संस्कृत सूची|शास्त्रः|ज्योतिष शास्त्रः|दैवज्ञ वल्लभा| लग्नचिन्ता दैवज्ञ वल्लभा प्रश्नावतार शुभाऽशुभ लाभाऽलाभ सामान्यगमाऽऽगम शत्रुगमागम प्रवासचिन्ता जयपराजय रोगशुभ नष्टलाभाऽलाभ मनोमुष्टिचिन्ता वृष्टिनिर्णय विवाहविचार स्त्रीपुंजन्म प्रकीर्ण लग्नचिन्ता दैवज्ञ वल्लभा - लग्नचिन्ता दैवज्ञ वल्लभा म्हणजे ज्योतिषशास्त्रासंबंधी वराहमिहीराने लिहीलेला एक अत्यंत उपयुक्त ग्रंथ. Tags : daivadnya vallabhajyotishavarahamihirज्योतिषदैवज्ञ वल्लभावराहमिहिर लग्नचिन्ता Translation - भाषांतर देहः कोशो योधो वाह्यं मंत्रः शत्रुर्मार्गोऽथायुः ।चित्तं कर्म प्राप्तिमन्त्री प्राग्लग्नाद्या भावाश्चिन्त्याः ॥१॥त्रिलाभवर्जं रविसौरिभौमा निघ्नन्ति नो कर्म च सूर्यभौमौ ।पुष्णन्ति सौम्या रिपुराशिवर्ज्यं नास्तं भृगुर्मृत्युमिनर्क्षमिन्दुः ॥२॥लग्नोपगतैः सौम्यैरारोग्यं वित्तसौख्यं च ।अर्थस्थैरर्थचयो योधविवृद्धिस्तृतीयस्थैः ॥३॥वाहनसुहृदां वृद्धिश्चतुर्थगैः पंचमैस्तु मन्त्रबलम् ।रिपुनाशं षष्ठस्था भृगुवर्ज्यं सप्तमेऽध्वहिताः ॥४॥रक्षत्यायुर्निधने शशिवर्ज्यं नवमभे यशः संपत् ।कर्मणि सिद्धिर्लाभो बलसंघातश्च दश्माद्यैः ॥५॥भौमार्कार्किशशांकैर्लग्ने वधबन्धमरणसंत्रासाः ।अर्थक्षयो द्वितीयैस्तृतीय संस्थैर्यशो द्युतिमत् ॥६॥वाहनमित्रवियोगो मन्त्रस्रावो रिपुक्षयश्चेति ।हिबुकादिषु सप्तमगैः स्वविषयनाशो भृगुसुते च ॥७॥मृत्युर्निधनोपगतैः सेनाव्यसनं महन्नवमस्थैः ।दशमस्थौ कुजसूर्यौ जयदौ भङ्गप्रदः सौरिः ॥८॥ जय एकादशसंस्थैः क्रूरैरन्त्योपगैः स्वबलभेदः ।उपचयवर्जं सौम्यैर्यत्तत्पापैर्विपर्यस्तम् ॥९॥क्रूरोऽप्यनुकूलस्थः शस्तो लग्ने शुभोऽपि नानिष्टः ।वक्री न शुभः केन्द्रे तदहस्तद्वर्गलग्नं च ॥१०॥प्रश्नगतद्रेष्काणे राजा नेता द्वितीयेऽस्य ।परतो गणपुरोहितभिषजां परतोऽस्य भृत्यानाम् ॥११॥स्थानपराक्रमचिन्ता परतो व्यवहारनृपसैन्ये ।अभ्यवहार्यं शयनासने च तत्पंचसु क्रमशः ॥१२॥यानासनशय्यावाहनानि दशमे परतोऽन्नपानानि ।वाहनयोधाः परतस्त्रयोदशेऽपि युवराजः ॥१३॥ज्ञेयं बलं प्रयातुर्मन्त्रस्य निश्चयश्च तत्परतः ।परतः पंचदशाद्ये द्रेष्काणचतुष्टये रिपवः ॥१४॥एकोनविंशतितमे सैनिकशयने क्षणानि परतोऽर्थः ।परतोऽस्य दण्डनेता सैन्यस्योपद्रवः परतः ॥१५॥सेनाछिद्रं तस्मात्सेनानेता भवेच्चतुर्विंशे ।सेनारोग्यं सैन्यं चतुःपटंच क्रमात्रितये ॥१६॥कार्यं कोशः फलसिद्धयस्त्रये भूभुजस्त्रये परतः ।धर्मक्रियार्थयोधार्चनं च यात्रासमाप्तिश्च ॥१७॥इत्युदयाद्या भावाद्रेष्काणैर्ये मयाऽऽदिष्टाः ।सदसत्फलमादेश्यं सदसद्युतवीक्षणात्तेषाम् ॥१८॥नवमांशे तिग्मांशोर्वाहननाशो विलग्नसंप्राप्ते ।कृच्छ्रात् स्वगृहगमनं प्रतापमृदुला च चन्द्रांशे ॥१९॥ कौजेऽग्निभयं बौधे मित्र प्राप्तिर्धनागमो जैवे ।भोगविवृद्धि शौक्रे भृत्यविनाशो रविसुतांशे च ॥२०॥यदुदयति फलं प्रदिष्टं जनयति तस्य नवांशको विलग्ने ।शुभभवननवांशके सहायं रिपुबलभाग उपैति यातुरर्थात् ॥२१॥शुभर्क्षे तन्नवांशे च यो याति मनुजेश्वरः ।शत्रुबलान्नेता साहाय्यमुपगच्छति ॥२२॥यत्प्रोक्तं राश्युदये द्वादशभागेऽपि तत्फलं वाच्यम् ।यच्च नवांशकविहितं त्रिंशांशस्योदये तत्स्यात् ॥२३॥उदयमुदयपं वा जन्मपं जन्मभं वा तदुपचयगृहं वा वीक्ष्य लग्ने यियासोः ।विनिहतमरिपक्षं विद्धि शत्रोरिदं वा यदि हिबुकसमेतं पृच्छतोऽस्तस्थितं वा ॥२४॥शत्रोर्होरा राशिस्तदधिपतिर्जन्मभं तदीशो वा ।यद्यस्ते हिबुके वा तथापि शत्रुर्हतो वाच्यः ॥२५॥क्षुत्तृष्णार्तिर्मार्गनाशोऽक्षिरोगः क्लेशस्याप्तिस्तिग्मगोः प्राग्विल्ग्ने ।शस्तं चान्द्रे देवतार्थं स्वदेशे कौजे पित्तव्यालशस्त्राग्निपीडाः ॥२६॥बौधे तुष्टिर्वांछिताप्तिर्यशश्च जैवेऽर्थाप्तिः स्थानलाभोऽरिनाशः । स्त्रीरत्नाप्तिः कार्यसिद्धिश्च शौक्रे मान्दे वाह्निव्याधिनीचापमाना ॥२७॥ वृषवृश्चिककर्कटैर्नृणामनुकूलैरपि लग्नमाश्रितैः ।गमनं च वदन्त्यशोभनं मुनयोऽन्त्यर्क्षसमाश्रितैरपि ॥२८॥मीने कुटिलो मार्गो भवति तदंशेऽन्यराशिलग्नेऽपि ।नो यानमाप्यलग्ने कार्यं तेषां नवांशेऽपि ॥२९॥सर्वं प्रमाणं मुनिनोदितत्वात्किं त्वत्र होराबलमेव योग्यम् ।यस्मिन्सहस्रांशुरवस्थितोऽर्धे तिर्यङ्मुखी सा गणयेत्ततोऽन्याः ॥३०॥धत्ते वांछितकार्यमूर्ध्ववदना क्लेशाद्विना लग्नगाक्लेशायासपरिक्षयांश्चकुरुते तिर्यङ्मुखी गच्छतः ।सैन्यभ्रंशमधोमुखी प्रकुरुते कृच्छ्राद्गृहे चागमंसर्वाः पुष्टफलप्रदाः स्वपतिना दृष्टा न पापग्रहैः ॥३१॥आरुद्रमीशा रविभौमजीव विद्भार्गवैनीन्दव इत्यतोऽगुः । यामार्धमिन्द्रानिलकालशंभुतोयाग्निचन्द्रासुरमध्यतोऽन्यत् ॥३२॥वार प्रवृत्तेर्घटिका द्विनिघ्नाः कालाख्यहोरापतयः शराप्ताः ।दिनाधिपाद्या रविशुक्रसौम्यशशांक सौरीज्यकुजाः क्रमेण ॥३३॥व्यतिपातविष्टिवैधृतिपापग्रहलग्नदिवसेषु ।चौर्यावस्कन्दानृतसंग्रामाः सिद्धिमायान्ति ॥३४॥प्राच्यादिदिक्षु मेषाद्याः स्वपंचनवमैर्युताः ।तत्रगे यामिनीनाथे तदाशागच्छतोऽग्रतः ॥३५॥ओजदण्डे पुरश्चन्द्रे पृष्ठेराहौ रणेजयः ।सिद्धिर्दक्षिणगे चन्द्रे हानिर्वामे परे मृतिः ॥३६॥यात्रादिगीशाद्यदि पंचमेऽन्यो गृहे ग्रहो वीर्ययुतोऽवतिष्ठेत् ।समुद्यताशाकथितानि भङ्क्ता फलानि वीर्यान्नयति स्वकाष्ठाम् ॥३७॥एकोऽपि जीवज्ञसिताऽसितानां कुजात्त्रिकोणे रवितोऽथवेन्दुः ।यत्रोद्यतस्तत्र न याति याता तयोर्बलीयान्नयति स्वकाष्ठाम् ॥३८॥परस्परं सौरिकुजौ रवीन्दू त्रिकोणगौ भार्गवलोहितौ च ।फलं यदुक्तं तदशेषमेव विनाश्य पश्चात्स्वदिशं नयेताम् ॥३९॥ताराग्रहश्चेत्क्षितिजात्त्रिकोणे सूर्यादपि स्याद्यदि वा शशांकः ।दिगीश्वरात्पंचमगो बली वा ग्रहः स्वकाष्ठां नयति प्रसह्य ॥४०॥दृष्टाऽदृष्टफलाप्त्यै शास्त्रं हृदये निधाय मिहिरस्य ।दैवज्ञवल्लभाख्यं दृष्ट्वा प्रश्नं वदेत्तज्ज्ञः ॥४१॥यदुपचितमन्यजन्मनि शुभाऽशुभं तस्य कर्मणः पंक्तिम् ।व्यञ्जयति शास्त्रमेतत् तमसि द्रव्याणि दीप इव ॥४२॥आदित्यदासतनयस्तदवाप्तबोधः कापित्थलः सवितृलब्धवरप्रसादः ।आवन्तिको मुनिमतान्यवलोक्य यत्नादेतां वराहमिहिरो रचयांचकार ॥४३॥ N/A References : N/A Last Updated : January 16, 2012 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP