संस्कृत सूची|शास्त्रः|तंत्र शास्त्रः|रूद्रयामल| उत्तरतंत्रम्|त्रिंशः पटलः| कालिपावन स्तोत्रम् त्रिंशः पटलः भेदिनीमन्त्रकथनम कालिपावन स्तोत्रम् त्रिंशः पटलः - कालिपावन स्तोत्रम् मूलपद्यविवेचनम् Tags : rudrayamaltantra shastraतंत्र शास्त्ररूद्रयामल कालिपावन स्तोत्रम् Translation - भाषांतर ब्रह्माणं हंस सङायुतशरणवदावाहनं देववक्त्रंविद्यादानैकहेतुं तिमिचरनयनाग्नीन्दुफुल्लारविन्दम् ।वागीशं वाग्गतिस्थं मतिमतविमलं बालाक चारुवर्णंडाकिन्यलिङित तं सुरनरवरदं भावयेन्मूलपद्मे ॥२७॥नित्यां ब्रह्मपरायणां सुखमयीं ध्यायेन्मुदा डाकिनींरक्ताम गच्छविमोहिनीं कुलपथे ज्ञानाकुलज्ञानिनीम् ।मूलार्भोरुहतमध्यदेशानिकटे भूविम्बमध्ये प्रभांहेतुस्थां गतिमोहिनीं श्रुतिभुजां विद्यां भवाहलदिनीम् ॥२८॥विद्यावास्तवमालया गलतलप्रालम्बशोभाकरांध्यात्वा मूलनिकेतने निजकुले यः स्तौति भक्त्या सुधीः ।नानाकारविकारसारकिरणां कर्त्री विधो योगिनांमुख्यां मुख्यजनस्थितां स्थितिमतिं सत्त्वाश्रितामाश्रये ॥२९॥या देवी नवडाकिनी स्वरमणी विज्ञानिनी मोहिनीमां पातु प्रियकामिनी भवविधेरानन्दसिन्धूद्भवा ।मे मूलं गुनभासिनी प्रचयतु श्रीः कीर्तिचक्रं हि मांनित्या सिद्धिगुणोदया सुरदया श्रीसंज्ञया मोहिता ॥३०॥तन्मध्ये परमाकला कुलफला बाणप्रकाण्डाकरा राका राशषसादशा शशिघटा लोलामला कोमला ।सा माता नवमालिनी मम कुलं कूलाम्बूजं सर्वदासा देवी लवराकिणी कलिफलोल्लासैकबीजन्तरा ॥३१॥धात्री धैर्यवती सती मधुमती विद्यावती भारतीकल्याणी कुलकन्यकाधरनरारुपा हि सूक्ष्मास्पदा ।मोक्षस्था स्थितिपूजिता स्थितिगता माता शुभा योगिनांनौमि श्रीभविकाशयां शमनगां गीतोद्गतां गोपनाम् ॥३२॥कल्केशीं कुलपण्डितां कुलपथग्रन्थिक्रियाच्छेदिनींनित्यां तां गुणपण्डिता प्रचपलां मालाशतार्कारुणाम् ।विद्यां चण्डगुणोदयां समुदयां त्रैलोक्यरक्षाक्षरांब्रह्मज्ञाननिवासिनीं सितशुभानन्दैकबीजोद्गताम् ॥३३॥गीतार्थनुभवप्रियां सकलया सिद्धप्रभापाटलाम् ।कामाख्यां प्रभजामि जन्मनिलयां हेतुप्रियां सत्क्रियाम् ।सिद्धौ साधनतत्परं परतरं साकाररुपायिताम् ॥३४॥ब्रह्मज्ञानं निदानं गुणनिधिनयनं कारणानन्दयानम् ।ब्रह्माणं ब्रह्मबीज रजजियजनं यागकार्यानुरागम् ॥३५॥शोकातीतं विनीतं नरजलवचनं सर्वविद्याविधिज्ञम् ।सारात् सारं तरुं तं सकलतिमिरहं हंसगं पूजयामि ॥३६॥एतत्सम्बन्धमार्गं नवनदलगं वेदवेदाङाविज्ञम् ।मूलाम्भोजप्रकाशं तरुणरविशशिप्रोन्नताकारसारम् ॥३७॥भावाख्यं भावसिद्ध्म जयजयदविधिं ध्यानगम्य्म पुराणम् ।पाराख्य्म पारणायं परजनजनितं ब्रह्मरुपं भजामि ॥३८॥डाकिनीसहितं ब्रह्मध्यानं कृत्वा पठेत् स्तवम् ।पठनाद् धारणन्मन्त्री योगिनां सङतिर्भवेत् ॥३९॥एतत्पठनमात्रेण महापातकनाशनम् ।एकरुपं जगन्नाथ विशालनयनाम्बुजम् ॥४०॥एवं ध्यात्वा पठेत् स्तोत्रं पठित्वा योगिराड् भवेत् ॥४१॥॥ इति श्रीरुद्रयामले उत्तरतन्त्रे महातन्त्रोद्दीपने सिद्धमन्त्रप्रकरणे षट्चक्रसिद्धिसाधने भैरवभैरवीसंवादे डाकिनी स्तोत्रं नाम त्रिंशः पटलः ॥३०॥ N/A References : N/A Last Updated : April 26, 2011 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP