संस्कृत सूची|शास्त्रः|तंत्र शास्त्रः|रूद्रयामल| उत्तरतंत्रम्|चतुरशीतितमः पटलः| आनन्दसारमङ्गलकवचम् चतुरशीतितमः पटलः आनन्दसारमङ्गलकवचम् चतुरशीतितमः पटलः - आनन्दसारमङ्गलकवचम् हाकिणीशक्तिकवचम् Tags : rudrayamaltantra shastraतंत्र शास्त्ररूद्रयामल आनन्दसारमङ्गलकवचम् Translation - भाषांतर श्रीआनन्दभैरव उवाचअथादौ कथयानन्दभैरवि प्राणवल्लभे ।कवचं हाकिनीदेव्याः परमानवर्धनम् ॥१॥हेतुयुक्तं श्रद्धया मे करुणासागरस्थिते ।शीघ्रं विरचयानन्द कवचं सारमङुलम् ॥२॥श्रीआनन्दभैरवी उवाचआदौ श्रृणु महावीर परमानन्दसागर ।कवचं हाकिनीदेव्याः संसारार्नवतारकम् ॥३॥यस्य स्मरणमात्रेण योगी योगस्थिरो भवेत् ।अन्तरिक्षे च भूलोके पाताले ये चराचराः ॥४॥स्तम्भिता वेपमानाह स्युर्विद्याज्ञानादिपाठतः ।कवचध्वनिमात्रेण भूतप्रेतपिशाचकाः ॥५॥विद्रवन्ति भयार्ता वै कालरुद्रप्रभावतः ।यथाऽलोको वहिनमध्ये स्थिरो भवति निश्चितम् ॥६॥ॐ अस्याः श्रीहानिकीदेव्याः सानन्दसारमङुलस्य महाकवचस्य सदाशिव ऋषिर्गायत्रीच्छन्दः श्रीहाकिनीपरदेवता क्लीं बीजं स्वाहा शक्तिः सिद्धलक्ष्मीमूलकीलकं देहान्तर्गत महाकामसिद्धयर्थे जपे विनियोगः ।ॐ पातु शीर्षचक्रं मे क्लीं पातु भालमण्डलम् ।स्वमूलं पातु मे नित्यं लोचनत्रितयं मम ॥६॥गण्डयुग्मं सदा पातु वाग्भवाद्या मनोरमा ।श्रीं ह्रीं पातु कर्णयुग्मं हाकिनी परदेवता ॥७॥महाविद्या सदा पातु ममोष्ठाधरसम्पुटम ।दन्तवलियुगं पातु ह्रीं श्री स्वाहा परेश्वरी ॥९॥क्लीं ह्रीं श्री हाकिनीदेवी स्वाहा पातु रसप्रियाम् ।सृक्कनीं पातु सततं शक्तिः कामवरा मधुः ॥१०॥स्वाहा पातु शिखा शक्तिर्भूमध्य्म पातु सर्वदा ।हाकिनी मण्डलं पातु परानाथोश्वरी परा ॥११॥सुन्दरी सर्वदा पातु द्विदलं कामसुन्दरी ।अमृताख्या सदा पातु भ्रूप्रकाशस्थलं मम ॥१२॥वहिनज्वाला सदा पातु भ्रूश्मशानस्थलं मम ।सुरभी पातु मायास्त्रं स्वाहा मे भ्रूगतच्छदम् ॥१३॥त्रिकोणं पातु कामाख्या हाकिनी परमेश्वरी ।त्रिपुरा सुन्दरी पातु द्विषट्कोणं सदा मम ॥१४॥हिङ्गुलादेश्वरी पातु षट्कोणबिन्दुमण्डलम् ।सप्तभूबिम्बमापातु भूतलान्तःप्रकाशिनी ॥१५॥महाशतदलं पातु शतकोटिमरुप्रिया ।गुरुविद्यामयी पातु वाणी मे मत्तगामिनी ॥१६॥चतुर्द्वारं सर्वचर्कं पातु मे परमेश्वरी ।अत्यन्तदुःखहन्त्री मे मनश्चक्रं सदाऽवतु ॥१७॥शब्दब्रह्ममयी पातु चन्द्रमण्डलमेव मे ।अकलतारिनी दुर्गा सर्गस्थित्यन्तकारिणी ॥१८॥महापुरुषसंस्थानं हाकिनी मण्डलं मम ।पातु वर्णमयी तारा चन्द्रार्धं मे सुरेश्वरी ॥१९॥उन्मनीनगरं पातु वहिनकुण्डनिवासिनी ।मदिरा पातु सततं भालं विषहरा मम ॥२०॥धर्मदा ज्ञानदा पातु धर्मज्ञानपदं मम ।तालपत्नीश्वरी पातु अमृतानन्दकारिणी ॥२१॥वैराग्यनिकरं पातु बिन्दुस्थानं महाबला ।त्रितारी कूटशक्तिर्मे सदा पातु विशुद्धकम् ॥२२॥शाकिनीशं सदा पातु शाकिनी कुलभैरवी ।सप्तद्वीपेश्वरी पातु मम षोडशपङ्कजम् ॥२३॥शाकिनी भैरवी पातु चण्डदुर्गा सरस्वती ।कुमारी कुलजा लक्ष्मीःझ सिद्धार्थं मे सदाऽवतु ॥२४॥ह्रदयं पातु सततं शाकिनी परमेश्वरी ।बीजरुपा सदा देवी महामहिषघातिनी ॥२५॥उदरं पातु सततं योगिनीकोटिभिः सह ।उमा महेश्वरी पातु प्रचण्डो मम पृष्ठकम् ॥२६॥चामुण्डा भैरवी बाला पार्श्वयुग्मं सदाऽवतु ।परमा चेश्वरी पातु देवमाता स्तनद्वयम् ॥२७॥सौभाग्यहाकिनी देवी पायात्तु यक्षसः प्रियम् ।आद्या देवी शिखारुपा भुजयुग्मं सदाऽवतु ॥२८॥सर्वापराधहर्त्री मे कामविद्या दशच्छदम् ।मणिपूरं सदा पातु दशवर्नात्मिका शिवा ॥२९॥नाभिचक्रं सदा पातु लाकिनी पद्मवासिनी ।नित्यदेशदल्म पातु पार्वती वेदपालिनी ॥३०॥महारुद्रेश्वरी पातु पीठरुप्म मणिं मम ।तेजोमण्डलमापातु रुद्रानी शूलधारिणी ॥३१॥अभया सर्वदा पातु योगविद्याअ नितम्बकम् ।नितम्बाधारचक्र्म मे पातु शैलं नितम्बिनीं ॥३२॥तरुणी मन्त्रजालस्था विष्णवी लिङुमण्डलम् ।सदा पातु हाकिनीशा महाविष्णुस्थलं मम ॥३३॥विष्णवी ललिता माया रमादेवी कटिं मम ।स्वाधिष्ठानं सदा पातु गुह्यरुपा सरस्वती ॥३४॥भवानी भगवत्पत्नी श्मशानकालिका गुदम् ।पातु मे रणमातडी राकिनी कुलमण्डलम् ॥३५॥व्यक्ताव्यक्तस्वरुपा मे मूलाधारं सदाऽवतु ।चतुर्दलं चतुर्वर्णं पातु मे ज्ञानकुण्डली ॥३६॥तपस्विनी सदा पातु पावनी मूलमावतु ।रतिका घटिका वेश्या धरिणी कामसुन्दरी ॥३७॥वहिनकान्ता सदा पातु ममोरुयुगलं सदा ।उल्कामुखी क्षेत्रसिद्धा जङ्वायुग्मं सदाऽवतु ॥३८॥बालामुखी पातु सम्पत्प्रदा श्रीकुलभैरवी ।पादाम्भुजद्वयं पातु सर्वाङु परहाकिनी ॥३९॥मदना मेदिनी धन्या चामुण्डा मुण्डमालिनी ।रमा कामकला ज्येष्ठा तथाज्ञा रतिसुन्दरी ॥४०॥मनोयोगा सदा पातु निर्मला विमलामला ।काञ्चनी बगला रात्रिः पञ्चमी रतिसुन्दरा ॥४१॥सर्वत्र सर्वदा पातु योगाद्या प्रेमकातरा ।पर्वते विपिने शून्ये रणे घोरतरे भवे ॥४२॥श्मशानवासिनी पातु सर्ववाहनवाहना ।सर्वास्त्रधारिणी पातु पञ्चमी पञ्चमप्रिया ॥४३॥चतुर्भुजा सदा पातु हाकिनी देहदेवता ।सहस्त्रायुतकोटीन्दुवदना परमेश्वरी ॥४४॥योगिनीभिः सदा पातु सर्वदेशे तु सर्वदा ।अनन्ता सर्वदा पातु महाविघ्नविनाशिनी ॥४५॥जले चानलगर्ते वा व्याधिभीतौ रिपोर्भये ।व्याघ्रभीतौ चौरभीतौ महोन्मादभयादिषु ॥४६॥ग्रहभीतौ देवभीतौ दानवाद्रिभयेषु च ।अभया निर्भया भीतिहारिणी भयनाशिनी ॥४७॥महाभीमा भद्रकाली भैरवी मारकामला ।माहाभूतेश्वरी माता जगद्वात्री सदाऽवतु ॥४८॥सर्वदेशे सर्वपीठे मातृका पातु नित्यशः ।इत्येतत् कवचं सर्वसिद्धदं दुःखाशनम ॥४९॥कथितं तव यत्नेन महाकाल प्रभो ! हर ।यः पठेत् प्रातरुत्थाय कवचं देवदुर्लभम् ॥५०॥स भवेत कालजेताऽपि स देवो न तु मानुषः ।ध्यानात्मा साधकः श्रीमान् परमात्मा भवेत् स्वयम् ॥५१॥आज्ञापद्मे स्थिरो भूत्वा नित्यो भवति निश्चितम् ।अकालमृत्युहरणं संसारार्नवतारणम् ॥५२॥कवचं देवदेवश चान्द्न्दसारमङुलम् ।यः पठेदतिभक्त्या च जीवन्मुक्तो भवेद् ध्रुवम् ॥५३॥चतुर्विधा मुक्तिमाला तद्गले संस्थिरा ध्रुवम् ।भवन्ति योगमुख्यानां गुरुर्वेदान्तपारगः ॥५४॥सर्वशास्त्रर्थवेत्ता स्याद् यामलार्थज्ञ ईश्वरः ।शान्तिं विद्याम प्रतिष्ठाञ्च निवृत्तिं प्राप्य निर्मलः ॥५५॥योगात्मा चेश्वरत्व्म हि प्राप्नोति नात्र संशयः ।कुजे वा शनिवारे वा संक्रान्त्यां रविवासरे ॥५६॥अमावास्यासु रिक्तायां धारयेत् कवचं शुभम् ।पुरुषो दक्षिणे हस्ते वामा वामभुजे तथा ॥५७॥सर्वसिद्धिमवाप्नोति यद्यन्मनसि वर्तते ।गोरोचनाकुङ्कुमेन चालक्तेन विलिख्य च ॥५८॥अवश्य्म सिद्धिमाप्नोति हाकिनीयोगजापतः ॥५९॥॥ इति श्रीरुद्रयामले उत्तरतन्त्रे महातन्त्रोद्दीपने सिद्धमन्त्रप्रकरणे भैरवीभैरवसंवादे हाकिनेकवचं नाम चतुशीतितमः पटलः ॥८४॥ N/A References : N/A Last Updated : May 01, 2011 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP