संस्कृत सूची|शास्त्रः|अर्थशास्त्रम्|अध्याय १४| भाग ३ अध्याय १४ भाग १ भाग २ भाग ३ भाग ४ अर्थशास्त्रम् अध्याय १४ - भाग ३ अर्थशास्त्र या ग्रंथात राज्यव्यवस्था, कृषि, न्याय आणि राजनीति वगैरे विभिन्न विषयांवर विचार केला गेला आहे. Tags : chanakyaeconomicskautilyaअर्थशास्त्रकौटिल्यचाणक्यसंस्कृत भाग ३ Translation - भाषांतर (प्रलम्भनम्, तत्र भैषज्य.मन्त्र.योगह्)३.०१मार्जार.उष्ट्र.वृक.वराह.श्व.अवि.द्वागुली.नप्तृ.काक.उलूकानाम् अन्येषां वा निशा.चराणां सत्त्वानाम् एकस्य द्वयोर् बहूनां वा दक्षिणानि वामानि च_अक्षीणि गृहीत्वा द्विधा चूर्णं कारयेत् ॥३.०२ततो दक्षिणं वामेन वामं दक्षिणेन समभ्यज्य रात्रौ तमसि च पश्यति ॥३.०३एक.आम्लकं वराह.अक्षि ख.द्योतः काल.शारिवा ।३.०३एतेन_अभ्यक्त.नयनो रात्रौ रूपाणि पश्यति ॥३.०४/त्रि.रात्र.उपोषितः पुष्येण शस्त्र.हतस्य शूल.प्रोतस्य वा पुंसः शिरः.कपाले मृत्तिकायां यवान् आवास्य_अविक्षीरेण सेचयेत् ॥३.०५ततो यव.विरूढ.मालाम् आबध्य नष्टच्.छाया.रूपश् चरति ॥३.०६त्रि.रत्र.उपोषितः पुष्येण श्व.मार्जार.उलूक.वागुलीनां दक्षिणानि वामानि च_अक्षीणि द्विधा चूर्णं कारयेत् ॥३.०७ततो यथा.स्वम् अभ्यक्त.अक्षो नष्टच्.छाया.रूपश् चरति ॥३.०८त्रि.रात्र.उपोषितः पुष्येण पुरुष.घातिनः काण्डकस्य शलाकाम् अञ्जनीं च कारयेत् ॥३.०९ततो अन्यतमेन_अक्षि.चूर्णेन_अभ्यक्त.अक्षो नष्टच्.छाया.रूपश् चरति ॥३.१०त्रि.रात्र.उपोषितः पुष्येण कालायसीम् अञ्जनीं शलाकां च कारयेत् ॥३.११ततो निशा.चराणां सत्त्वानाम् अन्यतमस्य शिरः.कपालम् अञ्जनेन पूरयित्वा मृतायाः स्त्रिया योनौ प्रवेश्य दाहयेत् ॥३.१२तद् अञ्जनं पुष्येण_उद्धृत्य तस्याम् अञ्जन्यां निदध्यात् ॥३.१३तेन_अभ्यक्त.अक्षो नष्ट.छाया.रूपश् चरति ॥३.१४यत्र ब्राह्मणम् आहित.अग्निं दग्धं दह्यमानं वा पश्येत् तत्र त्रि.रात्र.उपोषितः पुष्येण स्वयं.मृतस्य वाससा प्रसेवं कृत्वा चिता.भस्मना पूरयित्वा तम् आबध्य नष्टच्.छाया.रूपश् चरति ॥३.१५ब्राह्मणस्य प्रेत.कार्ये यो गौर् मार्यते तस्य_अस्थि.मज्ज.चूर्ण.पूर्णा_अहि.भस्त्रा पशूनाम् अन्तर्.धानम् ॥३.१६सर्प.दष्टस्य भस्मना पूर्णा प्रचलाक.भस्त्रा मृगाणाम् अन्तर्.धानम् ॥३.१७उलूक.वागुली.पुच्छ.पुरीष.जान्व्.अस्थि.चूर्ण.पूर्णा_अहि.भस्त्रा पक्षिणाम् अन्तर्.धानम् ॥३.१८इत्य् अष्टाव् अन्तर्.धान.योगः ॥३.१९"बलिं वैरोचनं वन्दे शत.मायं च शम्बरम् ।३.१९भण्डीर.पाकं नरकं निकुम्भं कुम्भम् एव च ॥३.२०देवलं नारदं वन्दे वन्दे सावर्णि.गालवम् ।३.२०एतेषाम् अनुयोगेन कृतं ते स्वापनं महत् ॥३.२१यथा स्वपन्त्य् अजगराः स्वपन्त्य् अपि चमू.खलाः ।३.२१तथा स्वपन्तु पुरुषा ये च ग्रामे कुतूहलाः ॥३.२२भण्डकानां सहस्रेण रथ.नेमि.शतेन च ।३.२२इमं गृहं प्रवेक्ष्यामि तूष्णीम् आसन्तु भाण्डकाः ॥३.२३नमस्.कृत्वा च मनवे बद्ध्वा शुनक.फेलकाः ।३.२३ये देवा देव.लोकेषु मानुषेषु च ब्राह्मणाः ॥३.२४अध्ययन.पारगाः सिद्धा ये च कौलास तापसाः ।३.२४एतेभ्यः सर्व.सिद्धेभ्यः कृतं ते स्वापनं महत् ॥३.२५अतिगच्छन्ति च मय्य् अपगच्छन्तु संहताः ॥३.२६अलिते, वलिते, मनवे स्वाहा ॥३.२७एतस्य प्रयोगः ॥३.२८त्रि.रात्र.उपोषितः कृष्ण.चतुर्.दश्यां पुष्य.योगिन्यां श्व.पाकी.हस्ताद् विलख.अवलेखनं क्रीणीयात् ॥३.२९तन्.माषैः सह कण्डोलिकायां कृत्वा_असंकीर्ण आदहने निखानयेत् ॥३.३०द्वितीयस्यां चतुर्दश्याम् उद्धृत्य कुमार्या पेषयित्वा गुलिकाः कारयेत् ॥३.३१तत एकां गुलिकाम् अभिमन्त्रयित्वा यत्र_एतन मन्त्रेण क्षिपति तत् सर्वं प्रस्वापयति ॥३.३२एतेन_एव कल्पेन श्वा.विधः शल्यकं त्रि.कालं त्रिश्वेतम् असंकीर्ण आदहने निखानयेत् ॥३.३३द्वितीयस्यां चतुर्दश्याम् उद्धृत्य_आदहन.भस्मना सह यत्र.एतेन मन्त्रेण क्षिपति तत् सर्वं प्रस्वापयति ॥३.३४"सुवर्ण.पुष्पीं ब्रह्माणीं ब्रह्माणं च कुश.ध्वजम् ।३.३४सर्वाश् च देवता वन्दे वन्दे सर्वांश् च तापसान् ॥३.३५वशं मे ब्राह्मणा यान्तु भूमि.पालाश् च क्षत्रियाः ।३.३५वशं वैश्याश् च शूद्राश् च वशतां यान्तु मे सदा ॥३.३६स्वाहा - अमिले किमिले वयु.चारे प्रयोगे फक्के वयुह्वे विहाले दन्त.कटके स्वाहा ॥३.३७सुखं स्वपन्तु शुनका ये च ग्रामे कुतूहलाः ।३.३७श्वा.विधः शल्यकं च_एतत् त्रि.श्वेतं ब्रह्म.निर्मितम् ॥३.३८प्रसुप्ताः सर्व.सिद्धा हि एतत् ते स्वापनं कृतम् ।३.३८यावद् ग्रामस्य सीमान्तः सूर्यस्य_उद्गमनाद् इति ॥३.३९स्वाहा" ॥३.४०एतस्य प्रयोगः ॥३.४१श्वा.विधः शल्यकानि त्रि.श्वेतानि, सप्त.रात्र.उपोषितः कृष्ण.चतुर्दश्यां खादिराभिः समिधामिर्(?) अग्निम् एतेन मन्त्रेण_अष्ट.शत.सम्पातं कृत्वा मधु.घृताभ्याम् अभिजुहुयात् ॥३.४२तत एकम् एतेन मन्त्रेण ग्राम.द्वारि गृह.द्वारि वा यत्र निखन्यते तत् सर्वं प्रस्वापयति ॥३.४३"बलिं वैरोचनं वन्दे शतमायं च शम्बरम् ।३.४३निकुम्भं नरकं कुम्भं तन्तु.कच्छं महा.असुरम् ॥३.४४अर्मालवं प्रमीलं च मण्ड.उलूकं घट.उबलम् ।३.४४कृष्ण.कंस.उपचारं च पौलोमीं च यशस्विनीम् ॥३.४५अभिमन्त्रयित्वा गृह्णामि सिद्ध्य्.अर्थं शव.शारिकाम् ।३.४५जयतु जयति च नमः शलक.भूतेभ्यः स्वाहा ॥३.४६सुखं स्वपन्तु शुनका ये च ग्रामे कुतूहलाः ।३.४६सुखं स्वपन्तु सिद्ध.अर्था यम् अर्थं मार्गयामहे ।३.४६एगयावद् अस्तम् अयाद् उदयो यावद् अर्थं फलं मम ॥३.४७इति स्वाहा ॥३.४८एतस्य प्रयोगः ॥३.४९चतुर्.भक्त.उपवासी कृष्ण.चतुर्दश्याम् असंकीर्ण आदहने बलिं कृत्वा_एतेन मन्त्रेण शव.शारिकां गृहीत्वा पौत्री.पोट्टलिकं बध्नीयात् ॥३.५०तन्.मध्ये श्वा.विधः शल्यकेन विद्ध्वा यत्र_एतेन मन्त्रेण निखन्यते तत् सर्वं प्रस्वापयति ॥३.५१"उपैमि शरणं च_अग्निं दैवतानि दिशो दश ।३.५१अपयान्तु च सर्वाणि वशतां यान्तु मे सदा ॥३.५२स्वाहा" ॥३.५३एतस्य प्रयोगः ॥३.५४त्रि.रात्र.उपोस्षितः पुष्येण शर्करा एक.विंशति.सम्पातं कृत्वा मधु.घृताभ्याम् अभिजुहुयात् ॥३.५५ततो गन्ध.माल्येन पूजयित्वा निखानयेत् ॥३.५६द्वितीयेन पुष्येण_उद्धृत्य_एकां शर्कराम् अभिमन्त्रयित्वा कपाटम् आहन्यात् ॥३.५७अभ्यन्तर्म् चतसृणां शर्कराणां द्वारम् अपाव्रियते ॥३.५८चतुर्.भक्त.उपवासी कृष्ण.चतुर्दश्यां भग्नस्य पुरुषस्य_अस्थ्ना ऋषभं कारयेत्, अभिमन्त्रयेच् च_एतेन ॥३.५९द्वि.गो.युक्तं गो.यानम् आहृतं भवति ॥३.६०ततः परम.आकाशे विरामति ॥३.६१रवि.सगन्धः परिघमति सर्वं पृणाति ॥३.६२"चण्डाली.कुम्भी.तुम्ब.कटुक.सार.ओघः सनारी.भगो_असि - स्वाहा ॥३.६३ताल.उद्घाटनं प्रस्वापनं च ॥३.६४त्रि.रात्र.उपोषितः पुष्येण शस्त्र.हतस्य शूल.प्रोतस्य वा पुंसः शिरः.कपाले मृत्तिकायां तुवरी.रावास्य_उदकेन सेचयेत् ॥(?)३.६५जातानां पुष्येण_एव गृहीत्वा रज्जुकां वर्तयेत् ॥३.६६ततः सज्यानां धनुषां यन्त्राणां च पुरस्ताच् छेदनं ज्याच्.छेदनं करोति ॥३.६७उदक.अहि.भस्त्राम् उच्छ्वास.मृत्तिकया स्त्रियाः पुरुषस्य वा पूरयेत्, नासिका.बन्धनं मुख.ग्रहश् च ॥३.६८वराह.भस्त्राम् उच्छ्वासमृत्तिकया पूरयित्वा मर्कट.स्नायुना_अवबध्नीयात्, आनाह.कारणम् ॥३.६९कृष्ण.चतुर्दश्यां शस्त्र.हताया गोः कपिलायाः पित्तेन राज.वृक्षमयीम् अमित्र.प्रतिमाम् अञ्ज्यात्, अन्धी.करणम् ॥३.७०चतुर्.भक्त.उपवासी कृष्ण.चतुर्दश्यां बलिं कृत्वा शूल.प्रोतस्य पुरुषस्य_अस्थ्ना कीलकान् कारयेत् ॥३.७१एतेषाम् एकः पुरीषे मूत्रे वा निखात आनाहं करोति, पदे_अस्य_आसने वा निखातः शोषेण मारयति, आपणे क्षेत्रे गृहे वा वृत्तिच्.छेदं करोति ॥३.७२एतेन_एव कल्पेन विद्युद्.दग्धस्य वृक्षस्य कीलका व्याख्याताः ॥३.७३पुनर् नवम् अवाचीनं निम्बः काम.मधुश् च यः ।३.७३कपि.रोम मनुष्य.अस्थि बद्ध्वा मृतक.वाससा ॥३.७४निखन्यते गृहे यस्य दृष्ट्वा वा यत् पदं नयेत् ।३.७४सपुत्र.दारः सधन.स्त्रीन् पक्षान् न_अतिवर्तते ॥३.७५पुनर् नवम् अवाचीनं निम्बः काम.मधुश् च यः ।३.७५स्वयं.गुप्ता मनुष्य.अस्थि पदे यस्य निखन्यते ॥३.७६द्वारे गृहस्य सेनाया ग्रामस्य नगरस्य वा ।३.७६च्द्/सपुत्र.दारः सधन.स्त्रीन् पक्षान् न_अतिवर्तते ॥३.७७अज.मर्कट.रोमाणि मार्जार.नकुलस्य च ।३.७७ब्राह्मणानां श्व.पाकानां काक.उलूकस्य च_आहरेत् ।३.७७एतेन विष्ठा_अवक्षुण्णा सद्य उत्साद.कारिका ॥३.७८प्रेत.निर्मालिका किण्वं रोमाणि नकुलस्य च ।३.७८वृश्चिक.आल्य्(?).अहि.कृत्तिश् च पदे यस्य निखन्यते ।३.७८चछभवत्य् अपुरुषः सद्यो यावत् तन् न_अपनीयते ॥३.७९त्रि.रात्र.उपोषितः पुष्येण शस्त्र.हतस्य शूल.प्रोतस्य वा पुंसः शिरः.कपाले मृत्तिकायां गुञ्जा आवास्य_उदकेन सेचयेत् ॥३.८०जातानाम् अमावास्यायां पौर्णमास्यां वा पुष्य.योगिन्यां गुञ्ज.वल्लीर् ग्राहयित्वा मण्डलिकानि कारयेत् ॥३.८१तेष्व् अन्न.पान.भाजनानि न्यस्तानि न क्षीयन्ते ॥३.८२रात्रि.प्रेक्षायां प्रवृत्तायां प्रदीप.अग्निषु मृत.धेनोः स्तनान् उत्कृत्य दाहयेत् ॥३.८३दग्धान् वृष.मूत्रेण पेषयित्वा नव.कुम्भम् अन्तर्.लेपयेत् ॥३.८४तं ग्रामम् अपसव्यं परिणीय यत् तत्र न्यस्तं नव.नीतम् एषां तत् सर्वम् आगच्छति ॥३.८५कृष्ण.चतुर्दश्यां पुष्य.योगिन्यां शुनो लग्नकस्य योनौ कालायसीं मुद्रिकां प्रेषयेत् ॥३.८५तां स्वयं पतितां गृह्णीयात् ॥३.८७तया वृक्ष.फलान्य् आकारितान्य् आगच्छन्ति ॥३.८८मन्त्र.भैषज्य.सम्युक्ता योगा माया.कृताश् च ये ।३.८८उपहन्याद् अमित्रांस् तैः स्व.जनं च_अभिपालयेत् ॥ N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP