रात्रौ गन्धादिसम्पूर्णस्ताम्बूलपूरिताननः ।
विजयानन्दसम्पन्नो जीवात्मपरमात्मनोः ॥३७॥

ऐक्यं चित्ते समाधाय आनन्दोद्रेकसंभम्रः ।
यो जपेत् सकलां रात्रिं गतभीर्निजने गृहे ॥३८॥

स भवेत् कालिकादासो दिव्यानामुत्तमोत्तमः ।
एवं भावत्रयं ज्ञात्वा यः कर्म साधयेत्ततः ॥३९॥

अष्टैश्वर्ययुतो भूत्वा सर्वज्ञो भवति ध्रुवम् ।
भावत्रयाणां मध्ये तु भावपुण्यार्थनिर्णयम् ॥४०॥

श्रृणु नाथ प्रवक्ष्यामि सावधानाऽवधारय ।
अकस्मात् सिद्धिमाप्नोति ज्ञात्वा सङ्केत्तलाञ्छितम् ॥४१॥

यो जानाति महादेव तस्य सिद्धिर्न संशयः ।
द्वादशे पटले सूक्ष्मसङ्केतार्थ्म वदामि तत् ॥४२॥

आनन्दभैरवी उवाच
एकादशे च पटले शुद्धभावार्थनिर्णयम् ।
भावेन लभ्यते सर्वं भावाधीनं जगत्त्रयम् ॥४३॥

भावं विना महादेव न सिद्धिर्यायते क्वाचित् ।
पशुभावाश्रयाणाञ्च अरुणोदयकालतः ॥४४॥

दशदण्डाश्रितं कालं प्रश्नार्थं केवलं प्रभो ।
चक्रं द्वादशराशेश्च मासद्वादशकस्य च ॥४५॥

दशदण्डे विजानीयाद् भावाभावं विचक्षणः ।
अनुलोमविलोमेन पञ्चस्वरविभेदतः ॥४६॥

बाल्य कैशोरसौन्दर्यं यौवनं वृद्धसञ्ज्ञकम् ।
अस्त(अष्ट)मितंक्रमाज्ज्ञेयो विधिः पञ्चस्वरः स्वयम् ॥४७॥

स्वकीयं नासिकाग्रस्थं पञ्चमं परिकीर्तितम् ।
यन्नासापुटमध्ये तु वायुर्भवति भैरव ॥४८॥

तन्नासापुटमध्ये तु भावाभावं विचिन्तयेत् ।
आकाशं वायुरुपं हि तैजसं वारुणं प्रभो ॥४९॥

पार्थिवं क्रमशो ज्ञेयं बाल्यास्तादिक्रमेण तु ।
वामोदये शुभा वामा दक्षिणे पुरुषः शुभः ॥५०॥

वायुनां गमनं ज्ञेयं गगनावधिरेव च ।
केवलं मध्यदेशे तु गमनं पवनस्य च ॥५१॥

तदाकाशं विजानीयाद् बाल्यभावं प्रकीर्तितम् ।
तिर्यग्गतिस्तु नासाग्रे वायोरुदयमेव च ॥५२॥

केवलं भ्रमणं ज्ञेयं सर्वमङुलमेव च ।
किशोर तद्विजानीयाद् वायौ तिर्यग्गतौ विभो ॥५३॥

केवलोर्द्धवनासिकाग्रे वायुर्गच्छति दण्डवत् ।
तत्तैजसं विजानीयाद् गमनं बलवद् भवेत् ॥५४॥

तद्वृद्धगतभावञ्च विलम्बोऽधिकचेष्टया ।
प्राप्नोति परमां प्रीतिं वरुणाम्भोदये रुजाम् ॥५५॥

यदाधो गच्छति क्षिप्रं किञ्चिद् ऊर्ध्वमगोचरम् ।
यदा करोति प्रश्वासं तदा रोगोल्बणोदयः ॥५६॥

पृथिव्या उन्नतं भाग्यं योगातपप्रपीडितम् ।
अस्तमितं महादेव अनुलोमविलोमतः ॥५७॥

पवनो गच्छति क्षिप्रं वामदक्षिणभेदतः ।
वामनासापुटे याति पृथिवी जलमेव च ॥५८॥

सदा फलाफलं दत्ते मुदिता कुण्डमण्डले ।
तयोर्वै वायवी शक्तिः फलभागं तदा लभेत् ॥५९॥

यद्येवं वामभागे तु वामायाः प्रश्नकर्मणि ।
यदि तत्र पुमान् प्रश्नं करोति वामगामिने ॥६०॥

तदा रोगमवाप्नोति कर्महीनो भवेद् ध्रुवम् ।
यदि वायूदयो वामे दक्षिणे पुरुषः स्थितः ॥६१॥

तदा फलमवाप्नोति द्रव्यागमनदुर्लभम् ।
अकस्माद् द्रव्यहानिः स्यान्मनोगतफलापहम् ॥६२॥

सुह्रद् भङुविवादञ्च भिन्नभिन्नोदये शुभम् ।
केवलं वरुणस्यैव पुरुषो दक्षिणे शुभम् ॥६३॥

अशुभं पृथिवीदक्षे भेदोऽयं वरदुर्लभः ।
सदोदय दक्षिणे च वायोस्तैजसे एव च ॥६४॥

आकाशस्य विजानीयात् शुभाशुभफलं प्रभो ।
यदि भाग्यवशादेव वायोर्मन्दा गतिर्भवेत् ॥६५॥

दक्षनाशामध्यदेशे तदा वामोदयं शुभम् ।
तदा वामे विचारञ्च वायुतेजोद्वयस्य च ॥६६॥

ज्ञात्वोदयं विजानीयाद् मित्रे हानिः सुरे भयम् ।
एवं सुभवनागारे यदि गच्छति वायवी ॥६७॥

तस्मिन् काले पुमान् दक्षो दक्षभागस्थसम्मुखः ।
तदा कन्यादानफलं यथा प्राप्नोति मानवः ॥६८॥

तदा वायुप्रदादेन प्राप्नोति धनमुत्तमम् ।
देशान्तरस्थभावार्त्ता आयान्ति पुत्रसम्पदः ॥६९॥

बाल्यादिकं भावत्रयं राशिभेदे शुभं दिशेत्
एतच्चक्रे फलं तस्य राशिद्वादशचक्रके ॥७०॥

सूक्ष्मं फलं विजानीयात् चक्रं नाम श्रृणु प्रभो ।
आज्ञाचक्रं कामचक्रं फलचक्रञ्च सारदम् ॥७१॥

प्रश्नचक्रं भूमिचक्रं स्वर्गचक्रं ततः परम् ।
तुलाचक्रं वारिचक्रं षट्‌चक्रं त्रिगुणात्मकम् ॥७२॥

सारचक्रमुल्काचक्र् मृत्युचक्रं क्रमात्प्रभो ।
षट्‌कोण चात्र जानीयादनुलोमविलोमतः ॥७३॥

सर्वचक्रे स्वरज्ञानं सर्वत्र वायुअसङुतिम् ।
सर्वप्रश्नादिसञ्चारं भावेन जायते यदि ॥७४॥

तदा तद्दण्डमानञ्च ज्ञात्वा राश्ययुदयं बुधः ।
कुर्यात् प्रश्नइचारञ्च यदि कीर्तिमिहेच्छति ॥७५॥

॥ इति श्रीरुद्रयामले उत्तरतन्त्रे महातन्त्रोद्दीपने भावबोधनिर्णये पशुभावविचारे सारसङ्केते सिद्धमन्त्रप्रकरणे भैरवीभैरवसंवादे एकादशः पटलः ॥११॥

N/A

References : N/A
Last Updated : April 10, 2011

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP