संस्कृत सूची|शास्त्रः|अर्थशास्त्रम्|अध्याय १०| भाग ५ अध्याय १० भाग १ भाग २ भाग ३ भाग ४ भाग ५ भाग ६ अर्थशास्त्रम् अध्याय १० - भाग ५ अर्थशास्त्र या ग्रंथात राज्यव्यवस्था, कृषि, न्याय आणि राजनीति वगैरे विभिन्न विषयांवर विचार केला गेला आहे. Tags : chanakyaeconomicskautilyaअर्थशास्त्रकौटिल्यचाणक्यसंस्कृत भाग ५ Translation - भाषांतर ५.०१पञ्च.धनुः.शत.अपकृष्टं दुर्गम् अवस्थाप्य युद्धम् उपेयात्, भूमि.वशेन वा ॥५.०२विभक्त.मुख्याम् अचक्षुर्.विषये मोक्षयित्वा सेनां सेना.पति.नायकौ व्यूहेयाताम् ॥५.०३शम.अन्तरं पत्तिं स्थापयेत्, त्रि.शम.अन्तरम् अश्वम्, पञ्च.शम.अन्तरं रथं हस्तिनं वा ॥५.०४द्वि.गुण.अन्तरं त्रि.गुण.अन्तरं वा व्यूहेत ॥५.०५एवं यथा.सुखम् असम्बाधं युध्येत ॥५.०६पञ्च.अरत्नि धनुः ॥५.०७तस्मिन् धन्विनं स्थापयेत्, त्रि.धनुष्य् अश्वम्, पञ्च.धनुषि रथं हस्तिनं वा ॥५.०८पञ्च.धनुर् अनीक.संधिः पक्ष.कक्ष.उरस्यानाम् ॥५.०९अश्वस्य त्रयः पुरुषाः प्रतियोद्धारः ॥५.१०पञ्च.दश रथस्य हस्तिनो वा, पञ्च च_अश्वाः ॥५.११तावन्तः पाद.गोपा वाजि.रथ.द्विपानां विधेयाः ॥५.१२त्रीणि त्रिकाण्य् अनीकं रथानाम् उरस्यं स्थापयेत्, तावत् कक्षं पक्षं च_उभयतः ॥५.१३पञ्च.चत्वारिंशद् एवं रथा रथ.व्यूहे भवन्ति, द्वे शते पञ्च.विंशतिश् च_अश्वाः, षट्.शतानि पञ्च.सप्ततिश् च पुरुषाः प्रतियोधारः, तावन्तः पाद.गोपाः ॥५.१४एष सम.व्यूहः ॥५.१५तस्य द्वि.रथ.उत्तरा वृद्धिर् आ.एक.विंशति.रथाद् इति ॥५.१६एवम् ओजा दश सम.व्यूह.प्रकृतयो भवन्ति ॥५.१७पक्ष.कक्ष.उरस्यानां मिथो विषम.संख्याने विषम.व्यूहः ॥५.१८तस्य_अपि द्वि.रथ_उत्तरा वृद्धिर् आ.एक.विंशति.रथाद् इति ॥५.१९एवम् ओजा दश विषम.व्यूह.प्रकृतयो भवन्ति ॥५.२०अतः सैन्यानां व्यूह.शेषम् आवापः कार्यः ॥५.२१रथानां द्वौ त्रि.भागाव् अङ्गेष्व् आवापयेत्, शेषम् उरस्यं स्थापयेत् ॥५.२२एवं त्रि.भाग.ऊनो रथानाम् आवापः कार्यः ॥५.२३तेन हस्तिनाम् अश्वानाम् आवापो व्याख्यातः ॥५.२४यावद्.अश्व.रथ.द्विपानां युद्ध.सम्बाधन्म् न कुर्यात् तावद् आवापः कार्यः ॥५.२५दण्ड.बाहुल्यम् आवापः ॥५.२६पत्ति.बाहुल्यं प्रत्यापावः ॥५.२७एक.अङ्ग.बाहुल्यम् अन्वावापः ॥५.२८दूष्य.बाहुल्यम् अत्यावापः ॥५.२९पर.आवापात् प्रत्यावापाच् च चतुर्.गुणाद् आ.अष्ट.गुणाद् इति वा विभवतः सैन्यानाम् आवापः ॥५.३०रथ.व्यूहेन हस्ति.व्यूहो व्याख्यातः ॥५.३१व्यामिश्रो वा हस्ति.रथ.अश्वानां - चक्र.अन्तेषु हस्तिनः पार्श्वयोर् अश्वा रथा उरस्ये ॥५.३२हस्तिनाम् उरस्यं रथानां कक्षाव् अश्वानां पक्षाव् इति मध्य.भेदी ॥५.३३विपरीतो_अन्त.भेदी ॥५.३४हस्तिनाम् एव तु शुद्धः - साम्नाह्यानाम् उरस्यम् औपवाह्यानां जघनं व्यालानां कोट्याव् इति ॥५.३५अश्व.व्यूहो - वर्मिणाम् उरस्यं शुद्धानां कक्ष.पक्षाव् इति ॥५.३६पत्ति.व्यूहः - पुरस्ताद् आवरणिनः पृष्ठतो धन्विनः ॥५.३७इति शुद्धाः ॥५.३८पत्तयः पक्षयोर् अश्वाः पार्श्वयोः हस्तिनः पृष्ठतो रथाः पुरस्तात्, पर.व्यूह.वशेन वा विपर्यासः ॥५.३९इति द्व्य्.अङ्ग.बल.विभागः ॥५.४०तेन त्र्.अङ्ग.बल.विभागो व्याख्यातः ॥५.४१दण्ड.सम्पत् सार.बलं पुंसां५.४२हस्त्य्.अश्वयोर् विशेषः कुलं जातिः सत्त्वं वयः.स्थता प्राणो वर्ष्म जवस् तेजः शिल्पं स्तैर्यम् उदग्रता विधेयत्वं सुव्यञ्जन.आचारता_इति ॥५.४३पत्त्य्.अश्व.रथ.द्विपानां सार.त्रि.भागम् उरस्यं स्थापयेत्, द्वौ त्रि.भागौ कक्षं पक्षं च_उभयतः, अनुलोमम् अनुसारम्, प्रतिलोमं तृतीय.सारम्, फल्गु प्रतिलोमम् ॥५.४४एवं सर्वम् उपयोगं गमयेत् ॥५.४५फल्गु.बलम् अन्तेष्व् अवधाय वेग.अभिहूलिको भवति ॥५.४६सार.बलम् अग्रतः कृत्वा कोटीष्व् अनुसारं कुर्यात्, जघने तृतियिय.सारम्, मध्ये फल्गु.बलम् ॥५.४७एवम् एतत् सहिष्णु भवति ॥५.४८व्यूहं तु स्थापयित्वा पक्ष.कक्ष.उरस्यानाम् एकेन द्वाभ्यां वा प्रहरेत्, शेषैः प्रतिगृह्णीयात् ॥५.४९यत् परस्य दुर्बलं वीत.हस्त्य्.अश्वं दूष्य.अमात्यं कृत.उपजापं वा तत्.प्रभूत.सारेण_अभिहन्यात् ॥५.५०यद् वा परस्य सारिष्ठं तद्.द्वि.गुण.सारेण_अभिहन्यात् ॥५.५१यद् अङ्गम् अल्प.सारम् आत्मनस् तद् बहुना_उपचिनुयात् ॥५.५२यतः परस्य_अपचयस् ततो_अभ्याशे व्यूहेत, यतोत् वा भयं स्यात् ॥५.५३अभिसृतं परिसृतम् अतिसृतम् अपसृतम् उन्मथ्य.अवधानं वलयो गो.मूत्रिका मण्डलं प्रकीर्णिका व्यावृत्त.पृष्ठम् अनुवंशम् अग्रतः पार्श्वाभ्यां पृष्ठतो भग्न.रक्षा भग्न.अनुपात इत्य् अश्व.युद्धानि ॥५.५४प्रकीर्णिक.आवर्जान्य् एतान्य् एव चतुर्णाम् अङ्गानां व्यस्त.समस्तानां वा घातः, पक्ष.कक्ष.उरस्यानां च प्रभञ्जनम् अवस्कन्दः सौप्तिकं च_इति हसित्.युद्धानि ॥५.५५उन्मथ्य.अवधान.वर्जान्य् एतान्य् एव स्व.भूमाव् अभियान.अपयान.स्थित.युद्धानि_इति रथ.युद्धानि ॥५.५६सर्व.देश.काल.प्रहरणम् उपांशु.दण्डश् च_इति पत्ति.युद्धानि ॥५.५७एतेन विधिना व्यूहान् ओजान् युग्मांश् च कारयेत् ।५.५७विभवो यावद् अङ्गानां चतुर्णां सदृशो भवेत् ॥५.५८द्वे शते धनुषां गत्वा राजा तिष्ठेत् प्रतिग्रहे ।५.५८भिन्न.संघातनं तस्मान् न युध्येत_अप्रतिग्रहः ॥(दण्ड.भोग.मण्डल.असम्हत.व्यूह.व्यूहनम् - तस्य प्रतिव्यूह.स्थानम्) N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP