संस्कृत सूची|शास्त्रः|तंत्र शास्त्रः|रूद्रयामल| उत्तरतंत्रम्|ऊनविंशः पटलः| प्रश्नादिकथने सिद्धिविधानम् ऊनविंशः पटलः प्रश्नादिकथने सिद्धिविधानम् ऊनविंशः पटलः - प्रश्नादिकथने सिद्धिविधानम् प्रश्नचक्रस्वरूपकथनम् Tags : rudrayamaltantra shastraतंत्र शास्त्ररूद्रयामल प्रश्नादिकथने सिद्धिविधानम् Translation - भाषांतर आनन्दभैरवी उवाचइदं तु श्रुणु वक्ष्यामि सर्वतन्त्रागोपनम् ।तत्सर्वं प्रश्नचक्रे च षडाधारस्य भेदनंम् ॥१॥कालचक्रफलं तत्र निर्विकल्पादिसाधनम् ।प्रश्नचक्रं कामरुपं चैतन्यं सर्वदात्मनोः ॥२॥षड्मन्दिरे षट्कलापं कैवल्यसाधनादिकम् ।नानाभोगं योगसिद्धिं हित्वा यो मन्त्रमाजपेत् ॥३॥स भवेद् देवताद्रोही कोटिकल्पेन सिध्यति ।ह्रदि यस्य महाभक्तिः प्रतिभाति महोदया ॥४॥क्षणादेव हि सिद्धिः स्यात् किं जपैर्मन्त्रसाधनैः ।अतो भक्ति सदा कुर्याद् देवताभावसिद्धयै ॥५॥भैरव उवाचएतच्चक्रप्रसादेन को वा किं सिद्धिमाप्नुयात् ।एतस्य भावनादिवे किं फलं भावनं शुभम् ॥६॥को वा प्रश्नादिकथने क्षमो भवति सुन्दरि ।तत्प्रकारं विधानेन वद मे फलसिद्धये ॥७॥आनन्दभैरवी उवाचयः करोति पूर्णहोमं पुत्रार्थं योगसिद्धये ।कुण्डलीक्रमयोगेन पुनः पुनः क्रमेण च ॥८॥एतच्चक्रार्थभावज्ञः स एव नात्र संशयः ।यः करोति सदा नाथ वायुनिर्गमलक्षणम् ॥९॥ऊर्ध्व संस्थाप्य विधिवद् भावनां कुरुते नरः ।स एव सिद्धिमाप्नोति सिद्धमार्गे(र्गे) न संशयः ॥१०॥फलमेतद्भावनार्थं कामक्रोधादिवर्जितः ।भावनाफलसिद्धयर्थं वायुसंयोगसंक्रमात् ॥११॥लेपयित्वा शोधयित्वा मन्त्रयित्वा पुनः पुनः ।धर्मधर्मविरोधेन सूक्ष्मवायुक्रमेण च ॥१२॥प्राप्नोति महतीं सिद्धिमेतच्चक्रस्य तत्फलम् ।फलञ्च द्विविधं प्रोक्तं स्थूलसूक्ष्मपरस्थितम् ॥१३॥स्थूलं त्यक्त्वा महासूक्ष्मे मनो याति यदा यदा ।तदा हि महती सिद्धिरमरस्तत्क्षणाद् भवेत् ॥१४॥एकबारं भावयेद्यः सिद्धचक्रस्य वर्णकान् ।तस्यैव भावसिद्धिः स्याद् भावेन किं न सिद्धयति ॥१५॥महद्भावं विना नाथ कः सिद्धिफलकग्रही ।योगभ्रष्टः स्थूलफले परजन्मनि सिद्धिभाक् ॥१६॥ऐहिके सिद्धिमाप्नोति सूक्ष्मफलक्रमेण च ।यो जानाति सूक्ष्मफलं स योगी भवति ध्रुवम ॥१७॥स एव प्रश्नकथने योग्यो साधकः ।यः सूक्ष्मफलभोक्ता स्यात् क्रियागोपनतत्परः ॥१८॥निरन्तरं प्रश्नचक्रं आज्ञाचक्रोपरि स्थितम् ।विभाव्य कालसिद्धिः स्यात् सर्वज्ञो वेदपारगः ॥१९॥कालज्ञानी च सर्वज्ञ इति तत्त्वार्थ निर्णयः ।प्रश्नचक्रस्थितं वर्णं सूक्ष्मकालफलावहम् ॥२०॥मनोरुपं दण्डभेदं मासभेदं सवर्गकम् ।मनसो भ्रम एवं हि काल एको न संशयः ॥२१॥मृत्यु(त्युं)वशं करोत्येव कालज्ञानी स योगिराट् ।कालेन लीयते सर्वं त्रैलोक्यं सचराचरम् ॥२२॥कालधीनमिंद विश्वं तस्मात् काल (लं) वशं नयेत् ।तत्कालं सूक्ष्मनिलयं दुर्वाच्य प्रश्नकं श्रृणु ॥२३॥मेषं तुलाराशिमनुत्तमं सदा वैशाखमासे फलसिद्धिकारणम् ।कवर्गमावाप्य स्वरान् स एव विभावयेत् स क्षितिनाथ आभवेत् ॥२४॥आज्ञाचक्रोपरि ध्यात्वा सर्वचक्रं महाप्रभो ।एकक्षणेन सिद्धिः स्यात् परभावेन हेतुना ॥२५॥सिद्धेशचक्रचैतन्यं यो जानति महीतले ।वाक्सिद्धिर्जायते मासाद्दिवारात्रिक्रमेण च ॥२६॥वर्णमालासमाक्रान्तं राशिनक्षत्रसंयुतम् ।ग्रहचक्रं भावयित्वा सर्वं जानाति साधकः ॥२७॥च वर्गं वृषमीनस्थं कैशोरसिद्धिकारणम् ।द्विमाससाधनादेव सर्वज्ञो भवति ध्रुवम् ॥२८॥योगिनी खेचरी भूत्वा प्रयाति निकटे सताम् ।ग्रहचक्रप्रसादेन जीवन्मुक्तस्तु साधकः ॥२९॥यदि कर्म करोत्येव एकान्तचित्तनिर्मलः ।तस्याऽसाध्यं त्रिभुवने न किञ्चिदपि वर्तते ॥३०॥प्रश्नचक्र प्रसादेन सर्वे वै योगिनो भुवि ।यदि योगी भवेद् भूमौ तदा मोक्षवाप्नुयात् ॥३१॥विना योगसाधनेन कः सिद्धो भूमिमण्डले ।साधनेन विना सिद्धिः कस्य भक्तस्य जायते ॥३२॥भक्तानां निकटे सर्वे प्रतिष्ठन्ति महर्षयः ।अतो भक्ति सदा कुर्यात् सर्वधर्मान् विहाय च ॥३३॥तत्कालं भक्तिमाप्नोति प्रश्नचक्रप्रसादतः ।तत्प्रकारं महाधर्मं को वक्तुं क्षम एव हि ॥३४॥कञ्चित्तद्भावसारञ्च प्रश्नचक्रे वदाम्यहम् ।चवर्गभावनादेव भक्तिं प्राप्नोति साधकः ॥३५॥समाधाय परं देवमाज्ञाचक्रोपरि प्रभो ।विभाव्य नित्यभावं हि प्राप्नोति तत्कुलाद(कलाम)पि ॥३६॥आनन्दाश्रूणि पुलको देहावेशमनोलयम् ।सर्वकर्म स्वयं-त्यागी यः करोति स योगिराट् ॥३७॥टवर्गे वासनासिद्धिः संसारहितो भवेत् ।बलवान् सर्वविज्ञानी त्रिमासे खेचरो भवेत् ॥३८॥खेचरीमेलनं तस्य परं प्राप्नोति चक्रतः ।टवर्गं व्याप्य तिष्ठन्ति मिथुनं कुम्भयोनयः ॥३९॥स्वनक्षत्रस्वयोगञ्च विभाव्य योगिराड् भवेत् ।चतुर्मासे पूर्णयोगी तवर्गसाधनादपि ॥४०॥वेतालादिमहासिद्धिमिन्द्र सिद्धिं समाप्नुयात् ।तवर्गं व्याप्य तिष्ठन्ति मकरवृश्चिककर्कटाः ॥४१॥चिरजीवी भवेदीश इन्द्रतुल्यप्रियो भवेत् ।तिष्ठेत् प्रलयपर्यन्तं महाप्रलयरुपवान् ॥४२॥ कृत्वा काल(लं)वशं महावायौ महालयम् ।महाचक्रे सूर्यमध्ये वहिनमण्डलमध्यगे ॥४३॥वाग्देवता तस्य साक्षादभवतीति न संशयः ।पवर्गं व्याप्य तिष्ठन्ति धनुः सिंहास्तु चित्कलाः ॥४४॥विभाव्य परमस्थानं स (न) नश्यति महानिलम् ।त्रैलोक्यमष्टवर्गं च षट्चक्रं चक्षुषा क्षणात् ॥४५॥यदि वान्तं ब्रह्मरुपं सर्वतीर्थपदाश्रयम् ।महासत्त्वगुणाक्रान्तं मत्वा निर्मलचक्षुषा ॥४६॥कन्यावृश्चिकराशिभ्यां ब्रह्ममार्ग विलोकयेत् ।षण्मासेन सिद्धिः स्याद् महाकौलो भवेद् ध्रुवम् ॥४७॥ मौनी एकान्तभक्तः स्यात् श्रीपादाम्भोजदर्शनम् ।प्राप्नोति साधकश्रेष्ठः सायुज्यपदवीं लभेत् ॥४८॥ ततो मध्ये प्रगच्छन्ति योगिनस्तत्त्वचिन्तकाः ।शादिक्षान्ते चतुष्कोणे सर्वयोगाश्रये पदे ॥४९॥विभाव्य याति शीघ्र सः श्री देवीलोकमण्डले ।महाकालो भवेद् धीमान् प्रश्नचक्रस्य भावकः ॥५०॥॥ इति श्रीरुद्रयामले उत्तरतन्त्रे महातन्त्रोद्दीपने भावप्रश्नार्थनिर्णये पाशवकल्पेप्रश्नचक्रसारसङ्केते सिद्धमन्त्रप्रकरणे चतुर्वेद्ल्लासे भैरवभैरवीसंवादे ऊनविंशः पटलः ॥१९॥ N/A References : N/A Last Updated : April 10, 2011 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP