संस्कृत सूची|संस्कृत साहित्य|वेदः|ऋग्वेदः|मण्डल ५| सूक्तं ५२ मण्डल ५ सूक्तं १ सूक्तं २ सूक्तं ३ सूक्तं ४ सूक्तं ५ सूक्तं ६ सूक्तं ७ सूक्तं ८ सूक्तं ९ सूक्तं १० सूक्तं ११ सूक्तं १२ सूक्तं १३ सूक्तं १४ सूक्तं १५ सूक्तं १६ सूक्तं १७ सूक्तं १८ सूक्तं १९ सूक्तं २० सूक्तं २१ सूक्तं २२ सूक्तं २३ सूक्तं २४ सूक्तं २५ सूक्तं २६ सूक्तं २७ सूक्तं २८ सूक्तं २९ सूक्तं ३० सूक्तं ३१ सूक्तं ३२ सूक्तं ३३ सूक्तं ३४ सूक्तं ३५ सूक्तं ३६ सूक्तं ३७ सूक्तं ३८ सूक्तं ३९ सूक्तं ४० सूक्तं ४१ सूक्तं ४२ सूक्तं ४३ सूक्तं ४४ सूक्तं ४५ सूक्तं ४६ सूक्तं ४७ सूक्तं ४८ सूक्तं ४९ सूक्तं ५० सूक्तं ५१ सूक्तं ५२ सूक्तं ५३ सूक्तं ५४ सूक्तं ५५ सूक्तं ५६ सूक्तं ५७ सूक्तं ५८ सूक्तं ५९ सूक्तं ६० सूक्तं ६१ सूक्तं ६२ सूक्तं ६३ सूक्तं ६४ सूक्तं ६५ सूक्तं ६६ सूक्तं ६७ सूक्तं ६८ सूक्तं ६९ सूक्तं ७० सूक्तं ७१ सूक्तं ७२ सूक्तं ७३ सूक्तं ७४ सूक्तं ७५ सूक्तं ७६ सूक्तं ७७ सूक्तं ७८ सूक्तं ७९ सूक्तं ८० सूक्तं ८१ सूक्तं ८२ सूक्तं ८३ सूक्तं ८४ सूक्तं ८५ सूक्तं ८६ सूक्तं ८७ मण्डल ५ - सूक्तं ५२ ऋग्वेद फार प्राचीन वेद आहे. यात १० मंडल आणि १०५५२ मंत्र आहेत. ऋग्वेद म्हणजे ऋषींनी देवतांची केलेली प्रार्थना आणि स्तुति. Tags : rigvedavedऋग्वेदवेदसंस्कृत सूक्तं ५२ Translation - भाषांतर प्र श्यावाश्व धृष्णुयार्चा मरुद्भिरृक्वभिः ।ये अद्रोघमनुष्वधं श्रवो मदन्ति यज्ञियाः ॥१॥ते हि स्थिरस्य शवसः सखायः सन्ति धृष्णुया ।ते यामन्ना धृषद्विनस्त्मना पान्ति शश्वतः ॥२॥ते स्यन्द्रासो नोक्षणोऽति ष्कन्दन्ति शर्वरीः ।मरुतामधा महो दिवि क्षमा च मन्महे ॥३॥मरुत्सु वो दधीमहि स्तोमं यज्ञं च धृष्णुया ।विश्वे ये मानुषा युगा पान्ति मर्त्यं रिषः ॥४॥अर्हन्तो ये सुदानवो नरो असामिशवसः ।प्र यज्ञं यज्ञियेभ्यो दिवो अर्चा मरुद्भ्यः ॥५॥आ रुक्मैरा युधा नर ऋष्वा ऋष्टीरसृक्षत ।अन्वेनाँ अह विद्युतो मरुतो जज्झतीरिव भानुरर्त त्मना दिवः ॥६॥ये वावृधन्त पार्थिवा य उरावन्तरिक्ष आ ।वृजने वा नदीनां सधस्थे वा महो दिवः ॥७॥शर्धो मारुतमुच्छंस सत्यशवसमृभ्वसम् ।उत स्म ते शुभे नरः प्र स्यन्द्रा युजत त्मना ॥८॥उत स्म ते परुष्ण्यामूर्णा वसत शुन्ध्यवः ।उत पव्या रथानामद्रिं भिन्दन्त्योजसा ॥९॥आपथयो विपथयोऽन्तस्पथा अनुपथाः ।एतेभिर्मह्यं नामभिर्यज्ञं विष्टार ओहते ॥१०॥अधा नरो न्योहतेऽधा नियुत ओहते ।अधा पारावता इति चित्रा रूपाणि दर्श्या ॥११॥छन्दस्तुभः कुभन्यव उत्समा कीरिणो नृतुः ।ते मे के चिन्न तायव ऊमा आसन्दृशि त्विषे ॥१२॥य ऋष्वा ऋष्टिविद्युतः कवयः सन्ति वेधसः ।तमृषे मारुतं गणं नमस्या रमया गिरा ॥१३॥अच्छ ऋषे मारुतं गणं दाना मित्रं न योषणा ।दिवो वा धृष्णव ओजसा स्तुता धीभिरिषण्यत ॥१४॥नू मन्वान एषां देवाँ अच्छा न वक्षणा ।दाना सचेत सूरिभिर्यामश्रुतेभिरञ्जिभिः ॥१५॥प्र ये मे बन्ध्वेषे गां वोचन्त सूरयः पृश्निं वोचन्त मातरम् ।अधा पितरमिष्मिणं रुद्रं वोचन्त शिक्वसः ॥१६॥सप्त मे सप्त शाकिन एकमेका शता ददुः ।यमुनायामधि श्रुतमुद्राधो गव्यं मृजे नि राधो अश्व्यं मृजे ॥१७॥ N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP