संस्कृत सूची|शास्त्रः|अर्थशास्त्रम्|अध्याय १०| भाग ३ अध्याय १० भाग १ भाग २ भाग ३ भाग ४ भाग ५ भाग ६ अर्थशास्त्रम् अध्याय १० - भाग ३ अर्थशास्त्र या ग्रंथात राज्यव्यवस्था, कृषि, न्याय आणि राजनीति वगैरे विभिन्न विषयांवर विचार केला गेला आहे. Tags : chanakyaeconomicskautilyaअर्थशास्त्रकौटिल्यचाणक्यसंस्कृत भाग ३ Translation - भाषांतर ३.०१बल.विशिष्टः कृत.उपजापः प्रतिविहित.ऋतुः स्व.भूम्यां प्रकाश.युद्धम् उपेयात् ॥३.०२विपर्यये कूट.युद्धम् ॥३.०३बल.व्यसन.अवस्कन्द.कालेषु परम् अभिहन्यात्, अभूमिष्ठं वा स्व.भूमिष्ठः, प्रकृति.प्रग्रहो वा स्व.भूमिष्ठम् ॥३.०४दूष्य.अमित्र.अटवी.बलैर् वा भङ्गं दत्त्वा विभूमि.प्राप्तं हन्यात् ॥३.०५संहत.अनीकं हस्तिभिर् भेदयेत् ॥३.०६पूर्वं भङ्ग.प्रदानेन_अनुप्रलीनं भिन्नम् अभिन्नः प्रतिनिवृत्य हन्यात् ॥३.०७पुरस्ताद् अभिहत्य प्रचलं विमुखं वा पृष्ठतो हस्त्य्.अश्वेन_अभिहन्यात् ॥३.०८पृष्ठतो_अभिहत्या प्रचलं विमुखं वा पुरस्तात् सार.बलेन_अभिहन्यात् ॥३.०९ताभ्यां पार्श्व.अभिगातौ व्याख्यातौ ॥३.१०यतो वा दूष्य.फल्गु.बलं ततो_अभिहन्यात् ॥३.११पुरस्ताद् विषमायां पृष्ठतो_अभिहन्यात् ॥३.१२पृष्ठतो विषमायां पुरस्ताद् अभिहन्यात् ॥३.१३पार्श्वतो विषमायाम् इतरतो_अभिहन्यात् ॥३.१४दूष्य.अमित्र.अटवी.बलैर् वा पूर्वं योधयित्वा श्रान्तम् अश्रान्तः परम् अभिहन्यात् ॥३.१५दूष्य.बलेन वा स्वयं भङ्गं दत्त्वा "जितम्" इति विश्वस्तम् अविश्वस्तः सत्त्र.अपाश्रयो_अभिहन्यात् ॥३.१६सार्थ.व्रज.स्कन्ध.आवार.संवाह.विलोप.प्रमत्तम् अप्रमत्तो_अभिहन्यात् ॥३.१७फल्गु.बल.अवच्छन्न.सार.बलो वा पर.वीरान् अनुप्रविश्य हन्यात् ॥३.१८गो.ग्रहणेन श्वा.पद.वधेन वा पर.वीरान् आकृष्य सत्त्रच्.छन्नो_अभिहन्यात् ॥३.१९रात्राव् अवस्कन्देन जागरयित्वा निद्रा.क्लान्तान् अवसुप्तान् वा दिवा हन्यात् ॥३.२०सपाद.चर्म.कोशैर् वा हस्तिभिः सौप्तिकं दद्यात् ॥३.२१अहः.सम्नाह.परिश्रान्तान् अपर.अह्ने_अभिहन्यात् ॥३.२२शुष्क.चर्म.वृत्त.शर्कर.आकोशकैर् गो.महिष.उष्ट्र.यूथैर् वा त्रस्नुभिर् अकृत.हस्त्य्.अश्वं भिन्नम् अभिन्नः प्रतिनिवृत्तं हन्यात् ॥३.२३प्रतिसूर्य.वातं वा सर्वम् अभिहन्यात् ॥३.२४धान्वन.वन.संकट.पङ्क.शैल.निम्न.विषम.नावो गावः शकटव्यूहो नीहारो रात्रिर् इति सत्त्राणि ॥३.२५पूर्वे च प्रहरण.कालाः कूट.युद्ध.हेतवः ॥३.२६संग्रामस् तु निर्दिष्ट.देश.कालो धर्मिष्ठः ॥३.२७संहत्य दण्डं ब्रूयात् "तुल्य.वेतनो_अस्मि, भवद्भिः सह भोग्यम् इदं राज्यम्, मया_अभिहितैः परो_अभिहन्तव्यः" इति ॥३.२८वेदेष्व् अप्य् अनुश्रूयते समाप्त.दक्षिणानां यज्ञानाम् अवभृथेषु "सा ते गतिर् या शूराणाम्" इति ॥३.२९अपि_इह श्लोकौ भवतः ॥३.३०"यान् यज्ञ.संघैस् तपसा च विप्राः स्वर्ग.एषिणः पात्र.चयैश् च यान्ति ।३.३०क्षणेन तान् अप्य् अतियान्ति शूराः प्राणान् सुयुद्धेषु परित्यजन्तः ॥३.३१"नवं शरावं सलिलस्य पूर्णं सुसंस्कृतं दर्भ.कृत.उत्तरीयम् ।३.३१तत् तस्य मा भून् नरकं च गच्छेद् यो भर्तृ.पिण्डस्य कृते न युध्येत् - इति ॥३.३२मन्त्रि.पुरोहिताभ्याम् उत्साहयेद् योधान् व्यूह.सम्पदा ॥३.३३कार्तान्तिक.आदिश् च_अस्य वर्गः सर्वज्ञ.दैवत.सम्योग.ख्यापनाभ्यां स्व.पक्षम् उद्धर्षयेत्, पर.पक्षं च_उद्वेजयेत् ॥३.३४"श्वो युद्धम्" इति कृत.उपवासः शस्त्र.वाहनं च_अनुशयीत ॥३.३५अथर्वभिश् च जुहुयात् ॥३.३६विजय.युक्ताः स्वर्गीयाश् च_आशिषो वाचयेत् ॥३.३७ब्राह्मणेभ्यश् च_आत्मानम् अतिसृजेत् ॥३.३८शौर्य.शिल्प.अभिजन.अनुराग.युक्तम् अर्थ.मानाभ्याम् अविसंवादितम् अनीक.गर्भं कुर्वीत ॥३.३९पितृ.पुत्र.भ्रातृकाणाम् आयुधीयानाम् अध्वजं मुण्ड.अनीकं राज.स्थानम् ॥३.४०हस्ती रथो वा राज.वाहनम् अश्व.अनुबन्धः ॥३.४१यत् प्राय.सैन्यो यत्र वा विनीतः स्यात् त्(अद्) अधिरोहयेत् ॥३.४२राज.व्यञ्जनो व्यूह.अधिष्ठानम् आयोज्यः ॥३.४३सूत.मागधाः शूराणां स्वर्गम् अस्वर्गं भीरूणां जाति.संघ.कुल.कर्म.वृत्त.स्तवं च योधानां वर्णयेयुः ॥३.४४पुरोहित.पुरुषाः कृत्य.अभिचारं ब्रूयुः, यन्त्रिक.वर्धकि.मौहूर्तिकाः स्व.कर्म.सिद्धिम् असिद्धिं परेषाम् ॥३.४५सेना.पतिर् अर्थ.मानाभ्याम् अभिसंस्कृतम् अनीकम् आभाषेत - "शत.साहस्रो राज.वधः, पञ्चाशत्.साहस्रः सेना.पति.कुमार.वधः, दश.साहस्रः प्रवीर.मुख्य.वधः, पञ्च.साहस्रो हस्ति.रथ.वधः, साहस्रो_अश्व.वधः, शत्यः पत्ति.मुख्य.वधः, शिरो विंशतिकं भोग.द्वैगुण्यं स्वयं.ग्राहश् च" इति ॥३.४६तद् एषां दश.वर्ग.अधिपतयो विद्युः ॥३.४७चिकित्सकाः शस्त्र.यन्त्र.अगद.स्नेह.वस्त्र.हस्ताः स्त्रियश् च_अन्न.पान.रक्षिण्यः पुरुषाणाम् उद्धर्षणीयाः पृष्ठतस् तिष्ठेयुः ॥३.४८अदक्षिणा.मुखं पृष्ठतः.सूर्यम् अनुलोम.वातम् अनीकं स्व.भूमौ व्यूहेत ॥३.४९पर.भूमि.व्यूहे च_अश्वांश् चारयेयुः ॥३.५०यत्र स्थानं प्रजवश् च_अभूमिर् व्यूहस्य तत्र स्थितः प्रजवितश् च_उभयथा जीयेत ॥ विपर्यये जयति, उभयथा स्थाने प्रजवे च ॥३.५२समा विषमा व्यामिश्रा वा भूमिर् इति पुरस्तात् पार्श्वाभ्यां पश्चाच् च ज्ञेया ॥३.५३समायां दण्ड.मण्डल.व्यूहाः, विषमायां भोग.असंहत.व्यूहाः, व्यामिश्रायां विषम.व्यूहाः ॥३.५४विशिष्ट.बलं भङ्क्त्वा संधिं याचेत ॥३.५५सम.बलेन याचितः संदधीत ॥३.५६हीनम् अनुहन्यात्, न त्व् एव स्व.भूमि.प्राप्तं त्यक्त.आत्मानं वा ॥३.५७पुनर्.आवर्तमानस्य निराशस्य च जीविते ।३.५७अधार्यो जायते वेगस् तस्माद् भग्नं न पीडयेत् ॥(युद्ध.भूमयह् - पत्त्य्.अश्व.रथ.हस्ति.कर्माणि) N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP