संस्कृत सूची|शास्त्रः|तंत्र शास्त्रः|रूद्रयामल| उत्तरतंत्रम्|सप्तमः पटलः| कुमारीस्तोत्रम् सप्तमः पटलः कुमारीस्तोत्रम् सप्तमः पटलः - कुमारीस्तोत्रम् कुमारिपूजाविधानम् Tags : rudrayamaltantra shastraतंत्र शास्त्ररूद्रयामल कुमारीस्तोत्रम् Translation - भाषांतर आनन्दभैरवी उवाचअथ पूजां प्रवक्ष्यामि कुमार्याश्चातिदुर्लभाम् ।व्याधिवर्गविहीनानां शीघ्रं सिद्भ्यति भूतले ॥१॥तत्प्रकारं महादेव वीराणामधिपाधिक ।पूजास्थानं महापीठं देवालयमथापि वा ॥२॥सुन्दरीं परमाननन्दवर्द्धनीं जयदायिनीम् ।कालरात्रिस्वरुपां श्रीं गौरीं रक्ताङुरागिणीम् ॥३॥कन्यां देवकुलोद्भूतां राक्षसीं वा नरोत्तमाम् ।नटीकन्यां हीनकन्यां तथा कापालिकन्यकाम् ॥४॥रजककस्यापि कन्यां ते तथा नापितकन्यकाम् ।गोपालकन्यकाञ्चैव तथा ब्राह्मणकन्यकाम् ॥५॥शूद्रकन्यां वैश्यकन्यां तथा वैद्यकन्यकाम् ।चण्डालकन्यकां वापि यत्र कुत्राश्रमे स्थिताम् ॥६॥सुह्रद्वर्गस्य कन्यां च समानीय प्रयत्नतः ।पूजयेत् परमानन्दैत्मध्याननारायणः ॥७॥क्रमशः श्रृणु देवेन्द्र वरहस्तनिषेवित ।परमानन्दसौन्दर्य कारणान्दविग्रहः ॥८॥मम पूजां यः करोति प्रत्यहं शुद्धभक्तितः ।तस्यावश्यं कुमारीणां पूजनं भोजनं रवेः ॥९॥तेजोरुपं विधोश्चाग्नेः सर्वभावे प्रशस्यते ।तत्पूजनात् तदालापाद् भोजनादपि तत् शुभम् ॥१०॥मम प्रीतिर्भवेत्साक्षाद् देवतागुप्तिसंस्थिता ।बालभैरवदेवस्य कामिनीवटुकस्य च ॥११॥मत्पुत्रस्य सर्वलोकीपूजितस्य महौजसः ।पूजाभिर्विवेधैर्दिव्यैः कुमारी देव पूजिता ॥१२॥कुमारी कन्यका प्रोक्ता सर्वज्ञा जगदीश्वरी ।पूजार्थं सर्वलोकास्य समानीय सुरेश्वराः ॥१३॥पूजयन्ति महादेवीं गुप्तभावनिवासिनीम् ।सदा भोजनवाञ्छार्घ्या माल्यसन्तुहासिनीम् ॥१४॥वृथा न रौति सा देवी कुमारी देवनायिका ।सरस्वतीस्वरुपा च पूज्यते सर्वनायकैः ॥१५॥शिवभक्तैर्विष्णुभक्तैस्तथान्यदेवपूजितैः ।सर्वलोकैः पूजिता सा चावश्यं पूज्यते बुधैः ॥१६॥पूजया लभते पूजां पूजया लभते श्रियम् ।पूजया धनमाप्नोति पूजया लभते महीम् ॥१७॥पूजया लभते लक्ष्मीं सरस्वतीं महौजसम् ।महाविद्याः प्रसीदन्ति सर्वे देवा न संशयः ॥१८॥बालभैरवब्रह्मेन्द्रा ब्राह्मणा ब्रह्मवादिनः ।रुद्राश्च देववर्गाश्च वैष्णवा विष्णुरुपिणः ॥१९॥अवताराश्च द्विभुजा विष्णवो अनुशोभिताः ।अन्ये दिक्पालदेवाश्च चराचरगुरुस्तथा ॥२०॥नानाविद्यायुतास्सर्वे दानवा कूटशालिनः ।अपवर्गस्थिता ये ये ते ते तुष्टा न संशयः ॥२१॥यद्यहं तुष्टिरुपा हि अन्ये लोके च का कथा ।कुमारी पूजनं कृत्वा त्रैलोक्यं वशमानयेत् ॥२२॥महाशान्तिर्भवेत् क्षिप्रं सर्वपुण्य़ं फलप्रदम् ।तत्तमन्त्रसदुल्लेखात् क्षणात् पुण्ययुतं भवेत् ॥२३॥मन्त्रेण पुटितं कृत्वा जप्त्वा सिद्धीश्वरो भवेत् ।यद्यत् प्रकारमुच्चार्य वदामि सुरसुन्दर ॥२४॥तत्तत् कार्यमवश्यं च भिन्नबुद्धिं न कारयेत् ।भैरव उवाच अथ बीजप्रभेदञ्च वद शङ्करपूजिते ॥२५॥यदि मां स्नेहपुञ्जाऽस्ति मत्कुलार्थप्रवेशिनि ।वदस्व परमानन्द भैरवि प्राणवल्लभे ॥२६॥आनन्दभैरवी उवाचश्रृणु नाथ कुलार्थं मे कुमारीपूजने मनुम् ।महामन्त्रं महामन्त्रं सिद्धमन्त्रं न संशयः ॥२७॥एतन्मन्त्रप्रसादेन जीवन्मुक्तो भवेत् सुधीः ।अन्ते देवीपदं याति सत्यमानन्दभैरव ॥२८॥ऐहिकसुखसम्पत्तिर्मधुमत्याः प्रसादकम् ।अवश्यं प्राप्नुयान्मर्तो विश्वास कुरु शङ्कर ॥२९॥वाग्भवेन पुरः क्षोभं मायाबीजे गुणाष्टकम् ।श्रियोबीजे श्रियोलाभो मायाबीजे रिपुक्षयः ॥३०॥भैरवेण तु बीजेन खेचरत्वं सुरादिभिः ।कुमारिका ह्यहं नाथ सदा त्वं हि कुमारकः ॥३१॥अष्टोत्तरशतं वापि एकां वा परिपूजयेत् ।पूजिताः प्रतिपद्यन्ते निद्र्दहन्त्यवमानिताः ॥३२॥कुमारी योगिनी साक्षात् कुमारी परदेवता ।असुरा अष्टनागाश्च ये ये दुष्टाग्रहा अपि ॥३३॥भूतवेतालगन्धर्वा डाकिनीयक्षराक्षसाः ।याश्चान्या देवताः सर्वाः भूर्भुवः स्वश्च भैरव ॥३४॥पृथिव्यादीनि सर्वाणि ब्रह्माण्डं सचराचरम् ।ब्रह्मा विष्णुश्च रुद्रश्च ईश्वरश्च सदाशिवः ॥३५॥ते तुष्टाः सर्वतुष्टाश्च यस्तु कन्यां प्रपूजयेत् ।निधियुक्तां कुमारीं तु पूजयेच्चैव भैरव ॥३६॥पाद्यमर्घ्यं तथा धूपं कुङ्कुमं चन्दनं शुभम् ।भक्तिभावेन सम्पूज्य कुमारीभ्यो निवेदयेत् ॥३७॥प्रदक्षिणात्रयं कुर्यादादौ मध्ये तथान्ततः ।पश्चाच्च दक्षिणा देया रजतस्वर्णमौक्तिकैः ॥३८॥दक्षिणां विधिवद्दत्वा कुमारीभ्यः क्रमेण तु ।विवाहयेत् स्वयं कन्यां ब्रह्महत्यां व्यपोहति ॥३९॥यावच्च पुण्यकाले तु कन्यादानं प्रकल्पयेत् ।भुक्तिमुक्तिफलं तस्य सौभाग्यं सर्वसम्पदः ॥४०॥रुद्रलोके वसेन्नित्यं त्रिनेत्रो भगवान् हरः ।तीर्थकोटिसहस्त्राणि अश्वमेधसतानि च ॥४१॥तत्फलं लभते सद्यो यस्तु कन्यां विवाहयेत् ।बालुकासागरे ज्ञेया तावदब्दसहस्त्रकम् ॥४२॥एकैकं कुलामुद्धृत्य रुद्रलोके महीयते ।तत्तदिष्टदेवानां प्रीतये तुष्टये सुधी ॥४३॥कन्यादानं समाह्रत्य मुक्तिमाप्नोति भैरव ।तत्तद्वर्षीयकन्यायास्तत्तद्बुद्धया च साधकः ॥४४॥विभाव्य शिवरुपत्वं सम्प्रदानीयकारक ।पूर्णरुपं शिवं ध्यात्वा वरं सर्वाङसुन्दरम् ॥४५॥तेजोमयं यशःकान्तं बालभैरवरुपिणम् ।बटुकोश महादेवं वरयेत् साधकाग्रणीः ॥४६॥बालरुपां भैरवीं च त्रैलोक्यसुन्दरीं वराम् ।नानालङ्कारनम्राङीं भद्रविद्याप्रकाशिनीम् ॥४७॥चारुहस्यां महानन्दह्रदयां शुभदां शुभाम् ।ध्याता द्वादशपत्राब्जे पूर्णचन्द्रनिभाननाम् ॥४८॥सम्प्रदाने समानीय तत्तन्मन्त्रेण दापयेत् ।एतत् श्रुत्वा महावीरो बाल(बल)रुपी निरञ्जनः ॥४९॥पुनर्जिज्ञासयामास परमानन्दभैरवीम् ।आनन्दभैरव उवाचकुमारीकुलातत्त्वार्थं मन्त्रार्थं जपनक्रमम् ॥५०॥यजनादिप्रकारञ्च भोजनादिक्रमं तथा ।होमदिप्रकियां तस्याः स्तोत्रं प्रत्येकमेव हि ॥५१॥कवचं च कुमारीणां वदस्व क्रमशः प्रिये ।येन क्रमेण सा विद्या कुमारी परदेवता ॥५२॥निर्जने साधकस्याग्रे महावाक्यं स्वयं वदेत् ।बालिका चारुनयना केन होतोः प्रसीदति ॥५३॥तत्प्रकारं वद स्नेहादानन्दभैरवप्रिये ।आनन्दभैरवी उवाचश्रृणु शम्भो प्रवक्ष्यामि कुमारी कुलमन्त्रकान् ॥५४॥येन विज्ञानमात्रेण धरणीशो नरोत्तमः ।सर्वेषा गुरुरुपः स्यात् कुमारीयजनेन च ॥५५॥एकवर्षा वरा सन्ध्यादिकानां मनुमुत्तमम् ।षोडशाच्छान्तरुपाणां मन्त्र श्रॄणु महाप्रभो ॥५६॥क्रमादिकञ्च सर्वेषां चैतन्यसिद्धिसत्क्रियाम् ।आनीय सुन्दरीं नारीं कुमारीं वरनायिकाम् ॥५७॥रत्नालङ्कारसंयुक्ता शङ्कवस्त्रादिशोभिताम् ।वाग्भवेन जलं नाथ तन्नाम्ना परिदापयेत् ॥५८॥देवीबुद्ध्या सदा ध्यात्वा पूजयेत् साधकोत्तमः ।मायाबीजेन तन्नाम्ना पाद्यं दद्यात् तथा प्रभो ॥५९॥लक्ष्मीबीजेन चार्घ्यं तु कुर्याद् बीजेन चन्दनम् ।मायाबीजेन पुष्पाणि कुमार्यैं दापयेत् सुधीः ॥६०॥सदाशिवेन मन्त्रेण धूपदीपौ महोत्तमौ ।दत्त्वा षड्डुमन्त्रेण पूजयेद देवनायकः ॥६१॥तत्प्रकारं महादेव श्रृणुष्वानन्दरुपधृक ।महातेजोमयं शुभ्रं ह्रदयं हस्तदक्षिणैः ॥६२॥विभाव्य प्रपठेद् धीमान् तन्मन्त्रं श्रृणु शङ्कर ।आदौ वाग्मभवमुच्चार्य मायां लक्ष्मीं तु कूर्चकम् ॥६३॥प्रेतबीजं ततो ब्रूयात् सविसर्गेन्दुबिन्दुकम् ।कुलशब्दं समुच्चार्य कुमारिके ततो वदेत् ॥६४॥ह्रदयायः नमः प्रोच्य ततः शिरसि भावयेत् ।शुक्लवर्णं सर्वमयं बीजमुच्चार्य संन्यसेत् ॥६५॥हकारं वाग्भवाढ्यञ्च वकारं वाग्भवार्थकम् ।मायां लक्ष्मीं वाग्भवं च द्विठान्ते शिरसे पदम् ॥६६॥वहिनजायावधिर्मन्त्रो न्यसेत् साधकः ।शिखामध्ये कृष्णवर्णं नीलाञ्चनचयप्रभम् ॥६७॥विभाव्य संन्यसेन्मन्त्री कुमारीकुलासिद्धये ।आदौ प्रणवमुद्धृत्व तदन्ते वहिनसुन्दरी ॥६८॥शिखायै च समुद्धृत्य वषट्कारं ततो वदेत् ।ततः कवचमध्ये च बलवन्तं सुतेजसम् ॥६९॥प्रथमारुणसङ्काशं ध्यात्वा चारुकलेवरम् ।वाग्भवञ्च समुच्चार्य कुलशब्दं ततो वदेत् ॥७०॥वागीश्वरीपदं पश्चात् कवचाय ततो वदेत् ।तारकब्रह्मशब्दञ्च कवचन्यासजालकम् ॥७१॥ततो नेत्रत्रयं ध्यात्वा महाबीजं महाप्रभम् ।रक्तवर्ण कोटिकोटिवामण्डल मण्डितम् ॥७२॥विराजितं कोटिपुण्यार्जिततेजसि भास्करे ।वाग्भवं च समुच्चार्य कुलेश्वरैपदं ततः ॥७३॥नेत्रत्रयाय शब्दान्ते वौषट् लोचनमन्त्रकम् ।ततः साधकमन्त्री च वामहस्ततले तथा ॥७४॥मध्यमातर्जनीभ्यां च तालद्वयमुपाचरेत् ।तन्मन्त्रं कोटिसूर्योग्रज्योत्स्नाजालप्रभम् ॥७५॥महाकाशोद्भवं शब्दं महोग्रपरिपीडनम् ।मायाबीज तथास्ताय पदमुद्धृत्य यत्नतः ॥७६॥पान्तठान्तं समुद्धृत्य महामन्त्रं प्रकीर्तितम् ।ततस्तस्या ह्रन्निलये ध्यात्वा च परिवारकान् ॥७७॥पूजयेद् यत्नतो मन्त्री भेषजामृतधारया ।तर्पयेत् पूजयेद् भक्त्या भैरवं बालभैरवम् ॥७८॥देवताभिः पूजयित्वा परिवारान् क्रमेण वै ।ततो वाग्भमुच्चार्य सिद्धजयाय शब्दतः ॥७९॥पूर्वं पदं समुच्चार्य वक्त्राय नम ईरितः ।ततो वाग्भवमुच्चार्य जयाय शब्दमुद्धरेत् ॥८०॥उत्तरवक्त्रमुद्धृत्य चतुर्थ्यन्तं नमःपदम् ।ततो वाग्भवमाया श्री बीजमुच्चार्य यत्नतः ॥८१॥कुब्जिके पश्चिमान्ते च वक्त्राय नम इत्यपि ।ततो वाग्भमुचार्य कालिके पदमुच्चरेत् ॥८२॥दक्षवक्त्राय शब्दान्ते नामामन्त्रं प्रकीर्तितम् ।एतन्मन्त्राक्षरं नाथ समुच्चार्य कुलेश्वर ॥८३॥पूजयित्वा क्रमेणैव भास्करं परिपूजयेत् ।चन्द्रं दिक्पालदेवञ्च सन्ध्यादीन् परिपूजयेत् ॥८४॥वीरभद्राम महाकालीं कौलिनीं कुलगामिनीम् ।अष्टादशभुजां कालीं चतुर्वर्गा प्रपूजयेत् ॥८५॥नैवेद्यादीन् समानीय नानाभोज्यादिसंयुतम् ।दुग्धं घनावृतं क्षीर पक्वान्नं पक्वसत्फलम् ॥८६॥यद्यत्कालोपयोग्यञ्च शर्करामधुमिश्रितम् ।पञ्चतत्त्वं कुलद्रव्यं निजकल्याणवर्धनम् ॥८७॥नानाद्रव्यञ्च नैवेद्यं स्वस्वकल्पोक्तसाधितम् ।कुमारीभ्यो निवेधैवं नानासौरभशोभितम् ॥८८॥शीतलं जलमानीय दद्यात्ताभ्यो महासुधीः ।ततो हितं महामन्त्रं कुमार्याश्चातिदुर्लभम् ॥८९॥अथवा स्वीयमूलञ्च जप्त्वा सिद्धीश्वरो भवेत् ।समर्थप्राणवायूनां धारयेत्कारयेत् स्वयम् ॥९०॥अष्टाङादिप्रणाम च कुर्वन् स्तोत्रं पठन् दिशेत् ॥९१॥कुमारी स्तोत्रनमामि कुलकामिनीं परमभाग्यसन्दायिनीम् ।कुमाररतिचातुरीं सकलसिद्धिमानन्दिनीम् ॥९२॥प्रवलगुटिकामृजां रजतरागवस्त्रन्विताम् ।हिरण्यकुलभूषणां भुवनवाक्यकुमारी भजे ॥९३॥इति मन्त्रेण संन्यस्य तारिणीं परिपूजयेत् ।शिवं गणेशं सम्पूज्य प्रणमेत् साधकोत्तमः ॥९४॥॥ इति श्रीरुद्रयामले उत्तरमतन्त्रे महान्त्रोद्दीपने कुमार्युपचर्याविन्यासे सिद्धमन्त्रप्रकरणे दिव्यभावनिर्णये सप्तम पटलः ॥७॥ N/A References : N/A Last Updated : April 08, 2011 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP