संस्कृत सूची|संस्कृत साहित्य|वेदः|ऋग्वेदः|मण्डल ७| सूक्तं ३२ मण्डल ७ सूक्तं १ सूक्तं २ सूक्तं ३ सूक्तं ४ सूक्तं ५ सूक्तं ६ सूक्तं ७ सूक्तं ८ सूक्तं ९ सूक्तं १० सूक्तं ११ सूक्तं १२ सूक्तं १३ सूक्तं १४ सूक्तं १५ सूक्तं १६ सूक्तं १७ सूक्तं १८ सूक्तं १९ सूक्तं २० सूक्तं २१ सूक्तं २२ सूक्तं २३ सूक्तं २४ सूक्तं २५ सूक्तं २६ सूक्तं २७ सूक्तं २८ सूक्तं २९ सूक्तं ३० सूक्तं ३१ सूक्तं ३२ सूक्तं ३३ सूक्तं ३४ सूक्तं ३५ सूक्तं ३६ सूक्तं ३७ सूक्तं ३८ सूक्तं ३९ सूक्तं ४० सूक्तं ४१ सूक्तं ४२ सूक्तं ४३ सूक्तं ४४ सूक्तं ४५ सूक्तं ४६ सूक्तं ४७ सूक्तं ४८ सूक्तं ४९ सूक्तं ५० सूक्तं ५१ सूक्तं ५२ सूक्तं ५३ सूक्तं ५४ सूक्तं ५५ सूक्तं ५६ सूक्तं ५७ सूक्तं ५८ सूक्तं ५९ सूक्तं ६० सूक्तं ६१ सूक्तं ६२ सूक्तं ६३ सूक्तं ६४ सूक्तं ६५ सूक्तं ६६ सूक्तं ६७ सूक्तं ६८ सूक्तं ६९ सूक्तं ७० सूक्तं ७१ सूक्तं ७२ सूक्तं ७३ सूक्तं ७४ सूक्तं ७५ सूक्तं ७६ सूक्तं ७७ सूक्तं ७८ सूक्तं ७९ सूक्तं ८० सूक्तं ८१ सूक्तं ८२ सूक्तं ८३ सूक्तं ८४ सूक्तं ८५ सूक्तं ८६ सूक्तं ८७ सूक्तं ८८ सूक्तं ८९ सूक्तं ९० सूक्तं ९१ सूक्तं ९२ सूक्तं ९३ सूक्तं ९४ सूक्तं ९५ सूक्तं ९६ सूक्तं ९७ सूक्तं ९८ सूक्तं ९९ सूक्तं १०० सूक्तं १०१ सूक्तं १०२ सूक्तं १०३ सूक्तं १०४ मण्डल ७ - सूक्तं ३२ ऋग्वेद फार प्राचीन वेद आहे. यात १० मंडल आणि १०५५२ मंत्र आहेत. ऋग्वेद म्हणजे ऋषींनी देवतांची केलेली प्रार्थना आणि स्तुति. Tags : rigvedavedऋग्वेदवेदसंस्कृत सूक्तं ३२ Translation - भाषांतर मो षु त्वा वाघतश्चनारे अस्मन्नि रीरमन् ।आरात्ताच्चित्सधमादं न आ गहीह वा सन्नुप श्रुधि ॥१॥इमे हि ते ब्रह्मकृतः सुते सचा मधौ न मक्ष आसते ।इन्द्रे कामं जरितारो वसूयवो रथे न पादमा दधुः ॥२॥रायस्कामो वज्रहस्तं सुदक्षिणं पुत्रो न पितरं हुवे ॥३॥इम इन्द्राय सुन्विरे सोमासो दध्याशिरः ।ताँ आ मदाय वज्रहस्त पीतये हरिभ्यां याह्योक आ ॥४॥श्रवच्छ्रुत्कर्ण ईयते वसूनां नू चिन्नो मर्धिषद्गिरः ।सद्यश्चिद्यः सहस्राणि शता ददन्नकिर्दित्सन्तमा मिनत् ॥५॥स वीरो अप्रतिष्कुत इन्द्रेण शूशुवे नृभिः ।यस्ते गभीरा सवनानि वृत्रहन्सुनोत्या च धावति ॥६॥भवा वरूथं मघवन्मघोनां यत्समजासि शर्धतः ।वि त्वाहतस्य वेदनं भजेमह्या दूणाशो भरा गयम् ॥७॥सुनोता सोमपाव्ने सोममिन्द्राय वज्रिणे ।पचता पक्तीरवसे कृणुध्वमित्पृणन्नित्पृणते मयः ॥८॥मा स्रेधत सोमिनो दक्षता महे कृणुध्वं राय आतुजे ।तरणिरिज्जयति क्षेति पुष्यति न देवासः कवत्नवे ॥९॥नकिः सुदासो रथं पर्यास न रीरमत् ।इन्द्रो यस्याविता यस्य मरुतो गमत्स गोमति व्रजे ॥१०॥गमद्वाजं वाजयन्निन्द्र मर्त्यो यस्य त्वमविता भुवः ।अस्माकं बोध्यविता रथानामस्माकं शूर नृणाम् ॥११॥उदिन्न्वस्य रिच्यतेऽंशो धनं न जिग्युषः ।य इन्द्रो हरिवान्न दभन्ति तं रिपो दक्षं दधाति सोमिनि ॥१२॥मन्त्रमखर्वं सुधितं सुपेशसं दधात यज्ञियेष्वा ।पूर्वीश्चन प्रसितयस्तरन्ति तं य इन्द्रे कर्मणा भुवत् ॥१३॥कस्तमिन्द्र त्वावसुमा मर्त्यो दधर्षति ।श्रद्धा इत्ते मघवन्पार्ये दिवि वाजी वाजं सिषासति ॥१४॥मघोनः स्म वृत्रहत्येषु चोदय ये ददति प्रिया वसु ।तव प्रणीती हर्यश्व सूरिभिर्विश्वा तरेम दुरिता ॥१५॥तवेदिन्द्रावमं वसु त्वं पुष्यसि मध्यमम् ।सत्रा विश्वस्य परमस्य राजसि नकिष्ट्वा गोषु वृण्वते ॥१६॥त्वं विश्वस्य धनदा असि श्रुतो य ईं भवन्त्याजयः ।तवायं विश्वः पुरुहूत पार्थिवोऽवस्युर्नाम भिक्षते ॥१७॥यदिन्द्र यावतस्त्वमेतावदहमीशीय ।स्तोतारमिद्दिधिषेय रदावसो न पापत्वाय रासीय ॥१८॥शिक्षेयमिन्महयते दिवेदिवे राय आ कुहचिद्विदे ।नहि त्वदन्यन्मघवन्न आप्यं वस्यो अस्ति पिता चन ॥१९॥तरणिरित्सिषासति वाजं पुरंध्या युजा ।आ व इन्द्रं पुरुहूतं नमे गिरा नेमिं तष्टेव सुद्र्वम् ॥२०॥न दुष्टुती मर्त्यो विन्दते वसु न स्रेधन्तं रयिर्नशत् ।सुशक्तिरिन्मघवन्तुभ्यं मावते देष्णं यत्पार्ये दिवि ॥२१॥अभि त्वा शूर नोनुमोऽदुग्धा इव धेनवः ।ईशानमस्य जगतः स्वर्दृशमीशानमिन्द्र तस्थुषः ॥२२॥न त्वावाँ अन्यो दिव्यो न पार्थिवो न जातो न जनिष्यते ।अश्वायन्तो मघवन्निन्द्र वाजिनो गव्यन्तस्त्वा हवामहे ॥२३॥अभी षतस्तदा भरेन्द्र ज्यायः कनीयसः ।पुरूवसुर्हि मघवन्सनादसि भरेभरे च हव्यः ॥२४॥परा णुदस्व मघवन्नमित्रान्सुवेदा नो वसू कृधि ।अस्माकं बोध्यविता महाधने भवा वृधः सखीनाम् ॥२५॥इन्द्र क्रतुं न आ भर पिता पुत्रेभ्यो यथा ।शिक्षा णो अस्मिन्पुरुहूत यामनि जीवा ज्योतिरशीमहि ॥२६॥मा नो अज्ञाता वृजना दुराध्यो माशिवासो अव क्रमुः ।त्वया वयं प्रवतः शश्वतीरपोऽति शूर तरामसि ॥२७॥ N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP