संस्कृत सूची|शास्त्रः|तंत्र शास्त्रः|रूद्रयामल| उत्तरतंत्रम्|अष्टादशः पटलः| कामचक्रफलोद्भवम् अष्टादशः पटलः कामचक्रफलोद्भवम् वर्णदेवता तस्य स्वरुपकथनम् षोडशस्वरफलकथनम् वर्गे वर्गे फलकथनम् अष्टादशः पटलः - कामचक्रफलोद्भवम् कामचक्रसारसंकेते चतुर्वेदोल्लासः Tags : rudrayamaltantra shastraतंत्र शास्त्ररूद्रयामल कामचक्रफलोद्भवम् Translation - भाषांतर आनन्दभैरवी उवाचश्रृणु नाथ प्रवक्ष्यामि असाध्यसाधनं परम् ।कामचक्रस्य वर्णानां वर्णनं प्रश्ननिर्ण्यम् ॥१॥आज्ञाचक्रमध्यभागे नाडीकोटिरसालिनी ।तन्मध्ये भावेयेन्मन्त्री कामचक्रं मनोरमम् ॥२॥कामचक्रे च पूर्वोक्तवर्णमालोक्य साधकः ।न्यासमन्त्रे पुटीकृत्य जपित्वा योगिराड् भवेत् ॥३॥एको मन्दिरमध्यस्थो मन्त्रमाश्रित्य यत्नतः ।निजनामाक्षरं तत्र तत्कोष्ठनुमाश्रयेत् ॥४॥आनन्दभैरव उवाचएतेषां कोष्ठसंस्थानां वर्णानां हि फलाफलम् ।वद कान्ते रहस्यं मे कामचक्रफलोद्भवम् ॥५॥आनन्दभैरवी उवाच कामचक्रं कालरुपं ततो वाराणसीपुरम् ।तत्र सर्वपीठचक्रं चक्राणामुत्तमोत्तमम् ॥६॥एतच्चक्रप्रसादेन ते पादाम्बुजदर्शनम् ।प्राप्नोति साधकान् सत्यं सर्वं जानति साधकः ॥७॥कामनासिद्धयर्थं मन्त्रार्थादिविचारनाम् ।वृद्धमस्तमिंत त्यक्त्या गृहणीयान्मन्त्रमुत्तमम् ॥८॥(आनन्दभैरवी उवाच)बाल्यदिषु स्थितात् वर्गान् आश्रयेत् साधकोत्तमः ।वर्जयेद् वृद्धभावञ्च तथास्तमितमेव च ॥१०॥आश्रयेद् राशिभावेन बाल्यकैशोरयौवनाम् ।अथ बाल्यं वर्गभेदं विचारे वामयोगतः ॥११॥मन्त्राणाञ्चापि गणयेत् प्रश्नकर्माणि दक्षिणात् ।मध्यकोणावधिं नाथ गणनीयं विचक्षणैः ॥१२॥ऊद्र्ध्वदक्षिणयोगेन गणयेत् प्रश्नकर्मणि ।वामयोगेन गणयेद् मन्त्रादीनां विचारणे ॥१३॥श्रृणु तद्वर्गवर्गाणाम फलमत्यन्तसुन्दरम् ।वदामि परमान्दरससिन्धुमधुव्रतः(त) ॥१४॥ N/A References : N/A Last Updated : April 10, 2011 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP