दशमः पटलः - अष्टोत्तरसहस्त्रनामकवचम् ४
कुमार्या सहस्त्रनामानि
तुलसीतन्तुसूक्ष्माख्या तारल्या तैलगन्धिका ।
तपस्या तापससुता तारिणी तरुणी तला ॥७६॥
तन्त्रस्था तारकब्रह्मस्वरुपा तन्तुमध्यगा ।
तालभक्षत्रिधामूर्तिस्तारका तैलभक्षिका ॥७७॥
तारोग्रा तालमला च तकरा तिन्तिडीप्रिया ।
तपसः तालसन्दर्भा तर्जयन्ती कुमारिका ॥७८॥
तोकाचारा तलोद्वेगा तक्षका तक्षकप्रिया ।
तक्षकालङ्कृता तोषा तावद्रूपा तलप्रिया ॥७९॥
तलास्त्रधारिणी तापा तपसां फलदायिनी ।
तल्वल्वप्रहरालीता तलारिगणनाशिनी ॥८०॥
तूला तौली तोलका च तलस्था तलपालिका ।
तरुणा तप्तबुद्धिस्थास्तप्ता प्रधारिणी तपा ॥८१॥
तन्त्रप्रकाशकरणी तन्त्रार्थदायिनी तथा ।
तुषारकिरणाङि च चतुर्धा वा समप्रभा ॥८२॥
तैलमार्गाभिसूता च तन्त्रसिद्धिफलप्रदा ।
ताम्रपर्णा ताम्रकेशा ताम्रपात्रप्रियातमा ॥८३॥
तमोगुणप्रिया तोला तक्षकारिनिवारिणी ।
तोषयुक्ता तमायाची तमषोढेश्वप्रिया ॥८४॥
तुलना तुल्यरुचिरा तुल्यबुद्धिस्त्रिधा मतिः ।
तक्रभक्षा तालसिद्धिः तत्रस्थास्तत्र गामिनी ॥८५॥
तलया तैलभा ताली तन्त्रगोपनतत्परा ।
तन्त्रमन्त्रप्रकाशा च त्रिशरेणुस्वरुपिणी ॥८६॥
त्रिंशदर्थप्रिया तुष्टा तुष्टिस्तुष्टजनप्रिया ।
थकारकूटदण्डीशा थदण्डीशप्रियाऽथवा ॥८७॥
थकाराक्षररुढाङी थान्तवर्गांथ कारिका ।
थान्ता थमीश्वरी थाका थकारबीजमालिनी ॥८८॥
दक्षतामप्रिया दोषा दोषजालवनाश्रिता ।
दशा दशनघोरा च देवीदासप्रिया दया ॥८९॥
दैत्यहन्त्रीपरा दैत्या दैत्यानां मर्द्दिनी दिशा ।
दान्ता दान्तप्रिया दासा दामना दीर्घकेशिका ॥९०॥
दशना रक्तवर्णा च दरीग्रहनिवासिनी ।
देवमाता च दुर्लभा च दीर्घाङा दासकन्यका ॥९१॥
दशनश्री दीर्घनेत्रा दीर्घनासा च दोषहा ।
दमयन्ती दलस्था च द्वेषहन्त्री दशस्तिता ॥९२॥
दैशेषिका दिशिगता दशनास्त्रविनाशिनी ।
दारिद्रयहा दरिद्रस्था दरिद्रधनदायिनी ॥९३॥
दन्तुरा देशभाषा च देशस्था देशनायिका ।
द्वेषरुपा द्वेषहन्त्री द्वेषारिगणमोहिनी ॥९४॥
दामोदरस्थाननादा दलानां बलदायिनी ।
दिग्दर्शना दर्शनस्था दर्शनप्रियवादिनी ॥९५॥
दामोदरप्रिया दान्ता दामोदरकलेवरा ।
द्राविणी द्रविणी दक्षा दक्षकन्या दलदृढा ॥९६॥
दृढसनादासशक्तिर्द्वन्द्वयुद्धप्रकाशिनी ।
दधिप्रिया दधिस्था च दधिमङुलकारिणी ॥९७॥
दर्पहा दर्पदा दृप्ता दर्भपुण्यप्रिया दधिः ।
दर्भस्था द्रुपदसुता द्रौपदी द्रुपदप्रिया ॥९८॥
धर्मचिन्ता धनाध्यक्षा धश्वेश्वरवरप्रदा ।
धनहा धनदा धन्वी धनुर्हस्ता धनुःप्रिया ॥९९॥
धरणी धैर्यरुपा च धनस्था धनमोहिनी ।
धोरा धीरप्रियाधारा धराधारनतत्परा ॥१००॥
N/A
References : N/A
Last Updated : April 08, 2011
TOP