संस्कृत सूची|संस्कृत साहित्य|वेदः|ऋग्वेदः|मण्डल ३| सूक्तं ५ मण्डल ३ सूक्तं १ सूक्तं २ सूक्तं ३ सूक्तं ४ सूक्तं ५ सूक्तं ६ सूक्तं ७ सूक्तं ७ सूक्तं ८ सूक्तं ९ मण्डल ३ - सूक्तं ५ ऋग्वेद फार प्राचीन वेद आहे. यात १० मंडल आणि १०५५२ मंत्र आहेत. ऋग्वेद म्हणजे ऋषींनी देवतांची केलेली प्रार्थना आणि स्तुति. Tags : rigvedavedऋग्वेदवेदसंस्कृत सूक्तं ५ Translation - भाषांतर प्र कारवो मनना वच्यमाना देवद्रीचीं नयत देवयन्तः ।दक्षिणावाड्वाजिनी प्राच्येति हविर्भरन्त्यग्नये घृताची ॥१॥आ रोदसी अपृणा जायमान उत प्र रिक्था अध नु प्रयज्यो ।दिवश्चिदग्ने महिना पृथिव्या वच्यन्तां ते वह्नयः सप्तजिह्वाः ॥२॥द्यौश्च त्वा पृथिवी यज्ञियासो नि होतारं सादयन्ते दमाय ।यदी विशो मानुषीर्देवयन्तीः प्रयस्वतीरीळते शुक्रमर्चिः ॥३॥महान्सधस्थे ध्रुव आ निषत्तोऽन्तर्द्यावा माहिने हर्यमाणः ।आस्क्रे सपत्नी अजरे अमृक्ते सबर्दुघे उरुगायस्य धेनू ॥४॥व्रता ते अग्ने महतो महानि तव क्रत्वा रोदसी आ ततन्थ ।त्वं दूतो अभवो जायमानस्त्वं नेता वृषभ चर्षणीनाम् ॥५॥ऋतस्य वा केशिना योग्याभिर्घृतस्नुवा रोहिता धुरि धिष्व ।अथा वह देवान्देव विश्वान्स्वध्वरा कृणुहि जातवेदः ॥६॥दिवश्चिदा ते रुचयन्त रोका उषो विभातीरनु भासि पूर्वीः ।अपो यदग्न उशधग्वनेषु होतुर्मन्द्रस्य पनयन्त देवाः ॥७॥उरौ वा ये अन्तरिक्षे मदन्ति दिवो वा ये रोचने सन्ति देवाः ।ऊमा वा ये सुहवासो यजत्रा आयेमिरे रथ्यो अग्ने अश्वाः ॥८॥ऐभिरग्ने सरथं याह्यर्वाङ्नानारथं वा विभवो ह्यश्वाः ।पत्नीवतस्त्रिंशतं त्रीँश्च देवाननुष्वधमा वह मादयस्व ॥९॥स होता यस्य रोदसी चिदुर्वी यज्ञंयज्ञमभि वृधे गृणीतः ।प्राची अध्वरेव तस्थतुः सुमेके ऋतावरी ऋतजातस्य सत्ये ॥१०॥इळामग्ने पुरुदंसं सनिं गोः शश्वत्तमं हवमानाय साध ।स्यान्नः सूनुस्तनयो विजावाग्ने सा ते सुमतिर्भूत्वस्मे ॥११॥ N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP