संस्कृत सूची|शास्त्रः|तत्वज्ञानम्|न्यायसूत्र|प्रथमः अध्यायः| प्रथमम् आह्निकम् प्रथमः अध्यायः प्रथमम् आह्निकम् द्वितीयम् आह्निकम् प्रथमः अध्यायः - प्रथमम् आह्निकम् शब्द, अनुमान, प्रत्यक्ष, आणि उपमान रूप हे न्यायसूत्राचे प्रसिद्ध चार भाग आहेत. Tags : न्यायसूत्रसंस्कृत प्रथमम् आह्निकम् Translation - भाषांतर (अनुबन्धचतुष्टयप्रकरणम्]१.१ - प्रमाण-प्रमेय-संशय-प्रयोजन-दृष्टान्त-सिद्धान्तावयव-तर्क-निर्णय-वाद-जल्प-वितण्डाहेत्वाभास-च्छल-जाति-निग्रहस्थानानाम्तत्त्वज्ञानात् निःश्रेयसाधिगमः(पदार्थोद्देशसूत्रम्)१.२ - दुःखजन्मप्रवृत्तिदोषमिथ्याज्ञानानाम् उत्तरोत्तरापाये तदनन्तरा पायात् अपवर्गः(पदार्थोद्देशसूत्रम्)(प्रमाणप्रकरणम्]१.३ - प्रत्यक्षानुमानोपमानशब्दाः प्रमाणानि(प्रमाण-उद्देश-सूत्रम्)१.४ - इन्द्रियार्थसन्निकर्षोत्पन्नम् ज्ञानम् अव्यपदेश्यम् अव्यभिचारि व्यवसायात्मकम् प्रत्यक्षम्(प्रत्यक्षलक्षणम्)१.५ - अथ तत्पूर्वकं त्रिविधम् अनुमानं पूर्ववत् शेषवत् सामान्यतोदृष्टं च(अनुमानलक्षणम्)१.६ - प्रसिद्धसाधर्म्यात् साध्यसाधनम् उपमानम्(उपमानलक्षणम्)१.७ - आप्तोपदेशः शब्दः(शब्दलक्षणम्)१.८ - सः द्विविधः दृष्टादृष्टार्थत्वात्(शब्दभेदः)(प्रमेयप्रकरणम्]१.९ - आत्मशरीरेन्द्रियार्थबुद्धिमनःप्रवृत्तिदोषप्रेत्यभावफलदुःखापवर्गाः तु प्रमेयम्(प्रमेय-उद्देश-सूत्रम्)१.१० - इच्छाद्वेषप्रयत्नसुखदुःखज्ञानानि आत्मनः लिङ्गम् इति(आत्मलक्षणम्)१.११ - चेष्टेन्द्रियार्थाश्रयः शरीरम्(शरीरलक्षणम्)१.१२ - घ्राणरसनचक्षुस्त्वक्श्रोत्राणि इन्द्रियाणि भूतेभ्यः(इन्द्रियलक्षणम्)१.१३ - पृथिवी आपः तेजः वायुः आकाशम् इति भूतानि(भूतलक्षणम्)१.१४ - गन्धरसरूपस्पर्शशब्दाः पृथिव्यादिगुणाः तदर्थाः(अर्थ(विषय)लक्षणम्)१.१५ - बुद्धिः उपलब्धिः ज्ञानम् इति अनर्थान्तरम्(बुद्धिलक्षणम्)१.१६ - युगपत् ज्ञानानुत्पत्तिः मनसः लिङ्गम्(मनोलक्षणम्)१.१७ - प्रवृत्तिः वाग्बुद्धिशरीरारम्भः(प्रवृत्तिलक्षणम्)१.१८ - प्रवर्त्तनालक्षणाः दोषाः(दोषलक्षणम्)१.१९ - पुनरुत्पत्तिः प्रेत्यभावः(प्रेत्यभावलक्षणम्)१.२० - प्रवृत्तिदोषजनितः अर्थः फलम्(फललक्षणम्)१.२१ - बाधनालक्षणम् दुःखम्(दुःखलक्षणम्)१.२२ - तदत्यन्तविमोक्षः अपवर्गः(अपवर्गलक्षणम्)(न्यायपूर्वाङ्गलक्षणप्रकरणम्]१.२३ - समानानेकधर्मोपपत्तेः विप्रतिपत्तेः उपलब्ध्यनुपलब्ध्यव्यवस्थातः च विशेषापेक्षः विमर्शः संशयः(संशयलक्षणम्)१.२४ - यम् अर्थम् अधिकृत्य प्रवर्तते तत् प्रयोजनम्(प्रयोजनलक्षणम्)१.२५ - लौकिकपरीक्षकाणां यस्मिन् अर्थे बुद्धिसाम्यम् सः दृष्टान्तः(दृष्टान्तलक्षणम्)(न्यायाश्रयसिद्धान्तलक्षणप्रकरणम्]१.२६ - तन्त्राधिकरणाभ्युपगमसंस्थितिः सिद्धान्तः(अभ्युपगमसिद्धान्तलक्षणम्)१.२७ - सः चतुर्विधः सर्वतन्त्रप्रतितन्त्राधिकरणाभ्युपगमसंस्थित्यर्थान्तरभावात्(तन्त्रभेद-उद्देशसूत्रम्)१.२८ - सर्वतन्त्राविरुद्धः तन्त्रे अधिकृतः अर्थः सर्वतन्त्रसिद्धान्तः(सर्वतन्त्रसिद्धान्त-लक्षणम्)१.२९ - समानतन्त्रसिद्धः परतन्त्रासिद्धः प्रतितन्त्रसिद्धान्तः(प्रतितन्त्रसिद्धान्त-लक्षणम्)१.३० - यत्सिद्धौ अन्यप्रकरणसिद्धिः सः अधिकरणसिद्धान्तः(अधिकरणसिद्धान्त-लक्षणम्)१.३१ - अपरीक्षिताभ्युपगमात् तद्विशेषपरीक्षणम् अभ्युपगमसिद्धान्तः(अभ्युपगमसिद्धान्त-लक्षणम्)(न्यायप्रकरणम्]१.३२ - प्रतिज्ञाहेतूदाहरणोपनयनिगमनानि अवयवाः(अवयव-उद्देशसूत्रम्)१.३३ - साध्यनिर्देशः प्रतिज्ञा(प्रतिज्ञा-लक्षणम्)१.३४ - उदाहरणसाधर्म्यात् साध्यसाधनं हेतुः(हेतु-लक्षणम्)१.३५ - तथा वैधर्म्यात्(हेतु-लक्षणम्)१.३६ - साध्यसाधर्म्यात् तद्धर्मभावी दृष्टान्तः उदाहरणम्(उदाहरण-लक्षणम्)१.३७ - तद्विपर्ययात् वा विपरीतम्(उदाहरण-लक्षणम्)१.३८ - उदाहरणापेक्षः तथा इति उपसंहारः न तथा इति वा साध्यस्य उपनयः(उपनय-लक्षणम्)१.३९ - हेत्वपदेशात् प्रतिज्ञायाः पुनर्वचनम् निगमनम्(निगमन-लक्षणम्)(न्यायोत्तराङ्गप्रकरणम्]१.४० - अविज्ञाततत्वे अर्थे कारणोपपत्तितः तत्त्वज्ञानार्थम् उहः तर्कः(तर्क-लक्षणम्)१.४१ - विमृश्य पक्षप्रतिपक्षाभ्याम् अर्थावधारणम् निर्णयः(निर्णय-लक्षणम्)इति न्यायसूत्रे प्रथमाध्यायस्य प्रथमम् आह्निकम् N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP