सुहृद्-भेदः - कथा ३
हितोपदेश भारतीय जन- मानस तथा परिवेश से प्रभावित उपदेशात्मक कथाएँ हैं। हितोपदेश की कथाएँ अत्यंत सरल व सुग्राह्य हैं।
अस्त्य् उत्तर-पथेर्बुदशिखर-नाम्नि पर्वते दुर्दांतो नाम महा-विक्रमः सिंहः । तस्य पर्वत-कंदरम् अधिशयानस्य केसराग्रं कश्चिन् मूषिकः प्रत्यहं छिनत्ति । ततः केसराग्रं लूनं दृष्ट्वा कुपितो विवरांतर्गतं मूषिकम् अलभमानो चिंतयत्-
क्षुद्र-शत्रुर् भवेद् यस् तु विक्रमान् नैव लभ्यते । तम् आहंतुं पुरस्कार्यः सदृशस् तस्य सैनिकः ॥८४॥इत्य् आलोच्य तेन ग्रामं गत्वा विश्वासं कृत्वा दधिकर्ण-नामा बिडालो यत्नेवानीय मांसाहारं दत्त्वा स्व-कंदरे स्थापितः । अनंतरं तद्-भयान् मूषिको पि विलान् न निःसरति । तेनासौ सिंहो क्षत-केशरः सुखं स्वपिति । मूषिक-शब्दं यदा यदा शृणोति, तदा तदा मांसाहार-दानेन तं बिडालं संवर्धयति ।
आज्ञा-भंगो नरेंद्राणां ब्राह्मणानाम् अनादरः । पृथक् शय्या च नारीणाम् अशस्त्र-विहितो वधः ॥८५॥
ततो देश-व्यवहारानभिज्ञः संजीवकः सभयम् उपसृत्य साष्टांग-पातं करटकं प्रणतवान् । तथा चोक्तम्-
मतिर् एव बलाद् गरीयसी यद्-अभावे करिणाम् इयं दशा । इति घोषयतीव डिंडिमः करिणो हस्तिपकाहतः क्वणन् ॥८६॥
अथ संजीवकः साशंकम् आह-सेनापते ! किं मया कर्तव्यम् । तद् अभिधीयताम् ।
करटको ब्रूते-वृषभ ! अत्र कानने तिष्ठसि । अस्मद्-देव-पादारविंदं प्रणय ।
संजीवको ब्रूते-तद्-अभय-वाचं मे यच्छ । गच्छामि ।
करटको ब्रूते-शृणु रे बलीवर्द ! अलम् अनया शंकया । यतः-
प्रतिवाचम् अदत्त केशवः शपमानाय न चेदि-भूभुजे । अनुहुंकुरुते घन-ध्वनिं न हि गोमायु-रुतानि केसरी ॥८७॥
अंयच् च- तृणानि नोन्मूलयति प्रभञ्जनो मृदूनि नीचैः प्रणलानि सर्वतः । समुच्छ्रितान् एव तरून् प्रबाधते महान् महत्य् एव करोति विक्रमम् ॥८८॥
ततस् तौ संजीवकं कियद् दूरे संस्थाप्य पिंगलक-समीपं गतौ । ततो राजा सादरम् अवलोकितौ प्रणम्योपविष्टौ । राजाह-त्वया स दृष्टः ?
दमनको ब्रूते-देव ! दृष्टः । किंतु यद् देवेन ज्ञातं तत् तथा । महान् एवासौ देवं द्रष्टुम् इच्छति । किंतु महाबलो सौ ततः सज्जीभूयोपविश्य दृश्यताम् । शब्द-मात्राद् एव न भेतव्यम् । तथा चोक्तम्-
शब्द-मात्रान् न भेतव्यम् अज्ञात्वा शब्द-कारणम् । शब्द-हेतुं परिज्ञाय कुट्टनी गौरवं गता ॥८९॥
राजाह-कथम् एतत् ?
दमनकः कथयति-
N/A
References : N/A
Last Updated : November 11, 2016
TOP