संस्कृत सूची|शास्त्रः|तंत्र शास्त्रः|रूद्रयामल| उत्तरतंत्रम्|त्र्यशीतितमः पटलः| हाकिनीस्तवनम् त्र्यशीतितमः पटलः हाकिनीस्तवनम् त्र्यशीतितमः पटलः - हाकिनीस्तवनम् हाकिणीस्तोत्रम् Tags : rudrayamaltantra shastraतंत्र शास्त्ररूद्रयामल हाकिनीस्तवनम् Translation - भाषांतर श्रीआनन्दभैरव उवाचकथयस्व वरारोहे हाकिनीस्तोत्रमुत्तमम् ।यस्य प्रपाठनाद् वाग्मी कृपायासे दयामयि ॥१॥श्रीआनन्दभैरवी उवाचअत्यद्भुतं स्तोत्रवरं श्रृणु प्रभो सर्वेश्वरैर्भावितमादिगुह्यम् ।यैः पठ्यते साधकचक्रनाथैस्तैरेव सिद्धैरतिधर्मविदिभः ॥२॥ब्रह्माख्यां कामविद्यां नरहरिजननीं कामकूटस्वरुपांहाकिन्याख्यां शम्भुजायां त्रिवधुमदनशां तारिणीं स्तौमि सिद्धाम् ।हेरम्बानन्दविद्यां त्रिसमनदमनीं दीर्घकेशीं त्रिनेत्रांमन्दारण्यमध्ये विकसितवदनाम्भोजहासप्रकाशाम् ॥३॥हिरण्यालङ्कारां त्रितयनयनां पट्टवसनांमहास्निग्धां शुद्धां कुलजनवरामिन्दुवदनाम् ।सदा स्तौति श्रीदां भुवनकरुणां भावतरुणांत्रिवेणीश्वेताभां वसमयतनुं भ्रूयगदले ॥४॥महापद्मवनोद्रेकरम्यस्थाननिवासिने ।हाकिनि त्वां मुदा स्तौमि तद्धर्मकुरुपागताम् ॥५॥संसारार्णवतारिणीं नरहरिप्रेमाभिलाषान्मनींभावारम्भविसर्जनैकनिलयां मायां महासुन्दरीम् ।भास्वत्कोटिसुरत्नसिंहवसतिं श्रीहाकिनीं द्राविणींस्तौमि क्षेत्रनिरिक्षणाय नियतां श्रीभारतीभाविताम् ॥६॥संस्कारश्रियमातनेति सहसा श्रीपार्वतीवल्लभे नानारत्नकलापदर्शनमहाज्ञानं निदानं धनम् ।सा साक्षादखिलेश्वरी परशिवानन्दैबिन्दूज्ज्वलामामादौ परिरक्षतु प्रियकरी संस्तौमि पीठान्तरे ॥७॥आकाशवेदलिङे स्थितिपथिमिलिते भाति सा रक्तबर्हासा मां पात्वम्ब काली कुलपथभविका क्रोधनिः क्रोधकर्त्री ।तस्याः श्रीपादपद्मत्रिभुवनभक्तकेशालिमालायुक्तं सर्वेन्द्रपूज्यं निरवधिकमले द्वे दले स्तौमि विद्याम् ॥८॥साङुं द्वयं त्वत्प्रियं पदयुगं पत्रद्वयश्रेयसंमञ्जीराद्भुतहारपादकमलं सम्भाव्य संस्तौम्यहम् ।यद् ध्यात्वा हरिरीश्वरो गुणधरो जेता महारेःक्षणादाशापाशविसर्जनैकनिलयं त्रैलोक्यसंरक्षकः ॥९॥या यात्रा व्रतवासिनी शशिमुखी छागादिमांसप्रिया ।मामेकं परिपालय त्वमखिले त्वामेकरुपां शिवाम् ।स्तौमीन्द्रावनतिप्रियां वाङ्मोक्षसहितानन्दैहेतुप्रदाम् ॥१०॥वरं परं नमाम्यहं गिरीन्द्ररुपगर्वहंमहेश्वरं परेश्वरं श्मशानबीजगहवरम् ।हिरण्यरत्नभूषणं शतेन्दुतेजसं तथाशिवं तनुं पुनः परप्रभाप्रभाकरम् ॥११॥शरेण्यं वरेण्यं महाकामधन्य़ंमहादेवदेव्म त्रिकालादिजन्यम् ।श्मशानोग्रधूलिप्रियाङानुलेपंसदा स्तौमि संसारसारं निषकम् ॥१२॥परशिवं मनसा सहसा निशिप्रतिदिनं प्रणमाम्यहमादिमम् ।शशिमुखीशतचन्द्रिकयान्वितंभजनसाधक सत्फलदायकम् ॥१३॥परशिवचरणाब्जं हाकिनीशक्तिसेव्यंत्रिभुवनसुखदानं ध्यानमात्रप्रकाशम् ।अतिसुललितहस्ताम्भोजशोभां वहन्तंभुवि निजकुलसारं स्तौमि योगीन्द्रगम्यम् ॥१४॥शोक्यशोकावलीलामति हि कलयति प्राणदेहाभिलाषंहाकिन्याः प्राणनाथो भवशमनकरो हीरकास्त्रग्धरो वा ।सोऽसौ भ्रूपद्मसारे रचयित कलिकां चित्तदीपस्त्य नित्यांतस्य श्रीपादपद्मं गुणगणयजितं पूजितं स्तौमि भाले ॥१५॥मेरुश्रृ्ङुनिकेतनैकवसनं गोलोकसंसेवितंयज्ञानन्दनिषिवितं परिशवं योगीन्द्रचित्तस्थलम् ।हालापाननिराकुलं पशुसमां सामोदनाचर्वणांवन्दे नन्दिमहादिभैरववरैर्वन्द्यं जगत्कारणम् ॥१६॥मायापथच्छलकलाकपिलापतिस्त्वंत्वं भूरविपतिरुपापतिरेकचक्रः ।आपोऽनलत्वमखिले गगनप्रकाशावायुस्थामावसिमुखं शरणं प्रपद्ये ॥१७॥वाच्छाकल्पद्रुमतलगतं हेमसिंहासनस्थंश्रीहाकिन्या रमणनिरतं कामकेलिप्रकाशम् ।मायामोहं क्षयमतिसुखं विन्ध्यशैलग्रसंस्थंवन्दे नाथं हरपरशिवं रुपजालप्रकाशम् ॥१८॥फलश्रुतिकथनम्पठेद् यः स्तोत्रार्थं भवति स सुखी योगनिपुणः क्षुधातृष्णानाशः श्रवणधृतयशोवासिसरसः ।स योगीन्द्रो मासादतिशयपरानन्दघटकःपरीरः प्राणाख्ये रचयति सुधासिन्धुसुरसम् ॥१९॥एतत् स्तोत्रं पठेद्विद्वान् ध्यानन्याससमान्वितम् ।शुक्लं रक्तं तथा पीतं नेतं कृष्णं विभाव्य च ॥२०॥कालचतुष्टये नित्यं पठित्वा सिद्धिमाप्नुयात् ।आकाशे भूतले नाथ पाताले विघ्नकोटयः ॥२१॥योगिनां पठनादेव नश्यन्ति तत्क्षणादिह ।सर्वत्र गामी स भवेदतिभाग्यफलोदयम् ॥२२॥महापापहरं स्तोत्रं हाकिनीह्रद्योद्भवम् ।सदाशिवप्रियं योगसिद्धिदं देवसेवितम् ॥२३॥सहस्त्रवारपाठेन पुरश्चर्याफलं लभेत् ।पठित्वा स्तोत्रराज्म तु श्मशाने निर्जने वने ॥२४॥अन्तरीक्षेऽथवा नाथ योगी स्यादमरो महान् ।अस्य प्रपठनाद्वाग्मी ज्ञानवान् विजितेन्द्रियः ॥२५॥ध्यानात्मा संभवेत् क्षिप्रं परिवारगणैः सह ।प्रातःकाले निशायां तु मध्याहने शेषकालके ॥२६॥प्रपठेत् स्तोत्रसारं तु भावात्मा साधकोत्तमः ।अनायासेन भ्रूपद्मे स्थिरो भवति निश्चितम् ॥२७॥श्रीगुरोश्चरनाम्भोजं ह्रदये ध्याननिर्णयम् ।यो ध्यात्वा पठ्यते स्तोत्रं स भवेत् कल्पपादपः ॥२८॥इदानीं कथये नाथ कवचं पटलान्तरे ॥२९॥॥ इति श्रीरुद्रयामले उत्तरतन्त्रे महातन्त्रोद्दीपने सिद्धमन्त्रप्रकरणे भैरवीभैरवसंवादे हाकिनीपरनाथस्तोत्रविन्यासो नाम त्रशीतितमः पटलः ॥८३॥ N/A References : N/A Last Updated : May 01, 2011 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP