भृगुसूत्रम् - सप्तमोऽध्यायः


‘ भृगुसूत्र’ नावे या ग्रंथात जन्मपत्रिकेचे फळ उत्तम प्रकारे अचूक कथन केले आहे.


अथ तन्वादिद्वादशभावस्थितशनिफलमाह तत्रादौ लग्ने शनिफलम्

वातापित्तदेहः ॥१॥
उच्चे पुरग्रामाधिपः धन धान्य समृद्धिः ॥२॥
स्वर्क्षे पितृधनवान् ॥३॥
वाहनेशकर्मेशक्षेत्रे बहुभाग्यम् ॥४॥
महाराययोगः ॥५॥
चन्द्रमसा दृष्टे भिक्षुकी वृत्तिः ॥६॥
शुभदृष्टे निवृत्तिः ॥७॥
लग्नादि‍द्वतीये शनिफलम्

द्रव्याभावः दारद्वयम् ॥८॥
पापयुते दारवञ्चनामठाधिपः अल्पक्षेत्रवान् नेत्ररोगी ॥९॥
लग्नात्तृतीये शनिफलम्

भ्रातृहानिकारकः ॥१०॥
अदृष्टः दुर्वृत्तः ॥११॥
उच्चस्वक्षेत्रे भ्रातृवृद्धिः ॥१२॥
तत्र पापयुते भ्रातृद्वेषी ॥१३॥
लग्नाच्चतुर्थे शनिफलम्

मातृहानिः द्विमातृवान् ॥१४॥
सौख्यहानिः निर्धनः ॥१५॥
उच्चस्वक्षेत्रे न दोषः ॥१६॥
अश्वान्दीलाद्यवरोही ॥१७॥
लप्रेशे मन्दे मातृदीर्घायुः ॥१८॥
सौख्यवान् ॥१९॥
रन्ध्रेशयुक्ते मात्ररिष्टम् ॥२०॥
सुखहानिः ॥२१॥
लग्नात्पश्चमे शनिफलम्

पुत्रहीनः अतिदारिद्री दुर्वृत्तः दत्तपुत्री ॥२२॥
स्वक्षेत्रे स्त्रीप्रजासिद्धिः ॥२३॥
गुरुदृष्टे स्त्रीद्वयम् ॥२४॥
तत्र प्रथमाऽपुत्रा द्वितीया पुत्रवती ॥२५॥
बलयुते मन्दे स्त्रीभिर्युक्तः ॥२६॥
लग्नात्षष्ठे शनिफलम्

अल्पज्ञातिः शत्रुक्षयः ॥२७॥
धनधान्यसमृद्धः कुजयुते देशान्तसञ्चारी ॥२८॥
अल्पराजयोगः ॥२९॥
भङुयोगात्क्वचित्सौख्यंक्वचिद्योगभङु ॥३०॥
रन्ध्रेशो मंदे अरिष्टं वातरोगी शूलग्रणदेही ॥३१॥
लग्नासप्तमे शनिफलम्

शरीरदोषकरः कृशकलत्रः वेश्यासम्भोगवान् अति दुःखी उच्चस्वक्षेत्रगते अनेकस्त्रीसम्भोगी ॥३२॥
केतुयुते स्त्रीसम्भोगी ॥३३॥
कुजयुते शिश्नचुम्बनपरः ॥३४॥
शुक्रयुते भगचुम्बनपरः ॥३५॥
परस्त्रीसम्भोगी ॥३६॥
लग्नादष्टमे शनिफलम्

त्रिपादायुः दरिद्री शूद्रस्त्रीरतः सेवकः ॥३७॥
उच्चस्वक्षेत्रगे दीर्घायुः ॥३८॥
अरिनीचगे भावाधिपे अल्पायुः ॥३९॥
कष्टान्नभोगी ॥४०॥
पतितः जीर्णोद्धारकरः एकोनचत्वारिंशद्वर्षे तटाकगोपुरनिर्माण कर्ता ॥४१॥
उच्चस्वक्षेत्रे पितृदीर्घायुः ॥४२॥
पापयुते दुर्बले पित्ररिष्टवान् ॥४३॥
लग्नाद्दशमे शनिफलम्

पञ्चविंशतिवर्षे गङुस्त्रायी अतिलुब्धः पित्त शरीरी ॥४४॥
पापयुते कर्मविघ्रकरः शुभयुते कर्मसिद्धिः ॥४५॥
लग्नादेकादशे शनिफलम्

बहुधनी विध्रकरः भूमिलाभः राजपूजकः ॥४६॥
उच्चे स्वक्षेत्रे वा विद्वान् ॥४७॥
महाभाग्ययोगः बहुधनी वाहनयोगः ॥४८॥
लग्नाद्‌द्वादशे शनिफलम्

पतितः विकलाङु ॥४९॥
पापयुते नेत्रच्छेदः॥५०॥
शुभयुते सुखी सुनेत्रः पुण्यलोकप्राप्तिः ॥५१॥
पापयुते नरकप्राप्तिः ॥५२॥
अपात्रव्ययकारी निर्धनः ॥५३॥
इति श्रीभृगुसूत्रे सिद्धप्रभाकरीटीकाभियुक्तेशनिभावाध्यायनामसप्तमोऽध्यायः ॥७॥

N/A

References : N/A
Last Updated : September 19, 2011

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP