संस्कृत सूची|शास्त्रः|तंत्र शास्त्रः|रूद्रयामल| उत्तरतंत्रम्|त्रिपञ्चाशत्तमः पटलः| शौचक्रियाविधानम त्रिपञ्चाशत्तमः पटलः शौचक्रियाविधानम त्रिपञ्चाशत्तमः पटलः - शौचक्रियाविधानम कालजालादिवारणप्रकारः Tags : rudrayamaltantra shastraतंत्र शास्त्ररूद्रयामल शौचक्रियाविधानम Translation - भाषांतर श्रीआनन्दभैरवी उवाचआनन्दसागराम्भोजमध्यस्थ परमप्रिय ।इदानीं कालजालादिवारणं श्रृणु भैरव ॥१॥सम्पूर्य सञ्चयाच्छन्नं वायु स्वाभाविकीगतिम् ।कुम्भयित्वा स्वभावेन चिरकालं सुखी भवेत ॥२॥शनैः शनैः रेचयित्वा सर्वदा तद्गतो भवेत् ।कालजालवशो याति तत्क्षणान्नात्र संशयः ॥३॥विना वाय्वाकुञ्चनेन न सिध्यति च को जनः ।वायुचालनमात्रेण सूक्ष्ममार्गोद्गमेन च ॥४॥सिध्यत्येव महायोगी कालजालवशोऽपि च ।कालवशं न करोति मोहादतिसुखायते ॥५॥कालभक्षो भवेत् सोऽपि म्रियते नात्र संशयः ।मणिपुरे मनो दत्त्वा साधयेद् देवताः सदा ॥६॥स्तोत्रं ध्यानं नाम गुणं पठित्वा च पुनः पुनः ।मनोयोगञ्च सर्वत्र वायुना कारयेद् बुधः ॥७॥कुम्भयित्वा धारयित्वा रेचयित्वा पुनः पुनः ।सर्वकालवशं नीत्वा जीतात्मा चामरो भवेत् ॥८॥लोभमोहौ वर्जयित्वा कामक्रोधदिपातकम् ।सर्वदा वायुपानञ्च कृत्वा रहसि संवशी ॥९॥नित्यं वायुसाधनानि षट्चक्रभेदनाय च ।शनैः शनैर्धारयेद्वै चिरजीवित्वसाधनात् ॥१०॥यदि न चिरजीवी स्यात् कालात्मा वायुसेवकः ।षट्चक्रभावसिद्ध्यन्ते ज्ञानी मृत्युवशो भवेत् ॥११॥अतः कुर्याच्छिवज्ञानं वायुसंसिद्धकारणम् ।तत्क्रियासाधनार्थाय आदौ पञ्चामराविधिम् ॥१२॥कुर्यात् साधकमुख्यश्च निजकायप्रसाधनात् ।नेतीयोगं तदा कुर्याद् यथा भवति संवशी ॥१३॥धौतीयोगं तदा कुर्याद् यथा भवति संवशी ।नेउलीयोगमाकुर्याद् यत्र लोको न विद्यते ॥१४॥दन्तीयोगं तदा कुर्याद् यदा मुख्यक्रियावतः ।तदा क्षणेन यः कुर्याद् यदा तृष्णविवर्जितः ॥१५॥तृष्णनाशो भवेन्मोक्ष इति मे योगनिर्णयः ।विशेषण प्रवक्ष्येऽहं श्रृणु कैलासपावन ॥१६॥एतत्कार्यं पुरा कृत्वा दिवि देवा मुनीश्वराः ।कायसिद्धिं मुदा कृत्वा छायामायाविवर्जिताः ॥१७॥सर्वत्र गामिनः सर्वे धर्माशास्त्रर्थपण्डिताः ।चिरजीविन एवापि सकलश्रीसमन्विताः ॥१८॥तत्तद्भेदान् प्रवक्ष्यामि साधनं कायरक्षणम् ।यः करोति महादेव कायसाधनमुत्तमम् ॥१९॥स आयति ममानन्दसदने नात्र संशयः ।प्रभाते च समुत्थाय ब्राह्ये कालफलोदये ॥२०॥सहस्त्रारे गुरोः पादपङ्कजध्यानमाचरेत् ।विचिन्तयेत्ततः श्रीमान् गुरुरुपां सरस्वतीम् ॥२१॥स्वदेवतां परानन्दसिको योगबुद्धिमान् ।प्रणम्य शिरसा नित्यं शौचकार्य समाचरेत् ॥२२॥शौचक्रियाक्रमेणैव्ब सिद्धः शुचिगुणान्वितः ।प्रगच्छेच्छौचकार्यार्थं घटमानं तु यत्नतः ॥२३॥मृत्तिकाप्रस्थामानञ्च नीत्वा शौचं समाचरेत् ।कुल्कुलं सप्तदशकं वर्चत्यागं पुनः पुनः ॥२४॥ततस्तर्जन्या चालोड्य वामहस्तस्य शङ्कर ।गुदरन्ध्रे समायोज्य क्षालनं हि पुनः पुनः ॥२५॥यावच्च विससंत्यागं निःशिषेण मलक्षयम ।तावन्मृत्पयसा क्षाल्य शोधयेदुदरं सुधीः ॥२६॥यावन्न जायते सौख्यं तावत्कालं समाचरेत् ।तत उत्थाय विधिना मृत्तिकाशौचमाचरेत् ॥२७॥येन क्रमेण विष्ठाया गन्धनाशोऽपि जायते ।पादद्वयं समाक्षाल्य चान्तःशौचं समाश्रयेत् ॥२८॥तत्क्रियासफलं वक्ष्ये श्रृणु योगेश्वर प्रभो ।सूक्ष्मवस्त्रसमुद्भूतं डोरकं सूक्ष्मरन्ध्रके ॥२९॥नासिकाया दृढतरं कोमलं चातिनिर्मलम् ।शनैः शनैर्नियोज्याथ जिहवामूले निवेशयेत् ॥३०॥जिहवामूलात् सदादाय वारं द्वादशकं सुधीः ।मन्दमन्दाघर्षणं तु कृत्वा भेदं समानयेत् ॥३१॥मायात्रयेण बीजेन देवीबीजत्रयेण च ।रमाबीजत्रयेणापि योगिन्यै नम इत्यपि ॥३२॥एतन्मन्त्रेण योगीन्द्रो नेतीयोगं समाचरेत् ।शिरःस्थाङु समाकृत्य कण्ठशोधनमाचरेत् ॥३३॥ततो वक्षः शोधनं तु ततो नाभेश्च शोधनम् ।क्रमेण कुर्यात् कार्यार्थे तत्प्रकारं श्रृणु प्रभो ॥३४॥धौतिक्रियां समाकुर्यात् तप्तोदकनिसेवनम् ।शुक्लवस्त्रं सूक्ष्मसूत्रं चाष्टाङ्गुलप्रमाणकम् ॥३५॥द्वात्रिंशद्धस्तमानं तु पूर्णसंख्या उदीरिता ।मन्त्री प्रथमतः कुर्यात् चतुरङ्गुलवस्त्रकम् ॥३६॥दीर्घे पञ्चहस्तमानं तप्तोदकसमन्वितम् ।भक्षयेत् शेषजिहवाग्रे संस्थाप्य वसनं सुखम् ॥३७॥तर्जनीमध्यमाङ्गुष्ठामुद्राभिर्भक्षयेत् सुधीः ।क्रमेण वर्धयेन्नित्यं दीर्घे च प्रसवे तथा ॥३८॥एतन्मन्त्रेण देवेश पूर्वोक्तमनुना तथा ।सर्वत्र पूर्वबीजेन संशोध्य बीजमुच्चरेत् ॥३९॥शक्तिबीजत्रयं पश्चात् कामबीजत्रयं तथा ।लक्ष्मीबीजत्रयं पश्चान्महाधौतनिवासिनी ॥४०॥मेवाडीमलमन्त्रे तु क्षालयद्वयमेव च ।भार्या वहेत्ततः पश्चादुदरे सन्निवेशयेत् ॥४१॥शनैर्निवेशनाकृत्य यावत् सर्वः प्रजायते ।एतद्योगप्रसादेन वायवी सुकृपा भवेत् ॥४२॥ततः कुर्यात् साधकेन्द्रो विग्रहक्षेमकारणात् ।नेउलीपरमं योगं गात्रदृढनिबन्धनम् ॥४३॥घूर्णायमानमाकुर्यादुदरं परमेश्वर ।सर्वदा चालनं कुर्यात् प्राणवायुप्रधारणम् ॥४४॥वामे घूर्णितमाकृत्य दक्षिणे घूर्णीतं चरेत् ।एवं क्रमेण देवेश पुटपाकं समाचरेत् ॥४५॥एतन्मत्रेण देवेश शुभासने हठो भवेत् ।ब्रह्मबीजत्रयं पश्चात् कालीबीजत्रयं ततः ॥४६॥देवीप्रणवयुग्मं तु गात्रस्थायै नमो द्विठः ।तदन्ते नाडिकादीनां क्षालनं परमाद्भुतम् ॥४७॥वक्षःस्थानं महादेव दन्तीयोगेन कारयेत् ।गजमानं दन्तकाष्ठं निर्मलं सुन्दरं मतम् ॥४८॥दन्तकाष्ठं क्षालयेद्वै मनुना साधकाग्रणीः ।मायाबीजत्रयं पश्चाद् भैरवीबीजकत्रयम् ॥४९॥मर्दिनीबीजयुगलं दन्तकाष्ठनिवासिनी ।मे ह्रदग्रन्थं छेदय इति युगलं वहिनसुन्दरी ॥५०॥क्रमेण विधिनानेन गलरन्ध्रे निवेशयेत् ।यावन्नाभेरहो याति यावत् सुखमयानि च ॥५१॥तावद्दन्तीयोगकार्यं प्रभाते सर्वकार्यकम् ।एतदन्ते ततः कुर्यान्नाडीक्षालनमेव च ॥५२॥तन्मत्रं श्रृणु वीरेन्द्र चामरत्वप्रदायकम् ।आदौ प्रणवमुद्धृत्य दीर्घप्रणवयुग्मकम् ॥५३॥भुवनेशीबीजयुग्मं चन्द्रबीजत्रयं ततः ।कृष्णबीजत्रयं पश्चादर्कबीजत्रयं ततः ॥५४॥वाग्भवत्रममुद्धृत्य वहिनबीजत्रयं ततः ।श्रीबीजं मन्मथं लक्ष्मीं शीतले तदनन्तरम् ॥५५॥स्वोदरं नाडिकामूलं मलक्षालययुग्मकम् ।स्वाहान्तमनुना नित्यं क्षालयेन्नादिकाधमाः ॥५६॥यावत्तृष्णानाशकः स्यात्तवत्कालं समाचरेत् ।यावदुद्गमशक्तित्वं त्रिदण्डावधि धारणा ॥५७॥तावन्न जायते नाथ क्षालनं सुखसाधनम् ।यदि भाग्यवशादेव त्रिदण्डवायुकुम्भकम् ॥५८॥स्वयमेव समायाति नाडिकाक्षालनं शुभम् ।यावत्सूक्ष्मानिलालापं मधुपानं निरन्तरम् ॥५९॥पादाम्भोजनिःसृतं तु परमानन्दवर्धनम् ।तत्सुखेनापरिच्छिन्नं संज्ञाननिर्मलेन च ॥६०॥चिदानन्दस्वरुपेण आनन्दश्रुविमोचनम् ।तदा हि ह्रदयग्रन्थिभेदनं देहवर्धनम् ॥६१॥तदा हि पुलकं स्थैर्यं देहावेशस्थिरं तथा ।तदा षट्कञ्ज सिद्धान्तज्ञानं चैतन्यनिर्मलम् ॥६२॥चिदानन्दमयो भूत्वा तृष्णाज्ञानविवर्जितः ।जीवमुक्तः परानन्दरसिकः प्रणयप्रियः ॥६३॥स्थिरचेता महायोगी भवत्येव न संशयः ।आस्तिको देवभक्तश्च निन्दावादविवर्जितः ॥६४॥स एवात्मा महाज्ञानी भवत्येव न संशयः ।पञ्चयोगं समाकृत्यं नित्यादिकमनुत्तमम् ॥६५॥स्नानं कुर्याद्विधानेन तीर्थराजनिकेतने ।इडा गङाजले वापि पिङुला यमुनाजले ॥६६॥सुषुम्नायां सरस्वत्यां वसुपुष्करकोटिषु ।तथापि बाह्यस्नाने तु सर्वाङुमस्तकं विना ॥६७॥सप्तवारं समासिञ्चेत् मस्तकं बाह्यवारिणा ।मार्जनेनापि मनुना मूलमन्त्रेण वा पुनः ॥६८॥ततोऽङुं मार्जयित्वा च सन्ध्यावन्दनमाचरेत् ।बाह्यसन्ध्यां तु मन्त्रेणैवान्तरे प्रकृतीश्वरम् ॥६९॥ऊर्ध्वाधस्तैजसं बिन्दुं नादमण्डलसम्पुटम् ।सन्ध्यावन्दनमाकृत्य महौषधिं प्रभक्षयेत् ॥७०॥मूलमन्त्रेणाभिमन्त्र्य पञ्चगव्यं कुलेश्वर ।ततः कुर्यान्महापूजां स्वस्वमन्त्रोक्तसाधिताम् ॥७१॥षट्चक्रार्थं ततो ध्यायेद् यदुक्तं विधिना प्रभो ।कुण्डलिन्या महापूजा सहस्त्रनाममङुलम् ॥७२॥देवताना पठेद्धीमान् सर्वकाले सुसिद्धये ।मूलाधारं मुदा भित्वा सूक्ष्मवायुद्वयेन च ॥७३॥ततो भेदं स्वाधिष्ठानं राकिणीविष्णुसङुमम् ।तयोरनुक्रमं नाथ सहस्त्रनाममङुलम् ॥७४॥अन्यन्तगुह्यकथनं सत्त्वभक्तिप्रकारकम् ।भित्वा भेदं मुदा कुर्यान्मणिपीठदेवयोः ॥७५॥ध्यानं ज्ञानं स्तवं नित्यं यजनं नामकीर्तनम् ।चैतन्यं रुद्रलाकिन्यास्तथा मृत्युञ्जयस्य च ॥७६॥नित्यं गुरुमयं ध्यात्वा सर्वगामिनीश्वरम् ।चिरजीवी महायोगी भवत्येव न संशयः ॥७७॥॥ इति श्रीरुद्रयामले उत्तरतन्त्रे महातन्त्रोद्दीपने सिद्धमन्त्रप्रकरणे भैरवभैरवीसंवादे मणिपूरभेदो नाम त्रिपञ्चाशत्तमः पटलः ॥५३॥ N/A References : N/A Last Updated : April 30, 2011 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP