वृत्तरत्नाकर - द्वितीयोऽध्यायः
वृत्तरत्नाकर, केदारभट्ट यांनी १४व्या शतकात लिहीलेले प्रसिद्ध साहित्य आहे.
Vritta Ratnakara of Kedara Bhatta (14th Century CE) is one of the most popular texts on Sanskrit prosody.
आर्या-प्रकरणम् (१-७)
लक्ष्मैतत्सप्त गणा गोपेता भवति नेह विषमे जः । षष्ठो ऽयं नलघू वा प्रथमे ऽर्धे नियतमार्यायाः ॥१॥
षष्थे द्वितीयलात्परके न्ले मुखलाच्च सयतिपदनियमः । चरमे ऽर्धे पञ्चके तस्मादिह भवति षष्ठो लः ॥२॥
त्रिष्वङ्केषु पादो दलयोराद्येषु दृश्यते यस्याः । पथ्येति नाम तस्याः प्रकीर्तितं नागराजेन ॥३॥
संलङ्घ्य गणत्रयमादिमं शकलयोर्द्वयोर्भवति पादः । सं(अनुनासिक)-लङ्घ्य यस्यास्तां पिङ्गलनागो विपुलामिति समाख्याति ॥४॥
उभयार्धयोर्जकारौ द्वितीयतुर्यौ गमध्यगौ तस्याः । चपलेति नाम तस्या प्रकीर्तितं नागराजेन ॥५ ॥
आद्यं दलं समस्तं भजेय लक्ष्म चपलागतं यस्याः । शेषे पूर्वजलक्ष्मा मुखचपलासोदिता मुनिना ॥६ ॥
प्राक्प्रतिपादितमर्धे प्रथमे प्रथमेतरे च चपलायाः । लक्ष्माश्रयते सोक्ता विशुद्धधीभिर्जघनचपला ॥७ ॥
गीति-प्रकरणम् (८-११)
आर्याओरथमदलोक्तं यदि कथमपि लक्षणं भवेदुभयोः । दलयोः क्र्टयतिशोभां तां गीतिं गीतवान्भुजङ्गेशः ॥८ ॥
आर्याद्वितीयके ऽर्धे यद्गदितं लक्षणं तत्स्यात् । यद्युभयोरपि दलयोरुपगीतिं ता मुनिर्ब्रूते ॥९ ॥
आर्याशकलद्वितयं व्यत्ययरचितं भवेद्यस्याः । सोद्गीतिः किल गदिता तद्वद्यत्यंशभेदसंयुक्ता ॥१०॥
आर्यापूर्वार्धं यदि गुरुणैकेनाधिकेन निधने युक्तम् । इतरत्तद्वन्निखिलं भवति यदीयमर्द्धमुदितार्यागीतिः ॥११॥
वैतालीय-प्रकरणम् (१२-२०)
षड्विषमे ऽष्टौ समे कलास्ताश्च समे स्युर्नो निरन्तराः । न समात्र पराश्रिता कला वैतालीये ऽन्ते रला गुरुः ॥१२॥
पर्यन्ते र्यौ तथैव शेषमौपच्छन्दसिकं सुधीभिरुक्तम् ॥१३॥
आपातलिका कथितेयं भाद्गुरुकावथ पूर्ववदन्यत् ॥१४॥
तृतीययुग्दक्षिणान्तिका समस्तपादेषु द्वितीयलः ॥१५ ॥
उदीच्यवृत्तिर्द्वितीयलः सक्तो ऽग्रेण भवेदयुग्मयोः ॥१६ ॥
पूर्वेण युतो ऽथ पञ्चमः प्राच्यवृत्तिरुदितेति युग्मयोः ॥१७ ॥
यदा समावोजयुग्मकौ पूर्वयोर्भवति तत्प्रवृत्तकम् ॥१८ ॥
अस्य युग्मरचिता ऽपरान्तिका ॥१९ ॥
अयुग्भवा चारुहासिनी ॥२०॥
वक्त्र-प्रकरणम् (२१-३०)
वक्त्रं नाद्यान्नसौ स्यातामब्धेर्यो ऽनुष्टुभि ख्यातम् ॥२१॥
युजोर्जेन सरिद्भर्तुः पथ्यावक्त्रं प्रकीर्तितम् ॥२२॥
ओजयोर्जेन वारिधेस्तदेव विपरीतादि ॥२३॥
चपलावक्त्रमयुजोर्नकारश्वेत्पयोराशेः ॥२४॥
यस्या लः सप्तमो युग्मे सा युग्मविपुला मता ॥२५ ॥
सौतवस्या ऽखिलेष्वपि ॥२६ ॥
भेना ऽब्धितो भाद्विपुला ॥२७ ॥
इत्थमन्या रश्चतुर्थात् ॥२८ ॥
नो ऽम्बुधेश्चेन्नविपुला ॥२९ ॥
तो ऽब्धेस्तत्पूर्वान्या भवेत् ॥३०॥
मात्रासमक-प्रकरणम् (३१-३८)
द्विगुणितवसुलधुरचलधृतिरिति ॥३१॥
मात्रासमकं नवमो ल्गान्तम् ॥३२॥
जो न्लावथाम्बुधेर्विश्लोकः ॥३३॥
तद्युगलाद्वानवासिका स्यात् ॥३४॥
बाणाष्टनवसु यदि लश्चिता ॥३५ ॥
उपचित्रा नवमे परयुक्ते ॥३६ ॥
यदतीतकृतविविधलक्ष्मयुतैर्मात्रासमादिपादैः कलितम् । अनियतवृत्तपरिमाणयुक्तं प्रथितं जगत्सु पादाकुलकम् ॥३७ ॥
वृत्तस्य ला विना वर्णैर्गा वर्णा गुरुभिस्तथा । गुरुवो लैर्दले नित्यं प्रमाणमिति निश्चितम् ॥३८ ॥
शिखिगुणितदशलघुरचितमपगतलघुयुगलमपरमिदमखिलम् । सगुरु शकलयुगलकमपि सुपरिघटितललितपदवितति भवति शिखा ॥३९ ॥
विनिमयविनिहितशकलयुगलकलितपदविततिविरचितगुणनिचया । श्रुतिसुखकृदियमपि जगति ञि जशिर उपगतवति सति भवति खजा ॥४०॥
अष्टावर्धे गा द्वयभ्यस्ता यस्याः सा ऽनङ्गक्रीडोक्ता । दलमपरमपि वसुगुणितसलिलनिधिलघु कविरचितं पदवितति भवति ॥४१॥
त्रिगुणनवलघुरंवसितिगुरुरितिदलयुगकृततनुरतिरुचिरा ॥४२॥
इति श्रीमद्भट्टरामेश्वरसूनुनारायणभट्टविरचितायां वृत्तरत्नाकरव्याख्यायां मात्रावृत्ताधिकारो नाम द्वितीयो ऽध्यायः ॥
N/A
References : N/A
Last Updated : September 15, 2011
TOP