संस्कृत सूची|शास्त्रः|तंत्र शास्त्रः|रूद्रयामल| उत्तरतंत्रम्|अथैकचत्वारिंशः पटलः| पञ्चाचारमहिमा अथैकचत्वारिंशः पटलः पञ्चाचारमहिमा अथैकचत्वारिंशः पटलः - पञ्चाचारमहिमा स्वाधिष्टानराकिणीस्तोत्रम् Tags : rudrayamaltantra shastraतंत्र शास्त्ररूद्रयामल पञ्चाचारमहिमा Translation - भाषांतर आनन्दभैरवी उवाचकृतान्तसंहारविहारभोगंरसाप्लृतश्रीकर शङ्कर प्रभो ।तवाज्ञयाऽहं कथयामि सिद्धयेमयागमानन्दवशाद्धि तन्त्रम् ॥१॥प्रेमाभिलाषी सुजनो मुनीन्द्रोजानाति तन्त्रार्थमनन्तसाधनम् ।महाप्रभाते चरानाब्जभक्तोगोविन्द शम्भोर्यदि भक्तिभाजनः ॥२॥षड्चक्रभेदार्थविशेषसाधनंजानाति यो वा स जनोऽतिदुर्लभः ।स एव संसारनिषेधसाधनंसदा विहायाचल भक्तिमाप्नुयात् ॥३॥आनन्दभैरव उवाचयदि वा कथिता कान्ते षड्दलप्रक्रिया शुभा ।राकिण्या मिलनं देव्याः कुण्डलिन्याः पराक्रमम् ॥४॥सार्द्ध श्रीविष्णुना कालरुपिणा बहुरुपिणा ।शुद्धनिर्मलतत्त्वेन परिवारगणैः सह ॥५॥न तद्धि कथितं सर्वं श्रीकृष्णस्य पराक्रमम् ।स्तवनं देवराकिण्या सहितं कुष्णसाधनम् ॥६॥मङुलं परमं ब्रह्मसाधनं कुलवर्द्धनम् ।कृष्णप्रकाशस्तवनं राकिणीशक्तिसंयुतम् ॥७॥कथयस्व महाकालि यदि स्नेहोऽस्ति मां प्रति ।अत्यन्तगुह्यं कथनं सहस्त्र नाममङुलम् ॥८॥अष्टोत्तरं महाविष्णो राकिण्या सहितं प्रिये ।इदानीं राकिणीस्तोत्रं वद भामिनी कामदे ॥९॥आनन्दभैरवी उवाचयोगेन्द्र परमानन्दसिन्धो श्रीचन्द्रशेखर ।श्रृणुष्व राकिणीस्तोत्रं परमानन्दवर्धनम् ॥१०॥सर्वत्र सुखदं प्रोक्तं सिद्धानामपि साधनम् ।एतत् स्तवनपाठेन योगी योगेन्द्रभाक् भवेत् ॥११॥वैष्णवीसाधने यस्तु पञ्चाचारं करोति वा ।सर्वेषां साधनोत्कृष्टं जातिभ्रष्टोऽपि नो भवेत् ॥१२॥समता शत्रुमित्रेषु कर्माकर्मसु तत्त्ववित् ।यदि वा वैष्णवे नाथ समभावः प्रजायते ॥१३॥पञ्चाचारक्रमेणैव सिद्धो भवति नान्यथा ।राधादिगोपिकाभिश्च गोपवृन्दैः समन्ततः ॥१४॥पञ्चाचारं मुदा कृत्वा सर्वेषां परिपालनम् ।चकार कमलानाथोऽतः पञ्चाचारमाश्रयेत् ॥१५॥पञ्चाचार क्रमेणैव चैतन्या कुण्डली भवेत् ।कृष्णचैतन्यहेतोश्च राकिण्याश्च तथा प्रभो ॥१६॥चैतन्याय षड्दलस्थदेव चैतन्यहेतुना ।कुण्डलीवधुराकिण्याः स्तोत्रं श्रृणु कुलार्णव ॥१७॥राकिणीराधिकास्तवम्आन्देलिता रसनिधौ कुलचञ्चला यामाया मयो सकलदुःखविनाशवीरा ।वीरासना स्थितिगता सुलभा मुनीनांभव्या प्रपातु भविका कुलराकिणी माम् ॥१८॥आनन्दसिन्धु जडिताखिलसारपानाबाला कुलीननमिता दलषट्कुलस्था ।काली कलामलगुणा धनिनां धनस्थाकृष्णेश्वरी समुदयं कुरु राकिणी मे ॥१९॥या राकिणी त्रिज्गतामुदयाय चेष्टासंज्ञामयी कुलवती कुलवल्लभस्था ।विश्वेश्वरी स्मरहरप्रियकर्मनिष्ठा कृष्णप्रिया मम सुखं परिपातु देवी ॥२०॥षड्वर्गनाथकरपद्मनिषेविता याराधेश्वरी प्रियकरी सुरसुन्दरी सा ।माता कुलेशजननी जगतां मनुस्थाविद्या परा रिपुहरावत मे शरीरम् ॥२१॥गोविन्दरामरमणी नवमालिनी याराज्येश्वरी स्मरहरा नवकामिनी वा ।मे षड्लाश्रितसुर परिपातु नित्यंश्रीकुण्डली सुविमला कुलराकिणी सा ॥२२॥श्रीसुन्दरी कुलपरा कुलवृन्दवन्द्यासन्ध्याविधि प्रभवतामिकामतीर्था ।श्रेदायिनी कुलगणामलभावदात्रीनित्यं प्रपातु विषयं कुलषद्लानाम् ॥२३॥चैतन्यादाननिरता त्रिगुणाभिरामांश्यामां नितम्बधृतसुन्दरत्नघण्टाम् ।नीलाचल्स्थितकरां वरदानहस्तांश्रीकृष्णवाम कमलोपरि पूजयामि ॥२४॥तां राकिणी त्रिरमणीं समलापहन्त्रींसर्वस्थिता गगनमातरमम्बुजस्थाम् ।पद्मासनां श्रुतिभुजां गुरुजामनन्तांशान्तां षडम्बुजदलोपरि पूजयामि ॥२५॥शान्तिं कृपाकपटकोपरि नाशमुक्तिंशिवां परमवैष्णवपूजिताङिघ्रम् ।राधां सुधां वरमयीं जगतां गुणस्थांधर्मार्णवां रसदले परिपूजयामि ॥२६॥कर्त्तीकरां सकरुणां रमणीं त्रिसर्गातां राकिणीमतिदयामलार्थचिन्ताम् । भ्रान्तिं भ्रमागमवरां स्मृतिमादिपूज्यांभार्यां हरेरतिसुखां परिपूजयामि ॥२७॥या कातरं निरवधिप्रणय स्ववस्थावागीश्वरी भगवती यतिकोटिनम्रा ।ताम्राकृति प्रकृति चेतसि रक्तवर्णामायामयी सुरकलावति पातु मेऽङुम् ॥२८॥कल्पद्रुमाशयलता फलरुपिणी याभर्गस्थिता पुरुषकोटिमुनिस्तुवन्ती ।सा मे कुलेश्वररसं हरिहस्तपूज्याक्षान्तिः सदा मम धनं परिपातु राधा ॥२९॥क्षेमङ्करी वरकरी सुकरी हरिस्थाया सौकरी भवकरी त्रिपुरा महेशी ।वायुस्थिता लयमयी स्थितिमार्गसङा भङुप्रिया सकलका परिपातु राधा ॥३०॥गङा निर्मलभावदा ममशिरोदेशं सदा रक्षतुश्रीराधा कुलराकिणी मम कपालोर्ध्व महावाकप्रिया ।मन्त्रस्था जयदा मुदा कुमुदिनी भालं भ्रुवोरन्तरंविद्या वाग्भकुण्डलीफलवलाबाला च नेत्रत्रयम् ॥३१॥गण्ड चण्डसरस्वती श्रुतिकुलं कैलासशैलस्थितामेधा टं घटवासिनी शशीमुखी सूक्ष्मातिसूक्ष्माशया ।जिहवाग्रं चिबुकं रदावधिवहा कण्ठं गलं स्कन्धगंस्कन्देशी दशनप्रभामलमति - वैकुण्ठधामेश्वरी ॥३२॥नानावर्णविलासिनी मृदुरसं शम्भोर्भवानी शिवापृष्ठं कर्मसु पृष्ठगा गतिकरी निल्योल्बणी भास्वती ।पार्श्व मे कुलमालिनी मम कटिं लिङुं नितम्बाम्बरंकामाख्या धनदायिनी सकरुणा पादद्वयं पातु सा ॥३३॥मातृक्रोधनिवारिणी मम शिवं षट्पत्रशोभाकरंपातु श्रीचरुवासिनी कुलतरुं गौरी परानन्ददा ।चैतन्यस्थलवासिनी मम गता गोविन्द मातृप्रियाचैतन्यं सततं प्रपातु धरणी धात्री वरक्षेत्रगा ॥३४॥धन्या पिङुललोचनाम्बुजमुखी चैतन्यकर्मप्रिया सर्वत्र प्रियमाकरोतु नियतं शक्तिः क्षमाकर्तृका ।कीर्तिस्था मम कीर्तिचक्रनिलयं लाक्षारुणा बल्वरीनीचा चक्रनिवासिनी मम जया जीवं मुदा पातु माम् ॥३५॥एतत्स्तोत्रं पठेन्नित्यं प्राणवायुवराशुभे ।षट्चक्रभेदसमये सदा पाठय् सुयोगिभिः ॥३६॥कुलविन्याससमये कुलचक्रप्रवेशने ।अवश्यं प्रपठेद्विद्वान् राकिणीराधिकास्तवम् ॥३७॥त्रिसन्ध्यं चेदमाकुर्यात् पठित्वा च पुनः पुनः ।ध्यात्वा भावपरो भूत्वा मुच्यते भवबन्धनात् ॥३८॥अचलां भक्तिमाप्नोति विश्वामित्रो यथा वशी ।पठनात् पामरो याति ब्रह्मलोकं कुलधिप ॥३९॥एतत्पठनमात्रेण शीतलो गुणवान भवेत् ।अप्रकाश्यमिदं स्तोत्रम सर्वान्तकविनाशनम् ॥४०॥समभावं समाकृत्य जीवन्मुक्तो भवेद्वशी ।पञ्चाचाररतो भूत्वा साधयेद् यदि साधनम् ॥४१॥कुण्डलीयोगकाले च कुलाचारं न वर्जयेत् ।कुलाचारवर्जनेन महाहानिः प्रजायते ॥४२॥ब्राह्मणः क्षत्रियो वैश्यो वा शूद्र एव च ।समभावं सदा कृत्वा कुलाचारं समाश्रयेत् ॥४३॥कुण्डली पृथिवी देवी राकिणी स्वारिदेवता ।तद्गेहगामिनी देवी राधिका राज्यकामिनी ॥४४॥अस्याः साधनकाले च समयाचारमाश्रयेत् ।समभावे महामोक्षे इति तन्त्रार्थनिर्णयः ॥४५॥समभावार्थकथनं त्यक्त्वा योगी भवेत्कृती ॥४६॥॥ इति श्रीरुद्रयामले उत्तरतन्त्रे महातन्त्रोद्दीपने सिद्धिमन्त्रप्रकरणे षट्चक्रप्रकाशे भैरवीभैरवसंवादे स्वाधिष्ठानराकिणीस्तोत्रं नामैकचत्वारिंशत्तमः पटलः ॥४१॥ N/A References : N/A Last Updated : April 26, 2011 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP