संस्कृत सूची|शास्त्रः|तंत्र शास्त्रः|रूद्रयामल| उत्तरतंत्रम्|द्विचत्वारिंशः पटलः| षड्चक्रभेदाः द्विचत्वारिंशः पटलः राकिणीमन्त्रः अष्टोत्तरसहस्त्रनामारम्भः षड्चक्रभेदाः द्विचत्वारिंशः पटलः - षड्चक्रभेदाः राकिणीसाधनम् Tags : rudrayamaltantra shastraतंत्र शास्त्ररूद्रयामल षड्चक्रभेदाः Translation - भाषांतर आनन्दभैरव उवाचवद कान्ते रहस्यं मे मया सर्वञ्च विस्मृतम् ।महविषं कालकूटं पीत्त्वा देवादिरक्षणात् ॥१४४॥कण्ठस्थाः देवताः सर्वा भस्मीभूताः सुसम्भृताः ।महाविषज्वालया च मम देहस्थदेवताः ॥१४५॥कैवल्यनिरता सर्वे प्रार्थयन्ति निरन्तरम् ।षट्चक्रं कथयित्वा तु सन्तोषं मे कुरु प्रभो ।षट्चक्रभेदकथनममृतश्रवनादिकम् ॥१४६॥कथित्वा मम सन्तोषं कुरु कल्याणि वल्लभे ।अमृतानन्दजलधौ सुधाभिः सिक्तविग्रहम् ॥१४७॥कृत्त्वा कथय शीघ्रं मे चायुषं परिवर्धय ।आनन्दभैरवी उवाचनिगूढार्थ महाकाल कालेश जगदीश्वर ॥१४८॥भैरवानन्दनिलय कालकूटनिषेवण ।इदानीं श्रृणु योगार्थ मयि संयोग एव च ॥१४९॥श्रुत्वा चैतत्क्रियाकार्यं नरो योगीश्वरो भवेत् ।ममोद्धवः खेऽमले च सर्वाकारविवर्जिते ॥१५०॥भ्रूमध्ये सर्वदेहे च स्थापयित्वा च मां नरः ।भाव्यते चापरिच्छन्नं ब्रह्मविष्णुशिवात्मकम् ॥१५१॥मम रुपं महाकालं सत्त्वरजस्तमः प्रियम् ।केवलं रजोयोगेन शरीरं नापि तिष्ठति ॥१५२॥तथा केवलयोगेन तमसा नापि तिष्ठति ।तथा केवलसत्त्वेन कुतो देही प्रतिष्ठति ।अतस्त्रिगुनयोगेन धारयामि नवाङुकम् ॥१५३॥शनैः शनैः विजेतव्याः सत्त्वरजस्तमोगुणाः ।आदौ जित्वा रजोधर्मं पश्चात्तामसमेव च ॥१५४॥सर्वशेषे सत्त्वगुण्म नरो योगीश्वरो भवेत् ।गुणवान् ज्ञानवान् वाग्मी सुश्रीर्धर्मी जितेन्दियः ॥१५५॥शुद्धनिर्मलसत्वं तु गुणमाश्रित्य मोक्षभाक् ।सदा सत्त्वगुनाच्छन्नं पुरुषं काल एव च ॥१५६॥पश्यतीह न कदाचिज्जरामृत्युविवर्जितम् ।तं जनं शान्तं निर्मलं द्वैतवर्जितम् ॥१५७॥सर्वत्यागिनमात्मानं कालः सर्वत्र रक्षति ।जले वा पर्वते वापि महारण्ये रणस्थले ॥१५८॥भूगर्त्तनिलये भीते संहारे दुष्टविग्रहे ।सन्तिष्ठति महायोगी सत्यं सत्यं कुलेश्वर ॥१५९॥महायोगं श्रृणु प्राणवल्लभ श्रीनिकेतन ।योगार्थं परमं ब्रह्मयोगार्थ परन्तपः ॥१६०॥ये जानन्ति महायोगं म्रियन्ते न ते नराः ।कृत्वा कृत्वा षड्दलस्य साधनं कृत्स्नसाधनम् ॥१६१॥ततः कुर्यान्मूलपदमे कुण्डलीपरिचालनम् ।मुहुर्मुहुश्चालनेन नरो योगीश्वरो भवेत् ॥१६२॥एकान्तनिर्मले देशे दुर्भिक्षादिविवर्जिते ।वर्षमेकासने योगी योगमार्गपरो भवेत् ॥१६३॥पद्मासनं सदा कुर्याद् बद्धपद्मासनं तथा ।महापद्मासनं कृत्वा तथा चासनमञ्जनम् ॥१६४॥तत्पश्चात् स्वस्तिकाख्यञ्च बद्धस्वस्तिकमेव च ।योगाभ्यासे सदा कुर्यात मन्त्रसिद्धयदिकर्मणि ॥१६५॥चक्रासनं सदा योगी योगसाधनकर्मणि ।बद्धचक्रासनं नाम महाचक्रासनं तथा ॥१६६॥कृत्वा पुनः प्रकर्तव्य बद्धयोगेश्वरासनम् ।योगेश्वरासनं कृत्वा महायोगेश्वरासनम् ॥१६७॥वीरासनं ततः कुर्यात् महावीरासनं तथा ।बद्धवीरासनं कृत्वा नरो योगेश्वरो भवेत् ॥१६८॥ततः कुर्यान्महाकाल बद्धकुक्कुटासनम् ।महाकुक्कुटमाकृत्य केवलं कुक्कुटासनम् ॥१६९॥मयूरासनमेवं हि महामयूरमेव च ।बद्धमयूरमाकृत्य नरो योगेश्वरो भवेत् ॥१७०॥एतत् सर्वं प्रवक्तव्यं विचार्य सुमनः प्रिय ।अभिषेकप्रकरणे आसनादिप्रकशकम् ॥१७१॥कथितव्यं विशेषेण इदानीं श्रृणु षट्क्रमम् ।ब्रह्मा विष्णुश्च रुद्रश्च ईश्वरश्च सदाशिवः ॥१७२॥ततः परशिवो देवः षट्शिवाः षट्प्रकाशकाः ।एतेषां षड्गुणानन्दाः शक्तयः परदेवताः ॥१७३॥षट्चक्रभेदनरता महाविद्याधिदेवताः ।एतेषां स्तवनं कुर्यात् परदेवसमन्वितम् ॥१७४॥एतत्प्रकारकरणे यश्च प्रत्यहमादरात् ।क्रियानिविष्टः सर्वत्र भावनाग्रहरुपधृक् ॥१७५॥स पश्यति जगन्नाथ कमलोपगतं हरिम् ।आदौ हरेर्दर्शनञ्च कारयेद्येन कुण्डली ॥१७६॥ततो रुद्रस्य सञ्ज्ञायां लाकिन्याः शुभदर्शनम् ।सर्वशः क्रमशो नाथ दर्शनं प्राप्यते नरः ॥१७७॥शनैः शनैर्महाकाल कैलासदर्शनं भवेत् ।क्रमेण सर्वसिद्धिः स्यात् अष्टाङुयोगसाधनात् ॥१७८॥अष्टाङुसाधने काले यद्यत् कर्मं करोति हि ।तत्सर्वं परियत्नेन श्रृणु सादरपूर्वकम् ।तत्क्रियादिकमाकृत्य शीध्रं योगी भविष्यति ॥१७९॥॥ इति श्रीरुद्रयामले उत्तरतन्त्रे महातन्त्रोद्दीपने सिद्धमन्त्रप्रकरणे षट्चक्रप्रकाशे भैरवीभैरवसंवादे द्विचत्वारिंशत्तमः पटलः ॥४२॥ N/A References : N/A Last Updated : April 26, 2011 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP