संस्कृत सूची|शास्त्रः|अर्थशास्त्रम्|अध्याय १४| भाग १ अध्याय १४ भाग १ भाग २ भाग ३ भाग ४ अर्थशास्त्रम् अध्याय १४ - भाग १ अर्थशास्त्र या ग्रंथात राज्यव्यवस्था, कृषि, न्याय आणि राजनीति वगैरे विभिन्न विषयांवर विचार केला गेला आहे. Tags : chanakyaeconomicskautilyaअर्थशास्त्रकौटिल्यचाणक्यसंस्कृत भाग १ Translation - भाषांतर (पर.बल.घात.प्रयोगह्)१.०१चातुर्वर्ण्य.रक्षा.अर्थम् औपनिषदिकम् अधर्मिष्ठेषु प्रयुञ्जीत ॥१.०२काल.कूट.आदिर् विष.वर्गः श्रद्धेय.देश.वेष.शिल्प.भाषा.अभिजन.अपदेशैः कुब्ज.वामन.किरात.मूक.बधिर.जड.अन्धच्.छद्मभिर् म्लेच्छ.जातीयैर् अभिप्रेतैः स्त्रीभिः पुम्भिश् च पर.शरीर.उपभोगेष्व् अवधातव्यः ॥१.०३राज.क्रीडा.भाण्ड.निधान.द्रव्य.उपब्भोगेषु गूढाः शस्त्र.निधानं कुर्युः, सत्त्र.आजीविनश् च रात्रि.चारिणो_अग्नि.जीविनश् च_अग्नि.निधानम् ॥१.०४चित्र.भेक.कौण्डिन्यक.कृकण.पञ्च.कुष्ठ.शत.पदी.चूर्णम् उच्चि.दिण्ग.कम्बली.शत.कन्द(कर्दम?).इध्म.कृकलास.चूर्णं गृह.गोलिक.अन्ध.अहि.कक्र.कण्टक.पूति.कीट.गोमारिका.चूर्णं भल्लातक.अवल्गु.जर.सम्युक्तं सद्यः.प्राण.हरम्, एतेषां वा धूमः ॥१.०५कीटो वा_अन्यतमस् तप्तः कृष्ण.सर्प.प्रियङ्गुभिः ।१.०५शोषयेद् एष सम्योगः सद्यः.प्राण.हरो मतः ॥१.०६धाम.अर्गव.यातु.धान.मूलं भल्लातक.पुष्प.चूर्ण.युक्तम् आर्धमासिकः ॥१.०७व्याघातक.मूलं भल्लातक.पुष्प.चूर्ण.युक्तं कीट.योगो मासिकः ॥१.०८कला.मात्रं पुरुषाणाम्, द्वि.गुणं खर.अश्वानाम्, चतुर्.गुणं हस्त्य्.उष्ट्राणाम् ॥१.०९शत.कर्दम.उच्चिदिङ्ग.कर.वीर.कटु.तुम्बी.मत्स्य.धूमो मदन.कोद्रव.पलालेन हस्ति.कर्ण.पलाश.पलालेन वा प्रवात.अनुवाते प्रणीतो यावच् चरति तावन् मारयति ॥१.१०पूकि.कीट.मस्त्य.कटु.तुम्बी.शत.कर्दम.इध्म.इन्द्र.गोप.चूर्णं पूति.कीट.क्षुद्र.आराला.हेम.विदारी.चूर्णं वा बस्त.शृङ्ग.खुर.चूर्ण.युक्तम् अन्धी.करो धूमः ॥१.११पूति.करञ्ज.पत्त्र.हरि.ताल.मनः.शिला.गुञ्ज.आरक्त.कार्पास.पलाल.अन्य.आस्फोट.काच.गो.शकृद्.रस.पिष्टम् अन्धी.करो धूमः ॥१.१२सर्प.निर्मोकं गो.अश्व.पुरीषम् अन्ध.अहिक.शिरश् च_अन्धी.करो धूमः ॥१.१३पारावत.प्लवक.क्रव्य.अदानां हस्ति.नर.वराहाणां च मूत्र.पुरीषं कासीस.हिङ्गु.यव.तुष.कण.तण्डुलाः कार्पास.कुटज.कोश.अतकीनां च बीजानि गो.मूत्रिका.भाण्डी.मूलं निम्ब.शिग्रु.फणिर्ज.काक्षीव.पीलुक.भङ्गः सर्प.शफरी.चर्म हस्ति.नख.शृङ्ग.चूर्णम् इत्य् एष धूमो मदन.कोद्रव.पलालेन हस्ति.कर्ण.पलाश.पलालेन वा प्रणीतः प्रत्येकशो यावच् चरति तावन् मारयति ॥१.१४काली.कुष्ठ.नड.शतावली.मूलं सर्प.प्रचलाक.कृकण.पञ्च.कुष्ठ.चूर्णं वा धूमः पूर्व.कल्पेन_आर्द्र.शुष्क.पलालेन वा प्रणीतः संग्राम.अवतरण.अवस्कन्दन.संकुलेषु कृत.नेजन.उदक.अक्षि.प्रतीकारैः प्रणीतः सर्व.प्राणिनां नेत्रघ्नः ॥१.१५शारिका.कपोत.बक.बलाका.लेण्डम् अर्क.अक्षि.पीलुक.स्नुहि.क्षीर.पिष्टम् अन्धी.करणम् अञ्जनम् उदक.दूषणं च ॥१.१६यवक.शालि.मूल.मदन.फल.जाती.पत्त्र.नर.मूत्र.योगः प्लक्ष.विदारी.मूल.युक्तो मूक.उदुम्बर.मदन.कोद्रव.क्वाथ.युक्तो हस्ति.कर्ण.पलाश.क्वाथ.युक्तो वा मदन.योगः ॥१.१७शृङ्गि.गौतम.वृक.कण्टक.अर.मयूर.पदी.योगो गुञ्जा.लाङ्गली.विष.मूलिक.इङ्गुदी.योगः कर.वीर.अक्षि.पीलुक.अर्क.मृग.मारणी.योगो मद्न.कोद्रव.क्वाथ.युक्तो हस्ति.कर्ण.पलाश.क्वाथ.युक्तो वा मदन.योगः ॥१.१८समस्ता वा यवस.इन्धन.उदक.दूषणाः ॥१.१९कृत.कण्डल.कृकलास.गृह.गोलिक.अन्ध.अहिक.धूमो नेत्र.वधम् उन्मादं च करोति ॥१.२०कृकलास.गृह.गोलिका.योगः कुष्ठ.करः ॥१.२१स एव चित्रम् एक.अन्त्र.मधु.युक्तः प्रमेहम् आपादयति, मनुष्य.लोहित.युक्तः शोषम् ॥१.२२दूषी.विषं मदन.कोद्रव.चूर्णम् अपजिह्विका.योगः ॥१.२३मातृ.वाहक.अञ्जलि.कार.प्रचलाक.भेक.अक्षि.पीलुक.योगो विषूचिका.करः ॥१.२४पञ्च.कुष्ठक.कौण्डिन्य.कराज.वृक्ष.पुष्प.मधु.योगो ज्वर.करः ॥१.२५भासन.कुल.जिह्वा.ग्रन्थिका.योगः खरी.क्षीर.पिष्टो मूक.बधिर..करो मास.अर्ध.मासिकः ॥१.२६कला.मात्रं पुरुषाणाम् इत् समानं पूर्वेण ॥१.२७भङ्ग.क्वाथ.उपनयनम् औषधानाम्, चूर्णं प्राण.भृताम्, सर्वेषां वा क्वाथ.उपनयनम्, एवं वीर्यवत्तरं भव्ति ॥१.२८इति योग.सम्पत् ॥१.२९शाल्मली विदारी.धान्य.सिद्धो मूल.वत्स.नाभ.सम्युक्तश् चुच्छुन्दरी.शोणित.प्रलेपेन दिग्धो बाणो यं विध्यति स विद्धो_अन्यान् दश.पुरुषान् दशति, ते दष्टा दश_अन्यान् दशन्ति पुरुषान् ॥१.३०बल्लातक.यातु.धानाव.अनुधा.मार्गव.बाणानां पुष्पैर् एलक.अक्षि.गुग्गुलु.हालाहलानां च कषायं बस्त.नर.शोणित.युक्तं दंश.योगः ॥१.३१ततो_अर्ध.धरणिको योगः सक्तु.पिण्याकाभ्याम् उदके प्रणीतो धनुः.शत.आयामम् उदक.आशयं दूषयति ॥१.३२मत्स्य.परम्परा ह्य् एतेन दष्टा_अभिमृष्टा वा विषी.भवति, यश् च_एतद् उदकं पिबति स्पृशति वा ॥१.३३रक्त.श्वेत.सर्षपैर् गोधा त्रि.पक्षम् उष्ट्रिकायां भूमौ निखातायां निहिता वध्येन_उद्धृता यावत् पश्यति तावन् मारयति, कृष्ण.सर्पो वा ॥१.३४विद्युत्.प्रदग्धो_अङ्गारो ज्वालो वा विद्युत्.प्रदग्धैः काष्ठैर् गृहीतश् च_अनुवासितः कृत्तिकासु भरणीषु वा रौद्रेण कर्मणा_अभिहुतो_अग्निः प्रणीतश् च निस्प्रतीकारो दहति ॥१.३५कर्माराद् अग्निम् आहृत्य क्षौद्रेण जुहुयात् पृथक् ।१.३५सुरया शौण्डिकाद् अग्निं मार्गतो_अग्निं घृतेन च ॥१.३६माल्येन च_एक.पत्न्य्.अग्निं पुंश्चल्य्.अग्निं च सर्षपैः ।१.३६दध्ना च सूतिकास्व् अग्निम् आहित.अग्निं च तण्डुलैः ॥१.३७चण्डाल.अग्निं च मांसेन चित.अग्निं मानुषेण च ॥१.३७समस्तान् बस्त.वसया मानुषेण ध्रुवेण च ॥१.३८जुहुयाद् अग्नि.मन्त्रेण राज.वृक्षस्य दारुभिः ।१.३८एष निष्प्रतिकारो_अग्निर् द्विषतां नेत्र.मोहनः ॥१.३९अदिते नमस्ते, अनुमते नमस्ते, सरस्वति नमस्ते, देव सवितर् नमास्ते ॥१.४०अग्नये स्वाहा, सोमाय स्वाहा, भूः स्वाहा भुवः स्वाहा ॥ N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP