संस्कृत सूची|शास्त्रः|तंत्र शास्त्रः|रूद्रयामल| उत्तरतंत्रम्|अथाष्टसप्ततितमः पटलः| सिद्धकुलचक्रमण्डलम् अथाष्टसप्ततितमः पटलः सिद्धकुलचक्रमण्डलम् अथाष्टसप्ततितमः पटलः - सिद्धकुलचक्रमण्डलम् कण्ठाम्भोजभेदप्रकाशः Tags : rudrayamaltantra shastraतंत्र शास्त्ररूद्रयामल सिद्धकुलचक्रमण्डलम् Translation - भाषांतर श्रीआनन्दभैरवी उवाचश्रृणु भैरव वक्ष्यामि सङ्केतार्थनिर्णयम् ।मुलचक्रक्रमं सिद्धं शक्तिसदाशिवस्य च ॥१॥अस्य विज्ञानमात्रेण कण्ठपद्मे स्थिरो भवेत् ।पद्माग्रे च सारचक्रे योगिनामतिसुसुप्रियम् ॥२॥ध्यानादेव महाबाहो सर्वचक्रप्रदर्शकम् ।ऊर्ध्वरेता कामजेता ज्ञानी मौनी दिगम्बरः ॥३॥खेचरो धारकः श्रीमान् कौलिकः साधको भवेत् ।तच्चक्रध्यानमेवं तु द्विद्वारमग्रतो मुखे ॥४॥तदन्ते चापि द्विद्वारं तिलार्धं भिन्नरेखया ।रेखाद्वये चैकद्वारमेवं द्वारद्वयं पुनः ॥५॥अग्रादुत्तरपर्तन्तं ध्यायेद् वारद्वयं सुधीः ।द्वयोर्मध्ये चतुर्वेदरेखामण्डलभेव च ॥६॥तदन्तरे च षट्कोणं द्विषट्कोणं तदन्तरे ।तन्मध्येऽष्टदलं तन्मध्ये चन्द्रमण्डलम् ॥७॥तन्मध्ये शून्यरुपं तु निराकारं निरञ्जनम् ।तत्त्वज्ञानाश्रितानन्दविद्यात्मानं ममास्पदम् ॥८॥स्थूलसूक्ष्ममयं शुद्धं वाच्यवाचकभावनम् ।अभेदं तु ममात्मानं कोटिसूर्यसमप्रभम् ॥९॥कोटिविद्युत्प्रभाकारं चन्द्रकोटिसुशीतलम् ।सर्वव्यापकं मीशानमभेदज्ञनकारणम् ॥१०॥विधातारं परब्रह्मं सर्वज्ञं सर्वदर्शिनम् ।सर्वशास्त्रप्रवक्तारं ज्ञानज्ञेयं चराचरम् ॥११॥अष्टहस्तं विशालाक्षं शूलिनं मुण्डमालिनम् ।जरातीतं निर्विकल्पं तरुणं तारकं हरम् ॥१२॥हरिं ब्रह्माणमीशानं त्रिलोकानां प्रभामयम् ।अभेद्यभेदकं सिद्धं सिद्धासनकरं सुरम् ॥१३॥गन्धर्वनगरं देशं विशेषं सर्वतोमुखम् ।अकालतारकं स्वाहास्वधाशक्तिसमन्वितम् ॥१४॥कोटिकालानलाकारं रौद्रं रुद्रात्मकं भवम् ।कन्याश्रीसुन्दरीकाटिमण्डलान्तः प्रकाशकम् ॥१५॥तेजोबिम्बं भासमानं सर्वव्याधिनिकृन्तनम् ।ह्रषीकेशानन्दसिद्धं त्रिविक्रमफलोदयम् ॥१६॥नृसिंहक्रोधनिलयं सर्वदैत्याविनाशनम् ।मीनवतारवेदार्थसमुद्धरणकारणम् ॥१७॥कूर्मपृष्ठाधारचक्रं वराहदन्तभूषणम् ।नरसिंहाकारभक्तरक्षकं परमेश्वरम् ॥१८॥महेन्द्ररक्षकं दैत्यदर्पघ्नं वामनं तनुम् ।दैत्यक्षत्रियदर्पघ्नं परशुरामं द्विजाधिपम् ॥१९॥भृगुवंशपतिं सत्यज्ञानावतारमुत्तमम् ।श्रीरामं पावनं रक्षोहन्तारं तापसं गुरुम् ॥२०॥त्रैलोक्यधारमानन्दरुपं हलधरं परम् ।अनन्तं योगिनामाद्यं सहस्त्राङ्कफणान्वितम् ॥२१॥बुद्धं निराकारधर्मं सर्वशास्त्रार्थवर्धकम् ।नित्यश्रुत्युदितामोदधर्मविवर्जितम् ॥२२॥स्वयम्भुवं स्वप्रकाशं परमात्मानं मङुलम् ।एकाकां धर्मचक्रवेदिनं स्वच्छसङुरम् ॥२३॥दुष्टनिग्रहकर्तारं महावीरं धनञ्जयम् ।श्रीकृष्ण सवेसेवाभिः पूजितं तन्मयं शुभम् ॥२४॥विमदं रक्षकं ध्यानज्ञानमोक्षप्रकाशकम् ।राजराजेश्वरं वास्यं सर्वलोकनिषेवितम् ॥२५॥सर्वदेवस्थितं धर्मं धर्मात्मानं विनोदिनम् ।व्यापकं व्यापकाधारं निर्विकल्पं सुधामयम् ॥२६॥विशिष्टं पञ्चपाषाणमहापीठनिवासिनम् ।अनन्तान्तमहिमं कपालशूलधारिणम् ॥२७॥त्रिरेखामण्डलस्थानं चतुर्वेदक्रमाकरम् ।एकवक्त्रं द्विपादं च द्विमुखञ्च चतुष्पदम् ॥२८॥त्रिमुखं षड्भुजं नाथं चतुर्वक्त्रं विधिं परम् ।अष्टाम्भोजभुजाम्भोजं पञ्चवक्त्रं त्रिलोचनम् ॥२९॥शिवं दशभुजं सौख्यं सुन्दरं श्रीषडाननम् ।नित्यं द्वादशहस्तञ्च सर्वास्त्रधारिणं ध्रुवम् ॥३०॥सप्तसुखं महाकायं चतुर्दशभुजं प्रियम् ।अष्टमुखं शिवाहलादं भुजषोडशमण्डितम् ॥३१॥नवपद्मब्मुखाम्भोजष्टादशभुजं विभुम् ।उन्मत्तभैरवं कोटिमहाविद्याद्यवल्लभम् ॥३२॥अमरेशं महाकायष्टादशभुजापतिम् ।कालराशिं कृष्णवर्णं चित्रसर्पसुमालिनम् ॥३३॥शतवक्त्रं कोटिहस्तं सहस्त्रवदनाम्बुजम् ।शतकोटिमुखं नित्यानन्दसन्तानमन्दिरम् ॥३४॥अनन्त चरणाम्भोजमनन्तजनसेवितम् ।अनन्तहस्तकमलमनन्तालङ्तोज्ज्वलम् ॥३५॥अन्तःप्र्काशनिकरमनन्तगुणसम्भवम् ।अनन्तसृष्टिस्त्रष्टारमनन्तस्थितिकारणम् ॥३६॥अनन्तकमलावन्ये चानन्तसंह्रतिप्रियम् ।अनन्तबीजनिकरमनन्तशास्त्रनिश्चयम् ॥३७॥अनन्ततापसन्तृमनन्तजलमध्यगम् ।अनन्तपरमाधारमनन्तवहिनधारिणम् ॥३८॥अनन्ताकाशनिकरमनन्तपृथिवीपतिम् ।अनन्तज्वालामालाढ्यमनन्तबुद्धिकारणम् ॥३९॥अनन्तस्थानपूजाढ्यमनन्तनामसिद्धिदम् ।अनन्तगतिविज्ञानमनन्तराज्यदं सुखम् ॥४०॥अनन्तधर्मशास्त्रार्थकिरणं काव्यपूजितम् ।अनन्तदेवतास्थामनन्तकर्मसिद्धिदम् ॥४१॥अनन्तमालागुटिकाजापिनं नित्यसिद्धिदम् ।अनन्तचित्तसञ्चारमनन्तानन्तविक्रमम् ॥४२॥अनन्तजीवसंज्ञानमन्तभावनाप्रियम् ।अनन्तनिर्मलानन्दमन्तप्राणिवल्लभम् ॥४३॥अनन्तनाथाकर्तारमनन्तसिन्धुसंस्थितम् ।सर्वतः पाणिपादान्तं सर्वतोऽक्षिशिरोमुखम् ॥४४॥सर्वमावृत्य तिष्ठन्तमपराजितमीश्वरम् ।ध्यात्वाऽऽनन्दमयं देवं पीठमध्ये च साधकम् ॥४५॥शाकिनीदेवशक्तिश्रीप्रमाहलादपरायणम् ।देवेदेवं विश्वमयं शाक्यरुपं सनातनम् ॥४६॥मम रुपं यदा नाम्ना स्तौति कामविनोदिनम् ।ध्यात्वा चक्रपुरे योगी निरालम्बो दिगम्बरः ॥४७॥गगने चक्रसारं तु कुलनाम्ना प्रतिष्ठितम् ।ध्यात्वा भवति योगीन्द्रः खेचरो गतभीः प्रभुः ॥४८॥अनायासेन सिद्धिः स्याद् ज्ञानी च ज्ञानवान् भवेत् ।ऊर्ध्वमुखं कण्ठपद्मं तदग्रे चक्रमण्डलम् ॥४९॥अधोमुखं नेत्रपद्म्म द्विदलं चातिसुन्दरम् ।तदग्रे च महाचक्रं तदाकारं महाप्रभम् ॥५०॥द्विचक्रसङुमं यत्र दृश्यते रात्रियोगतः ।तदा भवति देवेश चतुर्द्वारं मनोहरम् ॥५१॥चक्रं निरञ्जनं ज्ञानज्ञेयं मन्त्रमयं शिव ।यो जानति महादेव स भवेत् कल्पपादपः ॥५२॥इति कण्ठस्य माहात्म्यं संक्षेपात् कथितं मया ।जानाति योगी ध्यानेन ज्ञानयुक्तिन चेतसा ॥५३॥पश्यत्येव महात्मानं ज्ञानज्ञेयं सुधामयम् ।कोटिवर्षशतनापि कथितुं नैव शक्यते ॥५४॥तव भक्त्या महादेव तवायुःक्षेत्ररक्षणात् ।इदानीं कथितं कण्ठपद्मसञ्चारमङुलम् ॥५५॥अप्रकाश्यं महागुह्यं शब्दब्रह्मस्वरुपकम् ।निर्जने दोषरहिते व्याधिबाधाविवर्जिते ॥५६॥सुभिक्शानिन्दारहिते स्थित्वा तत्र दृढव्रतः ।भावयेत् परया भक्त्या तव रुपं विचिन्तयन् ॥५७॥अचिराद्योगसिद्धः स्यान्निदानज्ञानसिद्धिभाक् ।श्रीमातृका महादेवी लीलावती शुभा सती ॥५८॥अम्बा गुरी गुरुशक्तिः पातु मामतिकातरम् ।तामम्बाम्बुजाक्षी च प्रणम्य च पुनः पुनः ॥५९॥इदानीं कथये नाथ भ्रूपद्मज्ञाननिर्णयम् ॥६०॥॥ इति श्रीरुद्रयामले उत्तरतन्त्रे महातन्त्रोद्दीपने सिद्धमन्त्रप्रकरणे षट्चक्रप्रकाशे भैरवीभैरवसंवादे कण्ठाम्भोजभेदप्रकाशो नाम अष्टसप्ततितमः पटलः ॥७८॥ N/A References : N/A Last Updated : May 01, 2011 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP