द्विसत्पतितमः पटलः - कालीस्वरूपकथनम
कालीस्तवनम्
श्रीआनन्दभैरवी उवाच
महाकाल शिवानन्द परमानन्दनिर्भर ।
त्रैलोक्यसिद्धिद प्राणवल्लभ श्रूयतां स्तवः ॥१॥
शाकिनी ह्रदये भाति सा देवी जननी शिवा ।
कालीति जगति ख्याता सा देवी ह्रदयशिता ॥२॥
निरञ्जना निराकारा नीलाञ्जनविकासिनी ।
आद्या देवी कालिकाख्या केवला निष्कला शिवा ॥३॥
अनन्ताऽनन्तरुपस्था शाकिनी ह्रदयस्थिता ।
तामसी तारिणी तारा महोग्रा नीलविग्रहा ॥४॥
कपाला मुण्डमालाढ्या शववाहनवाहना ।
ललज्जिहवा सरोजाक्षी चन्द्रकोटिसमोदया ॥५॥
वाय्वग्निभूजलान्तस्था भवानी शून्यवासिनी ।
तस्मात् स्तोत्रप्रकाश्यं कृष्णकाल्याः कुलोदयम् ॥६॥
श्रीकृष्णभगवत्याश्च नीलदेव्या कुलार्णवम् ।
गोपनीयं प्रयत्नेन सावधानोऽवधारय ॥७॥
महाभैरवी उवाच
श्रीकालीचरणं चराचरगुणं सौदामिनीस्तम्भनं
गुञ्जद्र्वगुरुप्रभानखमुखाहलादैककृष्णासनम् ।
प्रेतारण्यासननिर्मितामलकजा नन्दोपरिश्वासनं
श्रीमन्नाथ कराविन्दमिलनं नेत्राञ्जनं राजते ॥८॥
दीप्तिः प्राप्तिः समाप्तिः प्रियमतिसुगतिः सङुतिः शीतनीतौ
मिथ्यामिथ्यासुरथ्या नतिरतिसती जातिवृत्तिर्गुणोक्तिः ।
व्यापारार्थी क्षुधार्थी वसति रतिपतिर्ज्योतिराकासहगङा
श्रीदुर्गाशम्भु कालीचरणकमलकं सर्वदा भाति सूक्ष्मम् ॥९॥
देवेन्द्राः पञ्चभूता रविशाशिमुकुटाः क्रोधवेतालकोलाः
कैलासस्थाः प्रशस्ताह स्तवनमपि तत्प्रत्यहं सम्पठन्ति ।
आत्मानं श्रीदकालीकुलचरणतलं ह्रत्कुलानन्दपद्मे
ध्यात्वा ध्यात्वा प्रवीरा अहमनुबहुधीः स्तौमि किं ध्याननिष्ठः ॥१०॥
श्रुत्वा स्तोत्रगुणं तवैच चरणाम्भोजस्य वाच्छाफलं
प्रेच्छामीहयति प्रियाय कुरुते मोक्षाय तत्त्वार्थतः ।
मातर्मोहिनिदानमानतरुणी कातीति मन्यामहे
योग्यश्रीचरनाम्बुजे त्रुजगतामानन्दपुञ्जे सुखम् ॥११॥
पुत्रौ श्रीदेवपूज्यौ प्रकुरुत इतिहासादिगूधार्थगुप्तिं
श्यामे मातः प्रसन्ना भव वरदकरी कारणं देहि नित्यम् ।
योगानन्दं शिवान्तः सुरतफलदं सर्ववेदान्तभाष्यं
सत्सङुं सद्विवेकं कुरु कुरु कवितापञ्चभूतप्रकाशम् ॥१२॥
आहलादोद्रेककारी परमपादविदां प्रोल्बणार्थप्रकाशः
प्रेष्यः पारार्थचिन्तामणिगुण सरलः पारणः प्रेमगानः ।
सारात्मा श्रीस्तवोऽयं जयसुरवसतां शुक्रसंस्कारगन्ता
मन्ता मोहादिकानां सुरगणतरुणी कोटिभिर्ध्येय इन्द्रैः ॥१३॥
नामग्रहणविमलपावनपुण्यजलनिधिमन्थनेन ।
निर्मलचित्तसुरगुणपारग सुखसुधाकरस्थितहास्येन ।
योगधराधरनरवर कुञ्जरभुजयुगदीर्घपद्ममृणालेन ॥१४॥
हरिविधिहर अपरपरसरभावकपाल सेवनेन ।
सुन्दरी काली चरणेन ॥१५॥
भास्वत्कोटिप्रचण्डानलगुणलिताभाविता सिद्धकाली
प्रोक्तं यद्योगगीतावचनसुरानामङुलं योगिनाद्या।
श्यामानन्दद्रुमाख्ये भजनयजनगङुतीरप्रकाशं
सर्वानन्दोत्सवत्वं वरदसुरवदासम्भवे मय्यभावे ॥१६॥
एतत्प्रथमे कुलं गुरुकुल लावण्यलीलाकुलं
प्राणानन्दकुल कुलाकुलकुलं कालीकुलं सङ्कुलम् ।
मातः कालियुगादि कौलिनि शिवे सर्वन्तराङुस्थितं
नित्यं तत्र नियोजय श्रुतिगिरा श्रीधर्मपुत्रं भवे ॥१७॥
हेरम्बादि कुलेशयोगजननि त्वं योगतत्त्वप्रिया
यद्येवं कुरुते पदाम्बुजरजो योगं तवान्ददम् ।
सः स्यात्सङ्कपाटलारिसदनं जित्वा स्वयं मन्मथं
श्रीमान्मन्ममन्मथः प्रचयति ह्यष्टाङुयोगं परम् ॥१८॥
योगी याति परं पदं सुखपदं वाञ्छास्पदं सम्पदं
त्रैलोक्यं परमेश्वरं यदि पुनः पारं भवाम्भोनिधेः ।
भावं भूधरराजराजदुहिते ज्ञातं विचारं तव
श्रीपादम्बुजपूजनं प्रकुरुते ते नीरदप्रोज्ज्वले ॥१९॥
आदावष्टाङुयोगं वदति भवसुखं भक्तिसिद्धान्तेकं
भूलोके पावनाख्यं पवनगमनगं श्रीनगेन्द्राङुजायाः ।
सिद्धीनामष्टसिद्धिं यमनियमवशादासनप्राणयोगात्
प्रत्याहारं विभोर्ध्वारुणगुणवसनं ध्यानमेवं समाधिम् ॥२०॥
मातः शान्तिगुणावलम्बिनि शिवे शान्तिप्रदे योगिनां
दारे देवगुणे विधेहि सकलं शान्तिक्रियामङुलम् ।
यज्ञानामुदयं प्रयाति सहसा यस्याः प्रसादाद् भुवं
तां सर्वां प्रवदामि कामदहनस्तम्भाय मोहक्षयात् ॥२१॥
एको जीवति योगिराडतिसुखी जीवन्ति न श्रीसुताः
सर्वं योगभवं भवे विभवगाः पश्यन् स्वकीयायुषम् ।
इत्येवं परिभाव्य सर्वविषयं शान्तिं समालम्ब्यकौ
मूले वेद्दलोज्ज्वले कुलपथे श्रीकुण्डली भावय ॥२२॥
शान्तिभ्रान्तिनिकृन्तनी स्वरमणी प्रेमोद्गता भक्तिदा
लावण्याम्बुधिरत्नकोटिकिरणाहलादैकमूर्तिप्रभा ।
एकाकारपराक्रमादपयमा क्रोधक्रमक्षोभिणी
या मूलामलपङ्कजे रचयति श्रीमाधुरी तां भजे ॥२३॥
रे रे पामर दुर्भग प्रतिदिनं किं कर्म वा राधसे
व्यापारं विषयाश्रयं प्रकुरुषे न ध्यायसे श्रीपदम् ।
मिथ्यैतत्क्षणभङ्गुरं त्यज मुदा संसारभावं विषं
श्रीकालीं कुलपण्डिता गुणवतीं शान्तिं समाराधय ॥२४॥
शिवस्त्री या शान्तिः परमसुखदा भावजनिका
विवेकः संजातो वहसि च तया भाति नियतम् ।
विवेकोऽसौ त्यागी जनयति सुधासिन्धुसुन्दर
मदो ब्रह्मज्ञानं परममले योगिनि परे ॥२५॥
द्वयं ब्रह्मज्ञानं परममले चागलमयं
विवेकोद्भूतं स्यादमपरमं शब्दापरम् ।
द्वयोर्मूलीभूता ह्रदि सपदि शान्तिः प्रियतमा
प्रभा कालीपादाम्बुजयुगलभक्तिप्रलयदा ॥२६॥
कुलश्रीकुण्डल्याः परमरसभावं नवमयं
पदं मातुः काल्याः प्रथमरविकान्त्याः सुखमयम् ।
वदामि प्रोत्साहे वशषसशुभे हाटकनिभे
विधिः श्रीडाकिन्याऽमरपतिधरित्रीति च भजेत् ॥२७॥
त्रयं स्थानं नित्यं रविशाशिकलावहिनघटितं
महातीर्थं सम्यक् पवनगनस्थं भवकरम् ।
विभिन्नं सङ्कृत्य द्वयमपि कुलग्रन्थिसहितं
सुषुम्नाश्रीतीर्थे महति गगने पूर्णलयवान् ॥२८॥
त्रयं संशोध्यादौ परमपदवीं गच्छति महान्
सुदृष्टाङैर्योगैः परिभवति शुद्धं मम तनुम् ।
अतो योगाष्टाङुं कलुषसुखुमुक्तं वितनुते
क्रियादौ सङ्कर्याद्यमनियमकार्यं यतिवरः ॥२९॥
अहिंसासत्यार्थी प्रचयति सुयोगं तव पदं
धनस्ते यद्योगी शुचिधृतिदयादाननिपुणः ।
क्षमालध्वाहारी समगुणपरानन्दनिपुणः
स्वयं सिध्दः सद्ब्राह्यणकुलपताकी सुखमयी ॥३०॥
तपः सन्तोषाढ्यो हरयजन आस्तिक्यमतिमान्
यतीनां सिद्धान्तश्रवणह्रदयप्राणविलयः ।
जयानन्दामग्नो हवनमनलेपः प्रकुरुते
महाभक्तः श्रीह्रीर्मतिरकुलीनस्तव पदः ॥३१॥
सुषुम्नामुखाम्भोरुहाग्रे च पद्मं
दलं चेदमेमाक्षरं मूलदेशे ।
स्थिरापृष्ठवंशस्य मध्ये सुषुम्ना
न्तरे वज्रिणी चित्रिणीभासिपद्मैः ॥३२॥
सुषुम्नादिनाड्या युगात् कर्णमूला
त्प्रकाशप्रकाशा बहिर्युग्मनाडी ।
इडा पिडुला वामभागे च दक्षे
सुधांशूरवी राजसे तत्र नित्यम् ॥३३॥
विसर्गं बिन्द्वन्तं स्वगुणनिलयं त्वं जनयसि
त्वमेका कल्याणी गिरिशजननी कालिकलया ।
परानन्दं कृत्वा यदि परिइजपन्ति प्रियतमाः
परिक्षाल्य ज्ञानैरिह परिजयन्ति प्रियपदम् ॥३४॥
अष्टादशाङ्गुलगतं ऋजुदन्तकाष्ठं
स्वीया^गुलार्धघटितं प्रशरं शनैर्यः ।
संयोज्य तालुरसनागलन्ध्रमध्ये
दन्तीक्रियामुपचरेत् तव भावनाय ॥३५॥
नाडीक्षालनमाकरोति यतिराड् दण्डे धारयन्
युष्मच्छ्रीचरणार्पणो नवमदण्डस्यानिलस्तम्भनात् ।
प्राणायामफलं यतिः प्रतिदिनं संवर्धते सुश्रमा
दानन्दाम्बुधिमज्जनं कुलरसैर्मुक्तो भवेत् तत्क्षाणात् ॥३६॥
वदामि परमश्रिये पदपद्मयोगं शुभं
हिताय जगतां मम प्रियगणस्य भागश्रिये ।
सदा हि कुरुते नरः सकलयोगेसिद्धिं मुदा
तदैव तव सेवको जननि मातरेकाक्षरम् ॥३७॥
करुणासागरी मग्नः सदा निर्मलतेजसा ।
तवाङ्घ्रिकोमलाम्भोजे ध्यात्वा योगीश्वरो भवेत् ॥३८॥
करुणासागरे मग्नो येन योगेन निर्मलः ।
तद्योगं तव पादाब्जं को मूर्खः कः सुपण्डितः ॥३९॥
यमनियमसुकाले नेउलीयोगशिक्षा
प्रभवति कफनाशा नाशरन्ध्रे त्रिसूत्री ।
ह्रदयकफविनाशा धोतिका योगशिक्षा
गलविलगलवस्त्रं षष्टिहस्तं वहन्ती ॥४०॥
सुसूक्ष्मरसनस्य च स्वभुजषष्टिहस्तं गल
प्रमाणमिति सन्ततप्रसरपञ्चयुग्माङ्गुलम् ।
पवित्रशुचिधोतिकारं भवसि सर्वपीडापहा
स्वकण्ठकमलोदयाममलभीतदमा भजे ॥४१॥
भजति यदि कुमारी नेउली योगदृष्ट्या
स भवति परवेत्ता मोहजालं छिनत्ति।
स्मितमुखि भवति त्वां मूढा एवातिजीवो
भ्रमितमुदवधूर्ना कारसिद्धिं ददासि ॥४२॥
शनैर्दन्ती योगं स्वपदयुगपद्मे वितनुते
शिवे योगी मासादपि भवति वायुं स्थगयति ।
असौ मन्त्री चाम्रातकदलं सुदण्डं गलविले
नियोज्यादौ ध्यात्वा तव चरणपङ्केरुहतलम् ॥४३॥
कुलाकुलचेतता परिकरोषि विल्वच्छदी
सुशान्तिगुणदा जया परमभक्तिनिर्गुण्डिका ।
मुकुन्दतुलसी प्रिया गुणिनि मुक्तिदा योगिनी
ददास्यमरसम्पदं दलवियोगमूर्ध्वादरीम् ॥४४॥
पञ्चामरा साधनयोगकर्त्री पञ्चामरानाम महौषधिः स्थिता ।
त्वमेव सर्वेश्वररुपधारिणी यैः पूज्यते सोऽहिकपारमेष्ठी ॥४५॥
पठति यदि भवान्याः शाकिनीदेहदेव्याः
स्तवनमरुणवर्णामार्कलभ्याः प्रकाशम् ।
व्रजति परमराज्यं देवपूज्यः प्रतिष्ठो
मनुजपनसुशीलो लीलया शम्भुरुपम् ॥४६॥
प्रातर्मध्याहनकाले च सायाहने च त्रिसप्तके ।
शतं पठित्वा मोक्षः स्यात् पुरश्चर्याफलं लभेत् ॥४७॥
॥ इति श्रीरुद्रयामले उत्तरतन्त्रे महातन्त्रोद्दीपने सिद्धमन्त्रप्रकरणे षट्चक्रप्रकाशे भैरवीभैरवसंवादे शाकिनीकृत कालीस्तवनं नाम द्विसप्ततितमः पटलः ॥७२॥
N/A
References : N/A
Last Updated : April 30, 2011
TOP