संस्कृत सूची|शास्त्रः|आयुर्वेदः|अष्टांग हृदयम्|निदानस्थान| अध्याय ६ निदानस्थान अध्याय १ अध्याय २ अध्याय ३ अध्याय ४ अध्याय ५ अध्याय ६ अध्याय ७ अध्याय ८ अध्याय ९ अध्याय १० अध्याय ११ अध्याय १२ अध्याय १३ अध्याय १४ अध्याय १५ अध्याय १६ निदानस्थान - अध्याय ६ आयुर्वेदातील अष्टांग हृदय प्रसिद्ध ग्रंथ आहे. याचे रचनाकार आहेत, वाग्भट. या ग्रंथाचा रचनाकाल ई.पू.५०० ते ई.पू.२५० मानतात. या ग्रंथात औषधि आणि शल्यचिकित्सा दोन्हींचाही समावेश आहे. Tags : ashtanga hridayamvagbhatVedअष्टांग हृदयम्आयुर्वेदवाग्भट अध्याय ६ Translation - भाषांतर तीक्ष्णोष्ण-रूक्ष-सूक्ष्माम्लं व्यवाय्य् आशु-करं लघु ।विकाषि विशदं मद्यम् ओजसो ऽस्माद् विपर्ययः ॥१॥तीक्ष्णोष्ण-रूक्ष-सूक्ष्माम्ल- ६.व्यवाय्य् आशु-करं लघु विकाशि विशदं मद्यम् तीक्ष्णादयो विषे ऽप्य् उक्ताश् चित्तोपप्लाविनो गुणाः ।जीवितान्ताय जायन्ते विषे तूत्कर्ष-वृत्तितः ॥२॥तीक्ष्णादिभिर् गुणैर् मद्यं मन्दादीन् ओजसो गुणान् ।दशभिर् दश संक्षोभ्य चेतो नयति वि-क्रियाम् ॥३॥आद्ये मदे द्वितीये तु प्रमादायतने स्थितः ।दुर्-विकल्प-हतो मूढः सुखम् इत्य् अधिमुच्यते ॥४॥आद्ये मदे द्वितीये च आद्ये मदे द्वितीये स सुखम् इत्य् अभिमुच्यते सुखम् इत्य् अभिमन्यते सुखम् इत्य् अवमन्यते मध्यमोत्तमयोः संधिं प्राप्य राजस-तामसः ।निर्-अङ्कुश इव व्यालो न किञ्-चिन् नाचरेज् जडः ॥५॥न किं किं वाचरेज् जडः इयं भूमिर् अ-वद्यानां दौःशील्यस्येदम् आस्पदम् ।एको ऽयं बहु-मार्गाय दुर्-गतेर् देशिकः परम् ॥६॥इयं भूमिर् अ-विद्यानां निश्-चेष्टः शव-वच् छेते तृतीये तु मदे स्थितः ।मरणाद् अपि पापात्मा गतः पाप-तरां दशाम् ॥७॥धर्मा-धर्मं सुखं दुःखम् अर्थान्-अर्थं हिता-हितम् ।यद् आसक्तो न जानाति कथं तच् छीलयेद् बुधः ॥८॥मद्ये मोहो भयं शोकः क्रोधो मृत्युश् च संश्रिताः ।सोन्माद-मद-मूर्छायाः सापस्मारापतानकाः ॥९॥यत्रैकः स्मृति-विभ्रंशस् तत्र सर्वम् अ-साधु यत् ।अ-युक्ति-युक्तम् अन्नं हि व्याधये मरणाय वा ॥१०॥मद्यं त्रि-वर्ग-धी-धैर्य-लज्जादेर् अपि नाशनम् ।नातिमाद्यन्ति बलिनः कृताहारा महाशनाः ॥११॥स्निग्धाः सत्-त्व-वयो-युक्ता मद्य-नित्यास् तद्-अन्वयाः ।मेदः-कफाधिका मन्द-वात-पित्ता दृढाग्नयः ॥१२॥विपर्यये ऽतिमाद्यन्ति विश्रब्धाः कुपिताश् च ये ।मद्येन चाम्ल-रूक्षेण सा-जीर्णे बहुनाति च ॥१३॥सा-जीर्णे बहुनापि च वातात् पित्तात् कफात् सर्वैश् चत्वारः स्युर् मदात्ययाः ।सर्वे ऽपि सर्वैर् जायन्ते व्यपदेशस् तु भूयसा ॥१४॥सामान्यं लक्षणं तेषां प्रमोहो हृदय-व्यथा ।विड्-भेदः प्रततं तृष्णा सौम्याग्नेयो ज्वरो ऽ-रुचिः ॥१५॥प्रमोहो हृदये व्यथा शिरः-पार्श्वास्थि-रुक्-कम्पो मर्म-भेदस् त्रिक-ग्रहः ।उरो-विबन्धस् तिमिरं कासः श्वासः प्रजागरः ॥१६॥शिरः-पार्श्वास्थि-रुक्-स्तम्भो स्वेदो ऽति-मात्रं विष्टम्भः श्वयथुश् चित्त-विभ्रमः ।प्रलापश् छर्दिर् उत्क्लेशो भ्रमो दुः-स्वप्न-दर्शनम् ॥१७॥विशेषाज् जागर-श्वास-कम्प-मूर्ध-रुजो ऽनिलात् ।स्वप्ने भ्रमत्य् उत्पतति प्रेतैश् च सह भाषते ॥१८॥पित्ताद् दाह-ज्वर-स्वेद-मोहातीसार-तृड्-भ्रमाः ।देहो हरित-हारिद्रो रक्त-नेत्र-कपोल-ता ॥१९॥श्लेष्मणा छर्दि-हृल्-लास-निद्रोदर्दाङ्ग-गौरवम् ।सर्व-जे सर्व-लिङ्ग-त्वं मुक्त्वा मद्यं पिबेत् तु यः ॥२०॥श्लेष्मणश् छर्दि-हृल्-लास- सहसान्-उचितं वान्यत् तस्य ध्वंसक-विक्षयौ ।भवेतां मारुतात् कष्टौ दुर्-बलस्य विशेषतः ॥२१॥सहसान्-उचितं चान्यत् तस्य ध्वंसक-विट्-क्षयौ ध्वंसके श्लेष्म-निष्ठीवः कण्ठ-शोषो ऽति-निद्र-ता ।शब्दा-सह-त्वं तन्द्रा च विक्षये ऽङ्ग-शिरो-ऽति-रुक् ॥२२॥विट्-क्षये ऽङ्ग-शिरो-ऽति-रुक् हृत्-कण्ठ-रोगः संमोहः कासस् तृष्णा वमिर् ज्वरः ।निवृत्तो यस् तु मद्येभ्यो जितात्मा बुद्धि-पूर्व-कृत् ॥२३॥हृत्-कण्ठ-रोधः संमोहः विकारैः स्पृश्यते जातु न स शारीर-मानसैः ।रजो-मोहा-हिताहार-परस्य स्युस् त्रयो गदाः ॥२४॥रसासृक्-चेतना-वाहि-स्रोतो-रोध-समुद्भवाः ।मद-मूर्छाय-संन्यासा यथोत्तर-बलोत्तराः ॥२५॥मदो ऽत्र दोषैः सर्वैश् च रक्त-मद्य-विषैर् अपि ।सक्तान्-अल्प-द्रुताभाषश् चलः स्खलित-चेष्टितः ॥२६॥रूक्ष-श्यावारुण-तनुर् मदे वातोद्भवे भवेत् ।पित्तेन क्रोधनो रक्त-पीताभः कलह-प्रियः ॥२७॥मदे वात-कृते भवेत् स्व्-अल्प-संबद्ध-वाक् पाण्डुः कफाद् ध्यान-परो ऽलसः ।सर्वात्मा संनिपातेन रक्तात् स्तब्धाङ्ग-दृष्टि-ता ॥२८॥स्व्-अल्पा-संबद्ध-वाक् पाण्डुः पित्त-लिङ्गं च मद्येन विकृतेह-स्वराङ्ग-ता ।विषे कम्पो ऽति-निद्रा च सर्वेभ्यो ऽभ्यधिकस् तु सः ॥२९॥विषात् कम्पो ऽति-निद्रा च सर्वेभ्यो ऽभ्यधिकश् च सः लक्षयेल् लक्षणोत्कर्षाद् वातादीन् शोणितादिषु ।अरुणं कृष्ण-नीलं वा खं पश्यन् प्रविशेत् तमः ॥३०॥शीघ्रं च प्रतिबुध्येत हृत्-पीडा वेपथुर् भ्रमः ।कार्श्यं श्यावारुणा छाया मूर्छाये मारुतात्मके ॥३१॥कार्श्यं श्यावारुण-च्छाये पित्तेन रक्तं पीतं वा नभः पश्यन् विशेत् तमः ।विबुध्येत च स-स्वेदो दाह-तृट्-ताप-पीडितः ॥३२॥भिन्न-विण् नील-पीताभो रक्त-पीताकुलेक्षणः ।कफेन मेघ-संकाशं पश्यन्न् आकाशम् आविशेत् ॥३३॥तमश् चिराच् च बुध्येत स-हृल्-लासः प्रसेक-वान् ।गुरुभिः स्तिमितैर् अङ्गैर् आर्द्र-चर्मावनद्ध-वत् ॥३४॥सर्वाकृतिस् त्रिभिर् दोषैर् अपस्मार इवापरः ।पातयत्य् आशु निश्-चेष्टं विना बीभत्स-चेष्टितैः ॥३५॥विना बैभत्स्य-चेष्टितैः दोषेषु मद-मूर्छायाः कृत-वेगेषु देहिनाम् ।स्वयम् एवोपशाम्यन्ति संन्यासो नौषधैर् विना ॥३६॥वाग्-देह-मनसां चेष्टाम् आक्षिप्याति-बला मलाः ।संन्यासं संनिपतिताः प्राणायतन-संश्रयाः ॥३७॥कुर्वन्ति तेन पुरुषः काष्ठी-भूतो मृतोपमः ।म्रियेत शीघ्रं शीघ्रं चेच् चिकित्सा न प्रयुज्यते ॥३८॥काष्ठ-भूतो मृतोपमः अ-गाधे ग्राह-बहुले सलिलौघ इवाटते ।संन्यासे विनिमज्जन्तं नरम् आशु निवर्तयेत् ॥३९॥अभिन्यासे च मज्जन्तं मद-मान-रोष-तोष-प्रभृतिभिर् अरिभिर् निजैः परिष्वङ्गः ।युक्ता-युक्तं च समं युक्ति-वियुक्तेन मद्येन ॥४०॥बल-काल-देश-सात्म्य-प्रकृति-सहायामय-वयांसि ।प्रविभज्य तद्-अनुरूपं यदि पिबति ततः पिबत्य् अमृतम् ॥४१॥ N/A References : N/A Last Updated : June 24, 2015 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP