शिवां शक्यमाद्यां दशदलगतां रुद्रमहिषीं
विशालाक्षीं सूक्ष्मां शशियुतजटाजूटमुकुटाम् ।
महाविद्युत्कोटिप्रियजदितपीठे त्रिनयनां
महालाकिन्याख्यां दशदल कलां भावयति कः ॥२५॥

मृणालान्तर्ध्वन्तः प्रकटतटसंहारसुभगां
कुलक्षेत्रोल्लासां चरमपददां दीपकलिकाम् ।
सदानन्दाकाराम गतिगुणहरां चारुकिरणां
प्रभावर्णश्यामां रुचिरवदनां भावयति कः ॥२६॥

प्रतीक्षानन्दाब्धि प्रकटचरणाम्भोजयुगलां
वियद्वर्णां कान्ताम सुरवरसुपूजाविधिरताम् ।
महासूक्ष्मद्वारप्रचलकरीं भेदनकरीं
दिवायोगाहलादप्रियजनशिवां भावयति कः ॥२७॥

अयोध्यापीथस्थामरुणकमनीं प्रेमगलितां
महरौद्रीं भीमां शतशतरविप्रेमनिकराम् ।
महादुःखार्तानां नयनशुभगां भावविरहां
सतीं सीतामिन्द्रोत्सवनवघटां भावयति कः ॥२८॥

सुधाब्धेराहलादप्रकरणसुरां सौरभकरां
क्रियारुपां योग्यां भुवमणिपूरप्रकृतिगाम् ।
गुरोः स्थानोद्योगां समनदहनां शीतलवरां
त्रितत्त्वां तत्त्वज्ञां स(श)मरहरशक्तिः भजति कः ॥२९॥

विकारकाराङी तरुणरविकोटिश्रियमिमां
कुलाधारां सारा परमसधारां जयवराम् ।
कृपाच्छन्नाकामां परमसभाण्डेषु शुभदां
भजेदिन्द्रां रुद्राम शशिमुखकराहलादनिकराम् ॥३०॥

रसाब्धौ विश्रान्तिं कुपितजनशान्तिं सकरुणां
त्रिलोकज्ञानस्थां मदननिलयां योगनिकराम् ।
मणिद्वीपच्छायां दशदलकलां देवलभवां
भवानीं रुद्राणीं वरदमणिपूरे भजति कः ॥३१॥

कृपाब्धौ किं किं किमनगतसुतां मौलिनमितां
शिवाङ्कां मूलस्था सकलमणिपूरस्थिरभवाम् ।
हिरण्याक्षीं तक्षां क्षयकरणश्मिच्छविशतां
विनोदीं पञ्चास्यप्रियगुणधरां भावयति कः ॥३२॥

महापद्माख्यां सकलधनदानाकुलचलां
चलानन्दोद्रेक-प्रचयरससिन्धूद्भवह्रदि ।
ह्रदानन्दो ध्यायेत् सकलगुणदात्रीं सुखमयीं
कलां सूक्ष्मात्यन्तां तिमिरदहनां कोटिधनदाम् ॥३३॥

दशकं यः पठेन्नित्यं श्रीविद्या सुखदायिनीम् ।
ध्यात्वा ह्रदयपद्माधो निर्मलात्मा सदा पठेत् ॥३४॥

मणिपूरस्थितं देवं रुद्रं पश्यति योगिराट् ।  ट्
रुद्राणीसहितं शम्भुं दृष्ट‌वा मुक्तो भवेत् क्षणात् ॥३५॥

जीवन्मुक्तः स एवात्मा योगिनीवल्लभो भवेत् ।
योगात्मा परमात्मा च स हि साक्षादनीश्वरः ॥३६॥

स भित्वा मणि पूराब्धिं निर्मलं ज्योतिज्ज्वलम् ।
शम्भोरीश्वरयोगज्ञक्रियानाथस्य श्रीपतेः ॥३७॥

निकटे याति देव्याश्च स्थाने योगी न संशयः ॥३८॥

॥ इति श्रीरुद्रयामले उत्तरतन्त्रे महातन्त्रोद्दीपने सिद्धमन्त्रप्रकरणे षट्चक्रप्रकाशे मणिपूरभेदने भैरवीभैरवसंवादे त्रितत्त्वलाकिनीशक्तिस्तवनं नाम चतुश्चत्वारिंशत्तमः पटलः ॥४४॥

N/A

References : N/A
Last Updated : April 27, 2011

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP