संस्कृत सूची|शास्त्रः|तंत्र शास्त्रः|रूद्रयामल| उत्तरतंत्रम्|सप्तत्रिंशः पटलः| स्वाधिष्टानश्रीकृष्णराकिणीसाधनम् सप्तत्रिंशः पटलः स्वाधिष्टानश्रीकृष्णराकिणीसाधनम् सप्तत्रिंशः पटलः - स्वाधिष्टानश्रीकृष्णराकिणीसाधनम् स्वाधिष्टानप्रकाशनकथनम् Tags : rudrayamaltantra shastraतंत्र शास्त्ररूद्रयामल स्वाधिष्टानश्रीकृष्णराकिणीसाधनम् Translation - भाषांतर आनन्दभैरव उवाचश्रुतञ्च परमं ज्ञानं धर्माधर्मविवेचनम् ।सर्ववेदान्तसारं च सारात्सारं परात्परम् ॥१॥कुण्डलिनीस्तवनं श्रुत्वा पूर्णोऽहं जगदीश्वरि ।ईदानीं श्रोतुमिच्छामि स्वाधिष्ठानं प्रकाशकम् ॥२॥यदि मे सुकृपादृष्टिरानन्दघनसञ्चये ।वद श्रीकुण्डलीयोगं स्वाधिष्ठानविभेदनम् ॥३॥येन क्रमेण भेदं स्यात्तत्प्रकारं विनिर्णय ।आनन्दभैरवी उवाचमहाकाल महावीर आनन्द्सागरप्रिय ॥४॥योग्योऽसि योगमार्गाणामत एव प्रकथ्यते ।येन क्रमेण चक्रस्य भेदः स्यादमरो भवेत् ॥५॥अमरो जितचित्तरिः क्रोधजित् प्रबलो बली ।धर्माधर्मज्ञानवांश्च योगी भवति सज्जनः ॥६॥परकालदर्शी विज्ञः स्यात् क्रतुश्रद्धापरायणः ।अहङ्कारविहीनो यः स योगी भवेत् ध्रुवम् ॥७॥महावीरसुरसङिनी च सङुदोषविवर्जितः ।महात्मापरमं ब्रह्मज्ञानी भवति योगिराट् ॥८॥विख्यातः सर्वदेशे च किन्तु स्वाश्रयवर्जितः ।बालको विक्रमी धन्वी धनुर्बाणधरोऽव्ययः ॥९॥स भवेत् योगमार्गेशो विवेकी पापवर्जितः ।अविद्याग्रन्थिनिश्चेष्टो विवेकधर्मचातकः ॥१०॥चतुरो विषमज्ञानवर्जितो यज्ञकृत शुचिः ।स भवेद् योगिनीपुत्रो योगानामधिपो भवेत् ॥११॥यदि योगस्थितो मन्त्री वायवीशक्तिनिर्भरः ।स एव योगी षण्मासादिति मे तन्त्रनिर्णयः ॥१२॥यो मे तन्त्राणि जानति सदर्थज्ञानजानि च ।स एव चतुरो योगी मम भक्तो न संशयः ॥१३॥यदि वायुपानरतो मन्त्री भवति साधकः ॥१४॥अथ स्वाधिष्ठानं कुलवरगतं षड्दलगतंप्रभाकारं विष्णोरतिशयपदं कामनिलयम् ।महायोगेन्द्राणा मनसि निलयं चारुकिरणंशरच्चन्द्रज्योत्स्नायुतमतिधनं भव्यविषयम् ॥१५॥सदाभावक्षेत्रे सकलसुधियो वेद... ...यदामापक्षेमे सकलसुधियो वेदपथगाःविचारं कुर्वन्ति क्षितिगतरताः श्रीप्रभृतयः ।(प्रकाशस्यान्तःपतस्थ नटवरस्यातिनिलयम् )विटच्छायामध्ये निवसति यथा गोकुलकुले ॥१६॥हरिध्यानं कुर्यान्निरवधिमहानन्दरसिकः स एवात्मा साक्षादिह नववरः षोडशयुवा ।महासर्परिस्थं स्थितिकरणगं नागगमनं मुखं वंशीनादध्वनिगुनधरं भावयति कः ॥१७॥स एवात्मा नित्यो यतिरिह दले कोमलकुले कुलागारे सारे सरसिजयुते षड्दलवरे ।सुरानन्दश्रीदं दिवि दमनदर्त्तारममदं सुधाकान्तं कृष्णं परमपुरुषं भावयति कः ॥१८॥महाविद्यासिद्धं कुलपतिमनोमान्ययजितंमुकुन्दं श्रीकृष्ण रसदलगतं स्वागमगतं ।मुरारिं पापारिं नवयुवतिह्रत्पद्मसुगतंह्रषीकेशं विष्णुं विषयकरणं भावयति कः ॥१९॥स योगेन्द्रो ज्ञानी जयति सृकृतौ कौतुकवतांरमेशं श्रीकृष्णं रसविषहरं मानसचरम् ।सरस्वत्या युक्तं कुलरसमयं मुक्तिजडितंभजेच्चैतन्यान्तं सुरगुरुवरं मोक्षमयते ॥२०॥यतीन्द्रः सश्रीकः प्रचयति निजं भाव्यविषयंपुराणं योगीन्द्रं हरिमखिलपं कामनिलयम् ।महासूक्ष्म्मं द्वारं कुलवधुरतं वामकिरणंविशालाक्षं कृष्णं निजरसकुले कान्तममरम् ॥२१॥कृपासाक्षीज्ञानं गुणगदितदेहं दाहरहितंमहाशौलं सत्यं कुवलयकरिं हन्ति मरणम् ।अघावीशं श्रीशं शशिमुखिकराम्भोजयजितंतमात्मानं कृष्णं निजकुलदले योऽपि भजति ॥२२॥महाशब्दोत्पन्नं प्रकृतिविकृतिं कारणकृतिंकृपासिद्धुं कृष्णं कुलवधुशतामोदमिलितम्।जगन्नाथ स्तौति क्षितिपतिवशायोपकरणंविराटं ब्रह्माण्डं करणगमहाविष्णुमरणम् ॥२३॥विनोदं व्याकर्तुं त्रिभुवनपतिः श्रीपतिरहोप्रचण्डे संसारे उदयति सदाभावसदने ।महामेघश्यामस्त्रिफल करुणासागरकुलेअमूल्ये सञ्चारे विषयरसनासञ्चय विषम् ॥२४॥स कृष्णः श्री विष्णुः प्रकृतिगदया हन्ति सततंअतः कृष्णो ध्येयः सुरनरगणैः पञ्चसुमुखैः ।कुलाम्भोजे षट्के मनरसदले ध्यानफलितः किराती राकिण्या नयन कमलापानमधुरम् ॥२५॥धराधारं पूर्णं गगननिलयं कालपुरुषंमनोगम्यं रम्यं नव नयनलावण्यरसिकम् ।सदा ध्यायेत् कृष्णं कुरुगणरिपुं यः कुलपतिः निरालम्बः श्यामः प्रकृतियमुनातीरतरुगः ॥२६॥कुलीना गोपिभिः परिमिलितपार्श्वस्थलसुखःप्रधानः क्षेत्रज्ञः क्षितिपतिकराम्भोजयजितः ।प्रकाशात्मा नाथः प्रचयकरुणो ध्येय इरयामनोधर्मं च्छत्रं त्रिविधगुनगानश्रितकरम् ॥२७॥त्रिकाण्डस्थं खण्डोद्भववनरंस प्राणरसिकंयदा स्तौति प्रातः समयफले चारुवरदम् ।महामोक्षक्षेत्रं कुलवधुयुतं कृष्णपरमंगुणेशं राधेशं रजनिविधुनितं वेदनिलयम् ॥२८॥क्रियादक्षं सूक्ष्मं समयगुणयो गाङ्कजडितंत्रिकोणस्थं गङाजलगलितसारं तारकतनुम् ।महाकालानन्दं गगनघनवर्णं सजलकंप्रभावारं भावं तरुणववपुः श्रीधरमलम् ॥२९॥वनोत्फुलाम्भोजा मनविरचना भालकल्यामहाशोभारुपं कुलपुरुषगं व्याश्रयति यः ।स योगी संसारे भवति रसनायोगनिरतःमनो यो व्याधाय प्रचुरफलदं कृष्णमखिलम् ॥३०॥महाज्ञानोत्साहं गतिगुणवहिः प्राणनिचयंजगत्तारं ब्रह्म निरवधिमहायोगकिरणम् ।यदा लोकस्तौति प्रतिदिनमिहानन्दघटितंविकार्म सर्वेषां ग्रहणनिलनं भास्करविधोः ॥३१॥महाराहुग्रासं शतशतमहापुण्यनिकरं ।कुलानन्दं विष्णुं शशिशतघटारामकिरणम् ।मनोगम्यं सूक्ष्मं त्रिगुणजडितं भावयति कः ॥३२॥कृष्णभक्तिं मुदा कृष्णं धात्वा कृत्वा यतिर्भवेत् ।श्रीकृष्णचरणाम्भोजे तस्य भक्तिर्न संशयः ॥३३॥कृष्णब्रह्म कृष्णब्रह्या च त्रिध्यानपरायणः ।स कृष्णस्तं जनं नीत्वा ददाति अपि शङ्कर ॥३४॥विना कृष्णपदाम्भोजं स्वाधिष्ठानं कुतो जयम् ।कृष्णध्यानन्महापद्मभेदं प्राप्नोति शङ्कर ॥३५॥॥ इति श्रीरुद्रयामले उत्तरतन्त्रे महातन्त्रेद्दीपने षट्चक्रप्रकाशे भैरवीभैरवसंवादे स्वाधिष्ठानश्रीकृष्णराकिणीसाधनं नाम सप्तत्रिंशत्तमः पटलः ॥३७॥ N/A References : N/A Last Updated : April 26, 2011 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP