दैवज्ञ वल्लभा - वृष्टिनिर्णय

दैवज्ञ वल्लभा म्हणजे ज्योतिषशास्त्रासंबंधी वराहमिहीराने लिहीलेला एक अत्यंत उपयुक्त ग्रंथ.


चन्द्रार्कयोः शनिसितौ यदि सप्तमस्थौ तुर्येऽष्टमे च भवतो यदि वा विलग्नात्।
स्यातां धने च सहजे यदि तौ विलग्नाद्वर्षासु वर्षणमचिरेण तदा विधत्तः ॥१॥

पक्षे सिते सलिलराशिगताः शुभाश्चेत् केन्द्रद्वितीयसहजालयगाश्च सम्यक्।
चन्द्रोऽथवा सलिलराशिविलग्नगश्चेत् वृष्टिं वदेन्नियतमेव तदा धरित्र्याम् ॥२॥

कर्कटमृगमीनानामुदये चन्द्रं सितोऽपि वृष्टिकरः।
तद्वत्केन्द्रोपगतौ सितचन्द्रौ वा शुभैर्दृष्टौ ॥३॥

शीतद्युतिः सलिलराशि विलग्नगामी वीर्यान्वितेन भृगुजेन निरीक्ष्यमाणः।
वृष्टिं करोति महतीं भृगुजोऽपितद्वच्छीतांशुना बलयुतेन विलोकितश्चेत् ॥४॥

N/A

References : N/A
Last Updated : January 16, 2012

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP