संस्कृत सूची|शास्त्रः|तंत्र शास्त्रः|रूद्रयामल| उत्तरतंत्रम्|चतुस्त्रिंशः पटलः| पञ्चामराविधानम् चतुस्त्रिंशः पटलः पञ्चामराविधानम् चतुस्त्रिंशः पटलः - पञ्चामराविधानम् पञ्चामरासाधनम् Tags : rudrayamaltantra shastraतंत्र शास्त्ररूद्रयामल पञ्चामराविधानम् Translation - भाषांतर आनन्दभैरवी उवाचअथ भेदान् प्रवक्ष्यामि हिताय जगतां प्रभो ।निर्मलत्मा शुचिः श्रीमान् ध्यानात्मा च सदाशिवः ॥१॥स मोक्षगो ज्ञानरुपो स षट्चक्रार्थभेदकः ।त्रिगुणज्ञानविकलो न पश्यति दिवानिशम् ॥२॥दिवारात्र्यज्ञानहेतोर्न पश्यति कलेवरम् ।इति कृत्वा हि मरणं जन्मनि जन्मनि ॥३॥तज्जन्मक्षयतेतोश्च मम योगं समभ्यसेत् ।पञ्चस्वरं महायोगं कृत्वा स्यादमरो नरः ॥४॥तत्प्रकारं श्रृणुष्वाथं वल्लभ प्रियदर्शन ।तव भावेन कथये न कुत्र वद शङ्कर ॥५॥यदि लोकस्य निकटे कथ्यते योगशानम् ।विघ्ना घोरा वसन्त्येव गात्रे योगादिकं कथम् ॥६॥योगयोगाद् भवेन्मोक्षः तत्प्रकाशाद्विनाशनम् ।अतो न दर्शयेद् योगं यदीच्छेदात्मनः शुभम् ॥७॥कृत्वा पञ्चामरा योगं प्रत्यहं भक्तिसंयुतः ।पठेत् श्रीकुण्डलीदेवीसहस्त्रनाम चाष्टकम् ॥८॥महायोगी भवेन्नाथ षण्मासे नात्र संशयः ।पञ्चमे वा योगविद्या सर्वविद्याप्रकासिनी ॥९॥कृत्वा पञ्चस्वरा सिद्धिं ततोऽष्टाङादिधारणा ।आदौ पञ्चस्वरा सिद्धिस्ततोऽन्या योगधारणा ॥१०॥तत्प्रकारं प्रवक्ष्यामि सावधानवधारय ।अहं जानामि संसारे केवलं योगपण्डितान् ॥११॥तत् साक्षिणीं ह्याहं नाथ भक्तानामुदयाय च ।इदानीं कथये तेऽहं मम वा योगसाधनम् ॥१२॥एवं कृत्वा नित्यरुपी योगानामष्टधा यतः ।ततः कालेन पुरुषः सिद्धिमाप्नोति निश्चितम् ॥१३॥पञ्चामरो विधानानि क्रमेण श्रृणु शङ्कर ।नेतीयोगं हि सिद्धानां महाकफविनाशनम् ॥१४॥दन्तियोगं प्रवक्ष्यामि पश्चाद् ह्रदयभेदनात् ।धौतीयोगं ततः पश्चात् सर्वमलविनाशनात् ॥१५॥नेउलीयोगमपरं सर्वाङोदरचालनात् ।क्षालनं परमं योगं नाडीनां क्षालनात् स्मृतम् ॥१६॥एतत् पञ्चामरायोगं यमिनामतिगोचरम् ।यमनियमकाले तु पञ्चामराक्रियां यजेत् ॥१७॥अमरा साधनादेव अमरत्वं लभेद् ध्रुवम् ।एतत्करणकाले च तथा पञ्चामरासनम् ॥१८॥पञ्चामराभक्षणेन अमरो योगसिद्धिभाक् ।तानि द्रव्याणि वक्ष्यामि तवाग्रे परमेश्वर ॥१९॥येन हीना न सिद्ध्यन्ति कल्पकोतिशतेन च ।एका तु अमरा दूर्वा तस्या ग्रन्थिं समानयेत् ॥२०॥अन्या तु विजया देवी सिद्धिरुपा सरस्वती ।अन्या तु बिल्वपत्रस्था शिवसन्तोषकारिणी ॥२१॥अन्या तु योगसिद्ध्यर्थे निर्गुण्डी चामरा मता ।अन्या तु कालितुलसी श्रीविष्णोः परितोषिणी ॥२२॥एताः पञ्चस्वराः ज्ञेया योगसाधनकर्मणि ।एतासां द्विगुणं ग्राह्यं विजयापत्रमुत्तमम् ॥२३॥ब्राह्मणी क्षत्रिया वैश्या शूद्राः सर्वत्र पूजिताः ।एतद्द्रव्याणि सङ्ग्राह्य भक्षयेच्चूर्णमुत्तमम् ॥२४॥तच्चूर्णभक्षसमये एतमन्त्रादिपञ्चमम् ।पठित्वा भक्षणं कृत्वा नरो मुच्येत सङ्काटात् ॥२५॥ॐ त्वं दूर्वेऽमरपूज्ये त्वं अमृतोद्भवसम्भवे ।अमरं मां सदा भद्रे कुरुष्वे नृहरिप्रिये ॥२६॥ॐ दूर्वायै नमः स्वाहा इति दूर्वायाः ।पुनर्विजयामन्त्रेण शोधयेत् सर्वकन्यकाः ।ॐ संविदे ब्रह्मसम्भूते ब्रह्मपुत्रि सदाऽनघे ।भैरवाणां च तृप्त्यर्थे पवित्रा भव सर्वदा ॥२७॥ॐ ब्राह्मण्यै नमः स्वाहा ।ॐ सिद्धिमूलकरे देवि हीनबोधप्रबोधिनि ।राजपुत्रीवशङ्करि शूलकण्ठत्रिशूलिनि ॥२८॥ॐ क्षत्रियायै नमः स्वाहा ।ॐ अज्ञानेन्धर्नदीप्ताग्नि ज्ञानाग्निज्ज्वालरुपिणि ।आनन्दाध्याहुतिं कृत्वा सम्यक्ज्ञानं प्रयच्छ मे ॥२९॥ह्रीं ह्रीं वैश्यायै नमः स्वाहा ॐ नमस्यामि नमस्यामि योगमार्गप्रदर्शिनि ।त्रैलोक्यविजये मातः समाधिफलदा भव ॥३०॥श्री शूद्रायैः स्वाहा ।ॐ काव्यसिद्धिकरी देवी बिल्वपत्रनिवासिनि ।अमरत्वं सदा देहि शिवतुल्यं कुरुष्व माम् ॥३१॥ॐ शिवदायै नमः स्वाहा ।निर्गुण्डि परमानन्दे योगानामधिदेवते ।सा मां रक्षतु अमरे भावसिद्धिप्रदे नमः ॥३२॥ॐ शोकापहायै नमः स्वाहा ।ॐ विष्णोः प्रिये महामाये महाकालनिवारिणी ।तुलसी मां सदा रक्ष मामेकममरं कुरु ॥३३॥ॐ ह्रीं श्रीं ऐं क्लीं अमरायै नमः स्वाहा ।पुनरेव समाकृत्य सर्वासां शोधनञ्चरेत् ॥३४॥ॐ अमृते अमृतोद्भवेऽमृतवर्षिणि अमृतमाकर्षय ।आकर्षय सिद्धिं देहि स्वाहा ।धेनुमुद्रां योनिमुद्रां मत्स्यमुद्रां प्रदर्शयेत् ।तत्त्वमुद्राक्रमेणैव तर्पणं कारयेद् बुधः ॥३५॥अमन्त्रकं सप्तवार गुरोर्नाम्ना शिवेऽर्पयेत् ।सप्तकञ्च स्वेष्टदेव्या नाम्ना शुद्धिं प्रदापयेत् ॥३६॥ततस्तर्पणमाकुर्यात्तर्पयामि नमो नमः ।एतद्वाक्यस्य पूर्वे च इष्टमन्त्रं समुच्चरेत् ॥३७॥परदेवतां समुद्धत्य सर्वाद्यप्रणवं स्मृतम् ।ततो मुखे प्रजुहुयात् कुण्डलीनामपूर्वकम् ॥३८॥ॐ ऐं वद वद वाग्वादिनि मम जिहवाग्रे स्थिरीभव ।सर्वसत्त्ववशङ्करि शत्रुकण्ठत्रिशूलिनि स्वाहा ।एतज्जप्त्वा साश्रमी च वशी साधकासत्तमः ।पञ्चामरा शासनज्ञः कुलाचारविधिप्रियः ॥३९॥स्थिरचेता भवेद्योगी यदि पञ्चामरागथ ।नेतीयोगविधानानि श्रुणु कैलासपूजिते ॥४०॥येन सर्वमस्तकस्थकफानां दहनं भवेत् ।सूक्ष्मसूत्रं दृढतरं प्रदद्यात् नासिकाबिले ॥४१॥मुखरन्ध्रे समानीय सन्धानेन समानयेत् ।पुनः पुनः सदा योगी यातायातेन घर्षयेत् ॥४२॥क्रमेण वर्द्धनं कुर्यात् सूत्रस्य परमेश्वर ।नेतीयोगेन नासाया रन्ध्रं निर्मलकम भवेत् ॥४३॥वायोर्गमनकाले तु महासुखमिति प्रभो ।दन्तीयोगं ततः पश्चात्कुर्यात् साधकसत्तमः ॥४४॥दन्तधावनकाले तु योगमेतत् प्रकाशयेत् ।दन्तधावनकाष्ठञ्च सार्धहस्तैकसम्भवम् ॥४५॥नातिस्थूलं नातिसूक्ष्मं नवीनं नम्रमुत्तमम् ।अपक्वं यत्नतों ग्राह्यं मृणालसदृशं तरुम् ॥४६॥गृहीत्वा दन्तकाष्ठं वै योगी नित्यं प्रभक्षयेत् ।दन्तकाष्ठाग्रभागञ्च कनिष्ठाङ्गुलिपर्वतः ॥४७॥एवं दन्तावलिभ्याञ्च चर्वण सुन्दरं चरेत् ।ततः प्रक्षाल्य तोयेन शनिर्गिलनमाचरेत् ॥४८॥शनैः शनैः प्रकर्त्तव्यं कायावाकचित्तशोधनम् ।यावदभिन्नकाष्ठाग्रं नाभिमूले त्वनाक्षतम् ॥४९॥तावत् सूक्ष्मतरं ग्राह्यवश्यं प्रत्यहञ्चरेत् ।ह्रदये जलचक्रञ्च यावत् खण्डं न जायते ॥५०॥तावत्कालं सर्वदिने प्रभाते दन्तधावनम् ।ह्रदये कफभाण्डस्य खण्डनं जायते ध्रुवम् ॥५१॥पवनागमने सौख्यं प्रयति योगनिर्भरम् ।खेचरत्वं स लभताम् अम्लानञ्च कटूद्भवम् ॥५२॥मिष्टान्नं शाकदध्यन्नं द्विवारं रात्रिभोजनम् ।अवश्यं सन्त्यजेद्योगी यदि योगमिहेच्छति ॥५३॥एकभागं मुद्गबीजं द्विभागं तण्डुलं मतम् ।उत्तमं पाकमाकृत्य घृतदुग्धेन भक्षयेत् ॥५४॥अथवा केवलं दुग्धं तर्पणं कारयेद् बुधः ।कुण्ड्लीं कुलरुपाञ्च दुग्धेन परितर्पयेत् ॥५५॥कुण्डलीतर्पणं योगी यदि जानति शङ्कर ।अनायासेन योगी स्यात् स ज्ञानीन्द्रो भवेद्ध्रुवम् ॥५६॥यमनियमपरो यः कुण्डलीसेवनस्थोविभवविरहितो वा भूरिभाराश्रितो वा ।स भवति परयोगी सर्वविद्यार्थवेद्योगुणगणगगनस्थो मुक्तरुपी गणेशः ॥५७॥॥ इति श्रीरुद्रयामले उत्तरतन्त्रे महातन्त्रोद्दीपने षट्चक्रप्रकाशे भैरवभैरवीसंवादे पञ्चामरासाधनं नाम चतुस्त्रिंशः पटलः ॥३४॥ N/A References : N/A Last Updated : April 26, 2011 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP