आनन्दभैरवी उवाच
अथ कामातुरानाञ्च कामानिर्मूलहेतुना ।
अथयामि महाकाल यत् कृत्वा कामिनीवशम् ॥१॥

तत्प्रकारं प्रवक्ष्यामि योगसाधनहेतुना ।
हस्तासनं समाकृत्य ऊद्र्ध्वे पद्मासनं चरेत् ॥२॥

शिरोमूले करद्वन्द्वं नियोज्य जपमाचेत् ।
अल्पाल्पधारणं कुर्यात् श्वाससंख्यां समाचरेत् ॥३॥

श्वाससंख्यां तदा कुर्याद् यदा कुम्भकसुस्थिरः ।
विना श्वाससंख्यां च कुतो योगिवरो वशी ॥४॥

विना संख्याप्रयोगेण बिना कुयोगवारणात् ।
कदाचिन्न प्रकर्तव्यं संख्याकुम्भकवर्जितः ॥५॥

अल्पाल्पकुम्भकं कुर्यात् खेचरप्रियकर्मणि ।
सर्वकाले प्रकर्तव्य सर्वकाले सुखी भवेत् ॥६॥

आनन्दकल्पमाकृत्य विजयाद्यसवादिभिः ।
क्रमेण भेदनं कुर्यात् ततः साधकयोगिराट् ॥७॥

योगिनामपरिच्छिन्न भावं विद्युत्प्रभाकरम् ।
विद्युत्कोटिसमाभासं वारिधारासमाकुलम् ॥८॥

यद्येवं सुतभावज्ञा विपाकेन पतन्ति ते ।
ते यान्ति परमं स्थानं ते यान्ति कोतिराज्यपाः ॥९॥

ते भोविनो योगिनश्च ते लोकपालकाः स्मृताः ।
ते महद्गुणसम्भोग्या म्रियन्ते न कदा कुतः ॥१०॥

ते भवन्ति महाश्रेष्ठास्ते भवन्ति सुधाकराः ।
ते भेदकरणे युक्तास्ते मनुष्या न देवताः ॥११॥

ते सर्वे यान्ति सर्वत्र ते शिवास्ते च किङ्कराः ।
ते मे भक्ता महाकाल इति मे स्वागमोदयम् ॥१२॥

ये भजन्ति तव पदाऽम्भोजं भावपरायणाः ।
ते ज्ञानिनो भवन्त्येव तेषां कालो वशो भवेत् ॥१३॥

ये प्राणवायुसंयोगा ये प्रानपरिरक्षकाः ।
आत्महत्यां परीहाय ब्रह्मलोकं मुदान्विताः ॥१४॥

यान्ति नाथ ध्यानपराः संसारार्थविवर्जिताः ।
अरण्यवासिनो ये च नारण्यवासिनो नराः ॥१५॥

एकान्तनिर्जने देशे सर्वविघ्नविवर्जिते ।
षट्चक्रभेदमाकृत्य ते नराः फलभागिनः ॥१६॥

महाकालफलं यस्तु सदेच्छति सतां गतिम् ।
स एव योगी भूमध्ये स्थित्वा सर्वत्रगो भवेत् ॥१७॥

सर्वदेशे सदा पूज्यः सर्वेशो निर्मलोऽद्वयः ।
अनाद्यनन्तं विभवः कालात्मा स भवेत् क्षणात् ॥१८॥

एतेषां साधनं शीघ्रं सिद्धिविद्यासुकल्पनम् ।
एतद्रूपं निजं ध्यात्वा भेदं कृत्वा निजथलम् ॥१९॥

मूलाधारं स्वाधिष्ठानं भेदज्ञानी विभेद्य च ।
कुर्यात् परमसन्दर्भं मणिपूरे विचक्षणः ॥२०॥

कृत्वा च दर्शनं विद्वान् श्रीकृष्णचरनाम्बुजम् ।
स्वाधिष्ठानादिदेवेन्द्रं शक्तियुक्तं निरञ्जनम् ॥२१॥

राकिणीराधिका व्याप्तं त्रिलोकरक्षणं परम् ।
परमाकाशनिलयं त्रैगुण्यं वारिरुपिणम् ॥२२॥

वाञ्छाकल्पतरोर्मूलवासिनं शिववैष्णवम् ।
विलोक्यानन्दह्रदयोऽशङ्क सर्वत्र दर्शकः ॥२३॥

कृत्वा योगी सदाभ्यासी मणिपूरं विलोकयेत् ।
मणिपूरं महाचिन्हं सिद्धिक्षेत्रं सुधामयम् ॥२४॥

हिरण्यकोटिदानेन गोकोटिदनहेतुना ।
कोटिब्राह्मणभोज्येन यत्फलं लभते नरः ॥२५॥

तत्फलं लभते ध्यात्वा मणिपूरं मनोरमम् ।
मणिपूरं महास्थानं योगिनामप्यदर्शनम् ॥२६॥

सूक्ष्मातिसूक्ष्मं परमं ज्ञानिनां ज्ञानगोचरम् ।
अप्रकाश्यं महागुह्यं योगयोगेन लभ्यते ॥२७॥

आनन्दभैरव उवाच
योगार्थं यत्र कमले कोटिविद्युत्समप्रभे ।
कोटिकालाग्निमिलिते कोटिचन्द्रविनिर्मिते ॥२८॥

कोटिसूर्यादिकिरणे मनः केन विलियते ।
सूची रन्ध्रे यथा सूत्रं तदेव फलदं सुखम् ॥२९॥

यन्न दृष्टं श्रुतं क्वापि ज्ञानं न तत्र सुन्दरि ।
तत्र केन प्रकारेण मनोनिवेशनं भवेत् ॥३०॥

यत्र न गमनं नृणां तस्य देवस्य यत्फलम् ।
तत्फलं किं न जानाति अदृष्टे गमनं कुतः ॥३१॥

कुतो राज्ञां न सम्पत्तिः कुतो वा स्वार्थदर्शनम् ।
कुतो वा जायते सिद्धिभेदेने किं फल भवेत् ॥३२॥

तत्त्वं जानासि देवेशि तत्प्रकारं प्रकाशय ।
आनन्दभैरवी उवाच
यदुक्तं तद्धि सकलं सफलं परमेश्वर ॥३३॥

तत्र पूर्वं योगधर्मस्वाश्रयं श्रृणु तत्क्रमम् ।
पूर्वस्मरनमात्रेण जीवन्मुक्तो भविष्यसि ॥३४॥

N/A

References : N/A
Last Updated : April 27, 2011

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP