पञ्चमः अध्यायः - प्रथमम् आह्निकम्
शब्द, अनुमान, प्रत्यक्ष, आणि उपमान रूप हे न्यायसूत्राचे प्रसिद्ध चार भाग आहेत.
(सत्प्रतिपक्षदेशनाभासप्रकर्णम्(१-३)
१.१ - साधर्म्यवैधर्म्योत्कर्षापकर्षवर्ण्यावर्ण्यविकल्पसाध्यप्राप्त्य् अप्राप्तिप्रषङ्गप्रतिदृऋष्टान्तानुत्पत्तिसंशयप्रकरणहेत्वर्था पत्त्यविशेषोपपत्त्युपलब्ध्यनुपलब्धिनित्यानित्यकआर्यसमाः
(सिद्धान्त-सूत्र)
१.२ - साधर्म्यवैधर्म्याभ्यामुपसंहारे तद्धर्मविपर्ययोपपत्तेः साधर्म्यवैधर्म्यसमौ
(सिद्धान्त-सूत्र)
१.३ - गोत्वाद् गोसिद्धिवत् तत्सिद्धिः
(सिद्धान्त-सूत्र)
(उत्कर्षसमादिजातिषट्कप्रकरणम्(४-६)
१.४ - साध्यदृष्टान्तयोर्धर्मविकल्पादुभयसाध्यत्वाच्चोत्कर्षापकर्ष वर्ण्यविकल्पसाध्यसमाः
(सिद्धान्त-सूत्र)
१.५ - किञ्चित्साधर्म्यादुपसंहारसिद्धेर्वैधर्म्यादप्रतिषेधः
(सिद्धान्त-सूत्र)
१.६ - साध्यातिदेशाच्च दृष्टान्तोपप्त्तेः
(सिद्धान्त-सूत्र) (प्राप्त्यप्राप्तिसमजातिद्वयप्रकरणम्(७-८)
१.७ - प्राप्य साध्यमप्राप्य वा हेतोः प्राप्त्याविशिष्टत्वादप्राप्त्यासाधाक त्वाच्च प्राप्त्यप्राप्तिसमौ
(सिद्धान्त-सूत्र)
१.८ - घटादिनिष्पत्तिदर्शनात् पीडने चाभिचारादप्रतिषेधः
(सिद्धान्त-सूत्र)
(प्रसङ्गप्रतिदृष्टान्तसमप्रकरणम्(९-११)
१.९ - दृष्टान्तस्य कारणानपदेशात् प्रत्यवस्थानाच्च प्रतिदृष्टान्तेन प्रसङ्गप्रतिदृष्टान्तसमौ
(सिद्धान्त-सूत्र)
१.१० - प्रदीपोपादानप्रसङ्गनिवृत्तिवत् तद्विनिवृत्तिः
(सिद्धान्त-सूत्र)
१.११ - प्रतिदृष्टान्तहेतुत्वे च नाहेतुर्दृष्टान्तः
(सिद्धान्त-सूत्र)
(अनुत्पत्तिसमप्रकरणम्(१२-१३)
१.१२ - प्रागुत्पत्तेः कारणाभावादनुत्पत्तिसमः
(सिद्धान्त-सूत्र)
१.१३ - तथाभावादुत्पन्नस्य कारणोपपत्तेर्न कारणप्रतिषेधः
(सिद्धान्त-सूत्र)
(संशयसमप्रकरणम्(१४-१५)
१.१४ - सामान्यदृष्टान्तयोरैन्द्रियकत्वे समाने नित्यानित्यसाधर्म्यात् संशयसमः
(सिद्धान्त-सूत्र)
१.१५ - साधर्म्यात्संशये न संशयो वैधर्म्यादुभयथा वा संशये ऽत्यन्त संशयप्रसङ्गो नित्यत्वानभ्यूपगमाच्च सामान्यस्याप्रतिषेधः
(सिद्धान्त-सूत्र)
(प्रकरणसमप्रकरणम्(१६-१७)
१.१६ - उभयसाधर्म्यात् प्रक्रियासिद्धेः प्रकरणसमः
(सिद्धान्त-सूत्र)
१.१७ - प्रतिपक्षात् प्रकरणसिद्धेः प्रतिषेधानुपपत्तिः प्रतिपक्षोपपत्तेः
(सिद्धान्त-सूत्र)
(अहेतुसमप्रकरणम्(१८-२०)
१.१८ - त्रैकाल्यासिद्धेर्हेतोरहेतुसमः
(सिद्धान्त-सूत्र)
१.१९ - न हेतुतः साध्यसिद्धेस्त्रैकाल्यास्सिद्धिः
(सिद्धान्त-सूत्र)
१.२० - प्रतिषेधानुपपत्तेश्च प्रतिषेद्धव्याप्रतिषेधः
(सिद्धान्त-सूत्र)
(अर्थापत्तिसमप्रकरणम्(२१-२२)
१.२१ - अर्थापत्तितः प्रतिपक्षसिद्धेरर्थापत्तिसमः
(सिद्धान्त-सूत्र)
१.२२ - अनुक्तस्यार्थापत्तेः पक्षहानेरुपपत्तिरनुक्तत्वादनैकान्तिकत्वाच् चार्थापत्तेः
(सिद्धान्त-सूत्र)
(अविशेषसमप्रकरणम्(२३-२४)
१.२३ - एकधर्मोपपत्तेरविशेषे सर्वाविशेषप्रसङ्गात्सद्भाबोपपत्तेर्- अविशेषसमः
(सिद्धान्त-सूत्र)
१.२४ - क्वचिद्धर्मानुपपत्तेः क्वचिच्चोपपत्तेः प्रतिषेधाभावः
(सिद्धान्त-सूत्र)
(उअपपत्तिसमप्रकरणम्(२५-२६)
१.२५ - उभयोकारणोपपत्तेरुपपत्तिसमः
(सिद्धान्त-सूत्र)
१.२६ - उअपपत्तिकारणाभ्यनिञ्जानादप्रतिषेधः
(सिद्धान्त-सूत्र)
(उपलब्धिसमप्रकरणम्(२७-२८)
१.२७ - निर्दिष्टकारणाभावे ऽप्युपलम्भादुपलब्धिसमः
(सिद्धान्त-सूत्र)
१.२८ - कारणान्तरादपि तद्धर्मोपपत्तेरप्रतिषेधः
(सिद्धान्त-सूत्र) (अनुपलब्धिसमप्रकरणम्(२९-३१)
१.२९ - तदनुपलब्धेरनुपलम्भादभावसिद्धौ तद्विपरीतोपपत्तेर् अनुपलब्धिसमः
(सिद्धान्त-सूत्र)
१.३० - अनुपलम्भात्मकत्वादनुपलब्धेरहेतुः
(सिद्धान्त-सूत्र)
१.३१ - ज्ञानविकल्पानां च भावाभावसंवेदनादध्यात्मम्
(सिद्धान्त-सूत्र)
(अनित्यसमप्रकरणम्(३२-३४)
१.३२ - साधर्म्यात्तुल्यधर्मोपपत्तेः सर्वानित्यत्वप्रसङ्गादनित्यसमः
(सिद्धान्त-सूत्र)
१.३३ - साधर्म्यादसिद्धेः प्रतिषेधासिद्धिः प्रतिषेध्यसाधर्म्याच्च
(सिद्धान्त-सूत्र)
१.३४ - दृष्टान्ते च साध्यसाधनभावेन प्रज्ञातस्य धर्मस्य तस्य्स चोभयथा भावान्नाविशेषः
(सिद्धान्त-सूत्र)
(अनित्यसमप्रकरणम्(३५-३६)
१.३५ - नित्यमनित्यभावादनित्ये नित्यत्वोपपत्तेर्नित्यसमः
(सिद्धान्त-सूत्र)
१.३६ - प्रतिषेध्ये नित्यमनित्यभावादनित्ये ऽनित्यत्वोपपत्तेः प्रतिषेधाभावः
(सिद्धान्त-सूत्र)
(कार्यसमप्रकरणम्(३७-३८)
१.३७ - प्रयत्नकार्यानेकत्वात् कार्यसमः
(सिद्धान्त-सूत्र)
१.३८ - कार्यान्यत्वे प्रयत्नाहेतुत्वमनुपलब्धिकारणोपपत्तेः
(सिद्धान्त-सूत्र)
(षट्पक्षीप्रकरणम्(३९-४०)
१.३९ - प्रतिषेधे ऽपि समानदोषः
(सिद्धान्त-सूत्र)
१.४० - सर्वत्रैवम्
(सिद्धान्त-सूत्र)
१.४१ - प्रतिषेधविप्रतिषेधे प्रतिषेधदोषवद् दोषः
(सिद्धान्त-सूत्र)
१.४२ - प्रतिषेधं सदोषमभ्युपेत्य प्रतिषेधविप्रतिषेधे समानो दोषप्रसङ्गो मतानुज्ञा
(सिद्धान्त-सूत्र)
१.४३ - स्वपक्षलक्षनापेक्षोपपत्त्युपसंहारे हेतुनिर्देशे परपक्षदोषा भ्युपगमात् समानो दोष इति
(सिद्धान्त-सूत्र)
इति न्यायसूत्रे पञ्चमाध्यायस्य प्रथमम् आह्निकम्
N/A
References : N/A
Last Updated : November 11, 2016
TOP