ्ज्ञयोर्भावः सिद्धः ।
११८ - १६२ - कथम् ।
११९ - १६२ - पूर्वा तस्य हेतुसञ्ज्ञा परा कर्तृसञ्ज्ञा ।
१२० - १६२ - कथम् ।
१२१ - १६२ - एवम् स वक्ष्यति ।
१२२ - १६२ - स्वतन्त्रः प्रयोजकः हेतुः इति ।
१२३ - १६२ - ततः कर्ता ।
१२४ - १६२ - कर्तृसञ्ज्ञः च भवति स्वतन्त्रः ।
१२५ - १६२ - प्रयोजकः इति निवृत्तम् ।
१२६ - १६२ - तत्र आरम्भसामर्थ्यात् च हेतुसञ्ज्ञा परङ्कार्यत्वात् च कर्तृसञ्ज्ञा भविष्यति ।
१२७ - १६२ - ननु च यस्य अपि एकसञ्ज्ञाधिकारः तस्य अपि कर्तृसञ्ज्ञापूर्विका हेतुसञ्ज्ञा ।
१२८ - १६२ - कथम् ।
१२९ - १६२ - अनुवृत्तिः क्रियते ।
१३० - १६२ - पर्यायः प्रसज्येत ।
१३१ - १६२ - एका सञ्ज्ञा इति वचनात् न अस्ति यौगपद्येन संभवः ।
१३२ - १६२ - गुरुलघुसञ्ज्ञे नदीघिसञ्ज्ञे ।
१३३ - १६२ - गुरुलघुसञ्ज्ञे नदीघिसञ्ज्ञे बाधेयाताम् ।
१३४ - १६२ - गार्गिबन्धुः वात्सीबन्धुः वैत्रम् विविनिय्य ।
१३५ - १६२ - परवचने हि नियमानुपत्तेः उभयसञ्ज्ञाभावः ।
१३६ - १६२ - यस्य पुनः परङ्कार्यत्वम् नियमानुपत्तेः तस्य उभयोः सञ्ज्ञयोः भावः सिद्धः ।
१३७ - १६२ - कथम् ।
१३८ - १६२ - पूर्वे तस्य नदीघिसञ्ज्ञे परे गुरुलघुसञ्ज्ञे ।
१३९ - १६२ - तत्र आरम्भसामर्थ्यात् च नदीघिसञ्ज्ञे परङ्कार्यत्वात् च गुरुलघुसञ्ज्ञे भविष्यतः ।
१४० - १६२ - ननु च यस्य अपि एकसञ्ज्ञाधिकारः तस्य अपि नदीघिसंघिसञ्ज्ञापूर्विके गुरुलघुसञ्ज्ञे ।
१४१ - १६२ - कथम् ।
१४२ - १६२ - अनुवृत्तिः क्रियते ।
१४३ - १६२ - पर्यायः प्रसज्येत ।
१४४ - १६२ - एका सञ्ज्ञा इति वचनात् न अस्ति यौगपद्येन सम्भवः ।
१४५ - १६२ - परस्मैपदसञ्ज्ञाम् पुरुषसञ्ज्ञा । परस्मैपदसञ्ज्ञाम् पुरुषसञ्ज्ञा बाधेत ।
१४६ - १६२ - परवचने हि नियमानुपपत्तेः उभयसञ्ज्ञाभावः ।
१४७ - १६२ - यस्य पुनः परङ्कार्यत्वम् नियमानुपपत्तेः तस्योभयोः सञ्ज्ञयोः भावः सिद्धः ।
१४८ - १६२ - कथम् ।
१४९ - १६२ - पूर्वा तस्य पुरुषसञ्ज्ञा परा परस्मैपदसञ्ज्ञा ।
१५० - १६२ - कथम् ।
१५१ - १६२ - एवं स वक्ष्यति ।
१५२ - १६२ - तिङः त्रीणि त्रीणि प्रथममध्योत्तमाः इति ।
१५३ - १६२ - एवम् सर्वम् पुरुषनियमम् अनुक्रम्य तस्य अन्ते लः परस्मैपदम् इति ।
१५४ - १६२ - तत्र आरम्भसामार्थ्यात् च पुरुषसञ्ज्ञा परङ्कार्यत्वात् च परस्मैपदसञ्ज्ञा भविष्यति ।
१५५ - १६२ - ननु च यस्य अपि एकसञ्ज्ञाधिकरः तस्य अपि परस्मैपदसञ्ज्ञापूर्विका पुरुषसञ्ज्ञा ।
१५६ - १६२ - कथम् ।
१५७ - १६२ - अनुवृत्तिः क्रियते ।
१५८ - १६२ - पर्यायः प्रसज्येत. एका सञ्ज्ञा इति वचनात् न अस्ति यौगपद्येन सम्भवः ।
१५९ - १६२ - परस्मैपदसञ्ज्ञा अपि अनवकाशा सा वचनात् भविष्यति ।
१६० - १६२ - सावकाशा परस्मैपदसञ्ज्ञा ।
१६१ - १६२ - कः अवकाशः ।
१६२ - १६२ - शतृक्वसू अवकाशः ।
१ - ७३ - परवचने सिति पदं भम् ।
२ - ७३ - परवचने सिति पदम् भसञ्ज्ञमपि प्राप्नोति ।
३ - ७३ - अयम् ते योनिः ऋत्वियः ।
४ - ७३ - प्रजम् विन्दाम ऋत्विजयाम् ।
५ - ७३ - आरम्भसामर्थ्यात् च पदसञ्ज्ञा परङ्कार्यत्वात् च भसञ्ज्ञा प्राप्नोति ।
६ - ७३ - गतिबुद्ध्यादीनाम् ण्यन्तानाम् कर्म कर्तृसञ्ज्ञम् ।
७ - ७३ - गतिबुद्ध्यादीआं ण्यन्तानाम् कर्म कर्तृसञ्ज्ञम् अपि प्राप्नोति ।
८ - ७३ - आरम्भसामर्थ्यात् च कर्मसञ्ज्ञा पदसञ्ज्ञा परङ्कार्यत्वात् च कर्तृसञ्ज्ञा प्राप्नोति ।
९ - ७३ - न एषः दोषः ।
१० - ७३ - आचार्यप्रवृत्तिः ज्ञापयति न कर्मसञ्ज्ञायाम् कर्तृसञ्ज्ञा भवति इति यत् अयम् हृक्रोः अन्यतरस्याम् इति अन्तरस्याङ्ग्रहणम् करोति ।
११ - ७३ - शेषवचनम् च घिसञ्ज्ञानिवृत्त्यर्थम् ।
१२ - ७३ - शेषग्रहणम् च कर्तव्यम् ।
१३ - ७३ - शेषः घि असखि इति ।
१४ - ७३ - किम् प्रयोजनम् ।
१५ - ७३ - घिसाञ्ज्ञानिवृत्त्यर्थम् ।
१६ - ७३ - नदीसञ्ज्ञायाम् घिसञ्ज्ञा मा भूत् इति ।
१७ - ७३ - शकट्यै पद्धत्यै बुद्धयै धेन्वै ।
१८ - ७३ - इतरथा हि परङ्कार्यत्वात् च घिसञ्ज्ञा आरम्भसामर्थ्यात् च ङिति ह्रस्वः च इति नदीसञ्ज्ञा ।
१९ - ७३ - न वा असम्भवात् ।
२० - ७३ - न वा असम्भवात् ।
२१ - ७३ - न वा कर्तव्यम् ।
२२ - ७३ - नदीसञ्ज्ञायाम् घिसञ्ज्ञा कस्मात् न भवति ।
२३ - ७३ - असम्भवात् ।
२४ - ७३ - कः असौ असम्भवः ।
२५ - ७३ - ह्रस्वलक्षणा हि नदीसञ्ज्ञा घिसञ्ज्ञायाम् च गुणः ।
२६ - ७३ - ह्रस्वलक्षणा हि नदीसञ्ज्ञा घिसञ्ज्ञायाम् च गुणेन भवितव्यम् ।
२७ - ७३ - तत्र वचनप्रामाण्यात् नदीसञ्ज्ञायाम् घिसञ्ज्ञाभावः ।
२८ - ७३ - तत्र वचनप्रामाण्यात् नदीसञ्ज्ञायाम् घिसञ्ज्ञा न भविष्यति ।
२९ - ७३ - किम् कारणम् ।
३० - ७३ - आश्रयाभावात् ।
३१ - ७३ - आश्रयाभावात् नदीसञ्ज्ञायाम् घिसञ्ज्ञानिवृत्तिः इति चेत् यणादेशाभावः ।
३२ - ७३ - आश्रयाभावात् नदीसञ्ज्ञायाम् घिसञ्ज्ञानिवृत्तिः इति चेत् एवम् उच्यते यणादेशः अपि न प्राप्नोति ।
३३ - ७३ - न एषः दोषः ।
३४ - ७३ - नद्याश्रयत्वात् यणादेशस्य ह्रस्वस्य नदीसञ्ज्ञाभावः ।
३५ - ७३ - नद्याश्रयः यणादेशः ।
३६ - ७३ - यदा नदीसञ्ज्ञया घिसञ्ज्ञा बाधिता तत उत्तरकालम् यणादेशेन भवितव्यम् ।
३७ - ७३ - नद्याश्रयत्वात् यणादेशस्य ह्रस्वस्य नदीसञ्ज्ञा भविष्यति ।
३८ - ७३ - बहुव्रीह्यर्थम् तु । बह्व्रीहिप्रतिषेधार्थम् तु शेषग्रहणम् कर्तव्यम् ।
३९ - ७३ - शेषः बवुव्रीहिः इति ।
४० - ७३ - किं प्रयोजनम् ।
४१ - ७३ - प्रयोजनमव्ययीभावोपमानद्विगुकृल्लोपेषु । अव्ययीभावे ।
४२ - ७३ - उन्मत्तगङ्गम् लोहितगङ्गम् ।
४३ - ७३ - उपमाने ।
४४ - ७३ - शस्त्रीश्यामा कुमुदश्येनी ।
४५ - ७३ - द्विगु ।
४६ - ७३ - पञ्चगवम् दशगवम् ।
४७ - ७३ - कृल्लोपे ।
४८ - ७३ - निष्कौशाम्बिः निर्वाराणसिः ।
४९ - ७३ - तत्र शेषवचनात् दोषः सङ्ख्यासमानाधिकरणञ्समासेषु बहुव्रीहिप्रतिषेधः ।
५० - ७३ - तत्र शेषवचनात् दोषः भवति ।
५१ - ७३ - सङ्ख्यासमानाधिकरणञ्समासेषु बहुव्रीहेः प्रतिषेधः प्राप्नोति ।
५२ - ७३ - सङ्ख्या ।
५३ - ७३ - द्वीरावतीकः देशः त्रीरावतीकः देशः ।
५४ - ७३ - समानाधिकरण ।
५५ - ७३ - वीर्पुरुषकः ग्रामः ।
५६ - ७३ - नञ्समासे ।
५७ - ७३ - अब्राह्मणकः देशः अवृषलकः देशः ।
५८ - ७३ - कृल्लोपे च शेषवचनात् प्रादिभिः न बहुव्रीहिः ।
५९ - ७३ - कृल्लोपे च शेषवचनात् प्रादिभिः न प्राप्नोति ।
६० - ७३ - प्रपतितपर्णः प्रपर्णकः प्रपतितपलाशः प्रपलाशकः इति ।
६१ - ७३ - अथ एकसञ्ज्ञाधिकारे कथम् सिध्यति ।
६२ - ७३ - एकसञ्ज्ञाधिकारे विप्रतिषेधाद् बहुव्रीहिः ।
६३ - ७३ - एकसञ्ज्ञाधिकारे विप्रतिषेधात् बहुव्रीहिः भविष्यति ।
६४ - ७३ - एकसञ्ज्ञाधिकारे विप्रतिषेधात् बहुव्रीहिः इति चेत् क्तार्थे प्रतिषेधः ।
६५ - ७३ - एकसञ्ज्ञाधिकारे विप्रतिषेधात् बहुव्रीहिः इति चेत् क्तार्थे प्रतिषेधः वक्तव्यः ।
६६ - ७३ - निष्कौशाम्बिः निर्वाराणसिः ।
६७ - ७३ - तत्पुरुषः अत्र बाधकः भविष्यति ।
६८ - ७३ - तत्पुरुषः इति चेत् अन्यत्र क्तार्थात् प्रतिषेधः । तत्पुरुषः इति चेत् अन्यत्र क्तार्थात् प्रतिषेधः वक्तव्यः ।
६९ - ७३ - प्रपतितपर्णः प्रपर्णकः प्रतितत्पलाशः प्रपलाशकः इति ।
७० - ७३ - सिद्धम् तु प्रादीनाम् क्तार्थे तत्पुरुषवचनात् ।
७१ - ७३ - सिद्धमेतत् ।
७२ - ७३ - कथम् ।
७३ - ७३ - प्रादीनाम् क्तार्थे तत्पुरुषः भवति इति वक्तव्यम् ।
१ - ४८ - कानि पुनः अस्य योगस्य प्रयोजनानि ।
२ - ४८ - प्रयोजनम् ह्रस्वसञ्ज्ञाम् दीर्घप्लुतौ ।
३ - ४८ - ह्रस्वसञ्ज्ञाम् दीर्घप्लुतसञ्ज्ञे बाधेते ।
४ - ४८ - तिङ्सार्वधातुकम् लिङ्लिटोः आर्धधातुकम् ।
५ - ४८ - तिङः सार्वधातुकसञ्ज्ञाम् लिङ्लिटोःार्धधातुसञ्ज्ञा बाधते ।
६ - ४८ - अपत्यम् वृद्धम् युवा ।
७ - ४८ - अपत्यम् वृद्धम् यवुसञ्ज्ञा बाधते ।
८ - ४८ - घिम् नदी ।
९ - ४८ - घिसञ्ज्ञाम् नदीसञ्ज्ञा बाधते ।
१० - ४८ - लघु गुरु ।
११ - ४८ - लघुसञ्ज्ञाम् गुरुसञ्ज्ञा बाधते ।
१२ - ४८ - पदम् भम् ।
१३ - ४८ - पदसञ्ज्ञाम् भसञ्ज्ञा बाधते ।
१४ - ४८ - अपादाद्नम् उत्तराणि धनुषा विध्यति कंसपात्र्याम् भुङ्क्ते गाम् दोग्धि धनुः विध्यति इति ।
१५ - ४८ - अपादानसञ्ज्ञाम् उत्तराणि कारकाणि बाधन्ते ।
१६ - ४८ - क्व ।
१७ - ४८ - धनुषा विध्यति ।
१८ - ४८ - कंसपात्र्याम् भुङ्क्ते ।
१९ - ४८ - गाम् दोग्धि ।
२० - ४८ - धनुः विध्यति ।
२१ - ४८ - धनुषा विध्यति इति अपाययुक्तत्वात् च ध्रुवमपाये अपादानम् इति अपादानसञ्ज्ञा प्राप्नोति साधकतमम् करणम् इति च करणसञ्ज्ञा ।
२२ - ४८ - करणसञ्ज्ञा परा सा भवति ।
२३ - ४८ - कंसपात्र्याम् भुङ्क्ते इति अत्र अपायुक्तत्वात् च ध्रुवमपाये अपादानमिति अपादानसञ्ज्ञा प्राप्नोति आधारः अधिकरणम् इति च अधिकरणसञ्ज्ञा ।
२४ - ४८ - अधिकरणसञ्ज्ञा परा सा भवति ।
२५ - ४८ - गाम् दोग्धि इति अत्र अपायुक्तत्वात् च अपादानसञ्ज्ञा प्राप्नोति कर्तुरीप्सिततमम् कर्म ।
२६ - ४८ - इति च कर्मसञ्ज्ञा ।
२७ - ४८ - कर्मसञ्ज्ञा परा सा भवति ।
२८ - ४८ - धनुः विध्यति इति अत्र अपाययुक्तत्वात् च अपादानसञ्ज्ञा प्राप्नोति स्वतन्त्रः कर्ता इति च ।
२९ - ४८ - कर्तृसञ्ज्ञा परा सा भवति ।
३० - ४८ - क्रुधद्रुहोः उप्सृष्टयोः कर्म संप्रदानम् । क्रुधद्रुहोः उप्सृष्टयोः कर्मसञ्ज्ञा संप्रदानसञ्ज्ञाम् बाधते ।
३१ - ४८ - करणम् पराणि साधु असिः छिनत्ति ।
३२ - ४८ - करणसञ्ज्ञाम् पराणि आणि बाधन्ते ।
३३ - ४८ - क्व ।
३४ - ४८ - धनुः विध्यति ।
३५ - ४८ - असिः छिनत्ति इति ।
३६ - ४८ - अधिकरणम् कर्म गेहम् प्रविशति । अधिकरणसञ्ज्ञाम् कर्मसञ्ज्ञा बाधते ।
३७ - ४८ - क्व ।
३८ - ४८ - गेहम् प्रविशति इति ।
३९ - ४८ - अधिकरणम् कर्ता स्थाली पचति ।
४० - ४८ - अधिकरणसञ्ज्ञाम् कर्मसञ्ज्ञा बाधते ।
४१ - ४८ - क्व ।
४२ - ४८ - स्थाली पचति इति ।
४३ - ४८ - अध्युपसृष्टम् कर्म । अध्युपसृष्टम् कर्म अधिकरणसञ्ज्ञाम् बाधते ।
४४ - ४८ - गत्युपसर्गसञ्ज्ञे कर्मप्रवचनीयसञ्ज्ञा ।
४५ - ४८ - गत्युपसर्गसञ्ज्ञे कर्मप्रवचनीयसञ्ज्ञा बाधते ।
४६ - ४८ - परस्मैपदम् आत्मनेपदम् । परस्मैपदसञ्ज्ञाम् आत्मनेपदसञ्ज्ञा बाधते ।
४७ - ४८ - समाससञ्ज्ञाः च ।
४८ - ४८ - समाससञ्ज्ञाः च याः याः पराः अनवकाशाः च ताः ताः पूर्वाः सावकाशाः च बाधन्ते ।
१ - २७ - अर्थवत् प्रातिपदिकम् । अर्थवत् प्रातिपदिकसञ्ज्ञम् भवति ।
२ - २७ - गुणवचनम् च ।
३ - २७ - गुणवचनसञ्ज्ञम् च भवति अर्थवत् ।
४ - २७ - समासकृत्तद्धिताव्ययसर्वनाम असर्वलिङ्गा जातिः ।
५ - २७ - ४१॥समास । समाससञ्ज्ञा च वक्तव्या ।
६ - २७ - कृत् ।
७ - २७ - कृत्सञ्ज्ञा च वक्तव्या ।
८ - २७ - तद्धित ।
९ - २७ - तद्धितसञ्ज्ञा च वक्तव्या ।
१० - २७ - अव्यय ।
११ - २७ - अव्ययसञ्ज्ञा च वक्तव्या ।
१२ - २७ - सर्वनाम ।
१३ - २७ - सर्वनामसञ्ज्ञा च वक्तव्या ।
१४ - २७ - असर्वलिङ्गा जातिः इति एतत् च वक्तव्यम् ।
१५ - २७ - सङ्ख्या ।
१६ - २७ - सङ्ख्यासञ्ज्ञा च वक्तव्या ।
१७ - २७ - डु च ।
१८ - २७ - डुसञ्ज्ञा च वक्तव्या ।
१९ - २७ - का पुनः डुसञ्ज्ञा ।
२० - २७ - षट्सञ्ज्ञा ।
२१ - २७ - एकद्रव्योपनिवेशिनी सञ्ज्ञा ।
२२ - २७ - एकद्रव्योपनिवेशिनी सञ्ज्ञा इति एतत् च वक्तव्यम् ।
२३ - २७ - किमर्थम् इदमुच्यते ।
२४ - २७ - यथान्यासे एव भूयिष्ठाः सञ्ज्ञाः क्रियन्ते ।
२५ - २७ - सन्ति च एव अत्र काः चित् अपूर्वाः सञ्ज्ञाः ।
२६ - २७ - अपि च एतेन आनुपूर्व्येण सन्निविष्टानाम् बाधनम् यथा स्यात् ।
२७ - २७ - गुणवचनसञ्ज्ञायाः च एताभिः बाधनम् यथा स्यात् इति ।
१ - ८६ - विप्रतिषेधः इति कः अयम् शब्दः ।
२ - ८६ - विप्रतिपूर्वात् सिद्धेः कर्मव्यतिहारे कर्मव्यतिहारे घञ् ।
३ - ८६ - इतरेतरप्रतिषेधः विप्रतिषेधः ।
४ - ८६ - अन्योन्यप्रतिषेधः विप्रतिषेधः ।
५ - ८६ - कः पुनः विप्रतिषेधः ।
६ - ८६ - द्वौ प्रसङ्गौ अन्यार्थौ एकस्मिन् सः विप्रतिषेधः ।
७ - ८६ - द्वौ प्रसण्गौ यदा अन्यार्थौ भवतः एकस्मिन् च युगपत् प्राप्त्नुतः सः विप्रतिषेधः ।
८ - ८६ - क्व पुनः अन्यार्थौ क्व च एकस्मिन् युगपत् प्राप्नुतः ।
९ - ८६ - वृक्षाभ्याम् , वृक्षेषु इति अन्यार्थौ वृक्षेभ्यः इति अत्र युगपत् प्राप्नुतः ।
१० - ८६ - किम् च स्यात् ।
११ - ८६ - एकस्मिन् युगपदसम्भवात् पूर्वपरप्राप्तेः उभयप्रसङ्गः ।
१२ - ८६ - एकस्मिन् युगपदसम्भवात्पूर्वस्याः च परस्याः च प्राप्तेः उभयप्रसङ्गः ।
१३ - ८६ - इदम् विप्रतिषिद्धम् यत् उच्यते एकस्मिन् युगपदसम्भवात्पूर्वपरप्राप्तेः उभयप्रसङ्गः इति ।
१४ - ८६ - कथम् हि एकस्मिन् च नाम युगपदसम्भवः स्यात् पूर्वस्याः च परस्याःच प्राप्तेः उभयप्रसङ्गः च स्यात् ।
१५ - ८६ - न एतत् विप्रतिषिद्धम् ।
१६ - ८६ - यत् उच्यते एकस्मिन् युगपदसम्भवात् इति कार्ययोः युगपदसम्भवः शास्त्रयोः उभयप्रसङ्गः ।
१७ - ८६ - तृजादिभिः तुल्यम् । तृजादिभिः तुल्यम् पर्यायः प्राप्नोति ।
१८ - ८६ - तत् यथा तृजादयः पर्यायेण भवन्ति ।
१९ - ८६ - किम् पुनः कारणम् तृजादयः पर्यायेण भवन्ति ।
२० - ८६ - अनवयप्रसङ्गात् प्रतिपदम् विधेः च ।
२१ - ८६ - अनवयवेन प्रसज्यन्ते प्रतिपदम् च विधीयन्ते ।
२२ - ८६ - अप्रतिपत्तिः वा उभयोः तुल्यबलत्वात् ।
२३ - ८६ - अप्रतिपत्तिः वा पुनः उभयोः शास्त्रयोः स्यात् ।
२४ - ८६ - किम् कारणम् ।
२५ - ८६ - तुल्यबलत्वात् ।
२६ - ८६ - तुल्यबले हि उभे शास्त्रे ।
२७ - ८६ - तत् यथा ।
२८ - ८६ - द्वयोः तुल्यबलयोः एकः प्रेष्यः भवति ।
२९ - ८६ - सः तयोः पर्यायेण कार्यम् करोति ।
३० - ८६ - यदा तम् उभौ युगपत् प्रेषयतः नानादिक्षु च कार्ये भवतः तदा यदि असौ अविरोधार्थी भवति ततः उभयोः न करोति ।
३१ - ८६ - किम् पुनः कारणम् उभयोः न करोति ।
३२ - ८६ - यौगपद्यासम्भवात् ।
३३ - ८६ - न अस्ति यौगपद्येन सम्भवः ।
३४ - ८६ - तत्र प्रतिपत्त्यर्थम् वचनम् ।
३५ - ८६ - तत्र प्रतिपत्त्यर्थम् इदम् वक्तव्यम् ।
३६ - ८६ - तव्यदादीनाम् तु अप्रसिद्धिः ।
३७ - ८६ - तव्यदादीनाम् तु कार्यस्य अप्रसिद्धिः ।
३८ - ८६ - न हि किम् चित् तव्यदादिषु नियमकारि शास्त्रम् आरभ्यते येन तव्यदादयः स्युः ।
३९ - ८६ - यः च भवता हेतुः व्यपदिष्टः अप्रतिपत्तिः वा उभयोः तुल्यबलत्वात् इति तुल्यः स तव्यदादिषु ।
४० - ८६ - न एषः दोषः ।
४१ - ८६ - अनवकाशाः तव्यदादयः उच्यन्ते च ।
४२ - ८६ - ते वचनात् भविष्यन्ति ।
४३ - ८६ - यः च भवता हेतुः व्यपदिष्टः तृजादिभिः तुल्यम् पर्यायः प्राप्नोति इति तुल्यः स तव्यदादिषु ।
४४ - ८६ - एतावत् इह सूत्रम् विप्रतिषेधे परम् इति ।
४५ - ८६ - पठिष्यति हि आचार्यः सकृद्गतौ विर्प्रतिषेधे यत् बाधितम् तत् बाधितम् एव इति ।
४६ - ८६ - पुनः च पठिष्यति पुनः प्रसङ्गविज्ञानात् सिद्धम् इति ।
४७ - ८६ - किम् पुनः इयता सूत्रेण उभयम् लभ्यम् ।
४८ - ८६ - लभ्यम् इति आह ।
४९ - ८६ - कथम् ।
५० - ८६ - इह भवता द्वौ हेतू व्यपदिष्टौ ।
५१ - ८६ - तृजादिभिः तुल्यम् पर्यायः प्राप्नोति इति च अप्रतिपत्तिः वा उभयोः तुल्यबलत्वात् इति च ।
५२ - ८६ - तत् यदा तावत् एषः हेतुः तृजादिभिः तुल्यम् पर्यायः प्राप्नोति इति तदा विप्रतिषेढे परम् इति अनेन किम् क्रियते ।
५३ - ८६ - नियमः ।
५४ - ८६ - विप्रतिषेधे परम् एव भवति इति ।
५५ - ८६ - तदा एतत् उपपन्नम् भवति सकृद्गतौ विप्रतिषेधे यत् बाधितम् तत् बाधितम् एव इति ।
५६ - ८६ - यदा तु एषः हेतुः अप्रतिपत्तिः वा उभयोः तुल्यबलत्वात् इति तदा विप्रतिषेधे परम् इति अनेन किम् क्रियते ।
५७ - ८६ - द्वारम् ।
५८ - ८६ - विप्रतिषेधे परम् तावत् भवति तस्मिन् क्र्टे यदि पूर्वम् अपि प्राप्नोति तत् अपि भवति ।
५९ - ८६ - तदा एतत् उपपन्नम् भवति पुनःप्रसङ्गविज्ञानात् सिद्धम् इति ।
६० - ८६ - विप्रतिषेधे परम् इति उक्त्वा अङ्गाधिकारे पूर्वम् इति वक्तव्यम् ।
६१ - ८६ - किम् कृतम् भवति ।
६२ - ८६ - पूर्वविप्रतिषेधाः न पठितव्याः भवन्ति ।
६३ - ८६ - गुणवृद्ध्यौत्वतृज्वद्भावेभ्यः नुम् पूर्वविप्रतिषिद्धम् ।
६४ - ८६ - नुमचिरतृज्वद्भावेभ्यः नुट् इति ।
६५ - ८६ - कथम् ये परविप्रतिषेधाः ।
६६ - ८६ - इत्त्वोत्त्वाभ्याम् गुणवृद्धी भवतः विप्रतिषेधेन इति ।
६७ - ८६ - सूत्रम् च भिद्यते ।
६८ - ८६ - यथान्यासम् एव अस्तु ।
६९ - ८६ - कथम् ये पूर्वविप्रतिषेधाः ।
७० - ८६ - विप्रतिषेधे परम् इति एव सिद्धम् ।
७१ - ८६ - कथम् ।
७२ - ८६ - परशब्दः अयम् बह्वर्थः ।
७३ - ८६ - अस्ति एव व्यवस्थायाम् वर्तते ।
७४ - ८६ - तत् यथा पूर्वः परः इति ।
७५ - ८६ - अस्ति अन्यार्थे वर्तते ।
७६ - ८६ - परपुत्रः परभार्या ।
७७ - ८६ - अन्यपुत्रः अन्यभार्या इति गम्यते ।
७८ - ८६ - अस्ति प्राधान्ये वर्तते ।
७९ - ८६ - तत् यथा परम् इयं ब्राह्माणी अस्मिन् कुटुम्बे ।
८० - ८६ - प्रधानम् इति गम्यते ।
८१ - ८६ - अस्ति इष्टवाची परशब्दः ।
८२ - ८६ - तत् यथा ।
८३ - ८६ - परम् धाम गतः इति ।
८४ - ८६ - इष्टम् धाम इति गम्यते ।
८५ - ८६ - तत् यः इष्टवाची परशब्दः तस्य इदम् ग्रहणम् ।
८६ - ८६ - विप्रतिषेधे परम् यत् इष्टम् तत् भवति ।
१ - १९७ - अन्तरङ्गम् च ।
२ - १९७ - अन्तरङ्गम् च बलीयः भवति इति वक्तव्यम् ।
३ - १९७ - किम् प्रयोजनम् ।
४ - १९७ - प्रयोजनम् यणेकादेशेत्त्वोत्त्वानि गुणवृद्धिद्विर्वचनाल्लोपस्वरेभ्यः ।
५ - १९७ - गुणात् यणादेशः ॒ स्योनः , स्योना ।
६ - १९७ - गुणः च प्राप्नोति यणादेः च ।
७ - १९७ - परत्वात् गुणः स्यात् ।
८ - १९७ - यणादेशः भवत्यन्तरङ्गतः ।
९ - १९७ - वृद्धेः यणादेशः ।
१० - १९७ - द्यौकामिः स्यौकामिः ।
११ - १९७ - वृद्धिः च प्राप्नोति यणादेः च ।
१२ - १९७ - परत्वात् वृद्धिः स्यात् ।
१३ - १९७ - यणादेशः भवति अन्तरङ्गतः ।
१४ - १९७ - द्विर्वचनात् यणादेशः ।
१५ - १९७ - दुद्यूषति सुस्यूषति ।
१६ - १९७ - द्विर्वचनम् च प्राप्नोति यणादेः च ।
१७ - १९७ - नित्यत्वात् द्विर्वचनम् स्यात् ।
१८ - १९७ - यणादेशः भवति अन्तरङ्गतः ।
१९ - १९७ - अल्लोपस्य च यणादेशस्य च न अस्ति सम्प्रधारणा ।
२० - १९७ - स्वरात् यणादेशः ।
२१ - १९७ - द्यौकामिः स्यौकामिः ।
२२ - १९७ - स्वरः च प्राप्नोति यणादेः च ।
२३ - १९७ - परत्वात् स्वरः स्यात् ।
२४ - १९७ - यणादेशः भवति अन्तरङ्गतः ।
२५ - १९७ - गुणात् एकादेशः ।
२६ - १९७ - काद्रवेयः मन्त्रम् अपश्यत् ।
२७ - १९७ - गुणः च प्राप्नोति एकादेशः च ।
२८ - १९७ - परत्वात् गुणः स्यात् ।
२९ - १९७ - एकादेशः भवति अन्तरङ्गतः ।
३० - १९७ - वृद्धेः एकादेशः ।
३१ - १९७ - वैक्ष्माणिः सौस्थितिः ।
३२ - १९७ - वृद्धिः च प्राप्नोति एकादेशः च ।
३३ - १९७ - परत्वात् वृद्धिः स्यात् ।
३४ - १९७ - एकादेशः भवति अन्तरङ्गतः ।
३५ - १९७ - द्विर्वचनात् एकादेशः ।
३६ - १९७ - ज्ञाया ओदनः ज्ञौदनः ।
३७ - १९७ - ज्ञौदनम् इच्छति ज्ञौदनीयति ।
३८ - १९७ - ज्ञौदनीयतेः सन् जुज्ञौदनीयिषति ।
३९ - १९७ - द्विर्वचनम् च प्राप्नोति एकादेशः च ।
४० - १९७ - नित्यत्वात् द्विर्वचनम् स्यात् ।
४१ - १९७ - एकादेशः भवति अन्तरङ्गतः ।
४२ - १९७ - अल्लोपात् एकादेशः ।
४३ - १९७ - शुना शुने ।
४४ - १९७ - अल्लोपः च प्राप्नोति एकादेशः च ।
४५ - १९७ - परत्वात् अल्लोपः स्यात् ।
४६ - १९७ - एकादेशः भवति अन्तरङ्गतः ।
४७ - १९७ - न एतत् अस्ति प्रयोजनम् ।
४८ - १९७ - न अस्ति अत्र विशेषः अल्लोपेन वा निवृत्तौ सत्याम् पूर्वत्वेन वा ।
४९ - १९७ - अयम् अस्ति विशेषः ।
५० - १९७ - अल्लोपेन निवृत्तौ सत्याम् उदात्तनिवृत्तिस्वरः प्रसज्येत ।
५१ - १९७ - न अत्र उदात्तनिवृत्तिस्वरः प्राप्नोति ।
५२ - १९७ - किम् कारणम् ।
५३ - १९७ - न गोश्वन्साववर्ण इति प्रतिषेधात् ।
५४ - १९७ - न एषः उदात्तनिवृत्तिस्वरस्य प्रतिषेधः ।
५५ - १९७ - कस्य तर्हि ।
५६ - १९७ - तृतीयादिस्वरस्य ।
५७ - १९७ - यत्र तर्हि तृतीयादिस्वरः न अस्ति ।
५८ - १९७ - शुनः पश्य इति ।
५९ - १९७ - एवम् तर्हि न लाक्षणिकस्य प्रतिषेधम् शिष्मः ।
६० - १९७ - किम् तर्हि ।
६१ - १९७ - येन केन चित् लक्षणेन प्राप्तस्य विभक्तिस्वरस्य प्रतिषेधः ।
६२ - १९७ - यत्र तर्हि विभक्तिः न अस्ति ।
६३ - १९७ - बह्हुशुनी इति ।
६४ - १९७ - यदि पुनः अयम् उदात्तनिवृत्तिस्वरस्य अपि प्रतिषेधः विज्ञायेत ।
६५ - १९७ - न एवम् शक्यम् ।
६६ - १९७ - इह अपि प्रसज्येत ॒ कुमारी इति ।
६७ - १९७ - एवम् तर्हि आचार्यप्रवृत्तिः ज्ञापयति नोदात्तनिवृत्तिस्वरः शुनि अवतरति इति यत् अयम् श्वन्शब्दम् गौरादिषु पठति ।
६८ - १९७ - अन्तोदात्तार्थम् यत्नम् करोति ।
६९ - १९७ - सिद्धम् हि स्यान् ङीपा एव ।
७० - १९७ - स्वरात् एकादेकादेशः ।
७१ - १९७ - सौत्थितिः वैक्ष्माणिः ।
७२ - १९७ - स्वरः च प्राप्नोति एकादेशः च ।
७३ - १९७ - परत्वात्स्वरः स्यात् ।
७४ - १९७ - एकादेशः भवति अन्तरङ्गतः ।
७५ - १९७ - गुणस्य च इत्त्वोत्त्वयोः च न अस्ति सम्प्रधारणा ।
७६ - १९७ - वृद्धेः इत्त्वोत्त्वे ।
७७ - १९७ - स्तौर्णिः पौर्तिः ।
७८ - १९७ - वृद्धिः च प्राप्नोति इत्त्वोत्त्वे च ।
७९ - १९७ - परत्वात् वृद्धिः स्यात् ।
८० - १९७ - इत्त्वोत्त्वे भवतः अन्तरङ्गतः ।
८१ - १९७ - द्विर्वचनात् इत्त्वोत्त्वे ।
८२ - १९७ - आतेस्तीर्यते आपोपूर्यते ।
८३ - १९७ - द्विर्वचनम् च प्राप्नोति इत्त्वोत्त्वे च ।
८४ - १९७ - नित्यत्वात् द्विर्वचनम् स्यात् ।
८५ - १९७ - इत्त्वोत्त्वे भवतः अन्तरङ्गतः ।
८६ - १९७ - अल्लोपस्य च इत्त्वोत्त्वयोः च न अस्ति सम्प्रधारणा ।
८७ - १९७ - स्वरे नास्ति विशेषः ।
८८ - १९७ - इण्ङिशीनाम् आत् गुणः सवर्णदीर्घत्वात् ।
८९ - १९७ - इण्ङिशीनाम् आत् गुणः सवर्णदीर्घत्वात् प्रयोजनम् ।
९० - १९७ - अयजे इन्द्रम् अवपे इन्द्रम् ।
९१ - १९७ - वृक्षे इन्द्रम् प्लक्षे इन्द्रम् ।
९२ - १९७ - ये इन्द्रम् ते इन्द्रम् ।
९३ - १९७ - आत् गुणः च प्राप्नोति सवर्णदीर्घत्वम् च ।
९४ - १९७ - परत्वात् सवरणदीर्घत्वम् स्यात् ।
९५ - १९७ - आत् गुणः भवति अन्तरङ्गतः ।
९६ - १९७ - न वा सवर्णदीर्घत्वस्य अनवकाशत्वात् ।
९७ - १९७ - न वा एतत् अन्तरङ्गेण अपि सिध्यति ।
९८ - १९७ - किम् कारणम् ।
९९ - १९७ - सवर्णदीर्घत्वस्य अनवकाशत्वात् ।
१०० - १९७ - अनवकाशम् सवर्णदीर्घत्वम् आत् गुणम् बाधेत ।
१०१ - १९७ - न एतत् अन्तरङ्गे अस्ति अनवकाशम् परम् इति ।
१०२ - १९७ - इह अपि स्योनः , स्योना इति शक्यम् वक्तुम् न वा परत्वात् गुणस्य इति ।
१०३ - १९७ - ऊङापोः एकादेशः ईत्वलोपाभ्याम् ।
१०४ - १९७ - ऊङापोः एकादेशः ईत्वलोपाभ्याम् भवति अन्तरङ्गतः प्रयोजनम् ।
१०५ - १९७ - ईत्वात् एकादेशः ।
१०६ - १९७ - खट्वीयति मालीयति ।
१०७ - १९७ - ईत्वम् च प्राप्नोति एकादेशः च ।
१०८ - १९७ - परत्वात् ईत्वम् स्यात् ।
१०९ - १९७ - एकादेशः भवति अन्तरङ्गतः ।
११० - १९७ - लोपात् एकादेशः ।
१११ - १९७ - कामण्डलेयः भाद्रबाहेयः ।
११२ - १९७ - लोपः च प्राप्नोति एकादेशः च ।
११३ - १९७ - परत्वात् लोपः स्यात् ।
११४ - १९७ - एकादेशः भवति अन्तरङ्गतः ।
११५ - १९७ - अथ किमर्थम् ईत्वलोपाभ्याम् इति उच्यते न लोपेत्वाभ्यामिति एव उच्येत ।
११६ - १९७ - सङ्ख्यातानुदेशः मा भूत् इति ।
११७ - १९७ - आपः अपि एकादेशः लोपे प्रयोजयति ।
११८ - १९७ - चौडिः बालाकिः ।
११९ - १९७ - आत्त्वनपुंसकोपसर्जनह्रस्वत्वानि अयवायावेकादेशतुग्विधिभ्यः । आत्त्वनपुंसकोपसर्जनह्रस्वत्वानि अयवायावेकादेशतुग्विधिभ्यः भवन्ति अन्तरङ्गतः ।
१२० - १९७ - वेञ् वानीयम् शो शानीयम् ग्लै ग्लानीयम् म्लै म्लानीयम् ग्लाच्छत्त्रम् च्लाच्छत्रम् ।
१२१ - १९७ - आत्त्वम् च प्राप्नोति एते च विधयः ।
१२२ - १९७ - परत्वात् एते विधयः स्युः ।
१२३ - १९७ - आत्त्वम् भवति अन्तरङ्गतः ।
१२४ - १९७ - नपुंसकोपसर्जनह्रस्वत्वम् च प्रयोजनम् ।
१२५ - १९७ - अतिरि अत्र अतिनु अत्र अतिरिच्छत्त्रम् अतिनुच्छत्रम् आराशस्त्रि इदम् धानाशष्कुलि इदम् निष्कौशाम्बि इदम् निर्वाराणसि इदम् निष्कौशाम्बिच्छत्रम् निर्वाराणासिच्छत्रम् ।
१२६ - १९७ - नपुंसकोपसर्जनह्रस्वत्वम् च प्राप्नोति एते च विधयः ।
१२७ - १९७ - परत्वात् एते विधयः स्युः ।
१२८ - १९७ - नपुंसकोपसर्जनह्रस्वत्वम् भवति अन्तरङ्गतः ।
१२९ - १९७ - तुक् यणेकादेशगुणवृद्ध्यौत्त्वदीर्घत्वेत्वमुमेत्त्त्वरीविधिभ्यः । यणेकादेशगुणवृद्ध्यौत्त्वदीर्घत्वेत्वमुमेत्त्त्वरीविधिभ्यः तुक् भवति अन्तरङ्गतः ।
१३० - १९७ - यणादेशात् ।
१३१ - १९७ - अग्निचित् अत्र सोमसुत् अत्र ।
१३२ - १९७ - एकादेशात् ।
१३३ - १९७ - अग्निचित् इदम् सोमसुत् उदकम् ।
१३४ - १९७ - गुणात् ।
१३५ - १९७ - अग्निचिते सोमसुते ।
१३६ - १९७ - वृद्धेः ।
१३७ - १९७ - प्रऋच्छकः प्रार्च्छकः ।
१३८ - १९७ - औत्त्वात् ।
१३९ - १९७ - अग्निचिति सोमसुति ।
१४० - १९७ - दीर्घत्वात् ।
१४१ - १९७ - जगद्भ्याम् जनगद्भ्याम् ।
१४२ - १९७ - ईत्वात् ।
१४३ - १९७ - जगत्यति जनगत्यति ।
१४४ - १९७ - मुमः ।
१४५ - १९७ - अग्निचिन्मन्यः सोमसुन्मन्यः ।
१४६ - १९७ - एत्वात् ।
१४७ - १९७ - जगद्भ्यः जनगद्भ्यः ।
१४८ - १९७ - रीविधेः ।
१४९ - १९७ - सुकृत्यति पापक्र्ट्यति ।
१५० - १९७ - अनङानङ्भ्याम् च इति वक्तव्यम् ।
१५१ - १९७ - सुकृत् सुकृत्द्दुष्क्र्टौ ।
१५२ - १९७ - तुक् च प्राप्नोति एते च विधयः ।
१५३ - १९७ - परत्वात् एते विधयः स्युः ।
१५४ - १९७ - तुक् भवति अन्तरङ्गतः ।
१५५ - १९७ - इयङादेशः गुणात् ।
१५६ - १९७ - इयङादेशः गुणात् भवति अन्तरङ्गतः प्रयोजनम् ।
१५७ - १९७ - धियति रियति ।
१५८ - १९७ - इयङादेशः च प्राप्नोति गुणः च ।
१५९ - १९७ - परत्वात् गुणः स्यात् ।
१६० - १९७ - इयङादेशः भवति अन्तरण्गतः ।
१६१ - १९७ - उवङादेशः च इति वक्तव्यम् ।
१६२ - १९७ - प्रादुद्रुवत् प्रासुस्रुवत् ।
१६३ - १९७ - श्वेः सम्प्रसारणपूर्वत्वम् यणादेशात् ।
१६४ - १९७ - श्वेः सम्प्रसारणपूर्वत्वम् यणादेशात् भवति अन्तरण्गतः प्रयोजनम् ।
१६५ - १९७ - शुशुवतुः शुशुवुः ।
१६६ - १९७ - पूर्वत्वम् च प्राप्नोति यणादेशः च ।
१६७ - १९७ - परत्वात् यणादेशः स्यात् ।
१६८ - १९७ - पूर्वत्वम् भवति अन्तरण्गतः ।
१६९ - १९७ - ह्वः आकारलोपात् ।
१७० - १९७ - ह्वः आकारलोपात् पूर्वत्वम् भवति अन्तरङ्गतः प्रयोजनम् ।
१७१ - १९७ - जुहुवतुः जुहुवुः ।
१७२ - १९७ - पूर्वत्वम् च प्राप्नोति आकारलोपः च परत्वात् आकारलोपः स्यात् ।
१७३ - १९७ - पूर्वत्वम् भवति अन्तरङ्गतः ।
१७४ - १९७ - स्वरः लोपात् ।
१७५ - १९७ - स्वरः लोपात् भवति अन्तरङ्गतः प्रयोजनम् ।
१७६ - १९७ - औपगवी सौदामनी ।
१७७ - १९७ - स्वरः च प्राप्नोति लोपः च ।
१७८ - १९७ - परत्वात् लोपः स्यात् ।
१७९ - १९७ - स्वरः भवति अन्तरङ्गतः ।
१८० - १९७ - प्रत्ययविधिः एकादेशात् ।
१८१ - १९७ - प्रत्ययविधिः एकादेशात् भवति अन्तरङ्गतः प्रयोजनम् ।
१८२ - १९७ - अग्निः इन्द्रः वायुः उदकम् ।
१८३ - १९७ - प्रत्ययविधिः च प्राप्नोति एकादेशः च ।
१८४ - १९७ - परत्वात् एकादेशः स्यात् ।
१८५ - १९७ - । प्रत्ययविधिः भवति अन्तरङ्गतः ।
१८६ - १९७ - यणादेशात् च इति वक्तव्यम् ।
१८७ - १९७ - अग्निः अत्र वायुः अत्र ।
१८८ - १९७ - लादेशः वर्णविधेः । लादेशः वर्णविधेः भवति अन्तरङ्गतः प्रयोजनम् ।
१८९ - १९७ - पचतु अत्र पठ्तु अत्र ।
१९० - १९७ - लादेशः च प्राप्नोति यणादेशः च ।परत्वात् यणादेशः स्यात् ।
१९१ - १९७ - लादेशः भवति अन्तरङ्गतः ।
१९२ - १९७ - तत्पुरुषान्तोदात्तत्वम् पूर्वपदप्रकृतिस्वरात् ।
१९३ - १९७ - तत्पुरुषान्तोदात्तत्वम् पूर्वपदप्रकृतिस्वरात् भवति अन्तरङ्गतः प्रयोजनम् ।
१९४ - १९७ - पूर्वशालाप्रियः अपरशालाप्रियः टत्पुरुषान्तोदात्तत्वम् च प्राप्नोति पूर्वपदप्रकृतिस्वरत्वम् च ।
१९५ - १९७ - परत्वात् पूर्वपदप्रकृतिस्वरत्वम् स्यात् ।
१९६ - १९७ - तत्पुरुषान्तोदात्तत्वम् भवति अन्तरङ्गतः ।
१९७ - १९७ - एतानि अस्याः परिभाषायाः प्रयोजनानि यदर्थम् एषा परिभाषा कर्तव्या ।
१ - ६० - यदि सन्ति प्रयोजनानि इति एषा परिभाषा क्रियते ननु च इयम् अपि कर्तव्या असिद्धम् बहिरङ्गलक्षणम् अन्तरङ्गलक्षणे इति ।
२ - ६० - किम् प्रयोजनम् ।
३ - ६० - पचावेदम् पचामेदम् ।
४ - ६० - असिद्धत्वात् बहिरङ्गलक्षणस्य गुणस्य अन्तरण्गलक्षणम् ऐत्वम् मा भूत् इति ।
५ - ६० - उभे तर्हि कर्तव्ये ।
६ - ६० - न इति आह ।
७ - ६० - अनया एव सिद्धम् ।
८ - ६० - इह अपि स्योनः स्योना इति असिद्धत्वात् बहिरङ्गलक्षणस्य गुणस्य अन्तरङ्गलक्षणः यणादेशो भविष्यति ।
९ - ६० - यदि असिद्धम् बहिरङ्गलक्षणम् अन्तरङ्गलक्षणे इति उच्यते अक्षद्यूः हिरण्यद्यूः असिद्धत्वात् असिद्धत्वात् बहिरङ्गलक्षणस्य ऊठः अन्तरङ्गलक्षणः यणादेशः न प्राप्नोति ।
१० - ६० - न एषः दोषः ।
११ - ६० - असिद्धम् बहिरङ्गलक्षणम् अन्तरङ्गलक्षणे इति उक्त्वा ततः वक्ष्यामि न अजानन्तर्ये बहिष्ट्वप्रक्ल्̥प्तिः इति ।
१२ - ६० - सा तर्हि एषा परिभाषा कर्तव्या ।
१३ - ६० - न कर्तव्या ।
१४ - ६० - आचार्यप्रवृत्तिः ज्ञापयति भवति एषा परिभाषा इति यत् अयम् षत्वतुकोः असिद्धः इति आह ।
१५ - ६० - इयम् तर्हि परिभाषा कर्तव्या असिद्धम् बहिरङ्गलक्षणमन्तरङ्गलक्षणे इति ।
१६ - ६० - एषा च न कर्तव्या ।
१७ - ६० - आचार्यप्रवृत्तिः ज्ञापयति भवति एषा परिभाषा इति यत् अयम् वाहः ऊठ् इति ऊठम् शास्ति ।
१८ - ६० - तस्य दोषः पूर्वपदोत्तरपदयोः वृद्धिस्वरौ एकादेशात् ।
१९ - ६० - तस्य एतस्य लक्षणस्य दोषः पूर्वपदोत्तरपदयोः वृद्धिस्वरौ एकादेशात् अन्तरङ्गतः अभिनिर्वृत्तात् न प्राप्नुतः ।
२० - ६० - पूर्वैषुकामशमः अपरैषुकामशमः गुडोदकम् तिलोदकम् ।
२१ - ६० - उदके अकेवले इति पूर्वोत्तरपदयोः व्यपवर्गाभावात् न स्यात् ।
२२ - ६० - न एषः दोषः ।
२३ - ६० - आचार्यप्रवृत्तिः ज्ञापयति पूर्वोत्तरपदयोः तावत् कार्यम् भवति न एकादेशः इति यत् अयम् न इन्द्रस्य परस्य इति प्रतिषेधम् शास्ति ।
२४ - ६० - कथम् कृत्वा ज्ञापकम् ।
२५ - ६० - इन्द्रे द्वौ अचौ ।
२६ - ६० - तत्र एकः यस्य ईति च इति लोपेन ह्रियते अपरः एकादेशेन ।
२७ - ६० - ततः अनच्कः इन्द्रः सम्पन्नः ।
२८ - ६० - तत्र कः प्रसङ्गः वृद्धेः ।
२९ - ६० - पश्यति तु आचार्यः पूर्वपदोत्तरपद्योः तावत्कार्यम् भवति न एकादेशः इति ततः न इन्द्रस्य परस्य इति प्रतिषेधम् शास्ति ।
३० - ६० - यणादेशात् इयुवौ । यणादेशात् इयुवौ अन्तरङ्गतः अभिनिर्वृत्तात् न प्राप्नुतः ।
३१ - ६० - वैयाकरणः सौवश्वः इति ।
३२ - ६० - लक्षणम् हि भवति य्वोः वृद्धिप्रसङ्गे इयुवौ भवतः इति ।
३३ - ६० - न एषः दोषः ।
३४ - ६० - अनवकाशौ इयुवौ ।
३५ - ६० - अचि इति उच्यते ।
३६ - ६० - किम् पुनः कारणम् अचि ति उच्यते ।
३७ - ६० - इह मा भूताम् ।
३८ - ६० - ऐतिकायनः औपगवः इति ।
३९ - ६० - स्ताम् अत्र इयुवौ लोपः व्योः वलि इति लोपः भविष्यति ।
४० - ६० - यत्र तर्हि लोपः न अस्ति ।
४१ - ६० - प्रैयमेधः प्रैयम्गवः इति ।
४२ - ६० - उसि पररूपात् च ।
४३ - ६० - उसि पररूपात् च अन्तरङ्गतः अभिनिर्वृत्तात् इयादेशः न प्राप्नोति ।
४४ - ६० - पचेयुः यजेयुः ।
४५ - ६० - न एषः दोषः ।
४६ - ६० - न एवम् विज्ञायते या इति एतस्य इय् भवति इति ।
४७ - ६० - कथम् तर्हि ।
४८ - ६० - यास् इति एतस्य इय् भवति इति ।
४९ - ६० - लुक् लोपयणयवायावेकादेशेभ्यः ।
५० - ६० - लोपयणयवायावेकादेशेभ्यः लुक् बलीयान् इति वक्तव्यम् ।
५१ - ६० - लोपात् ।
५२ - ६० - गोमान् प्रियः अस्य गोमत्प्रियः यवमत्प्रियः ।
५३ - ६० - गोमान् इव आचरति गोमत्यते यवमत्यते ।
५४ - ६० - यणादेशात् ।
५५ - ६० - ग्रामण्यः कुलम् ग्रामणिकुलम् सेनान्यः कुलम् सेनानिकुलम् ।
५६ - ६० - अयवायावेकादेशेभ्यः ।
५७ - ६० - गवे हितम् गोहितम् रायः कुलम् रैकुलम् नावः कुलम् नौकुलम् वृकाद्भयम् वृकभयम् ।
५८ - ६० - लुक् च प्राप्नोति एते च विधयः ।
५९ - ६० - परत्वात् एते विधयः स्युः ।
६० - ६० - लुक् बलीयान् इति वक्तव्यम् लुक् यथा स्यात् ।
N/A
References : N/A
Last Updated : January 17, 2018
TOP