संस्कृत सूची|शास्त्रः|अर्थशास्त्रम्|अध्याय ९| भाग १ अध्याय ९ भाग १ भाग २ भाग ३ भाग ४ भाग ५ भाग ६ भाग ७ अर्थशास्त्रम् अध्याय ०९ - भाग १ अर्थशास्त्र या ग्रंथात राज्यव्यवस्था, कृषि, न्याय आणि राजनीति वगैरे विभिन्न विषयांवर विचार केला गेला आहे. Tags : chanakyaeconomicskautilyaअर्थशास्त्रकौटिल्यचाणक्यसंस्कृत भाग १ Translation - भाषांतर १.०१विजिगीषुर् आत्मनः परस्य च बल.अबलं शक्ति.देश.काल.यात्रा.काल.बल.समुद्दान.काल.पश्चात्.कोप.क्षय.व्यय.लाभ.आपदां ज्ञात्वा विशिष्ट.बलो यायात्, अन्यथा_आसीत ॥१.०२"उत्साह.प्रभावयोर् उत्साहः श्रेयान् ॥१.०३स्वयं हि राजा शूरो बलवान् अरोगः कृत.अस्त्रो दण्ड.द्वितीयो_अपि शक्तः प्रभाववन्तं राजानं जेतुम् ॥१.०४अल्पो_अपि च_अस्य दण्डस् तेजसा कृत्य.करो भवति ॥१.०५निरुत्साहस् तु प्रभाववान् राजा विक्रम.अभिपन्नो नश्यति" इत्य् आचार्याः ॥१.०६न_इति कौटिल्यः ॥१.०७प्रभाववान् उत्साहवन्तं राजानं प्रभावेन_अतिसंधत्ते तद्.विशिष्टम् अन्यं राजानम् आवाह्य भृत्वा क्रीत्वा प्रवीर.पुरुषान् ॥१.०८प्रभूत.प्रभाव.हय.हस्ति.रथ.उपकरण.सम्पन्नश् च_अस्य दण्डः सर्वत्र_अप्रतिहतश् चरति ॥१.०९उत्साहवतश् च प्रभाववन्तो जित्वा क्रीत्वा च स्त्रियो बालाः पङ्गवो_अन्धाश् च पृथिवीं जिग्युर् इति ॥१.१०"प्रभाव.मन्त्रयोः प्रभावः श्रेयान् ॥१.११मन्त्र.शक्ति.सम्पन्नो हि वन्ध्य.बुद्धिर् अप्रभावो भवति ॥१.१२मन्त्र.कर्म च_अस्य निश्चितम् अप्रभावो गर्भ.धान्यम् अवृष्टिर् इव_उपहन्ति" इत्य् आचार्याः ॥१.१३न_इति कौटिल्यः ॥१.१४मन्त्र.शक्तिः श्रेयसी ॥१.१५प्रज्ञा.शास्त्र.चक्षुर् हि राजा_अल्पेन_अपि प्रयत्नेन मन्त्रम् आधातुं शक्तः परान् उत्साह.प्रभाववतश् च साम.आदिभिर् योग.उपनिषद्भ्यां च_अतिसंधातुम् ॥१.१६एवम् उत्साह.प्रभाव.मन्त्र.शक्तीनाम् उत्तर.उत्तर.अधिको_अतिसंधत्ते ॥१.१७देशः पृथिवी ॥१.१८तस्यां हिमवत्.समुद्र.अन्तरम् उदीचीनं योजन.सहस्र.परिमाणं तिर्यक् चक्र.वर्ति.क्षेत्रम् ॥१.१९तत्र_अरण्यो ग्राम्यः पर्वत औदको भौमः समो विषम इति विशेषाः ॥१.२०तेषु यथा.स्व.बल.वृद्धि.करं कर्म प्रयुञ्जीत ॥१.२१यत्र.आत्मनः सैन्य.व्यायामानां भूमिः, अभूमिः परस्य, स उत्तमो देशः, विपरीतो_अधमः, साधारणो मध्यमः ॥१.२२कालः शीत.उष्ण.वर्ष.आत्मा ॥१.२३तस्य रात्रिर् अहः पक्षो मास ऋतुर् अयनं संवत्सरो युगम् इति विशेषाः ॥१.२४तेषु यथा.स्व.बल.वृद्धि.करं कर्म.प्रयुञ्जीत ॥१.२५यत्र.आत्मनः सैन्य.व्यायामानाम् ऋतुः अनृतुः परस्य, स उत्तमः कालः, विपरीतो_अधमः, साधारणो मध्यमः ॥१.२६"शक्ति.देश.कालानां तु शक्तिः श्रेयसी" इत्य् आचार्याः ॥१.२७शक्तिमान् हि निम्न.स्थलवतो देशस्य शीत.उष्ण.वर्षवतश् च कालस्य शक्तः प्रतीकारे भवति ॥१.२८"देशः श्रेयान्" इत्य् एके ॥१.२९"स्थल.गतो हि श्वा नक्रं विकर्षति, निम्न.गतो नक्रः श्वानम्" इति ॥१.३०"कालः श्रेयान्" इत्य् एके ॥१.३१"दिवा काकः कौशिकं हन्ति, रात्रौ कौशिकः काकम्" इति ॥१.३२न_इति कौटिल्यः ॥१.३३परस्पर.साधका हि शक्ति.देश.कालाः ॥१.३४तैर् अभ्युच्चितस् तृतीयं चतुर्थं वा दण्डस्य_अंशं मूले पार्ष्ण्यां प्रत्यन्त.अटवीषु च रक्षा विधाय कार्य.साधन.सहं कोश.दण्डं च_आदाय क्षीण.पुराण.भक्तम् अगृहीत.नव.भक्तम् असंस्कृत.दुर्गम.मित्रं वार्षिकं च_अस्य सस्यं हैमनं च मुष्टिम् उपहन्तुं मार्गशीर्षीं यात्रां यायात् ॥१.३५हैमानं च_अस्य सस्यं वासन्तिकं च मुष्टिम् उपहन्तुं चैत्रीं यात्रां यायात् ॥१.३६क्षीण.कृण.काष्ठ.उदकम् असंस्कृत.दुर्गम.मित्रं वासन्तिकं च_अस्य सस्यं वार्षिकीं च मुष्टिम् उपहन्तुं ज्येष्ठामूलीयां यात्रां यायात् ॥१.३७अत्युष्णम् अल्प.यवस.इन्धन.उदकं वा देशं हेमन्ते यायात् ॥१.३८तुषार.दुर्दिनम् अगाध.निम्न.प्रायं गहन.तृण.वृक्षं वा देशं ग्रीष्मे यायात् ॥१.३९स्व.सैन्य.व्यायाम.योग्यं परस्य_अयोग्यं वर्षति यायात् ॥१.४०मार्गशीर्षीं तैषीं च_अन्तरेण दीर्घ.कालां यात्रां यायात्, चैत्रीं वैशाखीं च_अन्तरेण मध्यम.कालाम्, ज्येष्ठामूलीयाम् आषाढीं च_अन्तरेण ह्रस्व.कालाम्, उपोषिष्यन् व्यसने चतुर्थीम् ॥१.४१व्यसन.अभियानं विगृह्य.याने व्याख्यातम् ॥१.४२प्रायशश् च_आचार्याः "पर.व्यसने यातव्यम्" इत्य् उपदिशन्ति ॥१.४३शक्त्य्.उदये यातव्यम् अनैकान्न्तिकत्वाद् व्यसनानाम् इति कौटिल्यः ॥१.४४यदा वा प्रयातः कर्शयितुम् उच्छेतुं वा शक्नुयाद् अमित्रं तदा यायात् ॥१.४५अत्युष्ण.उपक्षीणे काले हस्ति.बल.प्रायो यायात् ॥१.४६हस्तिनो ह्य् अन्तः.स्वेदाः कुष्ठिनो भवन्ति ॥१.४७अनवगाहमानास् तोयम् अपिबन्तश् च_अन्तर्.अवक्षाराच् च_अन्धी.भवन्ति ॥१.४८तस्मात् प्रभूत.उदके देशे वर्षति च हस्ति.बल.प्रायो यायात् ॥१.४९विपर्यये खर.उष्ट्र.अश्व.बल.प्रायो देशम् अल्प.वर्ष.पङ्कम् ॥१.५०वर्षति मरु.प्रायं चतुर्.अङ्ग.बलो यायात् ॥१.५१सम.विषम.निम्न.स्थल.ह्रस्व.दीर्घ.वशेन वा_अध्वनो यात्रां विभजेत् ॥१.५२सर्वा वा ह्रस्व.कालाः स्युर् यातव्याः कार्य.लाघवात् ।१.५२दीर्घाः कार्य.गुरुत्वाद् वा वर्षा.वासः परत्र च ॥(बल.उपादान.कालाह् -सम्नाह.गुणाह् -प्रतिबल.कर्म) N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP