संस्कृत सूची|संस्कृत साहित्य|समय-मातृका| षष्ठः समयः समय-मातृका प्रथमः समयः द्वितीयः समयः तृतीयः समयः चतुर्थः समयः पञ्चमः समयः षष्ठः समयः सप्तमः समयः अष्टमः समयः उपसंहारः समय मातृका - षष्ठः समयः क्षेमेंद्र के ग्रंथ समयमातृका का रचनाकाल १०५० ई है। यह एक हास्य प्रहसन का अत्युत्तम ग्रंथ है । Tags : kshemendrasamay matrukaक्षेमेन्द्रसंस्कृतसमय मातृका दूत-प्रेषणम् Translation - भाषांतर अथ क्षण-क्षीण-धनायमानेशनैः शनैर् निष्प्रतिभे शशङ्के ।द्यौर् दोष-युक्तैव विलोकनेनस-विप्लवा मीलित-तारकाभूत् ॥१॥इन्दौ प्रयाते कृत-रात्रि-भोगेप्रवेश-काले चिर-कामुकस्य ।वेश्येव सन्ध्या गगनाङ्गनाग्रंनिर्दिष्ट-तारा-कुसुमं चकार ॥२॥अथोदिते स्व-स्थिति-दान-दक्षेबाले रवौ श्रीमति पङ्कजिन्याः ।विकास-काले मधु-पान-केलिर्अभूद् विटानाम् इव षट्-पदानाम् ॥३॥कलावती मौक्तिक-भूषणाङ्काधम्मिल्ल-माल्य-प्रणय-प्रसक्तैः ।भृङ्गैर् वृता दर्पणम् ईक्षमाणास-तारका चन्द्रवती निशेव ॥४॥स्मराङ्गना-केलि-शुकायमान-कर-स्थ-ताम्बूल-विलास-पूर्णा ।समातृका नापित-दत्त-हस्ताकान्तां तनुं पण्य-दशां नयन्ती ॥५॥स-लीलम् आक्रान्ति-विलोल-काञ्ची-रवेण पारावत-दत्त-संज्ञा ।अर्थार्थिनी राज-पथ-प्रकारंहर्म्यं प्रियोत्सङ्गम् इवारुरोह ॥६॥ताम् अब्रवीत् तत्-परिभोग-योग्यंप्रातर् नवं कामुकम् ईक्षमाणः ।विलोक्य कङ्कःशयनोत्थितानांपण्याङ्गनानां गणयन् विचेष्टाः ॥७॥आसन्न-मित्रागमम् उच्यमान-समागमे वासर-वल्लभस्य ।निर्यान्ति दीपा इव रात्रि-भोग्याःपश्य प्रभाते गणिका-गृहेभ्यः ॥८॥एष प्रबुद्धः सहसा जटा-भृल्-लीला-शिवः कुक्कुट-कूजितेन ।गृहान् नलिन्याः परिहृत्य राज-रथ्यां कुमार्गेण मठं प्रयाति ॥९॥एते निधेर् ग्रह-भट्ट-सूनोःपृष्टा विटा रात्रि-सुखं प्रभाते ।कर्तुं प्रवृत्ताः पृथु-भोज्य-भूरि-व्ययाय भद्रा-भवने विभागम् ॥१०॥प्राप्ते गृह-द्वारम् अनङ्ग-सारेमहा-विटे पश्य वसन्त-सेना ।शून्य-प्रसुप्तापि पुरः समेत्यनिशीथ-भोगं कथयत्य् असत्यम् ॥११॥भग्नाङ्गदा त्रोटित-कर्ण-पालीमतङ्ग-नाम्ना गण-पालकेन ।आत्मापराध् विनिगूहमानाविरौति रामा जननी-जनाग्रे ॥१२॥निर्गच्छतो ग्राम-नियोगिनो’स्यददाति गुप्तस्य समेत्य पश्चात् ।इदं तथेदं च पुरः प्रहेयम्इत्य् आदि सन्देश-शतानि वृद्धा ॥१३॥सम्प्रस्थितेयं सह माधवेनकोशं ध्रुवं पातुम् अनङ्ग-लेखा ।अग्रे यद् अस्या मधु-कुम्भ-वाहीमेसं विकर्षन् पुरुषः प्रयाति ॥१४॥टक्कस्य सा च्चलितस्यविप्राय यत् स्कन्दकदान-काले ।प्रसाधनाय स्वयम् एव गन्तुंसमुद्यता पश्य शशाङ्क-लेखा ॥१५॥उद्यान-लीला-गमने निशायांसुनिश्चिते मल्लिकयार्जुनस्य ।कृतः प्रभाते नव-चीन-वस्त्र-दानं विना पश्य मुहूर्त-विघ्नः ॥१६॥मेष-प्रदस्येन्द्र-वसोर् द्विजस्यमुक्त्वा प्रभूतं निशि काल-खण्डम् ।विषूचिकार्ता विट-हर्ष-हेतुर्वैद्यार्थिनी क्रन्दति कुट्टनीयम् ॥१७॥वैद्यो’प्य् असौ मण्डल-गुल्म-नामाप्रभात-चारी नगरार्जितानि ।समुद्युतः पूग-फलानि दातुंकुरङ्गिकायै निज-मुष्टि-पूरैः ॥१८॥कक्षाल-नाम्ना निशि गायनेनवारावहारान् निश-भग्न-भाण्डा ।गृह्णाति का नो चरण-स्पृशो’स्यवरांशुकं कुण्ड-घटादि-मूल्यात् ॥१९॥प्राप्तस्य शम्भोर् वणिजस् तु वारेसुप्तस्य शून्ये शयने निशायाम् ।नन्दा समेत्यापर-कामि-गेहात्स-विप्रलम्भं शपथं करोति ॥२०॥पितुर् गृहाद् भूरि-विभूषणानिप्राप्तं गृहीत्वा मदनं मृणाली ।निगूह्य सन्दर्शयति स्व-गेहंशून्यं तम् अन्विष्टुम् उपागतानाम् ॥२१॥भोज्यं विना पाटलिका प्रविष्टंमुष्टि-प्रदं श्रोत्रियम् अत्रिरात्रम् ।शुष्कान्न-दाता पितृ-कार्यम् एतत् किंकिं करोषीत्य् असकृद् ब्रवीति ॥२२॥मार्जार-जिह्वा जननी हरिण्याःपद्मस्य भोज्यं निशि लुण्ठितं यत् ।तस्मिन् गते तद्-विजने विशङ्कापश्य प्रभाते कवलीकरोति ॥२३॥ईर्ष्या-विशेषात् कृत-कोप-वाद-संमूर्च्छितायां मलयं रमण्याम् ।विभूषणं तोषणम् आशु किञ्चिद्अस्यै प्रयच्छेति वदन्ति सख्यः ॥२४॥रागेण कृष्णीकृत-केश एषबली-विशेष-स्फुट-वृद्ध-भावः ।योगागृहं शम्बरसार-नामायागाय युग् येन गुरुः प्रयाति ॥२५॥अयं जन-स्थान-विनाश-हेतुःकेतुः खर-क्रूरतया प्रसिद्धः ।आस्थान-भट्टश् चिटिवत्स-नामाप्रयाति युग्येन विशीर्ण-वस्त्रः ॥२६॥उच्चैश् चिरात् सौध-निषक्त-दृष्टिर्अश्वाधिरूढः कमलो’धिकारी ।कलावति त्वाम् अयम् ईक्षमाणःशूलार्पिताकार-तुलां बिभर्ति ॥२७॥श्रीखण्डोज्ज्वल-मल्लिका-तिलकवान् अक्षाम-हेमाङ्गदश्छिन्न-श्लिष्ट-विनष्ट-नासिकतया प्रख्यात-जार-ज्वरः ।एष त्वाम् अवलोक्य मालव-पतेर् दूतः प्रपञ्चाभिधःपश्योद्वेष्ट-विवेष्टनानि कुरुते भोगीव मन्त्राहतः ॥२८॥एष प्रख्यात-कूटः कपट-विट-घटा-नर्म-कर्म-प्रगल्भःश्रीगुप्तो नाम धूर्तः सकल-कलि-कला-कल्पना-मूल-देवः ।दृष्ट्वा दूरात् प्रसिद्धां तव नव-जननीम् अञ्जलि-श्लिष्ट-हस्तःपश्याक्ष्णा दत्त-संज्ञः स्मित-चल-चिबुकः स्तोतुम् एतां प्रवृत्तः ॥२९॥पातालोत्ताल-तालु-प्रवितत-वदन-स्पष्ट-दृष्टोग्र-दंष्ट्राविश्व-ग्रासावहेला-कुलित-शिखि-शिखा-विभ्रमोद्भ्रान्त-जिह्वा ।मेषाणां चण्ड-मुण्डा-हरण-कटकटा-राव-पिष्टास्थि-संस्थासिद्धा शुष्कातिपूर्णा जयति भगवती कुट्टनी चण्ड-घण्टा ॥३०॥एष स्फीत-घनस्य लोभ-वसतेः पापस्य मूर्ति-स्पृशःशङ्खाख्यस्य महार्घ-हट्ट-वणिजः पङ्काभिधानः सुतः ।आकृष्टः प्रतिवेश्म-निर्गत-विटैः सारङ्ग-मुग्धः शिशुःसुभ्रु त्वां तुषराशि-लोल-चटकाकारः समुद्वीक्षते ॥३१॥एष निधिर् विधिना तव नूनंमेषमतिर् विधितः प्रहितो वा ।स्थूल-मुखः पृथु-चूल-कलापःस्कन्ध-युगाञ्चित-कर्ण-सुवर्णः ॥३२॥इत्य् आदि कङ्केन वितर्क्यमाणंवणिक्-सुतं दृक्-पतितं विचार्य ।मनोरथाभ्यर्थित-लाभ-तुष्टाकङ्कालिका स-स्मितम् इत्य् उवाच ॥३३॥निर्यत्-ताम्बूल-लाला-लव-शवल-वलद्-ग्रीव-वक्त्रावलोकीरक्तोपानद्-युगोद्यत्-सरसर-मुखर-प्रस्खलत्-पाद-चारैः ।एवं-रूपो’तिमुग्धः शिशुर् अखिल-धनावाप्तये बन्धकीनांअक्लेशाराधनार्हः स्वयम् उपनमति प्रायशः पण्य-पुण्यैः ॥३४॥कलावति त्वन्-मुख-निश्चलो’यंमहा-विटश् चारण-चक्र-चारैः ।निवेदितो’ग्रे तव देवतायाःशिशुः पशुर् भोग-विभूति-कामैः ॥३५॥पार्श्वे त्वम् एषां व्रज कङ्क तूर्णंदूतं करिष्यन्ति भवन्तम् एते ।तयेति दत्तोचित-शासनो’सौजगाम सौधाद् अवरुह्य हृष्टः ॥३६॥इति श्री-व्यासदासापराख्य-क्षेमेन्द्र-निर्मितायां समय-मातृकायां दूत-प्रेषणं नाम षष्ठः समयः । N/A References : N/A Last Updated : November 26, 2017 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP