१ - ५४ - पदान्तविधिम् प्रति न स्थानिवत् इति उच्यते ।
२ - ५४ - तत्र वेतस्वान् इति रुः प्राप्नोति ।
३ - ५४ - न एषः दोषः ।
४ - ५४ - भसञ्ज्ञा अत्र बाधिका भविष्यति तसौ मत्वर्थे इति ।
५ - ५४ - अकारान्तम् एतत् भसञ्ज्ञाम् प्रति ।
६ - ५४ - पदसञ्ज्ञाम् प्रति सकारान्तम् ।
७ - ५४ - ननु च एवम् विज्ञास्यते यः सम्प्रति पदान्तः इति ।
८ - ५४ - कर्मसाधनस्य विधिशब्दस्य उपादाने एतत् एवम् स्यात् ।
९ - ५४ - अयम् च विधिशब्दः अस्ति एव कर्मसाधनः विधीयते विधिः ।
१० - ५४ - अस्ति भावसाधनः विधानम् विधिः इति ।
११ - ५४ - तत्र भावसाधनस्य उपादाने एषः दोषः भवति ।
१२ - ५४ - इह च ब्रह्मबन्ध्वा ब्रह्मबन्ध्वै धकारस्य जश्त्वम् प्राप्नोति ।
१३ - ५४ - अस्ति पुनः किम् चित् भावसाधनस्य विधिशब्दस्य उपादाने सति इष्टम् सङ्गृहीतम् आहोस्वित् दोषान्तम् एव ।
१४ - ५४ - अस्ति इति आह ।
१५ - ५४ - इह कानि सन्ति यानि सन्ति कौ स्तः, यौ स्तः इति यः असौ पदान्तः यकारः वकारः वा श्रूयेत सः न श्रूयते ।
१६ - ५४ - षडिकः च अपि सिद्धः भवति ।
१७ - ५४ - वाचिकः तु न सिध्यति ।
१८ - ५४ - अस्तु तर्हि कर्मसाधनः ।
१९ - ५४ - यदि कर्मसाधनः षडिकः न सिध्यति ।
२० - ५४ - अस्तु तर्हि भावसाधनः ।
२१ - ५४ - वाचिकः न सिध्यति ।
२२ - ५४ - वाचिकषडिकौ न संवदेते ।
२३ - ५४ - कर्तव्यः अत्र यत्नः ।
२४ - ५४ - कथम् ब्रह्मबन्ध्वा ब्रह्मबन्ध्वै. उभयतः आश्रये न अन्तादिवत् इति ।
२५ - ५४ - कथम् वेतस्वान् ।
२६ - ५४ - न एवम् विज्ञायते पदस्य अन्तः पदान्तः पदन्तविधिम् प्रति इति ।
२७ - ५४ - कथम् तर्हि ।
२८ - ५४ - पदे अन्तः पदान्तः पदान्तविधिम् प्रति इति ।
२९ - ५४ - अथ वा यथा एव अन्यानि अपि पदकार्याणि उपप्लवन्ते रुत्वम् जश्त्वम् च एवम् इदम् अपि पदकार्यम् उपप्लोष्यते ।
३० - ५४ - किम्. भसञ्ज्ञा नाम ।
३१ - ५४ - वरे यलोपविधिम् प्रति न स्थानिवत् भवति इति उच्यते ।
३२ - ५४ - तत्र ते अप्सु यायावरः प्रवपेत पिण्डान् अवर्णलोपविधिम् प्रति स्थानिवत् स्यात् ।
३३ - ५४ - न एषः दोषः ।
३४ - ५४ - न एवम् विज्ञायते वरे यलोपविधिम् प्रति न स्थानिवत् भवति इति ।
३५ - ५४ - कथम् तर्हि ।
३६ - ५४ - वरे अयलोपविधिम् प्रति इति ।
३७ - ५४ - किम् इदम् अयलोपविधिम् प्रति इति ।
३८ - ५४ - अवर्णलोपविधिम् प्रति यलोपविधिम् च प्रति इति ।
३९ - ५४ - अथ वा योगविभागः करिष्यते वरे लुप्तम् न स्थानिवत् ।
४० - ५४ - ततः यलोपविधिम् च प्रति न स्थानिवत् इति ।
४१ - ५४ - यलोपे किम् उदाहरणम् ।
४२ - ५४ - कण्डूयतेः अप्रत्ययः कण्डूः इति ।
४३ - ५४ - न एतत् अस्ति ।
४४ - ५४ - क्वौ लुप्तम् न स्थानिवत् ।
४५ - ५४ - इदम् तर्हि सौरी बलाका ।
४६ - ५४ - न एतत् अस्ति ।
४७ - ५४ - उपधात्वविधिम् प्रति न स्थानिवत् ।
४८ - ५४ - इदम् तर्हि प्रयोजनम् आदित्यः ।
४९ - ५४ - न एतत् अस्ति ।
५० - ५४ - पूर्वत्रासिद्धे न स्थानिवत् ।
५१ - ५४ - इदम् तर्हि कण्डूतिः, वल्गूतिः ।
५२ - ५४ - न एतत् अस्ति प्रयोजनम् ।
५३ - ५४ - कण्डूया वल्गूया इति भवितव्यम् ।
५४ - ५४ - इदम् तर्हि कण्डूयतेः क्तिच् ब्राह्मणकण्डूतिः, क्षत्रियकण्डूतिः ।
१ - २१ - प्रतिषेधे स्वरदीर्घयलोपेषु लोपाजादेशः न स्थानिवत् ।
२ - २१ - प्रतिषेधे स्वरदीर्घयलोपेषु लोपाजादेशः न स्थानिवत् इति वक्तव्यम् ।
३ - २१ - स्वर आकर्षिकः, चिकीर्षकः, जिहीर्षकः ।
४ - २१ - यः हि अन्यः आदेशः स्थानिवत् एव असौ भवति पञ्चारत्न्यः, दशारत्न्यः ।
५ - २१ - स्वर ।
६ - २१ - दीर्घ प्रतिदीव्ना प्रतिदीव्ने ।
७ - २१ - यः हि अन्यः आदेशः स्थानिवत् एव असौ भवति किर्योः, गिर्योः ।
८ - २१ - दीर्घ ।
९ - २१ - यलोप ब्राह्मणकण्डूतिः, क्षत्रियकण्डूतिः ।
१० - २१ - यः हि अन्यः आदेशः स्थानिवत् एव असौ भवति वाय्वोः, अध्वर्य्वोः इति ।
११ - २१ - तत् तर्हि वक्तव्यम् ।
१२ - २१ - न वक्तव्यम् ।
१३ - २१ - इह हि लोपः अपि प्रकृतः आदेशः अपि ।
१४ - २१ - विधिग्रहणम् अपि प्रकृतम् अनुवर्तते ।
१५ - २१ - दीर्घादयः अपि निर्दिश्यन्ते ।
१६ - २१ - केवलम् अत्र अभिसम्बन्धमात्रम् कर्तव्यम् स्वरदीर्घयलोपविधिषु लोपाजादेशः न स्थानिवत् इति ।
१७ - २१ - आनुपूर्व्येण सन्निविष्टानाम् यथेष्टम् अभिसम्बन्धः शक्यते कर्तुम् ।
१८ - २१ - न च एतनि आनुपूर्व्येण सन्निविष्टानि ।
१९ - २१ - अनानुपूर्व्येण अपि सन्निविष्टानाम् यथेष्तम् अभिसम्बन्धः भवति ।
२० - २१ - तत् यथा अनड्वाहम् उदहारि या त्वम् हरसि शिरसा कुम्भम् भगिनि साचीनम् अभिधावन्तम् अद्राक्षीः इति ।
२१ - २१ - तस्य यथेष्तम् अभिसम्बन्धः भवति उदहारि भगिनि या त्वम् कुम्भम् हरसि शिरसा अनड्वाहम् साचीनम् अभिधावन्तम् अद्राक्षीः इति ।
१ - ७१ - क्विलुगुपधात्वचङ्परनिर्ह्रासकुत्वेषु उपसङ्ख्यानम् ।
२ - ७१ - क्विलुगुपधात्वचङ्परनिर्ह्रासकुत्वेषु उपसङ्ख्यानम् कर्तव्यम् ।
३ - ७१ - क्वौ किम् उदाहरणम् ।
४ - ७१ - कण्डूयतेः अप्रत्ययः कण्डूः इति ।
५ - ७१ - न एतत् अस्ति ।
६ - ७१ - यलोपविधिम् प्रति न स्थानिवत् ।
७ - ७१ - इदम् तर्हि पिपठिषतेः अप्रत्ययः पिपठीः ।
८ - ७१ - न एतत् अस्ति ।
९ - ७१ - दीर्घत्वम् प्रति न स्थानिवत् ।
१० - ७१ - इदम् तर्हि लावयतेः लौः, पावयतेः पौः ।
११ - ७१ - न एतत् अस्ति ।
१२ - ७१ - अकृत्वा वृद्ध्यावादेशौ णिलोपः ।
१३ - ७१ - प्रत्ययलक्षणेन वृद्धिः भविष्यति ।
१४ - ७१ - इदम् तर्हि लवम् आचष्टे लवयति ।
१५ - ७१ - लवयतेः अप्रत्ययः लौः, पौः ।
१६ - ७१ - स्थानिवद्भावात् णेः ऊठ् न प्राप्नोति ।
१७ - ७१ - क्वौ लुप्तम् न स्थानिवत् इति भवति ।
१८ - ७१ - एवम् अपि न सिध्यति ।
१९ - ७१ - कथम् ।
२० - ७१ - क्वौ णिलोपः णौ अकारलोपः ।
२१ - ७१ - तस्य स्थानिवद्भावात् ऊठ् न प्राप्नोति ।
२२ - ७१ - न एषः दोषः ।
२३ - ७१ - न एवम् विज्ञायते क्वौ लुप्तम् न स्थानिवत् इति ।
२४ - ७१ - कथम् तर्हि ।
२५ - ७१ - क्वौ विधिम् प्रति न स्थानिवत् ।
२६ - ७१ - लुकि किम् उदाहरणम् ।
२७ - ७१ - बिम्बम्, बदरम् ।
२८ - ७१ - न एतत् अस्ति ।
२९ - ७१ - पुंवद्भावेन अपि एतत् सिद्धम् ।
३० - ७१ - इदम् तर्हि आमलकम् ।
३१ - ७१ - एतत् अपि न अस्ति ।
३२ - ७१ - वक्ष्यति एतत् फले लुग्वचनानर्थक्यम् प्रकृत्यन्तरत्वात् इति ।
३३ - ७१ - इदम् तर्हि पञ्चभिः पट्वीभिः क्रीतः पञ्चपटुः, दशपटुः इति ।
३४ - ७१ - ननु च एतत् अपि पुंवद्भावेन एव सिद्धम् ।
३५ - ७१ - कथम् पुंवद्भावः ।
३६ - ७१ - भस्य अढे तद्धिते पुंवत् भवति इति ।
३७ - ७१ - भस्य इति उच्यते ।
३८ - ७१ - यजादौ च भम् भवति न च अत्र यजादिम् पश्यामः ।
३९ - ७१ - प्रत्ययलक्षणेन यजादिः ।
४० - ७१ - वर्णाश्रये न अस्ति प्रत्ययलक्षणम् ।
४१ - ७१ - एवम् तर्हि ठक्छसोः च इति एवम् भविष्यति ।
४२ - ७१ - टक्छसोः च इति उच्यते ।
४३ - ७१ - न च अत्र टक्छसौ पश्यामः ।
४४ - ७१ - प्रत्ययलक्षणेन ।
४५ - ७१ - न लुमता तस्मिन् इति प्रत्ययलक्षणस्य प्रतिषेधः ।
४६ - ७१ - न खलु अपि ठक् एव क्रीतप्रत्ययः क्रीताद्यर्थाः एव वा तद्धिताः ।
४७ - ७१ - किम् तर्हि ।
४८ - ७१ - अन्ये अपि तद्धिताः ये लुकम् प्रयोजयन्ति पञ्चेन्द्राण्यः देवताः अस्य इति पञ्चेन्द्रः, दशेन्द्रः, पञ्चाग्निः, दशाग्निः ।
४९ - ७१ - उपधात्वे किम् उदाहरणम् ।
५० - ७१ - पिपठिषतेः अप्रत्ययः पिपठीः इति ।
५१ - ७१ - न एतत् अस्ति ।
५२ - ७१ - दीर्घविधिम् प्रति न स्थानिवत् ।
५३ - ७१ - इदम् तर्हिसौरी बलाका ।
५४ - ७१ - न एतत् अस्ति ।
५५ - ७१ - यलोपविधिम् प्रति न स्थानिवत् ।
५६ - ७१ - इदम् तर्हि पारिखीयः ।
५७ - ७१ - चङ्परनिर्ह्रासे च उपसङ्ख्यनम् कर्तव्यम् ।
५८ - ७१ - वादितवन्तम् प्रयोजितवान् अवीवदत् वीणाम् परिवादकेन ।
५९ - ७१ - किम् पुनः कारणम् न सिध्यति ।
६० - ७१ - यः असौ णौ णिः लुप्यते तस्य स्थानिवद्भावात् ह्रस्वत्वम् न प्राप्नोति ।
६१ - ७१ - ननु च एतत् अपि उपधात्वविधिम् प्रति न स्थानिवत् इति एव सिद्धम् ।
६२ - ७१ - विशेषे एतत् वक्तव्यम् ।
६३ - ७१ - क्व ।
६४ - ७१ - प्रत्ययविधौ इति ।
६५ - ७१ - इह मा भूत् पटयति लघयति इति ।
६६ - ७१ - कुत्वे च उपसङ्ख्यनम् कर्तव्यम् ।
६७ - ७१ - अर्चयतेः अर्कः, मर्चयतेः मर्कः ।
६८ - ७१ - न एतत् घञन्तम् ।
६९ - ७१ - औणादिकः एषः कशब्दः ।
७० - ७१ - तस्मिन् आष्टमिकम् कुत्वम् ।
७१ - ७१ - एतत् अपि णिचा व्यवहितत्वात् न प्राप्नोति ।
१ - २८ - पूर्वत्रासिद्धे च ।
२ - २८ - पूर्वत्रासिद्धे च न स्थानिवत् इति वक्तव्यम् ।
३ - २८ - किम् प्रयोजनम् ।
४ - २८ - प्रयोजनम् क्सलोपः सलोपे क्सलोपः सलोपे प्रयोजनम् अदुग्ध, अदुग्धाः ।
५ - २८ - लुक् वा दुहदिहलिहगुहाम् आत्मनेपदे दन्त्ये इति लुग्ग्रहणम् न कर्तव्यम् ।
६ - २८ - दधः आकारलोपे आदिचतुर्थत्वे ।
७ - २८ - दधः आकारलोपे आदिचतुर्थत्वे प्रयोजनम् धत्से धद्ध्वे धद्ध्वम् इति ।
८ - २८ - दधः तथोः च इति चकारः न कर्तव्यः भवति ।
९ - २८ - हलः यमाम् यमि लोपे ।
१० - २८ - हलः यमाम् यमि लोपे प्रयोजनम् आदित्यः ।
११ - २८ - हलः यमाम् यमि लोपः सिद्धः भवति ।
१२ - २८ - अल्लोपणिलोपौ संयोगान्तलोपप्रभृतिषु ।
१३ - २८ - अल्लोपणिलोपौ संयोगान्तलोपप्रभृतिषु प्रयोजनम् पापच्यतेः पापक्तिः, यायज्यतेः यायष्टिः, पाचयतेः पाक्तिः, याजयतेः याष्टिः ।
१४ - २८ - द्विर्वचनादीनि च ।
१५ - २८ - द्विर्वचनादीनि च न पठितव्यानि भवन्ति ।
१६ - २८ - पूर्वत्रासिद्धेन एव सिद्धानि भवन्ति ।
१७ - २८ - किम् अविशेषेण ।
१८ - २८ - न इति आह ।
१९ - २८ - वरेयलोपस्वरवर्जम् ।
२० - २८ - वरेयलोपम् स्वरम् च वर्जयित्वा ।
२१ - २८ - तस्य दोषः संयोगादिलोपलत्वणत्वेषु ।
२२ - २८ - तस्य एतस्य लक्षणस्य दोषः संयोगादिलोपलत्वणत्वेषु ।
२३ - २८ - संयोगादिलोप काक्यर्थम्, वास्यर्थम् ।
२४ - २८ - स्कोः संयोगाद्योः अन्ते च इति लोपः प्राप्नोति ।
२५ - २८ - लत्वम् निगार्यते निगाल्यते ।
२६ - २८ - अचि विभाषा इति लत्वम् न प्राप्नोति ।
२७ - २८ - णत्वम् माषवपनी व्रीहिवापनी ।
२८ - २८ - प्रातिपदिकान्तस्य इति णत्वम् प्राप्नोति ।
१ - १४ - आदेशे स्थानिवदनुदेशात् तद्वतः द्विर्वचनम् ।
२ - १४ - आदेशे स्थानिवदनुदेशात् तद्वतः ।
३ - १४ - किंवतः ।
४ - १४ - आदेशवतः द्विर्वचनम् प्राप्नोति ।
५ - १४ - तत कः दोषः ।
६ - १४ - तत्र अभ्यासरूपम् ।
७ - १४ - तत्र अभ्यासरूपम् न सिध्यति चक्रतुः, चक्रुः इति ।
८ - १४ - अज्ग्रहणम् तु ज्ञापकम् रूपस्थानिवद्भावस्य ।
९ - १४ - यत् अयम् अज्ग्रहणम् करोति तत् ज्ञापयति आचार्यः रूपम् स्थानिवत् भवति इति ।
१० - १४ - कथम् कृत्वा ज्ञापकम् ।
११ - १४ - अज्ग्रहणस्य एतत् प्रयोजनम् इह मा भूत् जेघ्रीयते, देध्मीयते इति ।
१२ - १४ - यदि रूपम् स्थानिवत् भवति ततः अज्ग्रहणम् अर्थवत् भवति ।
१३ - १४ - अथ हि कार्यम् न अर्थः अज्ग्रहणेन ।
१४ - १४ - भवति एव अत्र द्विर्वचनम् ।
१ - ५६ - तत्र गाङ्प्रतिषेधः । तत्र गाङः प्रतिषेधः वक्तव्यः अधिजगे ।
२ - ५६ - इवर्णाभ्यासता प्राप्नोति ।
३ - ५६ - न वक्तव्यः ।
४ - ५६ - गाङ् लिटि इति द्विलकारकः निर्देशः लिटि लकारादौ इति ।
५ - ५६ - कृ̄त्येजन्तदिवादिनामधातुषु अभ्यासरूपम् ।
६ - ५६ - कृ̄त्येजन्तदिवादिनामधातुषु अभ्यासरूपम् न सिध्यति ।
७ - ५६ - कृ̄ति अचिकीर्तत् ।
८ - ५६ - कृ̄ति ।
९ - ५६ - एजन्त जग्ले मम्ले ।
१० - ५६ - एजन्त ।
११ - ५६ - दिवादि दुद्यूषति सुस्यूषति ।
१२ - ५६ - दिवादि ।
१३ - ५६ - नामधातु भवनम् इच्छति भवनीयति भवनीयतेः सन् बिभवनीयिषति ।
१४ - ५६ - एवम् तर्हि प्रत्यये इति वक्ष्यामि ।
१५ - ५६ - प्रत्यये इति चेत् कृ̄त्येजन्तनमधातुषु अभ्यासरूपम् ।
१६ - ५६ - प्रत्यये इति चेत् कृ̄त्येजन्तनमधातुषु अभ्यासरूपम् न सिध्यति ।
१७ - ५६ - दिवादयः एके परिहृताः ।
१८ - ५६ - एवम् तर्हि द्विर्वचननिमित्ते अचि अजादेशः स्थानिवत् इति वक्ष्यामि ।
१९ - ५६ - सः तर्हि निमित्तशब्दः उपादेयः ।
२० - ५६ - न हि अन्तरेण निमित्तशब्दम् निमित्तार्थः गम्यते ।
२१ - ५६ - अन्तरेण अपि निमित्तशब्दम् निमित्तार्थः गम्यते ।
२२ - ५६ - तत् यथा दधित्रपुसम् प्रत्यक्षः ज्वरः ।
२३ - ५६ - ज्वरनिमित्तम् इति गम्यते ।
२४ - ५६ - नड्वलोदकम् पादरोगः ।
२५ - ५६ - पादरोगनिमित्तम् इति गम्यते ।
२६ - ५६ - अयुः घृतम् ।
२७ - ५६ - आयुषः निमित्तम् इति गम्यते ।
२८ - ५६ - अथ वा अकारः मत्वर्थीयः द्विर्वचनम् अस्मिन् अस्ति सः अयम् द्विर्वचनः, द्विर्वचने इति ।
२९ - ५६ - एवम् अपि न ज्ञायते कियन्तम् असौ कालम् स्थानिवत् भवति इति ।
३० - ५६ - यः पुनः आह द्विर्वचने कर्तव्ये इति कृते तस्य द्विर्वचने स्थानिवत् न भविष्यति ।
३१ - ५६ - एवम् तर्हि प्रतिषेधः प्रकृतः ।
३२ - ५६ - सः अनुवर्तिष्यते ।
३३ - ५६ - क्व प्रकृतः ।
३४ - ५६ - न पदान्तद्विर्वचन इति ।
३५ - ५६ - द्विर्वचननिमित्ते अचि अजादेशः न भवति इति ।
३६ - ५६ - एवम् अपि न ज्ञायते कियन्तम् असौ कालम् न भवति इति ।
३७ - ५६ - यः पुनः आह द्विर्वचने कर्तव्ये इति कृते तस्य द्विर्वचने अजादेशः भविष्यति ।
३८ - ५६ - एवम् तर्हि उभयम् अनेन क्रियते प्रत्ययः च विशेष्यते द्विर्वचनम् च ।
३९ - ५६ - कथम् पुनः एकेन यत्नेन उभयम् लभ्यम् ।
४० - ५६ - लभ्यम् इति आह ।
४१ - ५६ - कथम् ।
४२ - ५६ - एकशेषनिर्देशात् ।
४३ - ५६ - एकशेषनिर्देशः अयम् द्विर्वचनम् च द्विर्वचनम् च द्विर्वचनम् ।
४४ - ५६ - द्विर्वचने च कर्तव्ये द्विर्वचने अचि प्रत्यये इति द्विर्वचननिमित्ते अचि स्थानिवत् भवति ।
४५ - ५६ - द्विर्वचननिमित्ते अचि स्थानिवत् इति चेत् णौ स्थानिवद्वचनम् । द्विर्वचननिमित्ते अचि स्थानिवत् इति चेत् णौ स्थानिवद्भावः वक्तव्यः अवनुनावयिषति, अवचुक्षावयिषति ।
४६ - ५६ - न वक्तव्यः ।
४७ - ५६ - ओः पुयण्जिषु वचनम् ज्ञापकम् णौ स्थानिवद्भावस्य ।
४८ - ५६ - यत् अयम् पुयण्जि अपरे इति आह तत् ज्ञापयति आचार्यः भवति णौ स्थानिवत् इति ।
४९ - ५६ - यदि एतत् ज्ञाप्यते अचीकीर्तत् अत्र अपि प्राप्नोति ।
५० - ५६ - तुल्यजातीयस्य ज्ञापकम् ।
५१ - ५६ - कः च तुल्यजातीयः ।
५२ - ५६ - यथाजातीयकाः पुयण्जयः ।
५३ - ५६ - कथञ्जातीयकाः च एते ।
५४ - ५६ - अवर्णपराः ।
५५ - ५६ - कथम् जग्ले मम्ले ।
५६ - ५६ - अनैमित्तिकम् आत्त्वम् शिति तु प्रतिषेधः ।
१ - १७ - कानि पुनः अस्य योगस्य प्रयोजनानि ।
२ - १७ - पपतुः, पपुः, तस्थतुः, तस्थुः, जग्मतुः, जग्मुः, आटितत्, आशिशत्, चक्रतुः, चक्रुः इति ।
३ - १७ - आल्लोपोपधालोपणिलोपयणादेशेषु कृतेषु अनच्कत्वात् द्विर्वचनम् न प्राप्नोति ।
४ - १७ - स्थानिवद्भावात् भवति ।
५ - १७ - न एतानि सन्ति प्रयोजनानि ।
६ - १७ - पूर्वविप्रतिषेधेन अपि एतानि सिद्धानि ।
७ - १७ - कथम् ।
८ - १७ - वक्ष्यति हि आचार्यः द्विर्वचनम् यणयवायावादेशाल्लोपोपधालोपकिकिनोरुत्त्वेभ्यः इति ।
९ - १७ - सः पूर्वविप्रतिषेधः न पठितव्यः भवति ।
१० - १७ - किम् पुनः अत्र ज्यायः ।
११ - १७ - स्थानिवद्भावः एव ज्यायान् ।
१२ - १७ - पूर्वविप्रतिषेधे हि सति इदम् वक्तव्यम् स्यात् ओदौदादेशस्य उत् भवति चुटुतुशरादेः अभ्यासस्य इति ।
१३ - १७ - ननु च त्वया अपि इत्त्वम् वक्तव्यम् ।
१४ - १७ - परार्थम् मम भविष्यति सनि अतः इत् भवति इति ।
१५ - १७ - मम अपि तर्हि उत्त्वम् परार्थम् भविष्यति उत्परस्य अतः ति च इति ।
१६ - १७ - इत्त्वम् अपि त्वया वक्तव्यम् यत् समानाश्रयम् तदर्थम् उत्पिपविषते संयियविषति इति एवमर्थम् ।
१७ - १७ - तस्मात् स्थानिवत् इति एषः एव पक्षः ज्यायान् ।
१ - ५० - अर्थस्य सञ्ज्ञा कर्तव्या शब्दस्य मा भूत् इति ।
२ - ५० - इतरेतराश्रयम् च भवति ।
३ - ५० - का इतरेतराश्रयता ।
४ - ५० - सतः अदर्शनस्य सञ्ज्ञया भवितव्यम् सञ्ज्ञय च अदर्शनम् भाव्यते ।
५ - ५० - तत् एतत् इतरेतराश्रयम् भवति ।
६ - ५० - इतरेतराश्रयाणि च कार्याणि न प्रकल्पन्ते ।
७ - ५० - लोपसञ्ज्ञायाम् अर्थसतोः उक्तम् ।
८ - ५० - किम् उक्तम् ।
९ - ५० - अर्थस्य तावत् उक्तम् इतिकरणः अर्थनिर्देशार्थः इति ।
१० - ५० - सतः अपि उक्तम् सिद्धम् तु नित्यशब्दत्वात् इति ।
११ - ५० - नित्याः शब्दाः ।
१२ - ५० - नित्येषु च शब्देषु सतः अदर्शनस्य सञ्ज्ञा क्रियते ।
१३ - ५० - न सञ्ज्ञया अदर्शनम् भाव्यते ।
१४ - ५० - सर्वप्रसङ्गः तु सर्वस्य अन्यत्र अदृष्टत्वात् ।
१५ - ५० - सर्वप्रसङ्गः तु भवति ।
१६ - ५० - सर्वस्य अदर्शनस्य लोपसञ्ज्ञा प्राप्नोति ।
१७ - ५० - किम् कारणम् ।
१८ - ५० - सर्वस्य अन्यत्र अदृष्टत्वात् ।
१९ - ५० - सर्वः हि शब्दः यः यस्य प्रयोगविषयः सः ततः अन्यत्र न दृश्यते ।
२० - ५० - त्रपु जतु इति अत्र अणः अदर्शनम् ।
२१ - ५० - तत्र अदर्शनम् लोपः इति लोपसञ्ज्ञा प्राप्नोति ।
२२ - ५० - तत्र कः दोषः ।
२३ - ५० - तत्र प्रत्ययलक्षणप्रतिषेधः ।
२४ - ५० - तत्र प्रत्ययलक्षणम् कार्यम् प्राप्नोति ।
२५ - ५० - तस्य प्रतिषेधः वक्तव्यः ।
२६ - ५० - अचः ञ्णिति इति वृद्धिः प्राप्नोति ।
२७ - ५० - न एषः दोषः ।
२८ - ५० - ञ्णिति अङ्गस्य अचः वृद्धिः उच्यते ।
२९ - ५० - यस्मात् प्रत्ययविधिः तदादि प्रत्यये अङ्गम् भवति ।
३० - ५० - यस्मात् च अत्र प्रत्ययविधिः न तत् प्रत्यये परतः यत् च प्रत्यये परतः न तस्मात् प्रत्ययविधिः ।
३१ - ५० - क्विपः तर्हि अदर्शनम् ।
३२ - ५० - तत्र अदर्शनम् लोपः इति लोपसञ्ज्ञा प्राप्नोति ।
३३ - ५० - तत्र कः दोषः ।
३४ - ५० - तत्र प्रत्ययलक्षणप्रतिषेधः ।
३५ - ५० - तत्र प्रत्ययलक्षणम् कार्यम् प्राप्नोति ।
३६ - ५० - तस्य प्रतिषेधः वक्तव्यः ।
३७ - ५० - ह्रस्वस्य पिति कृति तुक् भवति इति तुक् प्राप्नोति ।
३८ - ५० - सिद्धम् तु प्रसक्तादर्शनस्य लोपसञ्ज्ञित्वात् ।
३९ - ५० - सिद्धम् एतत् ।
४० - ५० - कथम् ।
४१ - ५० - प्रसक्तादर्शनम् लोपसञ्ज्ञम् भवति इति वक्तव्यम् ।
४२ - ५० - यदि प्रसक्तादर्शनम् लोपसञ्ज्ञम् भवति इति उच्यते ग्रामणीः, सेनानीः अत्र वृद्धिः प्राप्नोति ।
४३ - ५० - प्रसक्तादर्शनम् लोपसञ्ज्ञम् भवति षष्ठीनिर्दिष्टस्य ।
४४ - ५० - यदि षष्ठीनिर्दिष्टस्य इति उच्यते चाहलोपे एव इति अवधारणे चादिलोपे विभाषा इति अत्र लोपसञ्ज्ञा न प्राप्नोति ।
४५ - ५० - अथ प्रसक्तादर्शनम् लोपसञ्ज्ञम् भवति इति उच्यमाने कथम् इव एतत् सिध्यति ।
४६ - ५० - कः शब्दस्य प्रसङ्गः ।
४७ - ५० - यत्र गम्यते च अर्थः न च प्रयुज्यते ।
४८ - ५० - अस्तु तर्हि प्रसक्तादर्शनम् लोपसञ्ज्ञम् भवति इति एव ।
४९ - ५० - कथम् ग्रामणीः, सेनानीः ।
५० - ५० - यः अत्र अणः प्रसङ्गः क्विपा असौ बाध्यते ।
१ - ५६ - प्रत्ययग्रहणम् किमर्थम् ।
२ - ५६ - लुमति प्रत्ययग्रहणम् अप्रत्ययसञ्ज्ञाप्रतिषेधार्थम् । लुमति प्रत्ययग्रहणम् क्रियते अप्रत्ययस्य एताः सञ्ज्ञाः मा भूवन् इति ।
३ - ५६ - किम् प्रयोजनम् ।
४ - ५६ - प्रयोजनम् तद्धितलुकि कंसीयपरशव्ययोः लुकि च गोप्रकृतिनिवृत्त्यर्थम् । तद्धितलुकि गोनिवृत्त्यर्थम् कंसीयपरशव्ययोः च लुकि प्रकृतिनिवृत्त्यर्थम् ।
५ - ५६ - लुक् तद्धितलुकि इति गोः अपि लुक् प्राप्नोति ।
६ - ५६ - प्रत्ययग्रहणात् न भवति ।
७ - ५६ - कंसीयपरशव्ययोः यञञौ लुक् च इति प्रकृतेः अपि लुक् प्राप्नोति ।
८ - ५६ - प्रत्ययग्रहणात् न भवति ।
९ - ५६ - गोनिवृत्त्यर्थेन तावत् न अर्थः ।
१० - ५६ - योगविभागात् सिद्धम् ।
११ - ५६ - योगविभागः करिष्यते गोः उपसर्जनस्य ।
१२ - ५६ - गोन्तस्य प्रातिपदिकस्य उपसर्जनस्य ह्रस्वः भवति ।
१३ - ५६ - ततः स्त्रियाः ।
१४ - ५६ - स्त्रीप्रत्ययान्तस्य प्रातिपदिकस्य उपसर्जनस्य ह्रस्वः भवति ।
१५ - ५६ - ततः लुक् तद्धितलुकि इति ।
१६ - ५६ - स्त्रियाः इति वर्तते ।
१७ - ५६ - गोः इति निवृत्तम् ।
१८ - ५६ - कंसीयपरशव्ययोः विशिष्टनिर्देशात् सिद्धम् ।
१९ - ५६ - कंसीयपरशव्ययोः अपि विशिष्टनिर्देश्ः कर्तव्यः कंसीयपरशव्ययोः यञञौ भवतः छयतोः च लुक् भवति इति ।
२० - ५६ - सः च अवश्यम् विशिष्टनिर्देशः कर्तव्यः क्रियमाणे अपि वै प्रत्ययग्रहणे उकारसशब्दयोः मा भूत् इति कमेः सः कंसः ।
२१ - ५६ - परान् शृणाति इति परशुः इति ।
२२ - ५६ - न एषः दोषः ।
२३ - ५६ - उणादयः अव्युत्पन्नानि प्रातिपदिकानि ।
२४ - ५६ - सः एषः अनन्यार्थः विशिष्टनिर्देशः कर्तव्यः प्रत्ययग्रहणम् वा कर्तव्यम् ।
२५ - ५६ - उक्तम् वा ।
२६ - ५६ - किम् उक्तम् ।
२७ - ५६ - ङ्याप्प्रातिपदिकग्रहणम् आङ्गभपदसञ्ज्ञार्थम् यच्छयोः च लुगर्थम् इति ।
२८ - ५६ - षष्ठीनिर्देशार्थम् तु ।
२९ - ५६ - षष्ठीनिर्देशार्थम् तर्हि प्रत्ययग्रहणम् कर्तव्यम् ।
३० - ५६ - अनिर्देशे हि षष्ठ्यर्थाप्रसिद्धिः ।
३१ - ५६ - अक्रियमाणे हि प्रत्ययग्रहणे षष्ठ्यर्थस्य अप्रसिद्धिः स्यात् ।
३२ - ५६ - कस्य ।
३३ - ५६ - स्थानेयोगत्वस्य ।
३४ - ५६ - क्व पुनः इह षष्ठीनिर्देशार्थेन अर्थः प्रत्ययग्रहणेन यावता सर्वत्र एव षष्ठी उच्चार्यते अणिञोः तद्राजस्य यञञोः शपः इति ।
३५ - ५६ - इह न का चित् षष्ठी जनपदे लुप् इति ।
३६ - ५६ - अत्र अपि प्रकृतम् प्रत्ययग्रहणम् अनुवर्तते ।
३७ - ५६ - क्व प्रकृतम् ।
३८ - ५६ - प्रत्ययः परः च इति ।
३९ - ५६ - तत् वै प्रथमानिर्दिष्टम् षष्ठीनिर्दिष्टेन च इह अर्थः ।
४० - ५६ - ङ्याप्प्रातिपदिकात् इति एषा पञ्चमी प्रत्ययः इति प्रथमायाः षष्ठीम् प्रकल्पयिष्यति तस्मात् इति उत्तरस्य ।
४१ - ५६ - प्रत्ययविधिः अयम् ।
४२ - ५६ - न च प्रत्ययविधौ पञ्चम्यः प्रकल्पिकाः भवन्ति ।
४३ - ५६ - न अयम् प्रत्ययविधिः ।
४४ - ५६ - विहितः प्रत्ययः प्रकृतः च अनुवर्तते ।
४५ - ५६ - सर्वादेशार्थम् वा वचनप्रामाण्यात् ।
४६ - ५६ - सर्वादेशार्थम् तर्हि प्रत्ययग्रहणम् कर्तव्यम् ।
४७ - ५६ - लुक्श्लुलुपः सर्वादेशाः यथा स्युः ।
४८ - ५६ - अथ क्रियमाणे अपि प्रत्ययग्रहणे कथम् इव लुक्श्लुलुपः सर्वादेशाः लभ्याः ।
४९ - ५६ - वचनप्रामाण्यात् प्रत्ययग्रहणसामाऋथ्यात् ।
५० - ५६ - एतत् अपि न अस्ति प्रयोजनम् ।
५१ - ५६ - आचार्यप्रवृत्तिः ज्ञापयति लुक्श्लुलुपः सर्वादेशाः भवन्ति इति यत् अयम् लुक् वा दुहदिहलिहगुहाम् आत्मनेपदे दन्त्ये इति लोपे कृते लुकम् शास्ति ।
५२ - ५६ - उत्तरार्थम् तु ।
५३ - ५६ - उत्तरार्थम् तर्हि प्रत्ययग्रहणम् कर्तव्यम् ।
५४ - ५६ - न कर्तव्यम्. क्रियते तत्र एव प्रत्ययलोपे प्रत्ययलक्षणम् इति ।
५५ - ५६ - द्वितीयम् कर्तव्यम् कृत्स्नप्रत्ययलोपे प्रत्ययलक्षणम् यथा स्यात् ।
५६ - ५६ - एकदेशलोपे मा भूत् इति आघ्नीत सम् रायस्पोषेण ग्मीय इति ।
१ - २३ - प्रत्ययग्रहणम् किमर्थम्. लोपे प्रत्ययलक्षणम् इति इयति उच्यमाने सौरथी वहती इति गुरूपोत्तमलक्षणः ष्यङ् प्रसज्येत ।
२ - २३ - न एषः दोषः ।
३ - २३ - न एवम् विज्ञायते लोपे प्रत्ययलक्षणम् प्रत्ययस्य प्रादुर्भावः इति ।
४ - २३ - कथम् तर्हि ।
५ - २३ - प्रत्ययः लक्षणम् यस्य कार्यस्य तत् लुप्ते अपि भवति इति ।
६ - २३ - इदम् तर्हि प्रयोजनम् सति प्रत्यये यत् प्राप्नोति तत् प्रत्ययलक्षनेन यथा स्यात् ।
७ - २३ - लोपोत्तरकालम् यत् प्राप्नोति तत् प्रत्ययलक्षणेन मा भूत् इति ।
८ - २३ - किम् प्रयोजनम् ।
९ - २३ - ग्रामणिकुलम्, सेनानिकुलम् औत्तरपदिके ह्रस्वत्वे कृते ह्रस्वस्य पिति कृति तुक् भवति इति तुक् प्राप्नोति ।
१० - २३ - सः मा भूत् इति ।
११ - २३ - यदि तर्हि यत् सति प्रत्यये प्राप्नोति तत् प्रत्ययलक्षनेन भवति ।
१२ - २३ - लोपोत्तरकालम् यत् प्राप्नोति तत् न भवति जगत्, जनगत् इति अत्र तुक् न प्राप्नोति ।
१३ - २३ - लोपोत्तरकलः हि अत्र तुक् आगमः ।
१४ - २३ - तस्मात् न अर्थः एवमर्थेन प्रत्ययग्रहणेन ।
१५ - २३ - कस्मात् न भवति ग्रामणिकुलम्, सेनानिकुलम् ।
१६ - २३ - बहिरङ्गम् ह्रस्वत्वम् ।
१७ - २३ - अन्तरङ्गः तुक् ।
१८ - २३ - असिद्धम् बहिरङ्गम् अन्तरङ्गे ।
१९ - २३ - इदम् तर्हि प्रयोजनम् कृत्स्नप्रत्ययलोपे प्रत्ययलक्षणम् यथा स्यात् ।
२० - २३ - एकदेशलोपे मा भूत् इति आघ्नीत सम् रायस्पोषेण ग्मीय इति ।
२१ - २३ - पूर्वस्मिन् अपि योगे प्रत्ययग्रहणस्य एतत् प्रयोजनम् उक्तम्. अन्यतरत् शक्यम् अकर्तुम् ।
२२ - २३ - अथ द्वितीयम् प्रत्ययग्रहणम् किमर्थम् ।
२३ - २३ - प्रत्ययलक्षणम् यथा स्यात् वर्णलक्षणम् मा भूत् इति गवे हितम् गोहितम्, रायः कुलम् रैकुलम् इति ।
१ - ४८ - किमर्थम् पुनः इदम् उच्यते ।
२ - ४८ - प्रत्ययलोपे प्रत्ययलक्षणवचनम् सदन्वाख्यानात् शास्त्रस्य ।
३ - ४८ - प्रत्ययलोपे प्रत्ययलक्षणम् इति उच्यते सदन्वाख्यानात् शास्त्रस्य ।
४ - ४८ - सत् शास्त्रेण अन्वाख्यायते सतः वा शास्त्रम् अन्व्याखायकम् भवति ।
५ - ४८ - सदन्वाख्यानात् शास्त्रस्य उगिदचाम् सर्वनामस्थाने अधातोः इति इह एव स्यात् गोमन्तौ यवमन्तौ ।
६ - ४८ - गोमान् यवमान् इति अत्र न स्यात् ।
७ - ४८ - इष्यते च स्यात् इति ।
८ - ४८ - तत् च अन्तरेण यत्नम् न सिध्यति ।
९ - ४८ - अतः प्रत्ययलोपे प्रत्ययलक्षणवचनम् ।
१० - ४८ - एवमर्थम् इदम् उच्यते ।
११ - ४८ - अस्ति प्रयोजनम् एतत् ।
१२ - ४८ - किम् तर्हि इति. लुकि उपसङ्ख्यानम् ।
१३ - ४८ - लुकि उपसङ्ख्यानम् कर्तव्यम् पञ्च सप्त ।
१४ - ४८ - किम् पुनः कारणम् न सिध्यति ।
१५ - ४८ - लोपे हि विधानम् ।
१६ - ४८ - लोपे हि प्रत्ययलक्षणम् विधीयते ।
१७ - ४८ - तेन लुकि न प्राप्नोति ।
१८ - ४८ - न वा अदर्शनस्य लोपसञ्ज्ञित्वात् ।
१९ - ४८ - न वा कर्तव्यम् ।
२० - ४८ - किम् कारणम् ।
२१ - ४८ - अदर्शनस्य लोपसञ्ज्ञित्वात् ।
२२ - ४८ - अदर्शनम् लोपसञ्ज्ञम् इति उच्यते ।
२३ - ४८ - लुमत्सञ्ज्ञाः च अदर्शनस्य क्रियन्ते ।
२४ - ४८ - तेन लुकि अपि भविष्यति ।
२५ - ४८ - यदि एवम् ।
२६ - ४८ - प्रत्ययादर्शनम् तु लुमत्सञ्ज्ञम् ।
२७ - ४८ - प्रत्ययादर्शनम् तु लुमत्सञ्ज्ञम् अपि प्राप्नोति ।
२८ - ४८ - तत्र कः दोषः ।
२९ - ४८ - तत्र लुकि श्लुविधिप्रतिषेधः ।
३० - ४८ - तत्र लुकि श्लुविधिः अपि प्राप्नोति ।
३१ - ४८ - सः प्रतिषेध्यः अत्ति हन्ति ।
३२ - ४८ - श्लौ इति द्विर्वचनम् प्राप्नोति ।
३३ - ४८ - न वा पृथक्सञ्ज्ञाकरणात् ।
३४ - ४८ - न वा एषः दोषः ।
३५ - ४८ - किम् कारणम् ।
३६ - ४८ - पृथक्सञ्ज्ञाकरणात् ।
३७ - ४८ - पृथक्सञ्ज्ञाकरणसामर्थ्यात् लुकि श्लुविधिः न भविष्यति ।
३८ - ४८ - तस्मात् अदर्शनसामान्यात् लोपसञ्ज्ञा लुमत्सञ्ज्ञाः अवगाहते ।
३९ - ४८ - यथा एव तर्हि अदर्शनसामान्यात् लोपसञ्ज्ञा लुमत्सञ्ज्ञाः अवगाहते एवम् लुमत्सञ्ज्ञाः अपि लोपसञ्ज्ञाम् अवगाहेरन् ।
४० - ४८ - तत्र कः दोषः ।
४१ - ४८ - अगोमती गोमती सम्पन्ना गोमतीभूता लुक् तद्धितलुकि इति ङीपः लुक् प्रसज्येत ।
४२ - ४८ - ननु च अत्र अपि पृथक्सञ्ज्ञाकरणात् इति एव सिद्धम् ।
४३ - ४८ - यथा एव तर्हि पृथक्सञ्ज्ञाकरणसामर्थ्यात् लुमत्सञ्ज्ञाः लोपसञ्ज्ञाम् न अवगाहन्ते एवम् लोपसञ्ज्ञा अपि लुमत्सञ्ज्ञाः न अवगाहेत ।
४४ - ४८ - तत्र सः एव दोषः लुकि उपसङ्ख्यानम् इति ।
४५ - ४८ - अस्ति अन्यत् लोपसञ्ज्ञायाः पृथक्सञ्ज्ञाकरणे प्रयोजनम् ।
४६ - ४८ - किम्. लुमत्सञ्ज्ञासु यत् उच्यते तत् लोपमात्रे मा भूत् इति ।
४७ - ४८ - लुमति प्रतिषेधात् वा ।
४८ - ४८ - अथ वा यत् अयम् न लुमता अङ्गस्य इति प्रत्षेधम् शास्ति तत् ज्ञापयति आचार्यः भवति लुकि प्रत्ययलक्षणम् इति ।
१ - ६५ - सतः निमित्ताभावात् पदसञ्ज्ञाभावः । सन् प्रत्ययः येषाम् कार्याणाम् अनिमित्तम् राज्ञः पुरुषः इति सः लुप्तः अपि अनिमित्तम् स्यात्राजपुरुषः इति ।
२ - ६५ - अस्तु तस्याः अनिमित्तम् या स्वादौ पदम् इति पदसञ्ज्ञा या तु सुबन्तम् पदम् इति पदसञ्ज्ञा सा भविष्यति ।
३ - ६५ - सति एतत्प्रत्यये आसीत् अनया भविष्यति अनया न भविष्यति इति ।
४ - ६५ - लुप्ते इदानीम् प्रत्यये यावतः एव अवधेः स्वादौ पदम् इति पदसञ्ज्ञा तावतः एव अवधेः सुबन्तम् पदम् इति ।
५ - ६५ - अस्ति च प्रत्ययलक्षणेन यजादिपरता इति कृत्वा भसञ्ज्ञा प्राप्नोति ।
६ - ६५ - तुग्दीर्घत्वयोः च विप्रतिषेधानुपपत्तिः एकयोगलक्षणत्वात् परिवीः इति ।
७ - ६५ - तुग्दीर्घत्वयोः च विप्रतिषेधः न उपपद्यते ।
८ - ६५ - क्व ।
९ - ६५ - परिवीः इति ।
१० - ६५ - किम् कारणम् ।
११ - ६५ - एकयोगलक्षणत्वात् ।
१२ - ६५ - एकयोगलक्षणे तुग्दीर्घत्वे ।
१३ - ६५ - इह लुप्ते प्रत्यये सर्वाणि प्रत्ययाश्रयाणि कार्याणि पर्यवपन्नानि भवन्ति ।
१४ - ६५ - तानि एतानि प्रत्युत्थाप्यन्ते ।
१५ - ६५ - अनेन एव तुक् अनेन एव च दीर्घत्वम् इति ।
१६ - ६५ - तत् एतत् एकयोगलक्षणम् भवति ।
१७ - ६५ - एकयोगलक्षणानि च न प्रकल्पन्ते ।
१८ - ६५ - सिद्धम् तु स्थानिसञ्ज्ञानुदेशात् आन्यभाव्यस्य ।
१९ - ६५ - सिद्धम् एतत् ।
२० - ६५ - कथम् ।
२१ - ६५ - स्थानिसञ्ज्ञा अन्यभूतस्य भवति इति वक्तव्यम् ।
२२ - ६५ - किम् कृतम् भवति ।
२३ - ६५ - सत्तामात्रम् अनेन क्रियते ।
२४ - ६५ - यथाप्राप्ते तुग्दीर्घत्वे भविष्यतः ।
२५ - ६५ - तत् वक्तव्यम् भवति ।
२६ - ६५ - यदि अपि एतत् उच्यते अथ वा एतर्हि स्थानिवद्भावः न आरभ्यते ।
२७ - ६५ - स्थानिसञ्ज्ञा अन्यभूतस्य अनल्विधौ इति वक्ष्यामि ।
२८ - ६५ - यदि एवम् आङः यमहनः आत्मनेपदम् भवति इति हन्तेः एव स्यात् वधेः न स्यात् ।
२९ - ६५ - न हि का चित् हन्तेः सञ्ज्ञा अस्ति या वधेः अतिदिश्येत ।
३० - ६५ - हन्तेः अपि सञ्ज्ञा अस्ति ।
३१ - ६५ - का ।
३२ - ६५ - हन्तिः एव ।
३३ - ६५ - कथम् ।
३४ - ६५ - स्वम् रूपम् शब्दस्य अशब्दसञ्ज्ञा इति वचनात् स्वम् रूपम् शब्दस्य सञ्ज्ञा भवति इति हन्तेः अपि हन्तिः सञ्ज्ञा भविष्यति ।
३५ - ६५ - भसञ्ज्ञाङीप्ष्फगोरात्वेषु च सिद्धम् ।
३६ - ६५ - भसञ्ज्ञाङीप्ष्फगोरात्वेषु च सिद्धम् भवति ।
३७ - ६५ - भसञ्ज्ञा राज्ञः पुरुषः राजपुरुषः ।
३८ - ६५ - प्रत्ययलक्षणेन यचि भम् इति भासञ्ज्ञा प्राप्नोति ।
३९ - ६५ - स्थानिसञ्ज्ञा अन्यभूतस्य अनल्विधौ इति वचनात् न भवति ।
४० - ६५ - ङीप् चित्रायाम् जाता चित्रा ।
४१ - ६५ - प्रत्ययलक्षणेन अणन्तात् ईकारः प्राप्नोति ।
४२ - ६५ - स्थानिसञ्ज्ञा अन्यभूतस्य अनल्विधौ इति वचनात् न भवति ।
४३ - ६५ - ष्फ वतङ्डी ।
४४ - ६५ - प्रत्ययलक्षणेन यञन्तात् इति ष्फः प्राप्नोति ।
४५ - ६५ - स्थानिसञ्ज्ञा अन्यभूतस्य अनल्विधौ इति वचनात् न भवति ।
४६ - ६५ - गोः आत्वम् ।
४७ - ६५ - गाम् इच्छति गव्यति ।
४८ - ६५ - प्रत्ययलक्षणेन अमि आ ओतः अम्शसोः इति आत्वम् प्राप्नोति ।
४९ - ६५ - स्थानिसञ्ज्ञा अन्यभूतस्य अनल्विधौ इति वचनात् न भवति ।
५० - ६५ - तस्य दोषः ङौनकारलोपेत्त्वेम्विधयः । तस्य एतस्य लक्षणस्य दोषः ङौनकारलोपः ।
५१ - ६५ - आर्द्रे चर्मन् लोहिते चर्मन् ।
५२ - ६५ - प्रत्ययलक्षणेन यचि भम् इति भसञ्ज्ञा सिद्धा भवति ।
५३ - ६५ - स्थानिसञ्ज्ञा अन्यभूतस्य अनल्विधौ इति वचनात् न प्राप्नोति ।
५४ - ६५ - इत्त्वम् आशीः ।
५५ - ६५ - प्रत्ययलक्षणेन हलि इति इत्वम् सिद्धम् भवति ।
५६ - ६५ - स्थानिसञ्ज्ञा अन्यभूतस्य अनल्विधौ इति वचनात् न प्राप्नोति ।
५७ - ६५ - इम् अतृणेत् ।
५८ - ६५ - प्रत्ययलक्षणेन हलि इति इत्त्वम् सिद्धम् भवति ।
५९ - ६५ - स्थानिसञ्ज्ञा अन्यभूतस्य अनल्विधौ इति वचनात् न प्राप्नोति ।
६० - ६५ - सूत्रम् च भिद्यते ।
६१ - ६५ - यथान्यासम् एव अस्तु ।
६२ - ६५ - ननु च उक्तम् सतः निमित्ताभावात् पदसञ्ज्ञाभावः तुग्दीर्घत्वयोः च विप्रतिषेधानुपपत्तिः एकयोगलक्षणत्वात् परिवीः इति ।
६३ - ६५ - न एषः दोषः ।
६४ - ६५ - वक्ष्यति अत्र परिहारम् ।
६५ - ६५ - इह अपि परिवीः इति शास्त्रपरविप्रतिषेधेन परत्वात् दीर्घत्वम् भविष्यति ।
१ - ५६ - कानि पुनः अस्य योगस्य प्रयोजनानि ।
२ - ५६ - प्रयोजनम् अपृक्तशिलोपे नुम् अमामौ गुणवृद्धिदीर्घत्वेमडाट्श्नम्विधयः ।
३ - ५६ - अपृक्तलोपे शिलोपे च कृते नुम् अमामौ गुणवृद्धी दीर्घत्वम् इमडाटौ श्नम्विधिः इति प्रयोजनानि ।
४ - ५६ - नुम् अग्ने त्री ते वजिना त्री सधस्था, त ता पिण्डानाम् ।
५ - ५६ - नुम् ।
६ - ५६ - अमामौ हे अनड्वन्, अनड्वान् ।
७ - ५६ - गुणः अधोक्, अलेट् ।
८ - ५६ - वृद्धिः नि अमार्ट् ।
९ - ५६ - दीर्घत्वम् अग्ने त्री ते वजिना त्री सधस्था, त ता पिण्डानाम् ।
१० - ५६ - इम् अतृणेट् ।
११ - ५६ - अडाटौ अधोक्, अलेट्, ऐयः, औनः ।
१२ - ५६ - श्नम्विधिः अभिनः अत्र, अच्छिनः अत्र ।
१३ - ५६ - अपृक्तशिलोपयोः कृतयोः एते विधयः न प्राप्नुवन्ति ।
१४ - ५६ - प्रत्ययलक्षणेन भवन्ति ।
१५ - ५६ - न एतानि सन्ति प्रयोजनानि ।
१६ - ५६ - स्थानिवद्भावेन अपि एतानि सिद्धानि ।
१७ - ५६ - न सिध्यन्ति ।
१८ - ५६ - आदेशः स्थानिवत् इति उच्यते ।
१९ - ५६ - न च लोपः आदेशः ।
२० - ५६ - लोपः अपि आदेशः ।
२१ - ५६ - कथम् ।
२२ - ५६ - आदिश्यते यः सः आदेशः ।
२३ - ५६ - लोपः अपि आदिश्यते ।
२४ - ५६ - दोषः खलु अपि स्यात् यदि लोपः न आदेशः स्यात् ।
२५ - ५६ - इह अचः परस्मिन् पूर्वविधौ इति एतस्य भूयिष्ठानि लोपे उदाहरणानि तानि न स्युः ।
२६ - ५६ - यत्र तर्हि स्थानिवद्भावः न अस्ति तदर्थम् अयम् योगः वक्तव्यः ।
२७ - ५६ - क्व च स्थानिवद्भावः न अस्ति ।
२८ - ५६ - यः अल्विधिः ।
२९ - ५६ - किम् प्रयोजनम् ।
३० - ५६ - प्रयोजनम् ङौनकार्लोपेत्त्वेम्विधयः ।
३१ - ५६ - भसञ्ज्ञाङीप्ष्फ्गोरात्वेषु दोषः ।
३२ - ५६ - भसञ्ज्ञाङीप्ष्फ्गोरात्वेषु दोषः भवति. भसञ्ज्ञायाम् तावत् न दोषः ।
३३ - ५६ - आचार्यप्रवृत्तिः ज्ञापयति न प्रत्ययलक्षणेन भसञ्ज्ञा भवति इति यत् अयम् न ङिसम्बुद्ध्योः इति ङौ प्रतिषेधम् शास्ति ।
३४ - ५६ - ङीपि अपि न एवम् विज्ञायते अणन्तात् अकारान्तात् ।
३५ - ५६ - कथम् तर्हि ।
३६ - ५६ - अण् यः अकारः इति ।
३७ - ५६ - ष्फे अपि न एवम् विज्ञायते यञन्तात् अकारन्तात् इति ।
३८ - ५६ - कथम् तर्हि ।
३९ - ५६ - यञ् यः अकारः इति ।
४० - ५६ - गोः आत्वे अपि न एवम् विज्ञायते अमि अचि इति ।
४१ - ५६ - कथम् तर्हि ।
४२ - ५६ - अचि अमि इति ।
४३ - ५६ - प्रयोजनानि अपि तर्हि तानि न सन्ति ।
४४ - ५६ - यत् तावत् उच्यते ङौनकार्लोपः इति क्रियते एतत् न्यासे एव न ङिसम्बुद्ध्योः इति ।
४५ - ५६ - इत्त्वम् अपि ।
४६ - ५६ - वक्ष्यति एतत् शासः इत्त्वे आशासः क्वौ इति ।
४७ - ५६ - इम्विधिः अपि हलि इति निवृत्तम् ।
४८ - ५६ - यदि हलि इति निवृत्तम् तृणहानि अत्र अपि प्राप्नोति ।
४९ - ५६ - एवम् तर्हि अचि न इति अपि अनुवर्तिष्यते ।
५० - ५६ - न तर्हि इदानीम् अयम् योगः वक्तव्यः ।
५१ - ५६ - वक्तव्यः च ।
५२ - ५६ - किम् प्रयोजनम् ।
५३ - ५६ - प्रत्ययम् गृहीत्वा यत् उच्यते तत् प्रत्ययलक्षणेन यथा स्यात् शब्दम् गृहीत्वा यत् उच्यते तत् प्रत्ययलक्षणेन मा भूत् इति ।
५४ - ५६ - किम् प्रयोजनम् ।
५५ - ५६ - शोभनाः दृषदः अस्य सुदृषत् ब्राह्मणः ।
५६ - ५६ - सोः मनसी अलोमोषसी इति एषः स्वरः मा भूत् इति ।