संस्कृत सूची|शास्त्रः|तंत्र शास्त्रः|रूद्रयामल| उत्तरतंत्रम्|चत्वरिंशः पटलः| षड्दलवर्णप्रकाशनम् चत्वरिंशः पटलः षड्दलवर्णप्रकाशनम् चत्वरिंशः पटलः - षड्दलवर्णप्रकाशनम् षड्दलवर्णप्रकाशनम Tags : rudrayamaltantra shastraतंत्र शास्त्ररूद्रयामल षड्दलवर्णप्रकाशनम् Translation - भाषांतर आनन्दभैरवी उवाचअथ नाथ प्रवक्ष्यामि श्रृणुष्वावहितो मम ।येन क्रमेण लोकानां योगकार्यं दृढं भवेत् ॥१॥सर्वत्र भावग्रस्तः सः सिद्धो भवति भैरव ।यो भवेद्भैरवो देवो भुवने सर्वगो हि सः ॥२॥क्रियादक्षो महावीरो वीरवल्लभभावकः ।भावयित्वा वर्णमालां मध्ये जप्त्वा दिवानिशम् ॥३॥हविष्याशी प्राणवायुरतो वेदान्तपारगः ।सिद्धान्तवेत्ता सर्वेषां शास्त्राणां निर्णयप्रियः ॥४॥गाथाज्ञानी परानन्दो विवेकी भावतत्परः ।भाववेत्ता रहस्तार्थज्ञानी कोविदवेदवित् ॥५॥वाक्यसिद्धिज्ञानपरः सत्यवादी दृढासनः ।भावयेत् षड्गतं वर्णं ध्यानं कुर्यात् पृथक् पृथक् ॥६॥षट्पद्मस्थो भावयेद्वै षड्वर्णं ध्यानपूर्वकम् ।वादिलान्ताक्षरं ध्यायेन्महाविद्यानिषेवकः ॥७॥बकारं सौन्दर्यं स्वकिरणमयं भाव्यमतुलंमुकुन्दश्रीभक्तिप्रियरमणंक पूर्वदलगम् ।विशिष्टज्ञानान्तं सुखरनतं कोटिकिरणंविभाव्य श्रीलक्ष्मी गमयति झटित् कालपुरुषम् ॥८॥द्विवर्णं श्रीनाथं सुखयति भकारं रसदलेत्रिकोणापार्श्वस्थां चपलशकलं शम्भुनिलयम् ।महारक्ताकारं तरुणविगतं भीममकुलं कुलागारस्थानं कुलरमणीरक्तायुतमिति ॥९॥यदा ध्यायेत् ज्ञानी निरवधि मुदा शोकविषहं त्रिलोकानां स्थानं भुवनशरणं प्रातविसुखी ।महामोक्षद्वारे भवति स महान् सर्वजडितोविलासी सर्वेषां नवनववधूनां प्रियपतिः ॥१०॥महाकालस्थानं स जयति सकारं यदि भजेदरीणां व्याहस्ता रुधिरकिरणं कोट्यरुणकम् ।महाकालस्थानं(.....)शरणं प्रागपि सुखीत्रिकोणां दक्षाङे निगमनयनो योगययजितः ॥११॥विनोदी सौख्यानां सुरतरुसमानो भुवि दिवियकारं यो ध्यायेदमरपदवीव्याधिरहितः ।महावाणीनाथं प्रणयजडितं त्वक् सुरतरुंमुकुन्दानन्दान्तः पवनमिलितं कामकरणम् ॥१२॥तदा लोकोऽकामी भवति नितरां काकपवनीमहाग्नेः संस्थानं परजलधरं सूर्यशतकम् ।यदानन्दैर्ध्यायेत् परमधनदं यज्ञसुधया सुधापानज्ञानी हवनकरणं काम्यफलदम् ।प्रियं तद्वेरत्याः कमलगभुजङेश्वरनुतंत्रिकोणा पृष्ठस्थं विधिहरिहरस्य प्रियमिति ॥१३॥विधानं हवनीनां कुल विमलबीजं सकरुणंअसृङ् मायाखण्डं खगगनमनोरञ्जनवरम् ।यदि ध्यायेदेको विभवविविधं याति सहसा महेन्द्रः स्थानाङ कमलसुखदं कृष्णनिलयम् ॥१४॥प्रियं सिद्धक्षेत्रं यदि सुखमयं भावयति यः लकारं चन्द्रस्थं विधुशतकरं बिन्दुनिलयम् ।विशालाक्षी राधा मधुरवचनालापकलितंरमामोदे पत्रे तरणकरणं सापहरणम् ॥१५॥सुवामे राकिण्या नवरसमयं मोहहरणं ।विभाव्य श्रीनाथं भजति स नरो ध्याननिपुणो ।महामोक्षं प्राप्य प्रथम रजसं सङुमयति ॥१६॥ततो ध्येया महाविद्या राकिणीशक्तिरुत्तमा ।श्रीविष्णुसहिता नित्यं योगैर्भोगविवर्जितः ॥१७॥अकलङी कुलानन्दो मन्दहास्यावृतो महान् ।स योगी परमं राज्यं प्राप्नोति नात्र संशयः ॥१८॥यावन्मूलाधारयोगं तावद् यमादिकं प्रभो ।यमनियमासने काले योगं पञ्चामरान्वितम् ॥१९॥तावन्कुर्यान्महादेव यावत्तत् सिद्धिमाप्नुयात् ।यदि पञ्चामरा सिद्धिस्तदा मायादिसिद्धिभाक् ॥२०॥पञ्चासवा सिद्धिकाले प्राणादिवायुपञ्चमम् ।धृत्वा धृत्वा पुनर्धृत्वा कुम्भयेदनिशं शनैः ॥२१॥शरीरे निर्मले याते वायुनिर्मलता भवेत् ।सर्वरुपी महावायुर्निर्मलात्मानमात्मनि ॥२२॥सिद्धिं ददाति योगेश यदि स्वकार्यमाश्रयेत् ॥२३॥॥ इति श्रीरुद्रयामले उत्तरतन्त्रे महातन्त्रोद्दीपने सिद्धिमन्त्रप्रकरणे आनन्दभैरवी भैरवसंवादे षड्दलवर्णप्रकाशो नाम चत्वारिंशत्तमः पटलः ॥४०॥ N/A References : N/A Last Updated : April 26, 2011 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP