संस्कृत सूची|शास्त्रः|तंत्र शास्त्रः|रूद्रयामल| उत्तरतंत्रम्|अथैकत्रिंशः पटलः| डाकिणीस्वरूपकथनम् अथैकत्रिंशः पटलः डाकिणीस्वरूपकथनम् छेदिनीस्तवः योगिनीस्तोत्रसार अथैकत्रिंशः पटलः - डाकिणीस्वरूपकथनम् भेदिन्यादिस्तोत्रकथनम् Tags : rudrayamaltantra shastraतंत्र शास्त्ररूद्रयामल डाकिणीस्वरूपकथनम् Translation - भाषांतर आनन्दभैरव उवाचअथ नाथ प्रवक्ष्यामि भेदिन्याः साधनं परम् ।येन साधनमात्रेण योगी स्यात् कलिकालहो ॥१॥कलिकाले महायोगं साधय त्वं महाप्रभो ।यदि न साधितः कालः स कालो देहभक्षकः ॥२॥भेदिनीसाधनेनैव ग्रन्थीनां भेदनं भवेत् ।डाकिनीं ह्रदये ध्यायेत् परमानन्दरुपिणीम् ॥३॥अष्टहस्तां विशालाक्षीं शशाङ्कावयवाङ्किताम् ।त्रैलोक्यमोहिनीं विद्याम भयदां वरदां सताम् ॥४॥शुक्लवर्णां त्रिनयनां चारुरुपमनोहराम् ।ध्यात्वा मूलाम्बुजे योगी पाद्याद्यैः परिपूजयेत् ॥५॥तत्र मनोलयं कृत्वा योगी भवति भूतले ।यदा मनोलयं याति तदा तस्याः स्तवं पठेत् ॥६॥स्तोत्रं पठनमात्रेण सर्वसत्त्वश्रितो भवेत् ।ध्यानमाकृत्य प्रपठेत् सर्वसिद्धिमयो भवेत् ॥७॥या भेदिनी सकलग्रन्थिविनाशनानांधर्मान्तरे सकलशत्रुविनाशनस्था।सा मे सा प्रतिदिनं परिपातु देहंकालात्मिका भगवती शुभकार्यकर्त्री ॥८॥या कान्ता करुणामयी त्रिजगतामानन्दसिद्धिस्थितानित्या सा परिपालिका कुलकला नीला मलाकोमला ।वाणी सिद्धिकरी मृतार्थानिगडे शीघ्रोदया शाङ्करीसंज्ञाभेदनभेदिका शुभकरी वेदान्तीसिद्धान्तदा ॥९॥वाणी बाला कुलाला कलकलचरणा यामलासंख्यमाला ।हेलाभालान्तराला कुलकमलचला चञ्चला देहकाला ॥१०॥भेदाख्या भेद्यभेदा वरनदनिनदा नादबिन्दुप्रकाशा ।सा मे शीर्ष ललाट् मुखह्रदयकटिं मुख्यपद्मं प्रयातात् ॥११॥काञ्चीपीठप्रकाशा निजपदविलया योगिनीनेत्रवथा ।नातियोगप्रकाश्या चरुशतघटिता घोरसंहारकारा ॥१२॥ब्रह्मानन्दस्वरुपा विगतिमतिहरा हीरका भाति नेत्रा ।हारश्रेण्यादिभूषा शशिशतकिरना पातु मां भेद्यदेहम् ॥१३॥या भेदिनी सकलापापारिपुप्रियाणां स्वर्गापवर्गविरला बगलामुखी सा ।मे पातु देहघटितं सकलेप्सितार्थं भावप्रभावपटला सहदेहसंस्था ॥१४॥कामाश्रिता विविधदोषविनाशलेषासौन्दर्यवेशकरणी क्रतुकर्मरक्षा ।दीक्षा सतां मतिमतां निजयोगदात्रीसा मे सदा सकलदेहमिहाशु भेद्या ॥१५॥कान्ता शान्तगुणोदया मम धन देहस्य नित्याशयापायात् श्रीकुलदैवतस्य जयदा या योगसारं परम् ।साक्षादीश्वरपूजिता समुचिता चित्तर्थिता चार्थिता यन्मे घोरतरे जये निजकुले कालाकुले व्याकुले ॥१६॥भेदाभेदविवर्जिता सुरवरश्रीहस्तपद्मार्चितेमे मेढ्रं खलु लिङु मूलकमलं कालप्रिया पातु सा ।सप्तस्वर्गतलं ममैव वपुषा मिथ्यावमानापहाहेडम्भासुरसुन्दर प्रियवती हेमावती भारती ॥१७॥एतत् स्तोत्रं पठित्वा यः स्तौति मूलाम्बुजे च माम् ।स एव योगमाप्नोति स भवेद् योगिवल्लभः ॥१८॥मनः श्तिरं भवेत् क्षिप्रं राजत्वं लभते झटित् ।अनायासेन सिद्धिः स्यात् तस्य वायुर्वशो भवेत् ॥१९॥योगिनीनां दर्शनं हि अनायासेन लभ्यते ।भावसिन्धुयुतो भूत्वा विचरेदमरो यथा ॥२०॥मूलपद्मे वसेददेवी मूलाम्भोजप्रकाशिनी ।मालती मालवी मौना मालिनी च मनोहरा ॥२१॥मानसी मदना मान्या मुद्रामैथुनतत्परा ।मेरुस्था माद्यकुसुमा मण्डिता मण्डलस्थिता ॥२२॥मनःस्थैर्यकरी देवी भाव्यते यैः कुमारकैः ।अक्स्मात् सिद्धिमाप्नोति कालेन परमेश्वर ॥२३॥अथ वक्ष्ये महादेव्याः छेदिन्याः स्तवमुत्तमम् ।छेत्ता त्वं सर्वग्रन्थीना मत्प्रसादाद् यतीश्वरः ॥२४॥यत्प्रसादादनन्तो हि योगी संसारमण्डले ॥२५॥ N/A References : N/A Last Updated : April 26, 2011 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP