संस्कृत सूची|शास्त्रः|अर्थशास्त्रम्|अध्याय १३| भाग २ अध्याय १३ भाग १ भाग २ भाग ३ भाग ४ भाग ५ अर्थशास्त्रम् अध्याय १३ - भाग २ अर्थशास्त्र या ग्रंथात राज्यव्यवस्था, कृषि, न्याय आणि राजनीति वगैरे विभिन्न विषयांवर विचार केला गेला आहे. Tags : chanakyaeconomicskautilyaअर्थशास्त्रकौटिल्यचाणक्यसंस्कृत भाग २ Translation - भाषांतर २.०१मुण्डो जटिलो वा पर्वत.गुह.आवासी चतुर्.वर्ष.शत.आयुर् ब्रुवाणः प्रभूत.जटिल.अन्ते.वासी नगर.अभ्याशे तिष्ठेत् ॥२.०२शिष्याश् च_अस्य मूल.फल.उपगमनैर् अमात्यान् राजानं च भगवद्.दर्शनाय योजयेयुः ॥२.०३समागताश् च राज्ञा पूर्व.राज.देश.अभिज्ञानानि कथयेत्, "शते शते च वर्षाणां पूर्णे_अहम् अग्निं प्रविश्य पुनर् बालो भवामि, तद् इह भवत् समीपे चतुर्थम् अग्निं प्रवेक्ष्यामि, अवश्यं मे भवान् मानयितव्यः, त्रीन् वरान् वृणीष्ण(वृषीष्व)" इति ॥२.०४प्रतिपन्नं ब्रूयात् "सप्त.रात्रम् इह सपुत्र.दारेण प्रेक्षा.प्रहवण.पूर्वं वस्तव्यम्" इति ॥२.०५वसन्तम् अवस्कन्देत ॥२.०६मुण्डो वा जटिलो वा स्थानिक.व्यञ्जनः प्रभूत.जटिल.अन्ते.वासी वस्त.शोणित.दिग्धां वेणु.शलाकां सुवर्ण.चूर्णेन_अवलिप्य वल्मीके निदध्याद् उपजिह्विक.अनुसरण.अर्थम्, स्वर्ण.नालिकां वा ॥२.०७ततः सत्त्री राज्ञः कथयेत् "असौ सिद्धः पुष्पितं निधिं जानाति" इति ॥२.०८स राज्ञा पृष्ठः "तथा" इति ब्रूयात्, तच् च_अभिज्ञानं दर्शयेत्, भूयो वा हिरण्यम् अन्तर्.आधाय ॥२.०९ब्रूयाच् च_एनं "नाग.रक्षितो_अयं निधिः प्रणिपात.साध्यः" इति ॥२.१०प्रतिपन्नं ब्रूयात् "सप्त.रात्रम्" इति समानम् ॥२.११स्थानिक.व्यञ्जनं वा रात्रौ तेजन.अग्नि.युक्तम् एकान्ते तिष्ठन्तं सत्त्रिणः क्रम.अभीनीतं राज्ञः कथयेयुः "असौ सिद्धः सामेधिकः" इति ॥२.१२तं राजा यम् अर्थं याचेत तम् अस्य करिष्यमाणः "सप्त.रात्रम्" इति समानम् ॥२.१३सिद्ध.व्यञ्जनो वा राजानं जम्भक.विद्याभिः प्रलोभयेत् ॥२.१४तं राजा_इति समानम् ॥२.१५सिद्ध.व्यञ्जनो वा देश.देवताम् अभ्यर्हिताम् आश्रित्य प्रहवणैर् अभीक्ष्णं प्रकृति.मुख्यान् अभिसंवास्य क्रमेण राजानम् अतिसंदध्यात् ॥२.१६जटिल.व्यञ्जनम् अन्तर्.उदक.वासिनं वा सर्व.श्वेतं तट.सुरुङ्गा.भूमि.गृह.अपसरणं वरुणं नाग.राजं वा सत्त्रिणः क्रम.अभिनीतं राज्ञः कथयेयुः ॥२.१७तं राजा_इति समानम् ॥२.१८जन.पद.अन्ते.वासी सिद्ध.व्यञ्जनो वा राजानं शत्रु.दर्शनाय योजयेत् ॥२.१९प्रतिपन्नं बिम्बं कृत्वा शत्रुम् आवाहयित्वा निरुद्धे देशे घातयेत् ॥२.२०अश्व.पण्य.उपयाता वैदेहक.व्यञ्जनाः पण्य.उपायन.निमित्तम् आहूय राजानं पण्य.परीक्षायाम् आसक्तम् अश्व.व्यतिकीर्णं वा हन्युः, अश्वैश् च प्रहरेयुः ॥२.२१नगर.अभ्याशे वा चैत्यम् आरुह्य रात्रौ तीक्ष्णाः कुम्भेषु नालीन् वा विदुलानि धमन्तः "स्वामिनो मुख्यानां वा मांसानि भक्षयिष्यामः, पूजा नो वर्तताम्" इत्य् अव्यक्तं ब्रूयुः ॥२.२२तद् एषां नैमित्तिक.मौहूर्तिक.व्यञ्जनाः ख्यापयेयुः ॥२.२३मङ्गल्ये वा ह्रदे तटाक.मध्ये वा रात्रौ तेजन.तैल.अभ्यक्ता नाग.रूपिणः शक्ति.मुसलान्य् अयोमयानि निष्पेषयन्तस् तथैव ब्रूयुः ॥२.२४ऋक्ष.चर्म.कञ्चुकिनो वा_अग्नि.धूम.उत्सर्ग.युक्ता रक्षो.रूपं वहन्तस् त्रिर् अपसव्यं नगरं कुर्वाणाः श्व.सृगाल.वाशित.अन्तरेषु तथैव ब्रूयुः ॥२.२५चैत्य.दैवत.प्रतिमां वा तेजन.तैलेन_अभ्र.पटलच्.छन्नेन_अग्निना वा रात्रौ प्रज्वाल्य तथैव ब्रूयुः ॥२.२६तद् अन्ये ख्यापयेयुः ॥२.२७दैवत.प्रतिमानाम् अभ्यर्हितानां वा शोणितेन प्रस्रावम् अतिमात्रं कुर्युः ॥२.२८तद् अन्ये देव.रुधिर.संस्रावे संग्रामे पराजयं ब्रूयुः ॥२.२९संधि.रात्रिषु श्मशान.प्रमुखे वा चैत्यम् ऊर्ध्व.भक्षितैर् मनुष्यैः प्ररूपयेयुः ॥२.३०ततो रक्षो.रूपी मनुष्यकं याचेत ॥२.३१यश् च_अत्र शूर.वादिको_अन्यतमो वा द्रष्टुम् आगच्छेत् तम् अन्ये लोह.मुसलैर् हन्युः, यथा रक्षोभिर् हत इति ज्ञायेत ॥२.३२तद् अद्भुतं राज्ञस् तद्.दर्शिनः सत्त्रिणश् च कथयेयुः ॥२.३३ततो नैमितित्क.मौहूर्तिक.व्यञ्जनाः शान्तिं प्रायश्.चित्तं ब्रूयुः "अन्यथा महद् अकुशलं राज्ञो देशस्य च" इति ॥२.३४प्रतिपन्नं "एतेषु सप्त.रात्रम् एक.एक.मन्त्र.बलि.होमं स्वयं राज्ञा कर्तव्यम्" इति ब्रूयुः ॥२.३५ततः समानम् ॥२.३६एतान् वा योगान् आत्मनि दर्शयित्वा प्रतिकुर्वीत परेषाम् उपदेश.अर्थम् ॥२.३७ततः प्रयोजयेद् योगान् ॥२.३८योग.दर्शन.प्रतीकारेण वा कोश.अभिसंहरणं कुर्यात् ॥२.३९हस्ति.कामं वा नाग.वन.पाला हस्तिना लक्षण्येन प्रलोभयेयुः ॥२.४०प्रतिपन्नं गहनम् एक.अयनं वा_अतिनीय घातयेयुः, बद्ध्वा वा_अपहरेयुः ॥२.४१तेन मृगया.कामो व्याख्यातः ॥२.४२द्रव्य.स्त्री.लोलुपम् आढ्य.विधवाभिर् वा परम.रूप.यौवनाभिः स्त्रीभिर् दाय.निक्षेप.अर्थम् उपनीताभिः सत्त्रिणः प्रलोभयेयुः ॥२.४३प्रतिपन्नं रात्रौ सत्त्रच्.छन्नाः समागमे शस्त्र.रसाभ्यां घातयेयुः ॥२.४४सिद्ध.प्रव्रजित.चैत्य.स्तूप.दैवत.प्रतिमानाम् अभीक्ष्ण.अभिगमनेषु वा भूमि.गृह.सुरुङ्ग.आरूढ.भित्ति.प्रविष्टास् तीक्ष्णाः परम् अभिहन्युः ॥२.४५येषु देशेषु याः प्रेक्षाः प्रेक्षते पार्थिवः स्वयम् । KआK१३.२.४५यात्रा.विहारे रमते यत्र क्रीडति वा_अम्भसि ॥२.४६धिग्.उक्त्य्.आदिषु सर्वेषु यज्ञ.प्रहवणेषु वा ।२.४६सूतिका.प्रेत.रोगेषु प्रीति.शोक.भयेषु वा ।२.४७प्रमादं याति यस्मिन् वा विश्वासात् स्व.जन.उत्सवे ॥२.४७यत्र_अस्य_आरक्षि.संचारो दुर्दिने संकुलेषु वा ।२.४८विप्र.स्थाने प्रदीप्ते वा प्रविष्टे निर्जने_अपि वा ।२.४८वस्त्र.आभरण.माल्यानां फेलाभिः शयन.आसनैः ॥२.४९मद्य.भोजन.फेलाभिस् तूर्यैर् वा_अभिगताः सह ।२.४९प्रहरेयुर् अरिं तीक्ष्णाः पूर्व.प्रणिहितैः सह ॥२.५०यथैव प्रविशेयुश् च द्विषतः सत्त्र.हेतुभिः ।२.५०तथैव च_अपगच्छेयुर् इत्य् उक्तं योग.वामनम् ॥ N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP