संस्कृत सूची|शास्त्रः|अर्थशास्त्रम्|अध्याय १३| भाग ३ अध्याय १३ भाग १ भाग २ भाग ३ भाग ४ भाग ५ अर्थशास्त्रम् अध्याय १३ - भाग ३ अर्थशास्त्र या ग्रंथात राज्यव्यवस्था, कृषि, न्याय आणि राजनीति वगैरे विभिन्न विषयांवर विचार केला गेला आहे. Tags : chanakyaeconomicskautilyaअर्थशास्त्रकौटिल्यचाणक्यसंस्कृत भाग ३ Translation - भाषांतर ३.०१श्रेणी.मुख्यम् आप्तं निष्पातयेत् ॥३.०२स परम् आश्र्त्य पक्ष.अपदेशेन स्व.विषयात् साचिव्य.कर.सहाय.उपादानं कुर्वीत ॥३.०३कृत.अपसर्प.उपचयो वा परम् अनुमान्य स्वामिनो दूष्य.ग्रामं वीत.हस्त्य्.अश्वं दूष्य.अमात्यं दण्डम् आक्रन्दं वा हत्वा परस्य प्रेषयेत् ॥३.०४जन.पद.एक.देशं श्रेणीम् अटवीं वा सहाय.उपादान.अर्थं संश्रयेत ॥३.०५विश्वासम् उपगतः स्वामिनः प्रेषयेत् ॥३.०६ततः स्वामी हस्ति.बन्धनम् अटवी.घातं वा_अपदिश्य गूढम् एव प्रहरेत् ॥३.०७एतेन_अमात्य.अटविका व्याख्याताः ॥३.०८शत्रुणा मैत्रीं कृत्वा_अमात्यान् अवक्षिपेत् ॥३.०९ते तत्.शत्रोः प्रेषयेयुः "भर्तारं नः प्रसादय" इति ॥३.१०स यं दूतं प्रेषयेत्, तम् उपालभेत "भर्ता ते माम् अमात्यैर् भेदयति, न च पुनर् इह_आगन्तव्यम्" इति ॥३.११अथ_एकम् अमात्यं निष्पातयेत् ॥३.१२स परम् आश्रित्य योग.अपसर्प.अपरक्त.दूष्यान् अशक्तिमतः स्तेन_आटविकान् उभय.उपघातकान् वा परस्य_उपहरेत् ॥३.१३आप्त.भाव.उपगतः प्रवीर.पुरुष.उपघातम् अस्य_उपहरेद् अन्त.पालम् आटविकं दण्ड.चारिणं वा "दृढम् असौ च_असौ च ते शत्रुणा संधत्ते" इति ॥३.१४अथ पश्चाद् अभित्यक्त.शासनैर् एनान् घातयेत् ॥३.१५दण्ड.बल.व्यवहारेण वा शत्रुम् उद्योज्य घातयेत् ॥३.१६कृत्य.पक्ष.उपग्रहेण वा परस्य.अमित्रं राजानम् आत्मन्य् अपकारयित्वा_अभियुञ्जीत ॥३.१७ततः परस्य प्रेषयेत् "असौ ते वैरी मम_अपकरोति, तम् एहि सम्भूय हनिष्यावः, भूमौ हिरण्ये वा ते परिग्रहः" इति ॥३.१८प्रतिपन्नम् अभिसत्कृत्य_आगतम् अवस्कन्देन प्रकाशयुद्धेन वा शत्रुणा घातयेत् ॥३.१९अभिविश्वासन.अर्थं भूमि.दान.पुत्र.अभिषेक.रक्षा.अपदेशेन वा ग्राहयेत् ॥३.२०अविषह्यम् उपांशु.दण्डेन वा घातयेत् ॥३.२१स चेद् दण्डं दद्यान् न स्वयम् आगच्छेत् तम् अस्य वैरिणा घातयेत् ॥३.२२दण्डेन वा प्रयातुम् इच्छेन् न विजिगीषुणा तथा_अप्य् एनम् उभयतः.सम्पीडनेन घातयेत् ॥३.२३अविश्वस्तो वा प्रत्येकशो यातुम् इच्छेद् राज्य.एक.देशं वा यातव्यस्य_आदातु.कामः, तथा_अप्य् एनं वैरिणा सर्व.संदोहेन वा घातयेत् ॥३.२४वैरिणा वा सक्तस्य दण्ड.उपनयेन मूलम् अन्यतो हारयेत् ॥३.२५शत्रु.भूम्या वा मित्रं पणेत, मित्र.भूम्या वा शत्रुम् ॥३.२६ततः शत्रु.भूमि.लिप्सायां मित्रेण_आत्मन्य् अपकारयित्वा_अभियुञ्जीत - इति समानाः पूर्वेण सर्व एव योगाः ॥३.२७शत्रुं वा मित्र.भूमि.लिप्सायां प्रतिपन्नं दण्डेन_अनुगृह्णीयात् ॥३.२८ततो मित्र.गतम् अतिसंदध्यात् ॥३.२९कृत.प्रतिविधानो वा व्यसनम् आत्मनो दर्शयित्वा मित्रेण_अमित्रम् उत्साहयित्वा_आत्मानम् अभियोजयेत् ॥३.३०ततः सम्पीडनेन घातयेत्, जीव.ग्राहेण वा राज्य.विनिमयं कारयेत् ॥३.३१मित्रेण_आश्रितश् चेत्_शत्रुर् अग्राह्ये स्थातुम् इच्छेत् सामन्त.आदिभिर् मूलम् अस्य हारयेत् ॥३.३२दण्डेन वा त्रातुम् इछेत् तम् अस्य घातयेत् ॥३.३३तौ चेन् न भिद्येयातां प्रकाशम् एव_अन्योन्य.भूम्या पणेत ॥३.३४ततः परस्परं मित्र.व्यञ्जना वा उभय.वेतना वा दूतान् प्रेषयेयुः "अयं ते राजा भूमिं लिप्सते शत्रु.संहितः" इति ॥३.३५तयोर् अन्यतरो जात.आशङ्क.आरोषः, पूर्ववच् चेष्तेत ॥३.३६दुर्ग.राष्ट्र.दण्ड.मुख्यान् वा कृत्य.पक्ष.हेतुभिर् अभिविख्याप्य प्रव्राजयेत् ॥३.३७ते युद्ध.अवस्कन्द.अवरोध.व्यसनेषु शत्रुम् अतिसंदध्युः ॥३.३८भेदं वा_अस्य स्व.वर्गेभ्यः कुर्युः ॥३.३९अभित्यक्त.शासनैः प्रतिसमानयेयुः ॥३.४०लुब्धक.व्यञ्जना वा मांस.विक्रयेण द्वाह्स्था दौवारिक.अपाश्रयाश् चोर.अभ्यागमं परस्य द्विस् त्रिर् इति निवेद्य लब्ध.प्रत्यया भर्तुर् अनीकं द्विधा निवेश्य ग्राम.वधे_अवस्कन्दे च द्विषतो ब्रूयुः "आसन्नश् चोर.गणः, महांश् च_आक्रन्दः, प्रभूतं सैन्यम् आगच्छतु" इति ॥३.४१तद् अर्पयित्वा ग्राम.घात.दण्डस्य सैन्यम् इतरद् आदाय रात्रौ दुर्ग.द्वारेषु ब्रूयुः "हतश् चोर.गणः, सिद्ध.यात्रम् इदं सैन्यम् आगतम्, द्वारम् अपाव्रियताम्" इति ॥३.४२पूर्व.प्रणिहिता वा द्वाराणि दद्युः ॥३.४३तैः सह प्रहरेयुः ॥३.४४कारु.शिल्पि.पाषण्ड.कुशीलव.वैदेहक.व्यञ्जनान् आयुधीयान् व्वा पर.दुर्गे प्रणिदध्यात् ॥३.४५तेषां गृह.पतिक.व्यञ्जनाः काष्ठ.तृण.धान्य.पण्य.शकटैः प्रहरण.आवरणान्य् अभिहरेयुः, देव.ध्वज.प्रतिमाभिर् वा ॥३.४६ततस् तद्.व्यञ्जनाः प्रमत्त.वधम् अवस्कन्द.प्रतिग्रहम् अभिप्रहरणं पृष्ठतः शङ्ख.दुन्दुभि.शब्देन वा "प्रविष्टम्" इत्य् आवेदयेयुः ॥३.४७प्राकार.द्वार.अट्टालक.दानम् अनीक.भेदं घातं वा कुर्युः ॥३.४८सार्थ.गण.वासिभिर् आतिवाहिकैः कन्या.वाहिकैर् अश्व.पण्य.व्यवहारिभिर् उपकरण.हारकैर् धान्य.क्रेतृ.विक्रेतृभिर् वा प्रव्रजित.लिङ्गिभिर् दूतैश् च दणड्.अतिनयनम्, संधि.कर्म.विश्वासन.अर्थम् ॥३.४९इति राज.अपसर्पाः ॥३.५०एत एव_अटवीनाम् अपसर्पाः कण्टक.शोधन.उक्ताश् च ॥३.५१व्रजम् अटव्य्.आसन्नम् अपसर्पाः सार्थं वा चोरैर् घातयेयुः ॥३.५२कृत.संकेतम् अन्न.पानं च_अत्र मदन.रस.विद्धं वा कृत्वा_अपगच्छेयुः ॥३.५३गो.पालक.वैदेहकाश् च ततश् चोरान् गृहीत.लोप्त्र.भारान् मदन.रस.विकार.काले_अवस्कन्दयेयुः ॥३.५४संकर्षण.दैवतीयो वा मुण्ड.जटिल.व्यञ्जनः प्रहवण.कर्मणा मदन.रस.योगेन_अतिसंदध्यात् ॥३.५५अथ_अवस्कन्दं दद्यात् ॥३.५६शौण्डिक.व्यञ्जनो वा दैवत.प्रेत.कार्य.उत्सव.समाजेष्व् आटविकान् सुरा.विक्रय.उपायन.निमित्तं मदन.रस.योगेन_अतिसंदध्यात् ॥३.५७अथ_अवस्कन्दं दद्यात् ॥३.५८ग्राम.घात.प्रविष्टां वा विक्षिप्य बहुधा_अटवीम् ।३.५८घातयेद् इति चोराणाम् अपसर्पाः प्रकीर्तिताः ॥(पर्युपासन.कर्म - अवमर्दह्) N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP