संस्कृत सूची|शास्त्रः|तंत्र शास्त्रः|रूद्रयामल| उत्तरतंत्रम्|षष्ठः पटलः| भावविद्याविधिः षष्ठः पटलः पशुभावविवेचनम् सुषुम्नासाधनम् कुण्डलिनीस्तवः पशुभावप्रशंसा भावविद्याविधिः कुमारीलक्षणम् षष्ठः पटलः - भावविद्याविधिः कुमार्युपचर्याविन्यासः Tags : rudrayamaltantra shastraतंत्र शास्त्ररूद्रयामल भावविद्याविधिः Translation - भाषांतर आनन्दभैरव उवाचभावस्तु त्रिविधो देव दिव्यवीरपशुक्रमात् ॥७१॥गुरुरस्य त्रिधा चात्र तथैव मन्त्रदेवताः ।दिव्यभावो महादेव श्रेयसाम सर्वसिद्धिदम् ॥७२॥द्वितीयो मध्यमः प्रोक्तस्तृतीयः सर्वनिन्दितः ।बहुजपात्तथाहोमात् कायक्लेशादिविस्तरैः ॥७३॥न भावेन बिना देवि तन्त्रमन्त्राः फलप्रदाः ।किं वीरसाधनेनैव मोक्षविद्याकुलेन किम् ॥७४॥किं पीठपूजनेनैव किं कन्याभोजनादिभिः ।स्वयोषित्प्रीतिदानेन किं परेषां तथैव च ॥७५॥किं जितेन्द्रियभावेन किं कुलाचारकर्मणा ।यदि भावो विशुद्धार्थो न स्यात् कुलपरायणः ॥७६॥भावेन लभते मुक्तिं भावेन कुलवर्द्धनम् ।भावेन गोत्रवृद्धिः स्याद् भावेन कुलशोधनम् ॥७७॥किं तथा पूजनेनैव यदि भावो न जायते ।केन वा पूज्यते विद्या केन वा पूज्यते मनुः ॥७८॥फलाभावश्चच देवेश भावाभावात् प्रजायते ।एतमन्त्रस्य कथने शङ्कते मम मानसः ॥७९॥त्रिलोकं सञ्जयेत् प्रायः सर्वरत्नसमागमः ।नावीक्ष्य निर्जनं कुर्यात् कथं तत् कथयामि ते ॥८०॥श्रीआनन्दभैरव उवाचत्वत्प्रसादान्महादेवि ! विद्यास्वप्नप्रबोधिनि ।सर्वपञ्चप्रञ्चानां दीक्षा देया महेश्वरि ॥८१॥यद्यतो देव सर्वेषां भूतानां स्वापकारणम् ।करोमि कथय त्वं मां भावमार्गोत्तमोत्तमम् ॥८२॥ N/A References : N/A Last Updated : April 08, 2011 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP