संस्कृत सूची|शास्त्रः|तंत्र शास्त्रः|रूद्रयामल| उत्तरतंत्रम्|अथैकोनत्रिंशः पटलः| षट्चक्रयोगः अथैकोनत्रिंशः पटलः षट्चक्रयोगः मनोमहाप्रलयः अथैकोनत्रिंशः पटलः - षट्चक्रयोगः षट्चक्रयोगकथनम् Tags : rudrayamaltantra shastraतंत्र शास्त्ररूद्रयामल षट्चक्रयोगः Translation - भाषांतर आनन्दभैरव उवाचअथ षट्क्रयोगं च प्रवक्ष्यामीह तत्त्वतः ।कुण्डलीयोगविविधं कृत्वा योगी भवेन्नरः ॥१॥मूलादिब्रह्मरन्ध्रान्तं षट्क्रभेदनं मतम् ।षट्चक्रे योगशास्त्राणि विविधानि वसन्ति हि ॥२॥यो जानातीह षट्चक्रं सर्वशास्त्रार्थविद्भवेत् ।चतुद्र्दलं मूलपद्मं वादिसान्तार्णसम्भवम् ॥३॥हिरण्यवर्नममलं ध्यायेद्योगी पुनः पुनः ।निर्जने विपिने शून्ये पशुपक्षिगनावृते ॥४॥निर्भये सुन्दरे देशे दुर्भिक्षादिविवर्जिते ।कृत्वा दृढासनं मन्त्री योगमार्गपरो भवेत् ॥५॥तदा योगी भवेत् क्षिप्रं मम शास्त्रानुसारतः ।पूर्वदले वकारं च ध्यायेद्योगी सदा सुखी ॥६॥सुर्वणवर्णं हितकारिणं नृणां सत्वोद्भवं पूर्वदलस्थितं सुखम् ।मत्तप्रियं वारणमत्तमन्दिरं मन्त्रार्थक शीतलरुपधारिणम् ॥७॥योगानुभावाश्रयकालमन्दिरं तेजोमयं सिद्धिसमृद्धिदं गुरुम् ।आद्याक्षरं वं वरभावसाधनं नारायणं भावनपञ्चमच्युतम् ॥८॥ध्यायेत् शकारं कनकाचलप्रभं गौरीपतेः श्रीकरणं पुराणम् ।लक्ष्मीप्रियं सर्वसुवर्णवेष्टितं सदा मुदा दक्षिणपत्रमुत्तमम् ॥९॥शमीश्वरीषष्ठगुणावतांस षट्पद्मसम्भेदनकारकं परम् ।परापरस्थाननिवासिनं गुणं हेमाचलं पत्रमहं भजामि ॥१०॥सकारमानन्दरसं प्रियं प्रियं ध्याये महाहाटकपर्वताग्रकम् ।ध्याये मुदाहं घननाथमन्दिरे मायामहामोहविनाशन जयम् ॥११॥चतुर्भुजं भुजयुगं अष्टादशभुजं तथा ।अष्टहस्तं सदा ध्यायेन्मन्त्री भावविशुद्वये ॥१२॥ततो ध्यायेत कर्णिकाया मध्यदेशे मनोरमम् ।स्वयम्भूलिङुपरमं योगिनां योगसिद्धिदम् ॥१३॥प्रातः सूर्यसमप्रख्य्म तडित्कोटिसमप्रभम् ।तं संवेष्ट्य महादेवी कुण्डली योगदायिनी ॥१४॥सार्धत्रिवेष्टनग्रन्थियुता सा मुक्तिदायिनी ।निद्रिता सा सदा भद्रा महापातकघातिनी ॥१५॥निरन्तरं तस्य शीर्षे विभाति शशधारिणी ।तच्छ्वासधारिणी नित्या जगतां प्राणधारिणी ॥१६॥सुप्ता सर्पसमा भ्रान्तिः यथार्कशतकोट्यः ।यदा लिङुं सा विहाय प्राक्तिष्ठति महापथे ॥१७॥तदा सिद्धो भवेद्योगी ध्यानधारणकृत शुचिः ।सदानन्दमयो नित्यश्चैतन्यकुण्डली यदा ॥१८॥सुषुम्ना नाडिकामध्ये महासूक्ष्मविले स्थितः ।मनो निधाय यो योगी श्वासमार्गपरो भवेत् ॥१९॥तदा सा द्रवति क्षिप्रं चैतन्या कुण्डली परा ।पृष्ठदेशे महादण्डे मेरुमूले महाप्रभे ॥२०॥मूलादिब्रह्मरन्ध्राधः सदास्थिरुपधारकः ।कनकाचलनाम्ना च प्रतिभाति जगत्त्रये ॥२१॥तन्मध्ये परमा सूक्ष्मा सुषुम्ना बहुरुपिणी ।मनोमुनिस्वरुपा च मनश्चैतन्यकारिणी ॥२२॥तन्मध्ये भाति वज्राख्या घोरपातकनाशिनी ।सिद्धिदाभावविज्ञानाम मोक्षदा कुलरुपिणाम् ॥२३॥तन्मध्ये चित्रिणी देवी देवताप्रीतिवर्द्धिनी ।हितैषिणी महामाया कालजालविनाशिनी ॥२४॥सा पाति सकलान् चक्रान् पद्मरुपधरान् परान् ।त्रैलोक्यमण्डलगतान् साक्षादमृतविग्रहान् ॥२५॥स्वयं दधार सा देवी चित्राख्या चारुतेजसी ।तले पृष्ठे ऊद्र्ध्वदेशे शीर्षे वक्षसि नाभिषु ॥२६॥कण्ठकूपे चक्रमध्ये ब्रह्माण्ड पाति सर्वदा ।शरीरात्मकमीशार्थं त्रैलोक्यं सचराचरम् ॥२७॥चित्रासुग्रथनं पद्मं योऽवभाव्यति भावकः ।भावेन लभ्यते योगं भावेन भाव्यते शिवः ॥२८॥भावेन शक्तिमाप्नोति तस्मद्भावं समाश्रयेत् ।षट्चक्रभावनां कृत्वा महायोगी भवेन्नरः ॥२९॥सर्वधर्मान्वितो भूत्वा राजते क्षितिमण्डले।सर्वत्रगामी स भवेत् यदि पद्मे मनोलयम् ॥३०॥पद्मभावनमात्रेण आकाशसदृशो भवेत् ।महापद्मे मनो दत्वा महाभक्तो भवेदध्रुवम् ॥३१॥ N/A References : N/A Last Updated : April 26, 2011 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP