पाद १ - खण्ड १०

व्याकरणमहाभाष्य म्हणजे पाणिनि लिखीत अष्टाध्यायीतील काही निवडक सूत्रांवर पतञ्जलिने केलेले भाष्य. या ग्रंथाची रचना ई.पू २०० ते ई.पू १४० मध्ये केली गेली, असे मत व्याकरण पंडितांचे आहे.


१ - ३० - वृद्धिग्रहणम् किमर्थम्. यस्य अचाम् आदिः तत् वृद्धम् इति इयति उच्यमाने दात्ताः, राक्षिताः अत्र अपि प्रसज्येत ।

२ - ३० - वृद्धिग्रहणे पुनः क्रियमाणे न दोषः भवति ।

३ - ३० - अथ यस्यग्रहणम् किमर्थम् ।

४ - ३० - यस्य इति व्यपदेशाय ।

५ - ३० - अथ अज्ग्रहणम् किमर्थम् ।

६ - ३० - वृद्धिः यस्य आदिः तत् वृद्धम् इति इयति उच्यमाने इह एव स्यात् ऐतिकायनीयाः, औपगवीयाः ।

७ - ३० - इह न स्यात् गार्गीयाः, वात्सीयाः इति ।

८ - ३० - अज्ग्रहणे पुनः क्रियमाणे न दोषः भवति ।

९ - ३० - अथ आदिग्रहणम् किमर्थम् ।

१० - ३० - वृद्धिः यस्य अचाम् तत् वृद्धम् इति इयति उच्यमाने सभासन्नयने भवः साभसन्नयनः इति अत्र प्रसज्येत ।

११ - ३० - आदिग्रहणे पुनः क्रियमाणे न दोषः भवति ।

१२ - ३० - वृद्धसञ्ज्ञायाम् अजसन्निवेशात् अनादित्वम् ।

१३ - ३० - वृद्धसञ्ज्ञायाम् अजसन्निवेशात् आदिः इति एतत् न उपपद्यते ।

१४ - ३० - न हि अचाम् सन्निवेशः अस्ति ।

१५ - ३० - ननु च एवम् विज्ञायते अच् एव आदिः अजादिः ।

१६ - ३० - न एवम् शक्यम् ।

१७ - ३० - इह एव प्रसज्येत औपगवीयाः ।

१८ - ३० - इह न स्यात् गार्गीयाः इति ।

१९ - ३० - एकान्तादित्वम् तर्हि विज्ञायते ।

२० - ३० - एकान्तादित्वे च सर्वप्रसङ्गः ।

२१ - ३० - इह अपि प्रसज्येत सभासन्नयने भवः साभसन्नयनः इति ।

२२ - ३० - सिद्धम् अजाकृतिनिर्देशात् ।

२३ - ३० - सिद्धम् एतत् ।

२४ - ३० - कथम् ।

२५ - ३० - अजाकृतिः निर्दिश्यते ।

२६ - ३० - एवम् अपि व्यञ्जनैः व्यवहितत्वात् न प्राप्नोति ।

२७ - ३० - व्यञ्जनस्य अविद्यमानत्वम् यथा अन्यत्र ।

२८ - ३० - व्यञ्जनस्य अविद्यमानवद्भावः वक्तव्यः यथा अन्यत्र अपि भवति व्यञ्जनस्य अविद्यमानवद्भावः ।

२९ - ३० - क्व अन्यत्र ।

३० - ३० - स्वरे ।

१ - १३ - वा नामधेयस्य ।

२ - १३ - वा नामधेयस्य वृद्धसञ्ज्ञा वक्तव्या देवदत्तीयाः, दैवदत्ताः, यज्ञदत्तीयाः, याज्ञदत्ताः ।

३ - १३ - गोत्रोत्तरपदस्य च ।

४ - १३ - गोत्रोत्तरपदस्य च वृद्धसञ्ज्ञा वक्तव्या कम्बलचारायणीयाः, ओदनपाणिनीयाः, घृतरौढीयाः ।

५ - १३ - गोत्रान्तात् वा असमस्तवत् ।

६ - १३ - गोत्रान्तात् वा असमस्तवत् प्रत्ययः भवति इति वक्तव्यम् एतानि एव उदाहरणानि ।

७ - १३ - किम् अविशेषेण ।

८ - १३ - न इति आह ।

९ - १३ - जिह्वाकात्यहरितकात्यवर्जम् ।

१० - १३ - जिह्वाकात्यम् हरितकात्यम् च वर्जयित्वा जैहवाकाताः, हारितकाताः ।

११ - १३ - किम् पुनः अत्र ज्यायः ।

१२ - १३ - गोत्रान्तात् वा असमस्तवत् इति एव ज्यायः ।

१३ - १३ - इदम् अपि सिद्धम् भवति पिङ्गलकाण्वस्य छात्त्राः पैङ्गलकाण्वाः ।

१ - १५ - यस्याचामादिग्रहणम् अनुवर्तते उताहो न ।

२ - १५ - किम् च अतः ।

३ - १५ - यदि अनुवर्तते इह च प्रसज्येत त्वत्पुत्रस्य छात्त्राः त्वात्पुत्राः, मात्पुत्राः इह च न स्यात् त्वदीयः, मदीयः इति ।

४ - १५ - अथ निवृत्तम् एङ् प्राचाम् देशे यस्याचामादिग्रहणम् कर्तव्यम् ।

५ - १५ - एवम् तर्हि अनुवर्तते ।

६ - १५ - कथम् त्वापुत्राः, मात्पुत्राः इति ।

७ - १५ - सम्बन्धम् अनुवर्तिष्यते ।

८ - १५ - वृद्धिः यस्य अचाम् आदिः तत् वृद्धम् ।

९ - १५ - त्यदादीनि च वृद्धसञ्ज्ञानि भवन्ति ।

१० - १५ - वृद्धिः यस्य अचाम् आदिः तत् वृद्धम् ।

११ - १५ - एङ् प्राचाम् देशे ।

१२ - १५ - यस्याचामादिग्रहणम् अनुवर्तते ।

१३ - १५ - वृद्धिग्रहणम् निवृत्तम् ।

१४ - १५ - तत् यथा कः चित् कान्तारे समुपस्थिते सार्थम् उपादत्ते ।

१५ - १५ - सः यदा निष्कान्तारीभूतः भवति तदा सार्थम् जहाति

१ - १ - एङ् प्राचाम् देशे शैषिकेषु इति वक्तव्यम् सैपुरिकी सैपुरिका स्कौनगरिकी स्कौनगरिका इति ।

N/A

References : N/A
Last Updated : January 17, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP