३.०१
अल्पः पश्चात्.कोपो महान् पुरस्ताल्.लाभ इति अल्पः पश्चात्.कोपो गरीयान् ॥
३.०२
अल्पं पश्चात्.कोपं प्रयातस्स्य दूष्य.अमित्र.आटविका हि सर्वतः समेधयन्ति, प्रकृति.कोपो वा ॥
३.०३
लब्धम् अपि च महान्तं पुरस्ताल्.लाहम् एवं.भूते भृत्य.मित्र.क्षय.व्यया ग्रसन्ते ॥
३.०४
तस्मात् सहस्र.एकीयः पुरस्ताल्.लाभस्य_अयोगः शत.एकीयो वा पश्चात्.कोप इति न यायात् ॥
३.०५
सूची.मुखा ह्य् अनर्था इति लोक.प्रवादः ॥
३.०६
पश्चात्.कोपे साम.दान.भेद.दण्डान् प्रयुञ्जीत ॥
३.०७
पुरस्ताल्.लाभे सेना.पतिं कुमारं वा दण्ड.चारिणं कुर्वीत ॥
३.०८
बलवान् वा राजा पश्चात्.कोप.अवग्रह.समर्थः पुरस्ताल्.लाभम् आदातुं यायात् ॥
३.०९
अभ्यन्तर.कोप.शङ्कायां शङ्कितान् आदाय यायात्, बाह्य.कोप.शङ्कायां वा पुत्र.दारम् एषाम् ॥
३.१०
अभ्यन्तर.अवग्रहं कृत्वा शून्य.पालम् अनेक.बल.वर्गम् अनेक.मुख्यं च स्थापयित्वा यायात्, न वा यायात् ॥
३.११
अभ्यन्तर.कोपो बाह्य.कोपात् पापीयान् इत्य् उक्तं पुरस्तात् ॥
३.१२
मन्त्र.पुरोहित.सेना.पति.युव.राजानाम् अन्यतम.कोपो_अभ्यन्तर.कोपः ॥
३.१३
तम् आत्म.दोष.त्यागेन पर.शक्त्य्.अपराध.वशेन वा साधयेत् ॥
३.१४
महा.अपराधे_अपि पुरोहिते सम्रोधनम् अवस्रावणं वा सिद्धिः, युव.राजे सम्रोधनं निग्रहो वा गुणवत्य् अन्यस्मिन् सति पुत्रे ॥
३.१५
पुत्रं भ्रातरम् अन्यं वा कुल्यं राज.ग्राहिणम् उत्साहेन साधयेत्, उत्साह.अब्भावे गृहीत.अनुवर्तन.संधि.कर्मभ्याम् अरि.संधान.भयात् ॥
३.१६
अन्येभ्यस् तद्.विधेभ्यो वा भूमि.दानैर् विश्वासयेद् एनम् ॥
३.१७
तद्.विशिष्टं स्वयं.ग्राहं दण्डं वा प्रेषयेत्, सामन्त.आटविकान् वा, तैर् विगृहीतम् अतिसंदध्यात् ॥
३.१८
अपरुद्ध.आदानं पारग्रामिकं वा योगम् आतिष्ठेत् ॥
३.१९
एतेन मन्त्र.सेना.पती व्याख्यातौ ॥
३.२०
मन्त्र्य्.आदि.वर्जानाम् अन्तर्.अमात्यानाम् अन्यतम.कोपो_अन्तर्.अमात्य.कोपः ॥
३.२१
तत्र_अपि यथा.अर्हम् उपायान् प्रयुञ्जीत ॥
३.२२
राष्ट्र.मुख्य.अन्त.पाल.आटविक.दण्ड.उपनतानाम् अन्यतम.कोपो बाह्य.कोपः ॥
३.२३
तम् अन्योन्येन_अवग्राहयेत् ॥
३.२४
अतिदुर्ग.प्रतिष्टब्धं वा सामन्त.आटविक.तत्.कुलीन.अपरुद्धानाम् अन्यतमेन_अवग्राहयेत् ॥
३.२५
मित्रेण_उपग्राहयेद् वा यथा न_अमित्रं गच्छेत् ॥
३.२६
अमित्राद् वा सत्त्री भेदयेद् एनं - "अयं त्वा योग.पुरुषं मन्यमानो भर्तर्य् एव विक्रमयिष्यति, अवाप्त.अर्थो दण्ड.चारिणम् अमित्र.आटविकेषु कृच्छ्रे वा प्रयासे योक्ष्यति, विपुत्र.दारम् अन्ते वा वासयिष्यति ॥
३.२७
प्रतिहत.विक्रमं त्वां भर्तर्य् पण्यं करिष्यति, त्वया वा संधिं कृत्वा भर्तारम् एव प्रसादयिष्यति ॥
३.२८
मित्रम् उपकृष्टं वा_अस्य गच्छ" इति ॥
३.२९
प्रतिपन्नम् इष्ट.अभिप्रायैः पूजयेत् ॥
३.३०
अप्रतिपन्नस्य संश्रयं भेदयेद् "असौ ते योग.पुरुषः प्रणिहितः" इति ॥
३.३१
सत्त्री च_एनम् अभित्यक्त.शासनैर् घातयेत्, गूढ.पुरुषैर् वा ॥
३.३२
सह.प्रस्थायिनो वा_अस्य प्रवीर.पुरुषान् यथा.अभिप्राय.करणेन_आवाहयेत् ॥
३.३३
तेन प्रणिहितान् सत्त्री ब्रूयात् ॥
३.३४
इति सिद्धिः ॥
३.३५
परस्य च_एनान् कोपान् उत्थापयेत्, आत्मनश् च शमयेत् ॥
३.३६
यः कोपं कर्तुं शमयितुं वा शक्तस् तत्र_उपजापः कार्यः ॥
३.३७
यः सत्य.संधः शक्तः कर्मणि फल.अवाप्तौ च_अनुग्रहीतुं विनिपाते च त्रातुं तत्र प्रतिजापः कार्यः, तर्कयितव्यश् च कल्याण.बुद्धिर् उत_अहो शठ इति ॥
३.३८
शठो हि बाह्यो_अभ्यन्तरम् एवम् उपजपति - "भर्तारं चेद्द् हत्वा मां प्रतिपादयिष्यति शत्रु.वधो भूमि.लाभश् च मे द्विविधो लाभो भविष्यति, अथ वा शत्रुर् एनम् आहनिष्यति_इति हत.बन्धु.पक्षस् तुल्य.दोष.दण्डेन_उद्विग्नश् च मे भूयान् अकृत्य.पक्षो भविष्यति, तद्.विधे वा_अन्यस्मिन्न् अपि शङ्कितो भविष्यति, अन्यम् अन्यं च_अस्य मुख्यम् अभित्यक्त.शासनेन घातयिष्यामि" इति ॥
३.३९
अभ्यन्तरो वा शठो बाह्यम् एवम् उपजपति - "कोशम् अस्य हरिष्यामि, दण्डं वा_अस्य हनिष्यामि, दुष्टं वा भर्तारम् अनेन घातयिष्यामि, प्रतिपन्नं बाह्यम् अमित्र.आटविकेषु विक्रमयिष्यामि "चक्रम् अस्य सज्यताम्, वैरम् अस्य प्रसज्यताम्, ततः स्व.अधीनो मे भविष्यति, ततो भर्तारम् एव प्रसादयिष्यामि, स्वयं वा राज्यं ग्रहीष्यामिण्" बद्ध्वा वा बाह्य.भूमिं भर्तृ.भूमिं च_उभयम् अवाप्स्यामि, विरुद्धं वा_आवाहयित्वा बाह्यं विश्वस्तं घातयिष्यामि, शून्यं वा_अस्य मूलं हरिष्यामि" इति ॥
३.४०
कल्याण.बुद्धिस् तु सह.जीव्य् अर्थम् उपजपति ॥
३.४१
कल्याण.बुद्धिना संदधीत, शठं "तथा" इति प्रतिगृह्य_अतिसंदध्यात् - इति ॥
३.४२
एवम् उपलभ्य - परे परेभ्यः स्वे स्वेभ्यः स्वे परेभ्यः स्वतः परे ।
३.४२
रक्ष्याः स्वेभ्यः परेभ्यश् च नित्यम् आत्मा विपश्चिता ॥
(क्षय.व्यय.लाभ.विपरिमर्शह्)