निदानस्थान - अध्याय १

आयुर्वेदातील अष्टांग हृदय प्रसिद्ध ग्रंथ आहे. याचे रचनाकार आहेत, वाग्भट. या ग्रंथाचा रचनाकाल ई.पू.५०० ते ई.पू.२५० मानतात. या ग्रंथात औषधि आणि शल्यचिकित्सा दोन्हींचाही समावेश आहे.


रोगः पाप्मा ज्वरो व्याधिर् विकारो दुःखम् आमयः ।
यक्ष्मातङ्क-गदाबाधाः शब्दाः पर्याय-वाचिनः ॥१॥

निदानं पूर्व-रूपाणि रूपाण्य् उपशयस् तथा ।
संप्राप्तिश् चेति विज्ञानं रोगाणां पञ्च-धा स्मृतम् ॥२॥

निमित्त-हेत्व्-आयतन-प्रत्ययोत्थान-कारणैः ।
निदानम् आहुः पर्यायैः प्राग्-रूपं येन लक्ष्यते ॥३॥

उत्पित्सुर् आमयो दोष-विशेषेणान्-अधिष्ठितः ।
लिङ्गम् अ-व्यक्तम् अल्प-त्वाद् व्याधीनां तद् यथा-यथम् ॥४॥

तद् एव व्यक्त-तां यातं रूपम् इत्य् अभिधीयते ।
संस्थानं व्यञ्जनं लिङ्गं लक्षणं चिह्नम् आकृतिः ॥५॥

हेतु-व्याधि-विपर्यस्त-विपर्यस्तार्थ-कारिणाम् ।
औषधान्न-विहाराणाम् उपयोगं सुखावहम् ॥६॥

विद्याद् उपशयं व्याधेः स हि सात्म्यम् इति स्मृतः ।
विपरीतो ऽन्-उपशयो व्याध्य्-अ-सात्म्याभिसंज्ञितः ॥७॥

यथा-दुष्टेन दोषेण यथा चानुविसर्पता ।
निर्वृत्तिर् आमयस्यासौ संप्राप्तिर् जातिर् आगतिः ॥८॥

संख्या-विकल्प-प्राधान्य-बल-काल-विशेषतः ।
सा भिद्यते यथात्रैव वक्ष्यन्ते ऽष्टौ ज्वरा इति ॥९॥

दोषाणां समवेतानां विकल्पो ऽंशांश-कल्पना ।
स्वातन्त्र्य-पारतन्त्र्याभ्यां व्याधेः प्राधान्यम् आदिशेत् ॥१०॥

हेत्व्-आदि-कार्त्स्न्यावयवैर् बला-बल-विशेषणम् ।
नक्तन्-दिनर्तु-भुक्तांशैर् व्याधि-कालो यथा-मलम् ॥११॥

इति प्रोक्तो निदानार्थस् तं व्यासेनोपदेक्ष्यति ।
सर्वेषाम् एव रोगाणां निदानं कुपिता मलाः ॥१२॥

इति प्रोक्तो निदानार्थः तं व्यासेनोपदेक्ष्यते तं व्यासेनोपदिश्यते स व्यासेनोपदेक्ष्यति स व्यासेनोपदेक्ष्यते स व्यासेनोपदिश्यते तत्-प्रकोपस्य तु प्रोक्तं विविधा-हित-सेवनम् ।
अ-हितं त्रि-विधो योगस् त्रयाणां प्राग् उदाहृतः ॥१३॥

अ-हितस् त्रि-विधो योगस् तिक्तोषण-कषायाल्प-रूक्ष-प्रमित-भोजनैः ।
धारणोदीरण-निशा-जागरात्य्-उच्च-भाषणैः ॥१४॥

क्रियाति-योग-भी-शोक-चिन्ता-व्यायाम-मैथुनैः ।
ग्रीष्माहो-रात्रि-भुक्तान्ते प्रकुप्यति समीरणः ॥१५॥

पित्तं कट्व्-अम्ल-तीक्ष्णोष्ण-पटु-क्रोध-विदाहिभिः ।
शरन्-मध्याह्न-रात्र्य्-अर्ध-विदाह-समयेषु च ॥१६॥

१.१निदाघ-समयेषु च स्वाद्व्-अम्ल-लवण-स्निग्ध-गुर्व्-अभिष्यन्दि-शीतलैः ।
आस्या-स्वप्न-सुखा-जीर्ण-दिवा-स्वप्नाति-बृंहणैः ॥१७॥

अति-स्वप्न-सुखा-जीर्ण- प्रच्छर्दनाद्य-योगेन भुक्त-मात्र-वसन्तयोः ।
पूर्वाह्णे पूर्व-रात्रे च श्लेष्मा द्वन्द्वं तु संकरात् ॥१८॥

मिश्री-भावात् समस्तानां संनिपातस् तथा पुनः ।
संकीर्णा-जीर्ण-विषम-विरुद्धाध्यशनादिभिः ॥१९॥

व्यापन्न-मद्य-पानीय-शुष्क-शाकाम-मूलकैः ।
पिण्याक-मृद्-यव-सुरा-पूति-शुष्क-कृशामिषैः ॥२०॥

दोष-त्रय-करैस् तैस् तैस् तथान्न-परिवर्तनात् ।
ऋतोर् दुष्टात् पुरो-वाताद् ग्रहावेशाद् विषाद् गरात् ॥२१॥

तथान्न-परिवर्ततः तथान्न-परिवृत्तितः दुष्टान्नात् पर्वताश्लेषाद् ग्रहैर् जन्मर्क्ष-पीडनात् ।
मिथ्या-योगाच् च विविधात् पापानां च निषेवणात् ॥२२॥

दुष्टामात् पर्वताश्लेषाद् स्त्रीणां प्रसव-वैषम्यात् तथा मिथ्योपचारतः ।
प्रति-रोगम् इति क्रुद्धा रोगाधिष्ठान-गामिनीः ॥२३॥

रसायनीः प्रपद्याशु दोषा देहे विकुर्वते ॥२३॥

N/A

References : N/A
Last Updated : June 24, 2015

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP