संस्कृत सूची|शास्त्रः|तंत्र शास्त्रः|रूद्रयामल| उत्तरतंत्रम्|सप्तविंशः पटलः| ध्यानलक्ष्यनिरूपणम् सप्तविंशः पटलः प्राणायाम लक्षणम् प्रत्याहारः भावमाहात्म्यम् समाधिः मंत्रयोगार्थनिर्णयकथनम् हृदयाब्जकथनम् दार्शनिकमतकथनम् ध्यानलक्ष्यनिरूपणम् सप्तविंशः पटलः - ध्यानलक्ष्यनिरूपणम् षट्चक्रसारसंकेते अष्टाङ्गयोगनिरूपणम् Tags : rudrayamaltantra shastraतंत्र शास्त्ररूद्रयामल ध्यानलक्ष्यनिरूपणम् Translation - भाषांतर इदानीं धारणाख्यञ्चं श्रृणुष्व परमाञ्जनम् ।दिक्कालद्यनवच्छिन्नं त्वयि चित्तं निधाय च ॥८६॥मयि वा साधकवरो ध्यात्वा तन्मयतामियात् ।तन्मयो भवति क्षिप्रं जीवब्रह्यैकयोजनात् ॥८७॥इष्टपादे मति दत्वा नखकिञ्जल्कचित्रिते ।अथवा मननं चित्तं यदा क्षिप्रं न सिद्ध्यति ॥८८॥तदावयवयोगेन योगी योगं समभ्यसेत् ।पादाम्भोजे मनो दद्याद् नखकिञ्जल्कचित्रिते ॥८९॥जङ्कायुग्मे तथाराम कदलीकाण्डमण्डिते ।ऊरुद्वये मत्तहस्तिकरदण्डसमप्रभे ॥९८०॥गङावर्त्तगभीरे तु नाभौ सिद्धिबिले ततः ।उदरे वक्षसि तथा हस्ते श्रीवत्सकौस्तुभे ॥९१॥पूर्णचन्द्रामृतप्रख्ये ललाटे चारुकुण्डले ।शङ्कचक्रगदाम्भोजदोर्दण्डपरिमण्डिते ॥९२॥सहस्त्रादित्यसङ्काशे किरीटकुण्डलद्वये ।स्थानेष्वेषु भजेन्मन्त्री विशुद्धः शुद्धचेतसा ॥९३॥मनो निवेश्य श्रीकृष्णे वैष्णवो भवति ध्रुवम् ।इति वैष्णवमाख्यातं ध्यानं सत्त्व्म सुनिर्मलम् ॥९४॥विष्णुभक्ताः प्रभजन्ति स्वाधिष्ठानं मनः स्थिराः ।यावन्मनोलयं याति कृष्णे आत्मनि चिन्तयेत् ॥९५॥तावत् स्वाधिष्ठानसिद्धिरिति योगार्थनिर्णयः ।तावज्जपेन्मंनु मन्त्री जपहोमं समभ्यसेत् ॥९६॥अतः परं न किञ्चिच्च कृत्यमस्ति मनोहरे ।विदिते परतत्त्वे तु समस्तैर्नियमैरलम् ॥९७॥अत एव सदा कुर्यात ध्यानं योगं मनुं जपेत् ।तमः परिवृते गेहे घटो दीपेन दृश्यते ॥९८॥एं स यो वृतो ह्यात्मा मनुना गोचरीकृतः ।इति ते कथितं नाथ मन्त्रयोगमनुत्तमम् ॥९९॥कृत्वा पापोदभवैर्दुःखैर्मुच्यते नात्र संशयः ।दुर्लभं विषयासक्तैः सुलभं योगिनमपि ॥१००॥सुलभं न त्यजेद्व्द्वान् यदि सिद्धिमिहेच्छति ।ब्रह्मज्ञानं योगध्यानं मन्त्रजाप्यं क्रियादिकम् ॥१०१॥यः करोति सदा भद्रो वीरभद्रो हि योगिराट् ।भक्तिं कुर्यात् सदा शम्भोः श्रीविद्यायाः परात्पराम् ॥१०२॥योगसाधनकाले च केवलं भावनादिभिः ।मननं कीर्त्तनं ध्यानं स्मरणं पादसेवनम् ॥१०३॥अर्चनं वन्दनं दास्यं सख्यमात्मनिवेदनम् ।एतद्भक्तिप्रसादेन जीवन्मुक्तस्तु साधकः ॥१०४॥योगिनां वल्लभो भूत्वा समाधिस्थो भवेद्यतिः ॥१०५॥॥ इति श्रीरुद्रयामले उत्तरतन्त्रे महातन्त्रोद्दीपने भावार्थनिर्णये पाशवकल्पे षट्चक्रसारसङ्केते सिद्धमन्त्रप्रकरणे भैरवीभैरवसंवादे सप्तविंशः पटलः ॥२७॥ N/A References : N/A Last Updated : April 26, 2011 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP